संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २३९ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २३९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २३९ Translation - भाषांतर श्रीकृष्ण उवाच-राधिकेऽथ शृणु चान्यं चमत्कारं हरेः प्रभोः ।कार्तिकैकादृशीरात्रिप्रान्ते व्यधात्तु यं प्रभुः ॥१॥पुण्डरीकोऽभवद्राजा गौर्जरो वैष्णवो महान् ।सर्वधर्मान्वितो राज्यमपालयन्महीतटे ॥२॥प्रातः पूजां करोत्येव विष्णोर्लक्ष्म्याः सुवस्तुभिः ।साधून् वृद्धान् पूजयित्वा गृह्णाति भोजनं सदा ॥३॥नित्यमतिथयस्तस्य गृहे चायान्ति यान्ति च ।हरेर्नाम्नां भजनं च कृत्वा त्वन्नानि भुंजते ॥४॥हरेर्जयन्तिकाहानां करोत्यपि व्रतानि च ।राज्ञा तेन निजे राज्ये श्रावितः पटहः शुभः ॥५॥एकादश्यास्तु यावत्यः कार्या अशनवर्जिताः ।सर्वाभिर्वै प्रजाभिश्च वृद्धबालातुरान् विना ॥६॥प्रजाः सर्वास्तदाज्ञां च पालयन्त्येव सद्व्रताः ।वैष्णव्यश्च प्रजास्तस्य भजन्ते च व्रते हरिम् ॥७॥स राजा तीर्थयात्रार्थं त्वश्वपट्टसरो ययौ ।कार्तिकैकादशी तेन कृता क्षेत्रेऽक्षराभिधे ॥८॥कुंकुमवापिकायां स दशम्यामभिगम्य च ।भोजयामास साधूँश्च विप्रांश्च बालकृष्णकम् ॥९॥पूजयामास भक्त्यैव लोमशं चर्षिमण्डलम् ।तीर्थेऽवगाहनं चक्रे चक्रे देवादिदर्शनम् ॥१०॥व्यलोकयत् स नगरीं दिव्यां कुंकुमवापिकाम् ।प्रदक्षिणां चकारापि सरोवरस्य सर्वतः ॥११॥तटस्थदेवताः सर्वाः पूजयामास वस्तुभिः ।रात्रौ त्वारार्त्रिकं चक्रे सरोवरस्य भूपतिः ॥१२॥विश्रान्तिं प्राप शालायां प्रातरुत्थाय सत्वरम् ।कृताह्निकः कृतस्नानः कृतविप्रप्रपूजनः ॥१३॥कृततीर्थविधिः कृष्णदर्शनार्थं ययौ तदा ।पूजयामास बालेशं कृष्णनारायणं प्रभुम् ॥१४॥ददौ दानान्यनन्तानि स्वर्णरूप्याम्बराणि च ।विप्रेभ्यः प्रददौ तैर्थिकेभ्यो राजा धनानि च ॥१६॥साधुभ्योऽम्बरपात्राणि दीनेभ्योऽपेक्षितानि वै ।गोदानानि ददौ चापि ह्यन्नदानान्यपि नृपः ॥१६॥उद्यापनं व्रतस्यापि कारयामास सत्फलम् ।सुवर्णघटकादानादि स्वर्णमूर्तिप्रदानकम् ॥१७॥धनधान्याम्बरपात्रदानं चकार भूपतिः ।लक्ष्मीनारायणसंहिताकथाश्रवणं तथा ॥१८॥लोमशस्याऽऽश्रमे गत्वा चकार दिवसे नृपः ।ऋषीणां सेवनं चक्रे साध्वीनां सेवनं तथा ॥१९॥भक्तानां वन्दनं राजा चक्रे सायं प्रपूजनम् ।आरार्त्रिकं चकारापि रात्रौ जागरणं व्यधात् ॥२०॥निर्जलश्च निराहारः सर्वसार्थसमन्वितः ।रात्रौ च भजनं चक्रे तालीवादनपूर्वकम् ॥२१॥'हरेकृष्ण बालकृष्ण परमेश परेश्वर ।कांभरेय परमात्मन् श्रीमद्गोपालनन्दन ॥२२॥ब्रह्मप्रियापते लक्ष्मीपते राधापते प्रभो ।अनादिश्रीकृष्णनारायण स्वामिपते विभो' ॥२३॥एवं चकार भजनं रटणं कीर्तनं तदा ।दध्यौ स्वहृदये साक्षाद् दृष्टं श्रीकृष्णवल्लभम् ॥२४॥आप्रातर्भजनं कृत्वा ध्यानमग्नो बभूव ह ।अनुगाश्च ययुः सर्वे स्नानार्थं च सरोवरे ॥२५॥राजा ब्राह्मे मुहूर्ते स्वहृदये श्रीनरायणम् ।ध्यात्वा सोऽहं च सोऽहं च सोऽहं सोऽहं जजाप ह ॥२६॥सोऽहं हंसश्च हंसश्च हंसहंसं जजाप च ।भगवान् श्रीबालकृष्णः श्रुत्वा जापं हृदि स्थितः ॥२७॥प्रसन्नोऽभूद् द्रुतं स्मृत्वा हंसरूपं पुरातनम् ।बभूव शीघ्रं तत्रैव हंसरूपो हरिः स्वयम् ॥२८॥शुक्लवर्णः शुक्लकान्तिः शुक्लहंसस्वरूपवान् ।दिव्यमानुषवक्त्रश्च हंसदेहः श्रिया युतः ॥२९॥रूपानुरूपावयवः कोटिकन्दर्पसुन्दरः ।सर्वविद्याशेवधिश्च तथा वेदादिशेवधिः ॥३०॥शनैः शनैश्च पद्भ्यां स चाययौ नृपसन्निधौ ।राजा स्वहृदये देशं ददर्श सरसस्तटम् ॥३१॥हंसमायान्तमेवापि लक्ष्मीं ददर्श पार्श्वगाम् ।आश्चर्यपूर्णहृदयः प्रेमपूरितविग्रहः ॥३२॥उत्थाय भगवन्तं तं चाभियातुं त्वरान्वितः ।अभवत्तावदेवाऽसौ जाग्रद्भावं गतोऽभवत् ॥३३॥नेत्रे चोन्मील्य यावत्स राधे पश्यति सन्निधौ ।पश्यति स्म महातेजःपुञ्जं दिक्षु समन्ततः ॥३४॥तेजो योग्ये स्वके नेत्रे ह्यजायेतां क्षणान्तरे ।ततस्तेजोगर्भके स ददर्श जगतां पतिम् ॥३५॥श्वेतवर्णं हंसरूपं हसन्तं श्रीसमन्वितम् ।उत्थाय सहसा राजा पपात दण्डवत् तदा ॥३६॥कृतार्थोऽस्मीत्यभिधाय मुखे पादरजो न्यधात् ।लुलुण्ठ भूतलेऽस्यापि पादयोः सन्निधौ मुहुः ॥३७॥नेत्राश्रूणि मुमोचाऽपि हर्षेण महता नृपः ।लक्ष्मीः कमण्डलोर्वारि नृपमूर्ध्यन्यभिसिषेच ह ॥३८॥प्रसादं प्राप्य राजा तज्जलं हर्षान्वितः पपौ ।कृतकृत्योऽभवत्प्राप्य दर्शनं प्रजगाद ह ॥३९॥अहोभाग्यमहोभाग्यं राजदेहस्य मे न्विदम् ।यद्दृष्टौ परमानन्दः पूर्णब्रह्म परेश्वर ॥४०॥हंसरूपः श्रियायुक्तः साक्षात्करुणयाऽऽगतः ।पावितोऽहं मोक्षितोऽहं समुद्धृतोऽस्मि सागरात् ॥४१॥इत्युक्त्वा चरणौ धृत्वा हंसस्य मौनमावहत् ।हंसः प्राह वरं राजन् वृणु यत्तेऽभिवाञ्च्छितम् ।४२॥राजा प्राह हरे चात्र मोक्षं देहि पदे नय ।नमे वाञ्च्छाऽस्ति राज्यस्य लोकैषणा न विद्यते ॥४३॥अन्यैषणास्तु सम्पूर्णा वर्तन्ते मोक्षमावह ।यल्लाभो योगिनां नास्ति युगकाले गतेऽपि च ॥४४॥स लाभोऽद्य मया प्राप्तश्चैकादशीव्रतेन ह ।तस्माद् देहि कृपासिन्धो मोक्षणं सर्वथाऽत्र मे ॥४५॥राधिके राजवाक्यानि स्वीकृत्य परमेश्वरः ।तथाऽस्त्विति हसन्प्राह तावद्राजानुगादयः ॥४६॥आयुयुर्वीक्ष्य तेजांसि तं हरिं समलोकयन् ।कृतकृत्या हि ते जाता वीक्ष्य हंसस्वरूपिणम् ॥४७॥तावत् तत्र समायातं विमानं सूर्यवर्चुलम् ।राजा देहं विहायैव मुक्तदेहमवाप ह ॥४८॥चतुर्भुजो विष्णुतुल्यो विमानस्थोऽभवत् क्षणात् ।राज्ञी तस्यास्तदा शीघ्रं विमानं स्वकरेण वै ॥४९॥सह यातुं दधारैव स्पर्शमाप्ताऽपि सा तदा ।त्यक्त्वा भौतिकदेहं स्वं दिव्यदेहा बभूव ह ॥५०॥विमानं शीघ्रमेवापि ततस्तत्राऽम्बरेऽभवत् ।हंसः श्रीबालकृष्णोऽपि विष्णुश्चतुर्भुजोऽभवत् ॥५१॥तद्विमानेन राजानं निन्ये वैकुण्ठमेव सः ।बालकृष्णस्वरूपेण सरस्तीरे स्थितोऽभवत् ॥५२॥तेजो विलीनतां यातं सार्थोऽप्याश्चर्यमाप्तवान् ।देहक्रियां प्रचक्रुश्च सार्थाः सर्वे नृपानुगाः ॥५३॥ततो ययुर्निजं देशं पुत्रं जगदुर्भूभृतः ।वृत्तान्तं सर्वमेवैनं पुनः श्रुत्वा मुमोद ह ॥५४॥राधिके हंसतीर्थं तत्त्वश्वपट्टसरोजले ।अभवद् दक्षिणे पूर्वे कोणे मुक्तिप्रदं शुभम् ॥५५॥स्नानाद्दानादवगाहाज्जलपानान्निषेवणात् ।भुक्तिः स्वर्गं च मुक्तिश्च भवेयुर्नात्र संशयः ॥५६॥आत्मज्ञानं भवेत्तत्र स्नानात्पानाज्जलस्य च ।यज्ञपुण्यं भवेच्चापि हंसतीर्थेऽन्नदानतः ॥५७॥द्वादश्यां त्वेकसाधोर्हि भोजनात्पुण्यमुत्तमम्।शतसाधुभोजनस्य पुण्यं भवेन्न संशयः ॥५८॥एकादश्यां फलदानात् स्वर्णदानसमं फलम् ।स्वर्णदानाद् राजसूयसमं चात्र भवेत् फलम् ॥५९॥शृणु त्वं राधिके त्वन्यं चमत्कारं महाप्रभोः ।रोलाख्यश्चोत्कलराजस्तीर्थार्थं सोमनाथकम् ॥६०॥समाययौ स्वसैन्येन बहुमासैः शनैः शनैः ।सोमनाथं महातीर्थं कृत्वा प्राचीसरस्वतीम् ॥६१॥मूलद्वारिकिकातीर्थं कृत्वा च वामनस्थलीम् ।भद्रावतीमहातीर्थं कृत्वा कुंकुमवापिकाम् ॥६२॥अश्वपट्टसरस्तीरं पूर्णिमायां समाययौ ।सायमागत्य विधिना कृत्वा तीर्थं जलं पापौ ॥६३॥सैन्यं तृप्तं जलपानाद् रात्रौ भोजनमाप सः ।देवाऽऽरार्त्रिकनादाँश्चाऽशृणोत् साधुकृतान् स्तवान् ॥६४॥रात्रौ विश्रान्तिमासाद्य ततो निद्रावशोऽभवत् ।सुप्तं सैन्यं चोत्थितं च प्रातस्तटाकप्राङ्तटे ॥६५॥उद्यानः फलपूष्पाणामासीत्तत्राश्वशूण्ढिनः ।उद्याद्याः पशवो राज्ञस्तृणानि चरितुं ययुः ॥६६॥उद्यानवृक्षः पशुभिर्भक्षिता नाशिता अपि ।राजा सूर्योदये भूत्वा विनिद्रोऽश्वसरो ययौ ॥६७॥स्नानं दानं विधिं कृत्वा स्वनिवेशमुपाययौ ।तावन्नित्यं प्रपूजां स यस्याः करोति भूपतिः ॥६८॥श्रीनृसिंहप्रतिमायाः सा तत्रऽदृश्यतां गता ।राजा शुशोच मनसाऽपराद्धं त्वत्र वै मया ॥६९॥नान्यथा प्रतिमालोपो भवेदेवं न संशयः ।स तु तुष्टाव नृहरिं हृदयेन विदूयता ॥७०॥कथं नाथ कृपापारावार रुष्टोऽद्य वै मयि ।न जाने त्वपराद्धं किं मयाऽत्र यद्गतो भवान् ॥७१॥मरिष्याम्यदनं त्यक्त्वा ग्रहीष्ये न जलं फलम् ।अपराद्धुर्भवेदेव प्रायश्चित्तमिदं मम ॥७२॥एवं प्रवदिते तेन व्योमवाणी ह्यजायत ।अत्र राजन् फलपुष्पोद्यानं पूर्वदिशि ध्रुवम् ।७३॥कृष्णवल्लभकृष्णस्य विद्यते परमात्मनः ।तन्नाशस्त्वत्पश्वाद्यैर्वै क्रियते पश्य मा चिरम् ॥७४॥निवारय द्रुतं ताँश्च महोद्यानं प्रकारय ।अपराद्धं त्वया त्वेतच्छृणु चान्यत्त्वया कृतम् ॥७५॥अत्र पूजा त्वया श्रीमद्बालकृष्णस्य नो कृता ।अहं यस्याऽवतारोऽस्मि स मेऽवतारकारणम् ॥७६॥तमपूज्य मम पूजा यदि स्यात् तेऽपराधनम् ।ततोऽहं विलयं प्राप्तः पूर्वं तं त्वं प्रपूजय ॥७७॥ततो मां सम्पूजयाऽत्र तेन तुष्टो भवामि ते ।मम मूर्ति स्थापयाऽत्र त्वश्वपट्टसरस्तटे ॥७८॥मन्दिरे शोभने तत्र निवत्स्ये कृष्णसन्निधौ ।उद्यानस्य प्ररक्ष्यार्थं वन्यरक्षार्थमित्यपि ॥७९॥ततोऽहं वै त्वया सार्धमागमिष्यामि नाऽन्यथा ।इत्युक्तो राधिके राजा व्योमवाणीं प्रपूज्य च ॥८०॥तूर्णं सैन्यान्तिकं गत्वा वारयामास तान् पशून् ।वीक्ष्य भग्नं समुद्यानं परं शोकं जगाम सः ॥८१॥वृत्तान्तं सैन्यपालेभ्यो विनिवेद्य ततो द्रुतम् ।आज्ञाप्योद्यानरक्षार्थं नवोद्यानाभिक्लृप्तये ॥८२॥शीघ्रं प्रासादनिर्मित्यै तथाऽऽज्ञां सम्प्रदाय च ।पूजासामग्रिकायुक्तो बालकृष्णालयं ययौ ॥८३॥रोलमायान्तमावीक्ष्य हसन् जगाद सत्पतिः ।रोल! राजन्! कदा त्वस्मिन् क्षेत्रे प्राप्तो भवान् वद ॥८४॥कश्चिन्निरामयं तेऽस्ति तव सैन्यस्य वै पुनः ।कच्चित् सुखिनः पशवो मानवा यात्रिकास्तव ॥८५॥भोजनं मद्गृहे त्वद्य गृहाण त्वं नरेश्वर ।इत्युक्तो रोलराजः सः विमुच्याऽश्रूणि चाह तम् ॥८६॥नारायण कृपासिन्धोऽपराद्धं ते मयाऽत्र वै ।उद्यानो नाशितः सैन्यपशुभिस्तत्क्षमां कुरु ॥८७॥कारयिष्यामि चोद्यानं कारयिष्यामि मन्दिरम् ।नृसिंहस्य तव मूर्तेः स्थापनं सर्वदा त्विह ॥८८॥क्षेत्रोद्यानस्य रक्षार्थं यास्यामि च स्वराष्ट्रकम् ।तव पूजां विना कृष्ण नृसिंहो मे लयं गतः ॥८९॥तमिमं मेऽपराद्धं प्रक्षमस्व पुरुषोत्तम ।इत्युक्त्वा राधिके श्रीमद्बालकृष्णं समार्चयत् ॥९०॥राजवेषाम्बरभूषागन्धमालाऽक्षतादिभिः ।दण्डवत् प्रचकाराऽथ नैवेद्यं पिण्डकान् ददौ ॥९१॥ताम्बूलकं ददौ चापि प्रसादं जगृहे हरेः ।क्षमितं चेति हरिणा प्रोक्तो निजालयं ययौ ॥९२॥तावन्नृसिंहभगवान् मूर्तिरूपो निजासने ।प्रकटीभूय नृपतेः पूजां जग्राह भावतः ॥९३॥राजाऽपि कारयामास मन्दिरं सुदृढं नवम् ।नृसिंहं स्थापयामास मन्दिरे वृत्तिकां ददौ ॥९४॥उद्यानं रोपयित्वा च नियुज्य रक्षकं ततः ।ययौ चोत्कलदेशं स राधिके कृष्णभक्तिमान् ॥९५॥एवं नृसिंहतीर्थं तत् सरोवरजलेऽभवत् ।रोलतीर्थं सुरम्यं तन्मन्दिरं नृहरेस्तथा ॥९६॥सर्वं तीर्थमयं चाऽभूद् बालकृष्णप्रतापतः ।तत्र स्नानप्रकर्तारो भुक्तिं मुक्तिं शुभां गतिम् ॥९७॥यास्यन्त्येव हि दातारो फलानां शाखिरोपिणः ।पुष्पस्तबकरोपाश्च महोद्यानविधायिनः ॥९८॥प्रयास्यन्ति हि ते सर्वे ब्रह्मधामाऽक्षरं घ्रुवम् ।वृक्षमूले जलसेकप्रकर्तारोऽपि मानवाः ॥९९॥स्वर्गं प्राप्य चिरं भुक्त्वा यास्यन्ति त्वक्षरं मम ।पठनाच्छ्रवणाच्चास्योद्यानरोपफलं भवेत् ॥१००॥अश्वपट्टसरःक्षेत्रे यत्र क्वापि क्षितौ तटे ।वृक्षवल्लीरोपिणो ये ते यास्यन्ति परां गतिम् ॥१०१॥अवंशा वंशमाप्स्यन्ति निर्धना धनिनस्तथा ।अरसा रसपूर्णाश्च भविष्यन्ति द्रुपालनात् ॥१०२॥धनधान्यसमृद्धाश्च फलमिष्टान्नभोजिनः ।भविष्यन्ति वृक्षरोपादश्वपट्टसरोन्तिके ॥१०३॥राधिके वृक्षपातारो भवन्त्येते मम प्रियाः ।वनेषु वल्लवीव्राते फले पुष्पे वसाम्यहम् ॥१०४॥वृक्षरक्षकलोकानां गृहे लक्ष्मीसमन्वितः ।वसाम्यहं न सन्देहस्तन्नाशेऽपसरामि हि ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कार्तिकैकादशीव्रतेन पुण्डरीकनृपतेर्हंसरूपहरिं प्राप्तस्य मोक्षः, अश्वपट्टसरसि हंसतीर्थम्, चोलराज्ञाऽपि नृसिंहयोगेनाऽश्वपट्टसरस्तीरे नृसिंहस्थापनं नृसिंहतीर्थं चेत्यादिनिरूपणनामा नवत्रिंशदधिकद्विशततमोऽध्यायः ॥२३९॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP