संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ३०० त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ३०० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३०० Translation - भाषांतर श्रीराधिकोवाच-कृष्णकान्त! कथाः सर्वाः संक्षेपात् कथयाऽस्य मे ।त्रेताखण्डस्य वै शान्तिः श्रवणे मेऽतिजायते ॥१॥श्रीकृष्ण उवाच--राधिके भगवान् श्रीमल्लक्ष्मीनारायणोऽभवत् ।अनादिश्रीकृष्णनारायणो लक्ष्म्या युतो यदा ॥२॥तमेनं परमात्मानं हृदयेक्षणवर्जिताः ।न जानन्ति यथार्थं वै परब्रह्म सनातनम् ॥३॥सोऽयं समागतः पृथ्व्यां कृपयोद्धारहेतवे।भक्तानां मानसपूर्त्त्यै नराणां योषितां तथा ॥४॥धन्यास्तास्तनवश्चात्र याभिः प्राप्तो हरिः स्वयम् ।धन्यानि तानीन्द्रियाणि हरेर्योगं गतानि वै ॥५॥धन्यास्ताः ऋद्ध्यश्चापि धन्या देशाश्च ते तथा ।धन्याः कुटुम्बिनश्चापि पुरुषोत्तमयोगिनः ॥६॥यत्र वै पठ्यते लक्ष्मीनारायणस्य संहिता ।धन्यो देशः स एवाऽपि यत्राऽऽस्ते पुरुषोत्तमः ॥७॥लक्ष्मीनारायणसंहितायाः खण्डे द्वितीयके ।त्रेतासन्तानके नाम्ना प्रोक्तमाद्यं सुमंगलम् ॥८॥सार्वभौमं च माहात्म्यं परब्रह्मण ईरितम् ।ततो हिरण्यमयाण्डस्य कोशकूर्चसमुद्भवौ ॥९॥हिरण्यकूर्चहिरण्याण्डाभिधावसुरावुभौ ।युयुधाते सह संकर्षणेन गदया ततः ॥१०॥मेरोर्भागा व्यवच्छिन्ना ये ये ते त्वभवन् ग्रहाः ।सर्वधाम्यर्थितः कृष्णः प्रकटीभूय धामतः ॥११॥सेवां गृह्णाति च पृथ्व्यां कम्भराश्रीगृहेऽपि च ।प्रादुर्भावजयन्त्यां चोत्सवे दानस्तवादयः ॥१२॥देवदेवीजननानिवृक्षवल्ल्यादिषु क्षितौ ।दशमे दिवसे दैत्यैः प्रभोरपकृतिः कृता ॥१३॥षष्ठीसूतकशेषाद्यैर्बालकृष्णावनं कृतम् ।सूतकस्य समुत्पत्तिः सूतात्मवरदानकम् ॥१४॥नामकार्योत्सवे साणासुरो व्याघ्रासुरो हतौ ।एकादशेऽहनि प्रेंखाऽऽरोहोऽनन्तस्वरूपकैः ॥१५॥तलाजाराक्षसीनार्या मोहो हरौ सुभक्तता ।लाजा स मंगलकार्यकरी जाता कृपावशा ॥१६॥दुग्धपानदिने नैकरूपैर्धेनुपयोऽशनम् ।गोरूपराक्षसीनां सप्राणस्तन्यस्य पानकम् ॥१७॥हरेर्भूम्युपवेशाख्यसंस्कारे सिंहिकादरी ।अन्याश्चापि बालकृष्णं सिषेविरे हरिं प्रभुम् ॥१८॥कर्णवेधेऽस्य संस्कारे सूच्याद्या देवता अपि ।सेवां कृत्वाऽभजन् कृष्णं पतिं बहुस्वरूपिणम् ॥१९॥अन्नप्राशनसंस्कारे ददावन्नानि भूरिशः ।ओषधयो भोजयित्वा कान्तं कृष्णं प्रपेदिरे ॥२०॥वृत्तिज्ञानाय वै द्वात्रिंशद्वस्तूनि सहैव सः ।तावद्धस्तैः प्रजग्राह दिव्यताऽस्य प्रकीर्तिता ॥२१॥ततो दैत्यस्त्रियो युद्धं विधवाः कर्तुमाययुः ।राक्षसीनां कन्यकानां तुमुलं युद्धमाभवत् ॥२२॥कन्यकानां विजये राक्षसीनां शरणागतिः ।दिव्यता कन्यकाकारात्मता श्रीहरिणा कृता ॥२३॥ताभ्यः श्रीलोमशः प्राह सेवामोक्षवृषाँस्ततः ।आश्रमीयाः सर्वकन्याः व्रतं वर्षासु चक्रिरे ॥२४॥शत्रूञ्जयाद्रिसंवासाः कंकताला हता मृधे ।कंकताल्यश्च राक्षस्यो युद्धे दिव्या हरिप्रियाः ॥२५॥अभवँश्च न्युषुर्लोमशाश्रमे चात्मवेदिकाः ।पितृकन्या हरेः पूजां चक्रिरे प्रेतमोक्षणम् ॥२६॥राशिभिः कृतपूजा च कृष्णप्रासादवर्णनम् ।महामण्डपशोभा च हरेः शृंगारवर्णनम् ॥२७॥प्रह्लादस्य मृधं नारायणेन भक्तितो जयः ।दानवानां मोक्षणं च कन्यानां वरणं हरेः ॥२८॥श्रीहरेश्चौलसंस्कारे रोम्णां नारायणात्मता ।जीवानां रोमरूपाणि त्वघानीति प्रकीर्तितम् ॥२९॥सालमालासुरनाशस्तत्स्त्रीणां हरिसंग्रहः ।यज्ञसूत्रोत्सवे दैत्या सालमालादिजातयः ॥३०॥विनाशितास्तथा मोक्षधर्मा लोमशवर्णिताः ।सुकेशिनः समाख्यानम् अशून्यशयनव्रतम् ॥३१॥देवस्वापा भिन्नभिन्नतिथिष्वपि च पूजनम् ।पातालेशस्य वै कारण्डवस्य नाशनं ततः ॥३२॥कन्यका रक्षिता लोमशालये स्वस्तिकस्य वै ।आरक्तदेशीयभूपशावदीनसुतार्थकम् ॥३३॥पूजनं शावदीनायै देव्यै बालबलिकृतम् ।देव्या राजादिसंहारः कृतोऽथ बदरीवनम् ॥३४॥कुरु क्षेत्रं हरेः कुंकुमवापी प्रति चागमः ।बालार्पणं तत्पितृभ्यो मातॄणां मोक्ष ईरितः ॥३५॥पुराधर्मे श्वेतकेतोर्मर्यादा सम्प्रदर्शिता ।सौदासपत्न्यां वासिष्ठोऽश्मको जातस्तथा वृषः ॥३६॥उतथ्यभार्याभोगं वै चक्रे बृहस्पतिर्बलात् ।दीर्घतमा बलेः पत्न्यां पुत्रानजनयद् बहून् ॥३७॥सर्वे बालग्रहाः प्रोक्ता ये ये या याः स्वभावतः ।अथ व्याघ्रासुराणां वै विनाशो हरिणा कृतः ॥३८॥पञ्चमाऽब्दोत्सवे गान्धर्वाणां प्रगायनानि च ।सिंहव्याघ्रादिचर्मभ्यः सिंहाः सजीवनीकृताः ॥३९॥हरो नटनटीयुक्तो नाट्यानि विदधे ततः ।प्रसन्नहरिणा तत्र क्षेत्रे संवासिताः सदा ॥४०॥श्रीहरेः सर्वविद्याप्तिर्वराटकतपोहतिः ।वराटकाऽनीकनाशो दण्डादि चेरितं तथा ॥४१॥दिक्फरम्लेच्छसंहारो हरिणा कृत ईरितः ।शंकरे वस्त्ररहिते ऋष्याश्रमगते द्विजाः ॥४२॥ताडयामासुरीशं ते सतीशापाद्धि राक्षसाः ।तेषां विनाशितं राक्षसत्वं श्रीहरिणा ततः ॥४३॥षष्ठवर्षारम्भमहे कृष्णाद्यैः पूजनं कृतम् ।देवायनद्विजस्य तत्पत्न्याः श्वपचता हता ॥४४॥लक्ष्मीनारायणसंहिताकथायां चमत्कृतिः ।स्तुतिस्तीर्थं चोर्जव्रतऋषिकृतमुदीरितम् ॥४५॥कन्थाधरस्य चरितं चमत्कारोऽतिमृत्युता ।हृड्डकायनिकास्वामित्वं नास्तिक्यं कुरुंगतः ॥४६॥मृतस्य विप्रपुत्रस्य वृषपर्वेतिजीवनम् ।नास्तिक्येन मरणेऽस्य म्लेच्छजन्म, सुतेन तु ॥४७॥कृतोद्धारो द्वयोर्भूत्वा वैष्णवो लोमशान्मुनेः ।रणंगमकृते यज्ञे यक्षकन्यादिवाहनम् ॥४८॥श्रीहरेश्च कृतः श्रेष्ठः सप्तमो जननोत्सवः ।रणंगमे गते दक्षिणध्रुवेक्षणवाञ्च्छया ॥४९॥अन्ताऽर्किदेशभूपेन लक्ष्मणार्येण सत्कृतिः ।पत्नीमातृद्रोहकर्तृमात्रागस्करराक्षसात् ॥५०॥पत्नीमातृरक्षणं च श्रीहरिकृतमीरितम् ।युद्धे रणंगमस्यैव जयोऽथ लक्ष्मणार्पिताः ॥५१॥सहस्रद्वयकन्या वै लोमशस्योपदेशनम् ।पुत्रपुत्रीपतिपत्नीशिष्यशिष्यादिवर्णनम् ॥५२॥वेधःपुत्र्यः सुषुम्णेडापिंगलाः स्वामिभावतः ।हरिं वीक्ष्य ययुर्देशान् लोकयितुं विमानगाः ॥५३॥सत्यलोकं ययुस्ताभ्यः श्रुत्वा हरिं सुवीक्षितुम् ।प्रस्थिता द्वासप्ततिकन्यका यानेन वेधसः ॥५४॥अब्रिक्तेशेन स्वसैन्यैः रुद्धं विमानमम्बरे ।दूताद्युक्तिस्तत्र शुक्राऽरजादण्डादिवर्णना ॥५५॥विश्वकर्मचित्रांगदासुरथानां च वर्णना ।ततो युद्धे म्लेच्छकोट्यो विनष्टा लक्षशोऽपि च ॥५६॥सद्विवेकाऽविवेकौ वर्णितौ च शरणागमः ।पुनः कापट्ययुद्धे च मृता म्लेच्छाः सहस्रशः ॥५७॥म्लेच्छस्त्रियो लक्षशोऽपि युयुधुर्मुमुहुर्हरौ ।कृत्याभिर्नाशिताश्चाऽथ राज्ञः श्रीहरिदर्शनम् ॥५८॥तस्य प्राग्जन्मपुण्यादि चोक्तं प्रसंगतः खलु ।अब्रिक्तदेशसाम्राज्यं भक्ताभ्यां प्रददौ हरिः ॥५९॥आरबीजप्रदेशानां राज्यं युद्धे विजित्य च ।धर्मराट प्रददौ देवमरुद्भ्यो दैत्ययोनिषु ॥६०॥जन्मान्तरकथा देवमरुतां तत्र कीर्तिता ।रक्तबीजाऽऽरबीजादिधुन्धुदैत्यकथोदिता ॥६१॥नदीपूरोढनौकाया उदयाख्यनृपस्य च ।रक्षा कृता तु हरिणा प्रजानां चेति वर्णितम् ॥६२॥क्रूरसिंहस्य वै राक्षसत्वं हरिप्रमोचितम् ।अष्टमाऽब्दे रुग्णव्यंग्यादीनां नैरोग्यमाहितम् ॥६३॥जलमग्नवसुमेधश्रेष्ठिरक्षोदिता ततः ।गोपनाथमहातीर्थं सौराष्ट्रे वर्णितं ततः ॥६४॥बालकृष्णस्योपवीतमहोत्सवस्तु वर्णितः ।नारदोक्तपराविद्योपदेशस्तत्र वर्णितः ॥६५॥पारितोषिकदानानि तथोपदार्पणान्यपि ।प्रभोः सेवार्चनपूजादिफलं परिवर्णितम् ॥६६॥षड्भिर्जन्मभिर्वै जाड्यमघदृष्टान्तदानतः ।पूर्वस्वभाववैचित्र्यं विस्तरात् सुनिरूपितम् ॥६७॥नैष्कर्म्ययोगः सम्प्रोक्तो ज्ञानमाध्यात्मिकं तथा ।आत्मनिवेदितभक्त्या राजराज्ञ्योः प्रमोक्षणम् ॥६८॥आमोदनगरावाससुधनाख्यस्य रक्षणम् ।चौरेभ्यो वै कृतं दिव्यरूपेण हरिणेरितम् ॥६९॥त्र्यष्टकारोरन्त्यजस्य सस्त्रीकस्यापि मोक्षणम् ।कौशिकाम्बर्षियोगेन कुष्ठजलोदरक्षयः ॥७०॥विप्रबालषट्शतानां नाशकान् राक्षसान् हरिः ।नाशयामास युद्धे जीवयामासाऽर्भकान् पुनः ॥७१॥तिथीकरण सरितां, घोरप्रतिग्रहैः फलम् ।विप्राणां नाशितं प्रोक्तं हरिणा कृपयेरितम् ॥७२॥बालेश्वरनृपस्यापि परीक्षा पुत्ररन्धनात् ।कन्यापत्नीग्रहणाच्च कृता श्रीहरिणेरितम् ॥७३॥जयध्वजस्य यज्ञे श्रीहरेर्दर्शनमीरितम् ।द्रोणादिपर्वतानां चावभृथे पापनाशनम् ॥७४॥कोलारचिलशंभलनारायणसरास्यपि ।दिव्यतां मोक्षणं प्रापुः कथा चेयं सुवर्णिता ॥७५॥धर्माश्चतुर्युगाणां वै पुलस्त्योक्ताः प्रदर्शिताः ।अक्षरक्षेत्रमाहात्म्यं प्रोक्तं कौंकुमवापिकम् ॥७६॥हरिवंशीयप्रजानां सह्याद्रौ वास ईरितः ।खरपुत्राऽधर्मजीवाऽसुरनास्तिकता हरौ ॥७७॥दर्शिताऽसद्गतिः पश्चाद् गत्यर्थं वरदानकम् ।अथ कुंभे प्रयागे चागततीर्थादिकोटयः ॥७८॥सनत्कुमारवचनात् कुंकुमवापिकां ययुः ।अथ सिंहलवासानां राक्षसीनामुपद्रवः ॥७९॥महामार्यादिभिर्विनाशितौ बद्रीं गते हरौ ।आगत्य हरिणा प्रजीविता मृतास्तु ये पुरा ॥८०॥अथ ज्ञानं विशेषाऽद्वैताऽद्वैतं मोक्षदं मतम् ।हरेर्विभूतयो मोक्षप्रदास्ततोऽभिवर्णिताः ॥८१॥व्यूहचतुष्टयस्याऽपि स्वतःप्रकाशरूपता ।वर्णिता कुंकुमवाप्यां तीर्थरूपेण वासिता ॥८२॥उष्ट्रालये महाखण्डे झंझावाते महत्यथ ।कृता श्रीहरिणा रक्षा जीविता ये मृतास्तदा ॥८३॥उर्वश्याश्चक्रवाकीत्वं मार्जारीत्वं तथा ऋषेः ।सनत्सुजातसंज्ञस्य मिथः शापान्निवारितम् ॥८४॥चक्रवाक्यै पायितं वै वारि शृंगे गिरेस्तथा ।मार्जारिकाबालकानां भ्राष्ट्रे रक्षाऽग्नितः कृता ॥८५॥कृतं च मोक्षणं शापात् कृष्णनारायणेन वै ।मातुर्माहात्म्यमप्युक्तं ततो वैकुण्ठधामनि ॥८६॥नारायणस्य वै लक्ष्मीशयने संरतस्य तु ।दर्शनार्थं चागतेषु धेनुपालादिकेषु च ॥८७॥नृत्यादावधिके काले याते लक्ष्मीः रुषाऽशपत् ।ततः शिवादयः पृथ्व्यामवापुर्मानवीं जनुम् ॥८८॥लक्ष्मीं विहाय भगवान् ययौ यत्र शिवादयः ।लक्ष्मीः सख्यश्च शोकं वै कृत्वा जन्मानि चाददुः ॥८९॥लक्ष्म्युर्वश्यौ तपोऽर्थं जग्मतुः श्रीहनुमद्वने ।नारायणः प्रसन्नस्तत्फलं दातुं समाययौ ॥९०॥चक्रवाक्यै जलपानं शिखरे हरिणाऽर्पितम् ।शिववर्मकुटुम्बादेः काश्यामागमनं तथा ॥९१॥राजमानं निवासादि लब्ध्वा हरिर्निजालयम् ।आययौ कुंकुमवापीक्षेत्रं चेति समीरितम् ॥९२॥उष्ट्रालये महादेशे हेमशालायनगृहे ।विष्णुयज्ञः कृतो राज्ञा दक्षजवंगरेण वै ॥९३॥राजकन्याशतं प्रजाकन्यकानां सहस्रकम् ।प्रार्प्य कृष्णाय राजाद्याः कुंकुमवापिकां ययुः ॥९४॥तीर्थं कृत्वा पुनरुष्ट्रालयं ययुर्विमानकैः ।अथाऽऽययुर्दर्शनार्थं पितृकन्याश्च तास्तदा ॥९५॥तासां विमाने रुरुधुः, राक्षसाः हरिणा हताः ।प्राग्ज्योतिषप्रदेशेषु विमानेनागमो हरेः ॥९६॥यज्ञस्याऽन्ते महायुद्धं तत्राऽसुरास्तु कोटिशः ।विनाशितास्ततो राज्ये स्थापिता वैष्णवा नृपाः ॥९७॥यज्ञं कृत्वा हरिः स्वीयं नगरं स्वतनौ तदा ।दर्शयित्वा कन्यकाभ्यः स्वाकृष्टास्ताश्चकार ह ॥९८॥लाशहासरितां मूर्तिप्रतिष्ठामहिमोदितः ।नवधा भक्तिरूपाणि विघ्ननाशाः फलानि च ॥९९॥साधूनां स्वात्मरूपत्वं श्रैष्ठ्यं सर्वत ईरितम् ।भूतालयाऽऽसामकामरूपश्यामादिराज्यकम् ॥१००॥निर्णीतं ब्रह्मराज्यं चाऽक्षरक्षेत्रागमस्ततः ।पुष्पदोलोत्सवं चक्रे, जन्मोत्सवं चकार च ॥१०१॥समीरणनृपस्यापि मृगयार्थं गतस्य वै ।वने पार्ष्णिगृहर्षेस्तु शापेन शरभत्वकम् ॥१०२॥रैवताद्रौ हरिदत्तात्रेयदर्शनतो गतम् ।अश्वपट्टसरस्येतद् दत्तात्रेयसुतीर्थकम् ॥१०३॥वाराहतीर्थकं चापि सोपाख्यानं समीरितम् ।पवमानाख्यतीर्थं च जातमश्वसरोवरे ॥१०४॥कच्छपरूपिणा सन्तारणाद्या ब्राह्मणा जले ।मग्ना उद्धारिताः कच्छपाख्यतीर्थं ततोऽभवत् ॥१०५॥देवायतनभक्तेन दिक्पालानां प्रजाः कृताः ।मुक्ताः श्रीहरिनाम्नां वै श्रावणेनेति चेरितम् ॥१०६॥राशियानादिदेशेषु राशिद्वादशकस्य वै ।कथेरिता, च मुक्तिश्च, बालकृष्णसरोवरे ॥१०७॥महायज्ञश्च कथितो देवायनाटनं तथा ।यज्ञान्ते शिबिना कन्याशतदानं हि शार्ङ्गिणे ॥१०८॥कृतं चाथ गुणार्थाः सम्वर्णिताः साधुयोगिनाम् ।तीर्थान्युक्तनि सरसि पित्रुद्धारस्तथा कृतः ॥१०९॥द्विकलाख्यसरोभूमौ यज्ञार्थं श्रीहरिर्ययौ ।तत्र धर्मोपदेशश्च प्रेतानामुद्धृतिस्तथा ॥११०॥राज्ञे नीत्युपदेशश्च तृतीयाध्वरमागतिः ।यज्ञेऽर्कलोकवासानां वीरजारादिद्युसदाम् ॥१११॥मुक्तिः प्रोक्ता तथा दानं कन्यानां चोपदेशनम् ।अवभृथस्य तत्त्वार्थः कथितस्तत्फलादिकम् ॥११२॥चतुर्थे तु क्रतौ पश्चात् स्वस्य मूर्त्यादि देशितम् ।पञ्चमे तु क्रतौ सर्वाः पिशाचिन्यो हि तारिताः ॥११३॥पिशाचित्वे कारणानि प्रोक्तानि मन्त्रदीक्षणम् ।पूजाश्च दिव्यसद्रूपं स्वस्य तत्र प्रदर्शितम् ॥११४॥लालासनाख्यसाधुर्वै यज्ञान्ते समुपाययौ ।वैष्णवीं साधवीं दीक्षां स जग्राह हरेस्तदा ॥११५॥अन्ये पञ्चसहस्राणि दीक्षामापुश्च साधवीम् ।लालायनो ययावुत्तरान् कुरून् कृष्णवाञ्च्छया ॥११६॥श्रीहरिः स्वकुटुम्बेन विमानेनाऽक्षरस्थलीम् ।आययौ तत्र वै देवायनस्य मन्दिरात्मता ॥११७॥दर्शिता हरिणा सांगदेवालयस्वरूपिता ।देवालयस्य खाताद्यारभ्य ध्वजान्तमीरितम् ॥११८॥स्वरूपं चान्तरीयका विभागाश्च स्फुटीकृताः ।सिंहासनानि देवाद्याः प्रासादाभिन्ननामिनः ॥११९॥मेरुजातीयप्रासादाः कार्त्स्न्येनापि प्रवर्णिताः ।वेदानां देवतानां च मूर्तिमानानि वै तथा ॥१२०॥आयुधादीनि वै चापि वर्णितानि ततः परम् ।ध्वजादयश्च कथिताः कुण्डाश्च होमसंख्यया ॥१२१॥वास्तुपुरुषसंस्थानं देवकर्माढ्यमीरितम् ।आचार्यवरणं श्रीमद्गणेशादिप्रपूजनम् ॥१२२॥देवानां स्थापनं नान्दीश्राद्धाद्यं च प्रपूजनम् ।वास्तुपीठस्थदेवानां स्थापनं स्वस्तिवाचनम् ॥१२३॥पूजनं योगिनीनां च क्षेत्रपालादिपूजनम् ।स्तंभदेवार्चनं शाखातत्तद्देवादिपूजनम् ॥१२४॥अग्निस्थापनकुण्डाङ्गयोनिग्रहादिपूजनम् ।षट्पञ्चाशद्देवपूजा प्रत्यधिदेवतार्चनम् ॥१२५॥लोकपालग्रहावाहनादिपूजनमीरितम् ।योगिनीक्षेत्रपालादिनैकदेवाहुतिस्तथा ॥१२६॥राधादिषट्कं पराविद्यादिचत्वारिंशदयुक्शतम् ।परमेशावतारादि बलिदानेन चार्चितम् ॥१२७॥नेत्रांजनाभरणादिनैकन्यासादि वर्णितम् ।पूर्णाहुतिः शृंगस्नानं चरुश्रपणप्रभति ॥१२८॥रथोपवेशनं ग्रामे भ्रामणं प्राणयोजनम् ।आरार्त्रिकं पूर्णहोमश्चाशीर्वादा अवभृथम् ॥१२९॥कलशारोहणं मानस्तंभध्वजाधिरोहणम् ।चलमूर्तिप्रतिष्ठादि जोर्णोद्धारश्च कीर्तिताः ॥१३०॥धनमेधधीवरस्य तुरीलक्ष्मीप्रसादतः ।कुंकुमवापिकातीर्थान्मोक्षः श्रीहरिणा कृतः ॥१३१॥शिबिकावाहवोढोश्च ज्ञानाप्तिस्तपसोदिता ।द्युविश्रामकृषिकारगोधनं सिंहतोऽवितम् ॥१३२॥हरिणा चेति कथितं चाथ वृकायनादयः ।केतुमाले गतास्तत्र षष्टिगांगेयमेलनम् ॥१३३॥केतुमाले महायज्ञः कथितो हरिणा कृतः ।सर्वभूभृदुपप्राप्तिस्तद्देशेषु हरेर्गतिः ॥१३४॥सर्वसृष्टिजनाऽऽयश्च मनोरञ्जनकान्यपि ।रात्रौ, प्रातर्भोंजनानि मन्त्रदानानि कार्त्स्न्यतः ॥१३५॥विधिवत् सर्वदेवादिपूजनं हवनं मखे ।धृतानि हरिणा कोट्यब्जादिरूपाणि तत्र च ॥१३६॥अवभृथकुमारोत्पत्तिश्च तृप्तिकुमारिका ।उत्पन्नाऽस्यै कुमारस्य दानं विवाहतः कृतम् ॥१३७॥अथोरलकेतुराजधान्यां सुस्वागतं हरेः ।मोक्षणं भूभृत्पूर्वजानां श्रीहरिणा कृतम् ॥१३८॥निजस्वरूपविज्ञानं सम्प्रदायस्य संस्थितिः ।कथिताऽथ क्रथकस्य राजधान्यां हरेर्गतिः ॥१३९॥मन्दिरादिककार्येषु कालाद्याः कीर्तिताः शुभाः ।नक्षत्रयोगकरणचक्रचन्द्रभतारकाः ॥१४०॥शुभाऽशुभाः सुकथिता मुहूर्तानीरितानि च ।जरस्थाल्यां राजधान्यां स्वागतं पूजनं हरेः ॥१४१॥षड्विंशतिनृपाणां प्राग्जन्मवृत्तान्त ईरितः ।अथ प्रभुर्ययावुष्ट्रालराष्ट्रं सकुटुम्बकः ॥१४२॥सत्कारं प्राप्य तीराणाराजधानीं ययौ ततः ।योगिभ्यो गृहधर्माद्या इन्द्रेणोक्ताः प्रमोक्षदाः ॥१४३॥पूजां प्राप्याऽऽययावल्वीनरराज्यं हरिस्ततः ।अर्थश्रीनगरीं गत्वा मुक्तिं तुषितराक्षसे ॥१४४॥दत्वाऽथ जिनवर्द्धिभूभृद्राजधानिकां ययौ ।रामपुर्यां परिभ्रम्य जनहार्याख्यरक्षसः ॥१४५॥विनाशार्थं ययौ चापिनायाऽद्रिं परमेश्वरः ।राक्षसान् हतवान् रुद्रद्वाराऽद्रेश्चक्रवह्निना ॥१४६॥आरसमयिता, कन्यादानग्रहोऽथ रक्षणम् ।प्रजानां निगडस्थानां ततोऽवनमुदीरितम् ॥१४७॥मृताऽस्थिभ्यो जीवदानं, जीवनीनगरीं गतिः ।लिखितस्य शंखवाट्यां चौर्यं हस्तसुछेदनम् ॥१४८॥बाहुदायां स्नानतस्तु हस्तयो रोहणं पुनः ।जयकृष्णवभूपस्य वरणानगरीक्षणम् ॥१४९॥कृत्वा हरिर्ययौ परीशानराज्यं ततोऽभ्रमत् ।पावयित्वा ययौ परीजराष्ट्रं चापपूजनम् ॥१५०॥वायूनानगरीयानम् इन्दिरावारिणा हरेः ।स्नानं तत्र च वेतालानां तु प्रमोक्षणं कृतम् ॥१५१॥राज्ञे चतुर्भुजं दत्तं दर्शनं च ततः परम् ।मुद्राण्डराष्ट्रागमनं मद्रिरापुरिकेक्षणम् ॥१५२॥पूजां प्राप्योपदिश्याऽथ शैवालनगरीक्षणम् ।कृत्वा लीशवनं प्राप पत्तनं गण्डकेशितुः ॥१५३॥पूजां प्राप्योपदिश्याऽथ ययौ लीनोर्णराष्ट्रकम् ।भ्रमित्वा वारुणीपुर्यां धीवरापुरिकां ययौ ॥१५४॥मिलीन्दानगरीं चापि भ्रमित्वा वालिनीपुरीम् ।बललीननृपराष्ट्रे बहुमानमवाप ह ॥१५५॥व्रतोपदेशनं वाशीलापुरीं गमनं ततः ।पूजोपदेशो भ्रमणं रायगामलराष्ट्रके ॥१५६॥गमनं तत्र च रिमानगर्यां स्वागतं महत् ।फेनतन्तुनृपराष्ट्राऽऽगमनं पूजनादिकम् ॥१५७॥भ्रामणं त्रिनयापुर्यां चोपदेशः प्रपूजनम् ।ध्वांक्षदृष्टान्तमत्रोक्तं स्तोकहोमभुवं गतिः ॥१५८॥उमापुर्यां विचरणं काष्ठयानस्य राष्ट्रकम् ।भ्रमित्वा च तुन्नवायां नगर्यां चोपदेशनम् ॥१५९॥ततः कोलकभूपस्य राष्ट्राभिगमनं हरेः ।मुरमाषानगर्यां सुस्वागतं पूजनादिकम् ॥१६०॥हरेः स्नानं बहुरूपैर्गांगेयकन्यकादिषु ।ततो हारितदेशेषु त्वपरानाविकापुरे ॥१६१॥दिनमानार्कराजर्षेर्गरिमापृथिवीतले ।विमानेन ययौ स्वामी कृष्णनारायणः प्रभुः ॥१६२॥अपरानाविकापुर्यां स्वागतं देशलोकनम् ।केनाटकप्रदेशेषु विनिपारसरोगतिः ॥१६३॥यज्ञार्थपत्रिकासम्प्रेषणं च यज्ञपत्तने ।यज्ञे कार्यकराः प्रोक्ताः प्रतिमाः कृष्णयोषिताम् ॥१६४॥स्फूर्तिनारीनगर्यां तु रायरोकीश्वरेच्छया ।भ्रामणं चाप्यध्वरस्य स्थलीं प्रत्यागमः पुनः ॥१६५॥विप्रस्वतःप्रकाशस्य सर्वद्रष्टृत्वमध्वरे ।साक्षाद् देवा व्यराजन्त देवपूजाहवोऽनले ॥१६६॥पूर्णाहुतिस्ततो रायरणजिद्राष्ट्रलोकनम् ।विंशतिकन्यकापूजापुष्पमालाग्रहादिकम् ॥१६७॥रायवाकक्षकभूभृद्राज्ये द्वीपत्रये गतिः ।रायमारीशभूपभ्वां व्यचरद् द्वीपतुर्यके ॥१६८॥रायबालेश्वरराष्ट्रे वायुफेनाख्यपत्तने ।स्वागतं च ततो यज्ञमहापूर्णाहुतिः कृता ॥१६९॥आशीर्वादा दक्षिणाद्या अवभृथं विदायकम् ।रायलम्बरराज्येऽपि किमुवक्रापुरीं गतिः ॥१७०॥रायनवार्कनृपतेः स्वर्लतिकापुरीं गतिः ।रायहण्डेश्वरराष्ट्रे मक्षिकानगरीं गतिः ॥१७१॥रायकूपेश्वरराष्ट्रे हवानायापुरीं गतिः ।कालीमण्डलीनराष्ट्रे विगोष्ठिकापुरीं गतिः ॥१७२॥वनज्वालाराष्ट्रके च सानुज्योष्ट्रीपुरीं गतिः ।ततो गतैनसराष्ट्रे कायनीनगरीं गतिः ॥१७३॥कोटीश्वरक्ष्मेशराष्ट्रे पेयिस्थायां गतिर्हरेः ।पारूपराष्ट्रे सञ्जालानगर्यां स्वागतादिकम् ॥१७४॥बालावित्तकराष्ट्रेऽगात् फान्कलाशीपुरे हरिः ।आण्डजरानृपराष्ट्रे आन्तःप्रागस्थपत्तने ॥१७५॥स्वागतं च ततो बाल्यरजोनृपस्य पत्तने ।मन्त्रिणांगानगर्याख्ये स्वागतादि ततः पुनः ॥१७६॥रायसोमननृपतेर्वायुमानापुरेऽपि तत्॥पात्रगोनयराष्ट्रीयप्रजाभ्य उपदेशनम् ॥१७७॥राजारायपतिराज्यम् आर्षजतनुराष्ट्रकम् ।उरोगमनराष्ट्रं च ययौ श्रीभगवाँस्ततः ॥१७८॥रायग्रामानगर्यां स्वागतं चाशासनापुरे ।पराङ्व्रतनृपराज्ये स्वागतं भ्रमणं तथा ॥१७९॥उपदेशोऽथ च ब्राह्मीलाख्यराष्ट्रे मखस्थले ।आगमनं च देवानां स्थापनं पूजनादिकम् ॥१८०॥आहुतिदानमंत्राऽथोपदेशादि प्रकीर्तितम् ।ब्रह्मचर्यस्य माहात्म्यं तत्र यज्ञे प्रकीर्तितम् ॥१८१॥सर्वात्मकत्वं स्वस्याऽपि महापूर्णाहुतिस्तथा ।परिहारोऽध्वरस्याऽपि सप्तसरित्सु तीर्थता ॥१८२॥लापलात्रीपुरीयानं सामुद्रदैत्यनाशनम् ।विद्युन्मणिकरग्राहो द्विनेदिष्ठपुरे गतिः ॥१८३॥त्रासमानद्वीपे वृन्दारुकाद्वीपे च सिंहले ।पम्पासरसि चागत्य कुंकुमवापिकागमः ॥१८४॥शरत्पूर्णारासखेलः स्वांगनाभिर्हरेस्ततः ।चतुर्दशजन्मजयन्त्यष्टम्यामुत्सवः कृतः ॥१८५॥दिव्यसभाऽद्भुततावर्णनं महःसमापनम् ।तामसाक्षिश्वपचस्य सकुटुम्बस्य मोक्षणम् ॥१८६॥अश्वरूपधरस्याऽऽश्वलायनर्षेः प्रशापतः ।बर्बुरनृपतेर्बर्बुरद्रुत्वान्मोक्षणं कृतम् ॥१८७॥कालीचतुर्दशीरात्रौ शंकरादिप्रपूजनम् ।दीपावल्यां शारदाया उत्सवो हरिणा कृतः ॥१८८॥सम्पर्कनृपरोगस्य नाशः श्रीहरिणा कृतः ।दत्तात्रेयस्वरूपेण तीर्थं चापि कृतं शुभम् ॥१८९॥अन्नकूटोत्सवः प्रोक्तस्ततो हंसस्वरूपिणा ।पुण्डरीकनृपमुक्तिस्ततो नृहरिरूपिणा ॥१९०॥चोलराज्ञोऽपि मुक्तिश्चेरिता तीर्थद्वयं तु तत्॥वीतिहोत्रयोगिना वै सहस्ररूपधारिणा ॥१९१॥सहस्ररूपतश्चापि ऋषभस्यापि रूपतः ।दर्शनं हरिणा दत्तं स्तुतिश्चापि समीरिता ॥१९२॥सरस्तीरे कृते वैवस्वतेन शेषमन्दिरे ।शेषसंकर्षणपतञ्जल्यादिस्थापनोदिता ॥१९३॥तत्तत्तीर्थं तथा प्रोक्तं वामनांगुष्ठतीर्थकम् ।पंकिलर्षिप्रसंगेन जातं समभिव्याहृतम् ॥१९४॥हैमकल्गिनृपात् प्रोक्तः पर्शुरामपराभवः ।अश्वपारत्ननृपकृत् सोमयागो निरूपितः ॥१९५ ॥ प्रवर्ग्योपसदौ सुब्रह्मण्याह्वानं निरूपितम् ।सवनानि महापूर्णाहुतिश्चावभृथादि च ॥१९६॥श्रद्धोपनिषद्विज्ञानं विशालिकनिदर्शनम् ।लोमशर्षेराश्वपाटलयोः संवाद ईरितः ॥१९७॥सेयं लोमशगीतोक्ता सर्वमोक्षनिदर्शिनी ।अस्यामानर्तराजस्य कुशलायोगिनीस्त्रियाः ॥१९८॥संवादोऽपि दर्शितोऽथ स्वतःप्रकाशयोगिनः ।पूर्ववृत्तान्त उदितश्चोपदेशो गुरोरपि ॥१९९॥भाणवीर्यभक्तकथा रामादित्यनिमित्तजा ।ऊर्जव्रतस्य कायस्थस्य कुष्ठरोगनाशनम् ॥२००॥शूद्रस्य मूकविप्रस्य शार्ङ्गधराख्यसंहिता ।कृतिरुक्ताऽऽख्यानयुक्ता तपसा भावितात्मनः ॥२०१॥ पार्ष्णिरदस्य शूद्रस्य क्षयरोगो निवारितः ।अर्कपुरीशितुर्विप्रशापेन सर्पता ततः ॥२०२॥विप्रस्य सर्पदंशश्च मृतिः कृष्णात्तु जीवनम् ।रक्षांगारकनृपतेः राणिकायाः कथेरिता ॥२०३॥अमोहाक्षनृपमोक्षः प्रबुद्धगुरुवाक्यतः ।अभयाक्षनृपस्यापि त्यागिदीक्षानिरूपणम् ॥२०४॥सरोवारिमग्नदेवानीकरक्षोदिता ततः ।ब्रह्मस्तम्बाख्यविप्रस्य पुरुषोत्तमदर्शनम् ॥२०५॥अमरीं कन्यकां तुष्टो महाविष्णुः समुद्वहत्॥गजतो रक्षणं कूप्यवालकाष्ठहरस्य च ॥२०६॥कुंकुमस्य सतीशाया धन्येश्वर्या उदन्तकम् ।चैत्यब्रह्मद्विजस्यापि चमत्काराः प्रकीर्तिताः ॥२०७॥हरिकृष्णनरनारायणतीर्थं तथोदितम् ।माणिकीतीर्थमय चाश्वपट्टाभिधनिश्चयः ॥२०८॥अश्वपाटलसंज्ञस्य साधुदीक्षोदिता ततः ।काशीतः शिवशंभुप्रेषितयोगाख्यपत्रिकाम् ॥२०९॥नीत्वा बृहस्पतिश्चापि नारदः प्रापतुर्हरिम् ।कन्यैश्वर्यगुणदिव्यलक्षणान्याह नारदः ॥२१०॥योगपत्री प्रतिपत्री दर्शिते गुणगर्भिते ।मण्डपो वर्णितो दिव्यो माणिक्यस्तंभपूजनम् ॥२११॥कलशस्य गणेशस्य मातृकाणां च पूजनम् ।वास्तोर्विष्णोः कुलदेवसर्वतोभद्रपूजनम् ॥२१२॥फलादेशान्वितं प्रोक्तं महामण्डपवर्णनम् ।कुंकुमपत्रिकासम्प्रेषणं ताम्बूलकोत्सवः ॥२१३॥रात्रौ गीतिनृत्यवाद्यमल्लकाव्याऽदनोत्सवाः ।पिष्टिकामर्दनं शृंगारो हरेश्च जनागमः ॥२१४॥काशीयात्रासज्जता चाऽसंख्यकन्यासुसज्जता ।योगवाहिनिका काशीं प्राप्ता शिवपुरे स्थिता ॥२१५॥पार्वतीपुरमप्यत्र वर्णितं शिवपत्तनम् ।सम्मानं कुशलप्रश्नाः कैलासस्याऽवतारणम् ॥२१६॥शिवपुर्यामथ पूजा कुलदेव्यास्तथा हरिः ।कृष्णरूपेण च राधारूपेण च परीक्षणम् ॥२१७॥चक्रे कन्या न देयैति बालकृष्णाय सर्वथा ।शिवशंभुपुरोऽथाऽपि गिरिजायाः पुरोऽपि च ॥२१८॥लक्ष्म्याः पुरोऽपि हरिणा प्रोक्त्वा दार्ढ्यं परीक्षितम् ।कन्यार्थाऽम्बरभूषादिप्रेषणं समवर्णितम् ॥२१९॥वर्णनं योगवाहिन्या पार्वत्यै दर्शितं ऋचा ।मुमुहुर्दर्शकनार्यः कृष्णांगेषु प्रवीक्ष्य तम् ॥२२०॥विश्रान्तिमन्दिरे कृष्णस्याऽभवन्मधुपर्ककः ।कन्यकानां सुशृंगारो हरेर्मण्डप आगमः ॥२२१॥कोट्यर्बुदाब्जरूपैश्च हरिः कन्याः समग्रहीत् ।विधिः सर्वः कृतश्चापि कान्तोद्देशः प्रकीर्तितः ॥२२२॥सर्वरूपादिविलयो प्रोद्वाहविधिपूर्णता ।सर्वाभिः सह शयने विहारे नैकरूपतः ॥२२३॥प्रातः फुल्लकयात्रा च योगग्रन्थिविमोचनम् ।गंगायां सर्ववर्गेभ्यः पारितोषादिकाऽर्पणम् ॥२२४॥पञ्चगंगातटे बालकृष्णाभिधसुतीर्थकम् ।शंभवे भिक्षिकादानं शिवपत्तनमागमः ॥२२५॥सत्कारपूजनं चापि विदायः क्षान्तियाचना ।कुंकुमवापिकाक्षेत्रमागमो योगयात्रिणाम् ॥२२६॥गृहप्रवेशः कान्तानां विहारोऽथ विनोदनम् ।गुरुमन्त्रग्रहणं च वनानामवलोकनम् ॥२२७॥द्यौः कन्यारूपिणी लीलां कोट्यर्बुदाब्जरूपिणः ।कान्ताभिः रममाणस्य हरेर्दृष्ट्वा मुमोह सा ॥२२८॥अथ सर्वकन्यकानां समाधिं हरिरैरयत् ।सृष्टित्रयाक्षरधामादिकं त्वदर्शयद्धरिः ॥२२९॥महीमानविदायं च मिथः क्षमादियाचनम् ।मातृभिर्भिक्षिताः कन्याः सर्वाः श्रीहृरिणाऽर्पिताः ॥२३०॥मण्डपादिपरिहारो लक्ष्मीसेवा सुरीतिका ।जन्मोत्सवे षोडशे स्वसतीनां पुनरागमः ॥२३१॥शिवशंभ्वादिमोक्षस्त्रेतासन्तानश्रुतेः फलम् ।त्रेतासन्तानविषयोद्देशः खण्डसमापनम् ॥२३२॥त्रेतामाहात्म्यमुक्तं च संक्षिप्ता विषयास्त्विमे ।त्रेतासन्तानके राधे वर्णिता मोक्षदाः खलु ॥२३३॥नृपाणां चापि भक्तानां यज्ञानां योषितां तथा ।तीर्थानां च कथा दिव्याः सन्ति चात्र सहस्रशः ॥२३४॥वै द्वात्रिंशत्सहस्राणि श्लोकाः सन्तानकेऽत्र च ।अध्यायास्त्रिशतान्येव परब्रह्मपरायणाः ॥२३५॥पठनाच्छ्रवणाच्चापि स्मरणात् कीर्तनादपि ।रक्षणाद्वा गृहे भुक्तिमुक्तियुक्ता भवन्ति हि ॥२३६॥कृताध्यायाः पञ्चशतं नवतिश्चेति संहिताः ।त्रेताध्यायैस्तेऽष्टशतं नवतिश्च भवन्ति हि ॥२३७॥सप्ताशीतिसहस्राणि श्लोका भवन्ति संहिताः ।अथोत्तरं तृतीयो द्वापरसन्तानकाभिधः ॥२३८॥खण्डः सम्पत्स्यते राधे! कृष्णन्रायणगोचरः ।षोडशाब्दात्मकावस्थकृष्णस्वरूपवर्णनः ॥२३९॥कृष्णकान्ता योषितश्च नराः कृष्णस्य सेवकाः ।भवन्त्येतत्कथायोगाच्छ्रीकृष्णोऽहं ब्रवीमि वै ॥२४०॥स्वस्ति वोऽस्तु परब्रह्म श्रीकृष्णः स्वस्ति वः क्रियात् ।माता पिता पतिः पत्नी स्वस्ति वंशा भवन्तु वः ॥२४१॥वाचकायाऽस्य सर्वस्वं देयं व्यासाय मुक्तये ।स्मृद्धये श्रद्धया दिव्यबुद्ध्या श्रोतृभिरो नमः ॥२४२॥स्वर्णं रत्नानि शय्यादि हीरका मौक्तिकानि च ।गजवाजिगवादीनि विमानं वाहनानि च ॥२४३॥यानं सौधं वाटिकादि देयं व्यासाय शार्ङ्गिणे ।श्रीकृष्णोवल्लभःस्वामिस्वरूपो व्यास एव यत् ॥२४४॥सौभाग्यानि समस्तानि देयान्यस्मै प्रशृण्वता ।धनसम्पत्पुत्रपत्नीराज्यमानं हि लभ्यते ॥२४५॥ब्रह्मप्राप्तिकरं शास्त्रं सर्वविद्याप्रसंभृतम् ।त्रेतासन्तानकं कृष्णात्मकं विजयतेतमाम् ॥२४६॥सर्वदुःखविनाशोऽस्य श्रवणाद् दानतस्तथा ।सर्वशान्तिसमायोगः सर्वसिद्धिप्रसंजनम् ॥२४७॥विद्याभूकन्यकास्वर्णदानानां फलदा श्रुतिः ।मोक्षदानफलदा च कृष्णस्वाम्यप्रदायिनी ॥२४८॥ओमार्यः कम्भराबालः सर्वस्वामी सतीश्वरः ।सतां रूपः परमात्मा जयत्यहर्निशं प्रभुः ॥२४९॥तस्मिन्नेव परे ब्रह्मण्यर्पितोऽयं द्वितीयकः ।सन्तानः सन्तनोत्वत्र शश्वत्त्वं सुभगं व ओम् ॥२५०॥वै द्वात्रिंशत्सहस्राणि द्वे शते च शतार्धकम् ।चत्वारश्च भवन्त्यत्र श्लोकास्त्रेतासुतानके ॥२५१॥इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लक्ष्मीनारायणमहिमा, त्रेतासन्तानखण्डस्थविषयाणां संक्षिप्तनिर्देशः, द्वापरसन्तानप्रस्तावः, आशीर्वादाश्चेति निरूपणनामा त्रिशततमोऽध्यायः ॥३००॥ इतिश्रीलक्ष्मीनारायणसंहितायां द्वितीयस्त्रेतायुगसन्तानखण्डः समाप्तःॐ श्रीकृष्णनारायणस्वाम्यर्पणमस्तु N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP