संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २९१ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २९१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २९१ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके! कृष्णवाहिन्यां हरिं दृष्ट्वा तु कोटिशः ।स्त्रीगणाः मुमुहुश्चाति युवानं परमेश्वरम् ॥१॥कोटितेजोभिरापूर्णं कोटिलावण्यशोभनम् ।कोट्यानन्दभरं पुष्टं कोटिभूषणभूषितम् ॥२॥कोटिसद्गुणवासं च कोटिकामभृतं प्रभुम् ।वीक्ष्य वीक्ष्य नवा नार्यस्तल्लीनाः स्थिरदृष्टयः ॥३॥यावत्यः कन्यकाश्चापि संबभूवुः समाधिगाः ।अपि नराश्च लोकाश्चेश्वराश्च लीनतां गताः ॥४॥देवाः सर्वेऽपि मुमुहुर्योषितां तत्र का कथा ।साधवो योगिनश्चापि मुक्ताश्च पार्षदा अपि ॥५॥मुमुहुर्यतयश्चापि मुक्तानीनां तु का कथा ।महामाया प्रधानं च प्रकृतिर्धामयोषितः ॥६॥मोहिन्यश्चापि मुमुहुर्लौकिकीनां तु का कथा ।आजनाभ्यो युवत्यश्च कृटुम्बसहिता ययुः ॥७॥दर्शनार्थं सोत्सुका वै प्रोवाहः कृष्णयोरिति ।ता अपि मुमुहुस्तत्र परेशे परमात्मनि ॥८॥राजानो राजकन्याश्च दशसाहस्रसंख्यकाः ।कृष्णयान्यागताश्चापि निश्चिक्युस्तं निजेश्वरम् ॥९॥प्रजाकन्यास्तथा तत्र दशसाहस्रसंख्यकाः ।निश्चिक्युः श्रीबालकृष्णं चेशं नैजं विमोहिताः ॥१०॥तत्पराश्च समासन् वै कण्ठमालाः प्रगृह्य च ।वह्निसाक्ष्ये भविष्यामो दास्यः कृष्णस्य चार्पिताः ॥११॥इत्येवं कोट्यर्बुदा वै कन्यकास्तत्परास्तदा ।सर्वसज्जीकृताऽऽवेषाः प्रतीक्षन्ते तु मंगलम् ॥१२॥विद्याधर्यः कोटिशश्च मुमुहुर्वीक्ष्य माधवम् ।अप्सरसः कोटिशश्च मुमुहुर्वीक्ष्य केशवम् ॥१३॥गान्धर्व्यश्च कोटिशोऽपि मुमुहुर्वीक्ष्य चाच्युतम् ।किन्नर्यश्च कोटिशोऽपि समुहुर्वीक्ष्य कामदम् ॥१४॥नर्तक्यः कोटिशश्चापि मुमुहुर्वीक्ष्य मायिनम् ।शिल्पिन्यो मुमुहुश्चापि वादिन्यो मुमुहुस्तथा ॥१५॥पुष्पिण्यो मुमुहुश्चापि यतिन्यः कोटिशस्तथा ।साध्व्यश्च मुमुहुश्चापि सन्यासिन्यश्च कोटिशः ॥१६॥मुमुहुर्ब्रह्मचारिण्यो विप्राण्यो मुमुहुस्तथा ।बालकृष्णं वीक्ष्य राधे! मुमोह सकलं जगत् ॥१७॥काश्चिद्धरिं प्रवीक्ष्यैव त्वाकृष्टाः केशवं प्रति ।कश्चित् तत्कलगिं वीक्ष्य सौवर्णतान्तवी स्थिराम् ॥१८॥पिशंगीं किरणैर्व्याप्तां स्थिरास्तत्रैव चाऽभवन् ।लक्ष्म्याश्रयं च मुकुटं सौवर्णं कोटिहीरकम् ॥१९॥नैकरत्नमणिव्याप्तं सूर्यवद्भास्वरं शुभम् ।वीक्ष्य काश्चित्तत्र लग्नाः स्थिरा मग्नास्तथाऽभवन् ॥२०॥कश्चिन्मुकुटसंस्थाँश्च रत्नहारान् सुमस्रजः ।पुष्पपंक्तीश्च कलिकाः शेखरान् पुष्पराजिकाः ॥२१॥प्रदानसूचकान् वीक्ष्य मुमुहुस्तत्र च स्थिराः ।काश्चित्केशान् मञ्जुलाँश्च चाकचिक्यप्रभान्वितान् ॥२२॥कृष्णान् वक्रान् भङ्गिकाढ्यान् सूक्ष्मान् नेत्रहरान्शुभान् ।सुगन्धितैलपानाँश्चाऽऽकर्णाग्रकृततोरणान् ॥२३॥पश्चभागे छादकाँश्च वीक्ष्य प्रकीर्णकस्थितान् ।दन्तिकाभिः संस्कृताँश्च समीकृतान् समान्तकान् ॥२४॥प्रान्तपिशंगकान् वीक्ष्य मुमुहुस्तत्र सुस्थिराः ।काश्चित्तेजःपरिधिं च वीक्ष्य महान्तमुज्ज्वलम् ॥२५॥अन्तःपरिधिसाहस्रं कोटिकिरणभाभृतम् ।बहुरंगं मिष्टकृष्टिचमत्कारभृतं शुभम् ॥२६॥दिव्यं वीक्ष्य च तत्रैव मुमुहुश्चाऽभवन् स्थिराः ।काश्चिद्भालं प्रवीक्ष्यैव विशालं त्वर्धचन्द्रवत् ॥२७॥उज्ज्वलं त्वेकरेखाढ्यं प्रान्तयोश्चन्द्रभाभृतम् ।मध्ये सूर्यसमं भास्वत् प्रोज्ज्वलं चोन्नतं मतम् ॥२८॥पुष्टं रम्यं मनोहारि वीक्ष्य मुग्धाः स्थिरास्तदा ।काश्चिच्चन्द्रं कौंकुमं च मध्ये स्थितं सुशोभनम् ॥२९॥वालसूर्यसमं वीक्ष्य मुग्धाः स्त्रियोऽभवन् स्थिराः ।काश्चिद् वीक्ष्य सुतिलकं चोर्ध्वपुण्ड्रं हि कानकम् ॥३०॥स्वर्णवर्णं चान्दनं च कौंकुमं मिश्रितं तनु ।तत्रैव मुग्धा अभवन् स्थिरानन्दभरास्तदा ॥३१॥काश्चित्तु प्रान्तयोर्वीक्ष्य पत्रिके चान्दनीकृते ।मध्ये कुंकुमसूक्ष्माल्पबिन्द्वीबाहुल्यशोभिते ॥३२॥तास्वेव मुमुहुर्नार्यः पत्र्यां बिन्द्वीषु च स्थिराः ।काश्चिद् भ्रूयुगले रम्ये कामकम्मानिकात्मके ॥३३॥सूक्ष्मनीलाऽतिचञ्चत्सद्रोमावलिविराजिते ।प्रान्ततनुसूक्ष्मकाग्रे मुग्धास्तत्राऽभवन् स्थिराः ॥३४॥काश्चिद् भ्रुवोर्मध्ययोगे श्वेततेजोविराजिते ।चान्द्रपिण्डसमशोभे मुमुहुस्तत्र च स्थिराः ॥३५॥काश्चिद् भ्रूनिम्नभागे च नासामूले मनोहरे ।चक्षुषोर्मध्यके द्योतमाने मुमुहुः सुस्थिरा ॥३६॥काश्चित्तिलसुमाभां च नासिकां वीक्ष्य भाभृताम् ।नमणीं रमणीं निम्नां तत्र मुग्धास्तथा स्थिराः ॥३७॥काश्चिद् गोलकपोलौ च रंगशोभौ सुरञ्जितौ ।मध्योन्नतौ सुगोलौ च चुम्बनार्हौ सरत्नकौ ॥३८॥हास्यभृतौ चोन्नतौ च सूर्यचन्द्राभकान्तिकौ ।प्रपुष्टौ मदवाहौ च वीक्ष्य मुग्धास्तथा स्थिराः ॥३९॥काश्चिन्नेत्रे चाकर्णान्तायते मदनवासिते ।तीक्ष्णकोणे प्रेमवाहे चेङ्गितसूचके भरे ॥४०॥रक्तरेखे कज्जलाढ्ये श्वेतगोले च चञ्चले ।कृष्णकनीनिके रम्ये भावज्ञे भावबोधके ॥४१॥चैकान्तबोधके चान्तश्चेष्टाप्रमाणपूरिते ।आकर्षके मोहभृते मेषोन्मेषविराजिते ॥४२॥सूक्ष्मरोमावलिराजद्रक्षिकाछज्जिकायुते ।जगतां सर्वसृष्टीनां प्रतिबिम्बाश्रये शुभे ॥४३॥सागरौ प्रेमसरितां निधाने सर्वतेजसाम् ।सर्वप्रमाणसंस्थाने मुमुहुस्तत्र च स्थिराः ॥४४॥काश्चिच्च कर्णयोः शष्कुलिकासंस्थानयोस्तदा ।स्वर्णकुण्डलसौवर्णफुल्लिकास्वर्णचिप्पिभिः ॥४५॥स्वर्णशृंखलिकाभिश्च रत्ननद्धस्थलैस्तथा ।युक्तयोश्चन्द्रभयोश्च मुमुहुस्तत्र च स्थिराः ॥४६॥काश्चित्तु बुट्टिकां वीक्ष्य स्वर्णस्थलविराजिताम् ।तत्रैव मोहमापन्नाः स्थिरास्तत्राऽभवन् स्त्रियः ॥४७॥काश्चिद् वीक्ष्योर्ध्वकौष्ठस्य पृष्ठं सौवर्णकोज्ज्वलम् ।सूक्ष्मातिसूक्ष्मरोमालिं कामसम्बोधकारिणीम् ॥४८॥श्मश्रुलेखां पिंगवर्णां मुमुहुस्तत्र सुस्थिराः ।काश्चिदोष्ठं समसंस्थानकं दीर्घं यथोचितम् ॥४९॥रक्तभृतं पक्वबिम्बफलाभं रससंभृतम् ।चुम्बनार्हं चोश्यरसं मध्ये धनुष्यमध्यवत् ॥५०॥प्रान्तयोर्धनुषः प्रान्तौ यथा तथा सुघट्टितम् ।सर्वेषां धनुषां रूपं दधत्प्रेमनिधानकम् ॥५१॥ईषत्कुञ्चत्प्रेमभावबोधकं हास्यमन्दिरम् ।प्रसन्नताश्रयं रम्यं ताम्बूलरसराजितम् ॥५२॥क्वचित् क्वचिच्च दन्तैश्च क्वचिच्च जिह्वया तथा ।क्वचिच्चाऽधरकौष्ठेन विधापित सुचुम्बनम् ॥५३॥मध्यबिन्दौ निम्नभागं नासा दण्डिकया कृतम् ।ऊर्ध्वौष्ठं वीक्ष्य वै कान्ता मुमुहुस्तत्र च स्थिराः ॥५४॥सुगन्धसम्भृतं श्वासं चेहमानं स्त्रियोऽपराः ।प्रसरन्तं सर्वदिक्षु सुगन्धयन्तमीश्वरान् ॥५५॥मादयन्तं शान्तयन्तं घ्रात्वा मुग्धास्तथा स्थिराः ।अधरौष्ठं रक्तवर्णं ताम्बूलरसवेदिनम् ॥५६॥अधरौष्ठसखायं तं वीक्ष्य मुग्धाः स्त्रियः स्थिराः ।चिबुकं स्वर्णचिबुकपिंगबिन्दुविराजितम् ॥५७॥शोभनं समसंस्थानं योग्यनिम्नत्वशोभनम् ।समनिकासहनुसंशोभावर्धितसुन्दरम् ॥५८॥दिव्यं नवनीतकाभं स्थलपद्माकृति प्रभम् ।वीक्ष्य नार्यो मुमुहुश्च कृत्वा हृद्यभवन् स्थिराः ॥५९॥कम्बुकण्ठं सुस्वरं च हन्वधः पुष्टपेशिकाः ।गलं पुष्टं यथाघट्टं मुमुहुर्वीक्ष्य च स्थिराः ॥६०॥सिंहस्कन्धौ हरेर्वीक्ष्य पुष्टौ बलभृतौ तथा ।वीक्ष्य काश्चित्तु मुमुहुः स्थिरास्तत्राऽभवँस्तदा ॥६१॥काश्चिद् वीक्ष्योन्नतं पुष्टं विशालं वक्ष उत्तमम् ।दुग्धचम्पकभाव्याप्तं सर्वबलाश्रयं शुभम् ॥६२॥नरत्वाऽऽवेदकं शूरमनःक्षोभकरं क्षणम् ।नार्यभिवाञ्छितं राधारमाऽऽश्लेषविभावितम् ॥६३॥स्वर्णरेखायुतं रोम्णां दक्षावर्तसमन्वितम् ।श्रीवात्सल्यभृतं सूर्यचन्द्राभस्तनराजितम् ॥६४॥आयतं चापि वै दीर्घं दृढबन्धविभासितम् ।कुक्षिकोमलतायुक्तं पार्श्वमार्दवसुस्पृशम् ॥६५॥पृष्ठवंशदृढस्थानं बाहुमूलातिशोभनम् ।एवंविधं हरेर्वक्षःस्थलं सुखस्थलं परम् ॥६६॥सम्पत्सौख्यसमीहाढ्यं वीक्ष्य वै सुन्दरीगणाः ।मुमुहुश्चाति तत्रैवाऽभवन् मग्नाः सुखस्थिराः ॥६७॥सौवर्णं कण्ठलं कण्ठे भूषणं रत्नघट्टितम् ।तथा सौवर्णपत्रीं च शृंखलां कानकीं तथा ॥६८॥प्लक्षपत्रीं च सौवर्णीं पञ्चसरीं च कानकीम् ।बदरीमालिकां स्वर्णां गोक्षुराणां स्रजं तथा ॥६९॥सौवर्णी सूक्ष्मपत्रीं च मालिकां मुद्गमालिकाम् ।यवमालां कानकीं च कानकीं राजमाषिकाम् ॥७०॥कानकं पूर्त्तलायं च त्वष्टकोणमणिस्रजम् ।कण्ठिकां तौलसीं स्वर्णसूक्ष्ममणिप्रकण्ठिकाम् ॥७१॥मालिकां कानकीं चापि पौष्पान् हारान् सुगन्धकान् ।सौवर्णबुट्टकौशेयकञ्चुकोपरि संस्थितान् ॥७२॥धृतान् हारान् मणिरत्नहीरकादिविराजितान् ।मौक्तिकाँश्च धृतान् हारान् कौस्तुभान् वीक्ष्य वै स्त्रियः ॥७३॥चन्द्रकान्तान् सूर्यकान्तान् वह्निकान्तान् मणीन् शुभान् ।वीक्ष्य कण्ठे धृर्तौंस्तत्र मुमुहुर्वै सुरस्त्रियः ॥७४॥अन्याः सर्वाश्च मुमुदुः क्षणंस्तत्राऽभवन् स्थिराः ।भुजौ पृष्ठौ च कदलीगर्भाभौ शोभनौज्ज्वलौ ॥७५॥पूर्तद्रव्यौ कटकाढ्यौ शृंखलाभिविराजितौ ।सिंहाननभुजबन्धाभूषाविराजितौ शुभौ ॥७६॥वीक्ष्य नार्यो हि मुमुहुः स्थिरास्तत्राऽभवन् क्षणम् ।प्रकोष्ठौ कामफलकौ स्वर्णशृंखलिकान्वितौ ॥७७॥मणिमौक्तिकरत्नाढ्यमांगल्यभूषणान्वितम् ।पुष्पशृंगारशोभाढ्यं वीक्ष्य मुग्धाः स्त्रियः स्थिराः ॥७८॥हस्ततले यावकाभे नखान् रक्तभराँस्तथा ।ह्रस्वचन्द्रनिभान् वीक्ष्याङ्गुलीश्चांगुलिकास्रजः ॥७९॥युक्तास्तथा कानकाङ्गुलीयकैर्मणिरत्नजैः ।ऊर्मिकाभिः शोभिताश्च मृदुरक्ताग्रिकाः स्त्रियः ॥८०॥सुपर्वाढ्याः सुखस्पर्शा वीक्ष्य मुग्धास्तथा स्थिराः ।हस्तयोः पञ्चजौ रम्यौ नीलबिन्द्वीसमन्वितौ ॥८१॥वीक्ष्य नार्यो मुमुहुश्च स्थिरास्तत्र तदाऽभवन् ।दक्षे हस्ततले वीक्ष्य मीनं ध्वजं त्रिशूलकम् ॥८२॥धनुर्बाणं स्वस्तिकं च वज्रं दण्डं च चक्रकम् ।गदां पद्मं शंखमसिं खड्गं सौवर्णशोभितम् ॥८३॥मुमुहुर्वै स्त्रियः सर्वाः स्थिरास्तत्र तदाऽभवन् ।खड्गाधानं भिन्नमणिनद्धं चर्म तथाविधम् ॥८४॥वीक्ष्याऽपि मुमुहुः सर्वाः कण्ठे मंगलसूत्रकम् ।भुजे मंगलतन्तुं च वीक्ष्य मुग्धाः सुरस्त्रियः ॥८५॥जिह्वां रक्तां स्वादयोग्यां सर्वस्वादभृतां स्त्रियः ।विशालां मोहकाग्रां च स्थलपद्मनिभाऽऽभिकाम् ॥८६॥दन्तान् हास्ये कुन्ददलीसमान् दाडिमबीजभान ।श्वेतकान्तियुतान् चञ्चत्प्रभान् वीक्ष्य च मोहिताः ॥८७॥स्पृहां चक्रुर्हि लब्ध्यर्थं स्थिरास्तत्राऽभवँस्तथा ।त्रिवल्या सहितं रम्यमुदरं प्रोज्ज्वलं शुभम् ॥८८॥शीतलं निम्ननाभ्या च मध्यवल्ल्याढ्यया युतम् ।वीक्ष्य तत्र च मुमुहुः स्थिरास्तत्राऽभवंस्तदा ॥८९॥आर्धभेदेन च धृतं सौवर्णपटकं गले ।स्कन्धे लम्बत्प्रान्तभागं वीक्ष्य मुग्धाः स्थिरास्तदा ॥९०॥काश्चिद् ध्यात्वा तु जघनं गुप्तं चापि कटिद्वयम् ।श्यामलं मुमुहुस्तत्र कट्यां बद्धे तथाऽम्बरे ॥९१॥सौवर्णतारयुक्ते च बहुमूल्यकबुट्टके ।सुरवाले राजयोग्ये कौशेयवरनिर्मिते ॥९२॥कोटिरत्नाश्रिते स्वर्णबुट्टिमौक्तिकयोजिते ।फुल्लफुम्मकिकायुक्तनाडिकाऽभिप्रवेशिते ॥९३॥धृते चापादरम्ये च मुमुहुर्युवतीस्त्रियः ।सर्वकामाश्रये काम्ये त्वन्तरंगेऽखिलाः स्त्रियः ॥९४॥सर्वमोहाश्रये मुग्धा विविदुर्नेतरत् क्षणम् ।कम्मानिकानिभे रम्ये पादप्रकोष्ठकाग्रतः ॥९५॥पादयोः पञ्चजौ भागौ सूक्ष्मरोमविराजितौ ।मृदुपानह्सुसंयुक्तौ स्वर्णशोभालिसंवृतौ ॥९६॥रञ्जितौ संप्रवीक्ष्यैव मुग्धाः स्त्रियः स्थिरास्तथा ।सक्थ्नोः सक्थिमूलमध्येऽनङ्गेऽतिमुमुहुः स्त्रियः ॥९७॥अंगुलिकाः स्वर्णभूषोर्मिका वीक्ष्य तथा स्त्रियः ।किंकिणिकायुतौ वीक्ष्य सौवर्णौ पादभूषणौ ।कटकौ झंझरीनालौ त्रोटकौ मुमुहुः स्थिराः ॥९८॥आजानुलम्बहस्तौ च जघने करिशुण्ढवत् ।करभौ करगौ करिकरवद् वीक्ष्य योषितः ॥९९॥मुमुहुस्तत्र च स्थिरा अभवन् वै समाधिगाः ।गजविमानगे स्वर्णसिहासने मृदुस्थले ॥१००॥आसीनं राजराजेशराजराजं वरं प्रभुम् ।वीक्ष्य मुग्धाः स्त्रियः सर्वा आयान्तं गोपुरं प्रति ॥१०१॥कुंकुमाऽक्षतबिन्द्वाढ्यं वीक्ष्य श्रीपरमेश्वरम् ।चक्रुर्वै दर्शनं लोका जयशब्दान् जगुस्तथा ॥१०२॥एवं वै राधिके प्राप्ता महान्तं गोपुरं प्रति ।वाद्यनादेश्च लोकानां मनोज्ञा योगयात्रिका ॥१०३॥भावज्ञो भगवाँस्तत्र यात्रायां स्वासने स्थितः ।दर्शनं प्रददौ तत्र विभिन्नं शृणु राधिके ॥१०४॥पुरुषोत्तमरूपेण मुक्तेभ्यो दर्शनं ददौ ।गोपेभ्यः कृष्णरूपेण गोपीभ्यो दर्शनं ददौ ॥१०५॥पार्षदेभ्यो दर्शनं नारायणात्मतया ददौ ।ईश्वरेभ्यो वासुदेवरूपेण दर्शनं ददौ ॥१०६॥सिद्धसाधुगणेभ्यश्च विष्णुरूपेण तद् ददौ ।महर्षिभ्यस्तदा ब्रह्मात्मना स्वं दर्शनं ददौ ॥१०७॥पितृभ्यश्चार्यमरूपात्मना स्वं दर्शनं ददौ ।सुरेभ्यः क्षीरनाथात्मनाऽपि स्वं दर्शनं ददौ ॥१०८॥मानवेभ्यो नरनारायणात्मना च तद् ददौ ।पातालवासिलोकेभ्यः श्वेतप्रभ्वात्मना ददौ ॥१०९ ॥ नारीभ्यः कामदेवात्मरूपेण दर्शनं ददौ ।कन्याभ्यः स्वामिरूपेण मालाध्रं दर्शनं ददौ ॥११०॥पूज्याभ्यो बालरूपेण कौमारं दर्शनं ददौ ।भक्तानां भगवद्रूपं मोक्षदं दर्शनं ददौ ॥१११॥सर्वायुधं चतुर्हस्तं रमावृन्दनिषेवितम् ।नरेभ्यो दर्शनं साक्षान्नारायणात्मना ददौ ॥११२॥अन्तरात्मस्वरूपं चाऽऽवेदयद्धृदि देहिनाम् ।इत्येवं राधिके! श्रीमद्बालकृप्णो हरिः प्रभुः ॥११३॥विज्ञातो ह्यधिराजोऽसौ मण्डपाख्यपुरस्य ह ।गोपुराग्रे चाययौ संलेभे स्थैर्यं क्षणं तदा ॥११४॥वाहिन्यपि समग्रा च क्षणं तस्थौ प्रपूजिता ।समीपे त्वागतैः श्रेष्ठैः कृष्णबृहस्पतिद्विजैः ॥११५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सुवेषिते श्रीबालकृष्णे प्रत्येकांगे नरनारीणां वृत्त्याकर्षणेन मुग्धता, दिव्यदर्शनं, गोपुरं प्रति प्रागमनं चेतिनिरूपण-नामैकनवत्यधिकद्विशततमोऽध्यायः ॥२९१॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP