संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ३५ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ३५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३५ Translation - भाषांतर श्रीकृष्ण उवाचशृणु त्वं राधिके कृष्णनारायणस्य शोभनाम् ।चमत्कारमयीं लीलां भुक्तिमुक्तिप्रदायिनीम् ॥१॥एकदा तु नटास्तत्राऽऽययुः कैलासदेशजाः ।नैकनाट्यक्रियाविज्ञाः समाजस्तब्धताकराः ॥२॥बहुसाधनसम्पन्नाश्चैन्द्रजालिकबोधिनः ।सहस्रमानवास्तत्र पञ्चशतानि कन्यकाः ॥३॥शतं गजाः शतं चाश्वाः शतं च गवयास्तथा ।शतमुष्ट्रा गर्दभाश्च शतं केसरिणो दश ॥४॥व्याघ्राश्च विंशतिसंख्या भल्लुका दश इत्यपि ।वानराः शतमेवापि हंसाः शुकाः शतं शतम् ॥५॥श्वानस्त्रीणि शतान्येव गण्डका दश इत्यपि ।मल्लाश्च विंशतिस्तत्र संहत्य बहुविस्तरम् ॥६॥नाट्यमण्डलमूर्धन्यं ख्यातं तद् भूमिमण्डले ।अर्धनारीश्वराख्येन नटेन परिपालितम् ॥७॥शतं तु गरुडास्तत्र शतं चाऽनलपक्षिणः ।कामरूपधराः सर्वे कल्पद्रुलब्धभोजनाः ॥८॥अन्तरीक्षगतयश्च व्योमनगरदर्शकाः ।विद्युत्कलाप्रयोक्तारो बहुरूपप्रदर्शकाः ॥९॥विद्यन्ते कृतशिक्षाश्च यत्र नृपशुपक्षिणः ।सौराष्ट्रे कुंकुमवापीक्षेत्रे तन्नाट्यमण्डलम् ॥१०॥अश्वपट्टसरस्तीरे चोत्तरे समुवास ह ।कृतस्थानं जलपानं स्नानं चकार वारिषु ॥११॥पौषमासे पूर्णिमायां नाट्यं रात्रौ चकार तत् ।विशालो मण्डपस्तत्र रम्यः क्रोशमितोऽभवत् ॥१२॥लक्षशो मानवास्तत्र द्रष्टुं सौराष्ट्रवासिनः ।आययुः परितस्तत्र निषेदुर्दृष्टिहेतवे ॥१३॥अनादिश्रीकृष्णनारायणश्च लोमशो मुनिः ।माता पिता कन्यकाश्च निषेदुर्नरयोषितः ॥१४॥विद्युद्दीपा निसर्गाश्च मण्डपस्थितरश्मिषु ।चकाशिरे चन्द्रतुल्या दिवाभ्रान्तिस्तदाऽभवत् ॥१५॥तावन्निसर्गवाद्यानि त्ववाद्यन्त च मण्डपे ।स्तम्भशिरस्सु मिष्टानि ब्रह्मपर्षन्निभानि वै ॥१६॥स्तम्भकुम्भीषु च तत्र बभूवुर्गीतिकाः शुभाः ।व्योमवाणीस्वरूपिण्यो गायकैर्वादकैर्युताः ॥१७॥स्तम्भमध्येषु लोक्यन्ते कन्यानामयुतानि च ।श्रीरमाकमलागौरीतुल्यरूपाणि सर्वेशः ॥१८॥वितानेषु तदा स्वर्गं सुधर्मा चापि वीक्ष्यते ।अलका चाऽमृता स्वर्णा हिरण्या चाश्मका च पूः ॥१९॥कल्पपर्षत् विलोक्यन्ते शोभोत्तरविराजिताः ।वस्त्रभित्तिषु लोक्यन्ते सुरा दैत्याश्च दानवाः ॥२०॥ऋषयः पन्नगाश्चेशाः पितरो मानवोत्तमाः ।निसर्गदर्शनाश्चैते विलोक्यन्ते समन्ततः ॥२१॥कृत्रिमं सर्वमेवेदं त्वैन्द्रजालिकदर्शनम् ।मण्डपे संविलोक्यैव पर्षत् स्तब्धाऽभवत् क्षणम् ॥२२॥अथ गीतिः स्वस्तिवाच्य नान्दीवोधकमंगलम् ।अश्रूयत कृष्णनारायणस्तुत्यात्मकं तदा ॥२३॥जय जय जगदिष्टो जय जय जगदिष्टः ।जय जनवन्दित नन्दितवदनः कृतमदरिपुदमनः ।जय जय जगदिष्टः ॥२४॥जय पुरुषोत्तम मुक्तसुवन्दित नन्दितनिजशरणः ।जय राधाधिप जय कमलाधिप, जय माधव धवगः ॥२५॥जय जडचेतनमध्यकृताश्रय पारवतीवरणः ।जय नारायण चामृतनिवसन, ब्रह्मपरं हृदयः ॥२६॥जय माणिक्यपतेऽक्षरपालक सुरमुनिपितृधरः ।जय चात्मन् जय प्रभापते जय, कम्भराश्रीतनुजः ॥२७॥जय गोपालतनूद्भवबालक जय ब्रह्माण्डधरः ।जय शंकरचरितात्मनिवेदन, वैष्णवकष्टहरः ॥२८॥जय कन्याऽर्बुदपद्मपते प्रिय लक्ष्मीश्वर सुखदः ।जय कुंकुमवापीधृतचरण जय, चाश्वसरस्तरणः ॥२९॥जय धामाधिपतेऽधिपते जय मञ्जुलमूर्तिधरः ।जय चानन्दनिधे सगुणेश्वर, स्वस्तिकरः सुकरः ॥३०॥जय सौराष्ट्रमणे ह्यवतारिन् हंसग जनलीलः ।जय सर्जक रक्षक हारक जय, जडचेतनतनुगः ॥३१॥इत्यश्रूयन्त मांगल्यवाचस्तत्र ततः परम् ।प्रस्तावकृत् कृष्णवेषो रङ्गमध्ये ह्युपस्थितः ॥३२॥नेमुः पारिषदा मां च प्रणमन्तं सभेश्वरम् ।अवोचं च तदा चाहं नाट्यमाद्यन्तगर्भितम् ॥३३॥परब्रह्म जगद्योनिर्जगदादिरजः प्रभुः ।परावराणां परमः सर्वलोकगुरोर्गुरुः ॥३४॥कृपया लोकश्रेयोऽर्थं कम्भरागर्भगो ह्ययम् ।प्रभुः प्रभूणां परमश्चावतीर्णोऽस्ति भूतले ॥३५॥सोऽयमायाति बालात्मा पश्यन्तु तं परेश्वरम् ।इत्युक्त्वाऽहं च तिष्ठामि राधे! बालं प्रदर्शयन् ॥३६॥तावद्बालः कृष्णवेषस्तत्र रङ्गे समाययौ ।ददर्श च समाजस्तं कोटिकोट्यर्कसन्निभम् ॥३७॥अथाऽस्य वर्ष्मणः कोटिकृष्णरामनरायणाः ।निर्ययुर्वासुदेवाद्या व्यूहाश्चापि तथाऽर्बुदाः ॥३८॥भूमानश्च महाविष्णुवैराजवेधसोऽपि च ।सदाशिवोऽवताराश्च निर्ययुर्बालदेहतः ॥३९॥पितरः ऋषयो देवास्तत्त्वानि मानवास्तथा ।नागा दैत्या दानवाश्च वृक्षाः शैलास्तथाऽऽपगाः ॥४०॥निर्ययुर्जङ्गमा देव्यो स्थिरमानससृष्टयः ।सर्वं प्रदर्शितं बाले कृष्णे नारायणे तदा ॥४१॥समाजस्तं विलोक्यैव स्वं स्वलोकान् नरायणे ।आश्चर्यं परमापन्नो जयशब्दानुवाच ह ॥४२॥अथोपहारं कृत्वाऽहमवोचं दर्शकाँस्तदा ।सोऽयं बालः परमात्मा भवन्मध्ये विराजते ॥४३॥श्रीमद्गोपालकृष्णस्य पार्श्वे श्रीपरमेश्वरः ।इत्युक्तो हि मया यावज्जनस्तावन्नरायणः ॥४४॥पटपृष्ठे ययौ नीत्वा पारिषदनमःक्रियाम् ।अथाऽऽययुः पारवती लक्ष्मीः राधा प्रभा पुरः ॥४५॥तावत् किशोररूपोऽसौ बालकृष्णः समाययौ ।चतस्रो वन्दनं चक्रुः पत्युः पुमुत्तमस्य ताः ॥४६॥पादप्रक्षालनं चक्रुः पपुश्चरणवारि तत् ।ततस्तं पूजयामासुश्चक्रुर्नीराजनं तथा ॥४७॥राजते श्रीहरिस्तत्र स्वर्णासनेऽर्पिताञ्जलिः ।अथ ताः श्रीहरेर्मूर्तौ चतस्रोऽपि लयं ययुः ॥४८॥जनाः पुनश्च ददृशुश्चोद्भूताः श्रीहरेस्तनोः ।शतं च द्वादश चापि चोद्भूताः श्रीहरेः प्रियाः ॥४९॥तथा च ददृशुर्लोका लोमशस्याश्रमं महत् ।कन्यकाया हरेः पत्न्यः कोट्यर्बुदाब्जसंख्यकाः ॥५०॥निर्ययुः श्रीहरेर्मूर्तेऽर्नाट्यवेद्यां लुलोफिरे ।रङ्गस्थास्ताः स्वकं रूपं नाट्ये दृष्ट्वा तु विस्मिताः ॥५१॥ब्रह्मसरसो देव्यश्चाप्सरसो निर्ययुर्हरेः ।रङ्गे दृष्ट्वा पारिषदाः सतालजयघोषणाम् ॥५२॥चक्रुः प्रसन्नाः परितः परिहारस्ततोऽभवत् ।अथाऽऽययौ रङ्गपीठे श्रीमद्गोपालकृष्णकः ॥५३॥कम्भराश्रीमहालक्ष्मीसहितो बालकृष्णवान् ।दत्वा देवेभ्य आशीर्वादान् सपुत्रो गृहं ययौ ॥५४॥एवं प्रदर्श्य रङ्गेशः पटपृष्ठे ययौ पुनः ।इत्येवं राधिके सर्वमवतारित्वबोधकम् ॥५५॥चरित्रं सम्प्रदर्श्यैव तत्परिहारमाचरत् ।अथाऽन्यद् दृश्यमापेदे मण्डपे व्योममार्गके ॥५६॥रज्जुजालेषु बद्धेषु नटा दृढसुवेषिणः ।शतसंख्याश्चावतेरुः प्रतिरज्जुं विहंगमाः ॥५७॥उड्डयन्ते शतहस्तान् रश्मेः रश्म्यन्तरं प्रति ।छत्राभ्यां चापि गच्छन्ति सहस्रहस्तकाम्बरम् ॥५८॥रज्जुप्रान्तं समादाय क्षिप्तो याति शतोत्तरम् ।धनुषा शरवत् क्षिप्तः सहस्रोत्तरमाययौ ॥५९॥पद्भ्यां क्षिप्तः प्रयात्येव शतहस्तोच्छ्रयं पुनः ।निरालम्बोऽवतरति रज्जुमध्येऽवलम्बते ॥६०॥वंशाद्वंशान्तरं याति स्थलात् स्थलान्तरं च खे ।एकरश्मौ च बहूनां परस्पराभियायिनाम् ॥६१॥स्थाल्यां दत्तपदानां च मध्ये सन्निहितात्मनाम् ।अस्पृष्ट्वाऽन्योन्यमेवाऽत्र रश्मौ त्वग्रे प्रवासनम् ॥६२॥तत उड्डयनं प्रान्ते प्रान्तान्तरेऽवलम्बनम् ।मध्ये व्योम्न्यवलम्बन्तं चूम्बयित्वा जनान्तरम् ॥६३॥अथ रज्जुनिषदनोड्डयनं सर्वतो दिशम् ।अनालम्बं करेणापि पद्भ्यां वाऽन्येन चर्मणा ॥६४॥एवमुडुयनं नाट्ये दर्शयित्वा ततश्च ते ।चक्रुश्च गोपुरं रम्यं पञ्चाशन्नाट्यशिक्षिताः ॥६५॥द्वितीयं गोपुरं चक्रुः शतं चैकोर्ध्वगं ततः ।तृतीयं गोपुरं चक्रुस्त्रिशतं द्वितीयोपरि ॥६६॥पञ्चाशत्पुरुषा मध्ये स्तंभदृश्यास्ततदाऽभवन् ।इत्येवं च सुधर्माया गोपुरं रमणीयकम् ॥६७॥कम्मानिकात्रययुतं पञ्चाशन्मानवा व्यधुः ।तत्र पार्श्वे स्थिताः कन्याः पुत्तल्य इव सर्वशः ॥६८॥दिव्यरूपधराः सर्वाः पर्यो देव्यः सुशोभनाः ।हस्तचामरशोभाश्च सप्तकलशमस्तकाः ॥६९॥शोभन्ते गोपुरे तत्र सर्वसिद्धिपरायणाः ।इत्येवं गोपुरं राधे कारयित्वा नटेश्वरः ॥७०॥साऽम्बालिकं गजसैन्यं न्यवेशयत्तदन्तरम् ।गतं पुनर्निर्गतं च यदा प्रत्येकतोगजम् ॥७१॥गजं गजं प्रति तत्र गोपुरमानवस्त्रियः ।ऊर्ध्वमुत्प्लुत्य च शनैरवतेरुर्गजे गजे ॥७२॥गजसैन्यं सान्तमेव गोपुरा अपि सन्ति न ।एवं दृष्ट्वा महायत्नं महाकौशल्यमेव च ॥७३॥जयकारोऽभवन्नटेश्वरनटनटीकृते ।नैतादृशं पुरा दृष्टं गोपुरं द्रक्ष्यते न वा ॥७४॥कुंभकं तु विनाऽऽयामं कैश्चित् कर्तुं न शक्यते ।विहायसगतीनां तु सरला गोपुरकृतिः ॥७५॥अथ हस्त्युष्ट्रकाश्वानां प्रासादास्तत्र निर्मिताः ।साप्तभौमा यत्र नरा नार्यो दोलासु सर्वतः ॥७६॥आन्दोलनं प्रकुर्वन्ति स्थिरप्रासादभूमिषु ।मध्ये सोपानमार्गाश्च गवयाऽजवृषादिजाः ॥७७॥भूमिकाश्चानलपक्षिगारुडपक्षिकल्पिताः ।छत्रं पन्नगवर्याणां रश्मयः पन्नगाश्च वै ॥७८॥शुका हंसाः कूजनं च कुर्वन्ति रज्जुसंस्थिताः ।उद्यानानि च परितस्तदेन्द्रजालकारिताः ॥७९॥अरण्ये वह्निजालानि वृष्टिजालानि चाम्बरे ।वायुवेगास्तथा सौधे सूर्यचन्द्रौ च कृत्रिमौ ॥८०॥सौधेषु वानरास्तत्रोद्यानफलानि भुञ्जते ।एवं प्रदर्श्य प्रासादान् परिहारं तदाऽकरोत् ॥८१॥अथ मल्लाः समायाता मल्लयुद्धार्थमुत्सुकाः ।विविधं मल्लयुद्धं ते नरा नार्यस्तदा व्यधुः ॥८२॥परिहारं तस्य कृत्वा तदा हास्यकरं परम् ।सुसैन्यं वानराणां वै भल्लुकानां महत्तरम् ॥८३॥मानुषवेषयुक्तानां भटानां शस्त्रधारिणाम् ।सिंहगर्दभगण्डकव्याघ्रवाहनयायिनाम् ॥८४॥आगतं रङ्गमध्ये तद् यत्र श्वानः शृगालकाः ।युद्धवादित्रसंवादा महिषारोहिणस्तदा ॥८५॥सेनापतिश्च शरभस्तत्सैन्यं च परस्परम् ।द्वेधा भूत्वा पटपृष्ठे समारेभे महारणम् ॥८६॥युद्धे हतास्तदा तत्र प्रायशः ऋक्षवानराः ।भल्लुका गर्दभाः श्वानः शृगालाः सिंहनाशिताः ॥८७॥ऐन्द्रजालिकमेवाऽऽसीत् हतं यद्यत् तदाऽभवत् ।सत्यास्तु वानराः ऋक्षा भल्लुकाद्या हता न वै ॥८८॥अथ तस्य परिहारं चक्रे नटेश्वरस्ततः ।व्योमयुद्धं कुमारीणामभूत्तदिन्द्रजालकृत् ॥८९॥हता भिन्नाः पतन्त्येव व्योम्नः कुमारिका भुवि ।सर्वं कुमारिकासैन्यं हतं सुप्तं भुवस्तले ॥९०॥तदा नारीश्वरः सेनापतिः रुरोद वै बहु ।अहो मे कन्यका नष्टाः सर्वं सैन्यं हतं मम ॥९१॥तदा बालः स्वयं कृष्णो जीवयामास कन्यकाः ।रुद्रच्छाया स्वरूपास्ताः कन्या रौद्र्यः सहस्रशः ॥९२॥नवीना एव भगवान्निर्ममे ऐन्द्रजालिकाः ।नारीश्वरो महाश्चर्यं प्राप्तो गर्वं विमुच्य च ॥१३॥पपात पादयोस्तत्र बालकृष्णस्य वै तदा ।परिहारं चकाराऽथ दृश्यस्याऽस्य नटाधिपः ॥९४॥ऐन्द्रजालिककन्यास्ताः सहस्रं रुद्रसन्निभाः ।मुमुहुः श्रीहरौ तत्र वव्रुश्च वरदानकम् ॥९५॥त्वं नाथाऽस्मत्पतिः प्राणरक्षको भव सर्वदा ।हरिः प्राह तथाऽस्त्वेव लोमशाय न्यवेदयत् ॥९६॥लोमशस्याऽऽश्रमे ताश्च ररक्ष भगवान् स्वयम् ।अथ सिंहा रङ्गभूमौ समानीतास्तु पंक्तिशः ॥९७॥तस्य शिक्षकवर्येण मुखव्यापादानं तदा ।कारितं तन्मुखमध्ये नरा नाट्यकरास्तदा ॥९८॥ददुः शिरांसि नैजानि तदाश्चर्यं महद्ध्यभूत् ।अथ तत्परिहारं च कृत्वा नारीश्वरः स्वयम् ॥९९॥कारयित्वा केसरिणो मुखव्यापादनं तदा ।स्वस्यैव मस्तकं मुखे ददावाश्चर्यकृद् यथा ॥१००॥अथ तस्य महागर्वं ज्ञात्वा कृष्णनरायणः ।गर्वविनाशनार्थाय मतिं केसरिणे ददौ ॥१०१॥अयं मे रक्षकस्त्वास्ते पीडां नित्यं करोति हि ।तस्माद्य शिरस्तस्य भक्षयामि प्रसह्य वै ॥१०२॥इति निर्णीय च रुषा मुखे धृतं तु मस्तकम् ।अचूर्णयत् बलान्मुखं दृढं पिधाय केसरी ॥१०३॥हाहाकारो महानासीद् दृश्यन्ति शोकसागरः ।रुरुदुश्च नटा नट्यः शतशोऽथ सहस्रशः ॥१०४॥यद्यपि च स्वयं रुद्रस्त्वर्धनारीश्वरः प्रभुः ।नटेश्वरो ददौ स्वस्य शिरः कालमुखे तदा ॥१०५॥निर्भयोऽभूत् सिद्धिमाँश्च तथापि परवश्यता ।देवैर्ज्ञाता स्वयं तत्र चाथ कृष्णनरायणः ॥१०६॥बालकः स्वासनाच्छीघ्रमुत्थाय हरसन्निधौ ।जगाम तु सती शंभुमंके निधाय शोचति ॥१०७॥सतीमाह प्रदेह्येतन्मस्तकं कूर्चितं तु यत् ।हस्तस्पर्शेन वै स्वस्थं यथापूर्वं करोमि वै ॥१०८॥इत्युक्त्वा वामहस्तेन पस्पर्श श्रीनरायणः ।राधिके सत्वरं शंभोः शिरः पूर्ववदाभवत् ॥१०९॥शंभुरुत्थाय च कृष्णनारायणं परेश्वरम् ।प्रणनाम प्रसन्नः सन् गर्वं जहौ हरः स्वयम् ॥११०॥अथ बालो हरं प्राह दर्शनं देहि वै हर ।अर्धनारीश्वरो भूत्वा पारिषदेभ्य एव तु ॥१११॥शंभुस्तदाऽभवत् तत्र चार्धनारीश्वरः स्वयम् ।अर्धं नारीस्वरूपं चाऽऽनखकेशं सुशोभनम् ॥११२॥केशा जटाः श्मश्र्वश्मश्रूः स्तनाऽस्तनं तदाऽभवत् ।योनिलिंगं वृषणैकं लोमालोमं तदाऽभवत् ॥११३॥शाटीचर्म भूषणाऽभूषणं रूपं तदाऽभवत् ।रङ्गे तं तादृशं दृष्ट्वा तदन्तः श्रीहरिं तथा ॥११४॥दृष्ट्वा समाजः सहसा तुतोषाऽतीव तत्क्षणे ।नटेश्वरः स्वयं शंभुर्नटास्तस्य गणा इमे ॥११५॥पश्वाद्यास्तस्य भक्ताश्च हरिं तोषयितुं ननु ।आयाता नाटयविधये तुष्टो हरिः स्वयं ततः ॥११६॥ददौ वासं चाश्वपट्टसरस्येवोत्तरे तटे ।दिव्यदेहान् प्रचक्रे तान् सर्वान् नटान् नटीः प्रभुः ॥११७॥पारितोषिकमिष्टं च परधामगतिं ददौ ।तीर्थं तन्नटनाट्याख्यं सर्वोद्धारकरं परम् ॥११८॥पापिनां तारकं स्वर्गप्रदं श्रेष्ठं बभूव ह ।श्रवणात्पठनाच्चापि भुक्तिर्मुक्तिः प्रजायते ॥११९॥परिहारं ततः कृत्वा हरिः स्वस्याऽऽलयं ययौ ।सौराष्ट्रमानवा देवाः ऋषयः पितरस्तथा ॥१२०॥अन्ये च दर्शकाः सर्वे ययुः स्वस्वालयान् मुदा ।इत्येवं राधिके! कृत्वा नाट्यं श्रीशंकरः स्वयम् ॥१२१॥निवासमकरोत्तत्र गणैः पशुपतत्त्रिभिः ।प्राणिभिः सर्वथा चाश्वसरसश्चोत्तरे वने ॥१२२॥वटबिल्वकदम्बानामरण्ये वासमाचरत् ।यावत् पृथ्वी स्थिरा स्याच्च तावत् तत्र निवत्स्यति ॥१२३॥कृष्णवेषस्त्वया साकं राधिकेऽदृश्यतां गतः ।कृत्रिमो नाट्यसौधश्च तदानीं विलयं गतः ॥१२४॥अनादिश्रीकृष्णनारायणः श्रीशंकराय वै ।जगादाऽनुग्रहं कुर्वन् नाट्ये ये देहिनोऽत्र च ॥१२५॥भवान् गणा नरा नार्यः कन्यकाः पशुपक्षिणः ।सर्वे भवन्तु च द्वेधा कृपया मम सर्वथा ॥१२६॥दिव्यरूपा मम मुक्ता मम धाम्न्यक्षराभिधे ।दिव्ययानैः प्रयान्त्येव चतुर्धामुक्तिमास्थिताः ॥१२७॥एतद् ददामि कृपया पारितोषिकमुत्तमम् ।अन्यरूपैर्वसन्त्वत्र वटबिल्ववने सदा ॥१२८॥इत्येवं श्रीहरिः प्राह न्यूषुर्हरादयः सदा ।वसति श्रीहरिः सौधे शंभोः सौधं च निर्ममे ॥१२९॥इत्येवं शंकरो देवः कृष्णनारायणं हरिम् ।तोषयितुं कृतवांश्च दिव्यं नाट्योत्सवं परम् ॥१३०॥भगवानपि सर्वात्मा शंभुं तोषयितुं तदा ।भूत्वा तु दर्शकस्तत्र नाट्यभूमौ स्थितोऽभवत् ॥१३१॥पूरयामास भक्तस्य शंभोर्मनोरथं हरिः ।भक्ताधीनो यतः कृष्णनारायणोऽस्ति राधिके ॥१३२॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कैलासीयाऽर्धनारीश्वरनाट्यमण्डलेन कुंकुमवाप्यां क्षेत्रे कृताऽलौकिकानेकनाट्यैः प्रभुः सन्तुष्टः सन् शंकरगर्वगञ्जनो मोक्षदश्चाऽभवत्, नटनाट्यतीर्थं चेत्यादिनिरूपणनामा पञ्चत्रिंशोऽध्यायः ॥३५॥ N/A References : N/A Last Updated : April 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP