संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ४९

त्रेतायुगसन्तानः - अध्यायः ४९

लक्ष्मीनारायणसंहिता


श्रीराधिकोवाच-
कथं कान्त! सुषुम्णाद्याः कृष्णनारायणेन वै ।
लोमशस्याऽऽश्रमे स्थातुं नाज्ञप्ताः स्वीकृता अपि ॥१॥
श्रीकृष्ण उवाच-
द्वासप्ततिसहस्राणि कन्याश्चान्यास्तु वेधसः ।
ता मानस्यः समिच्छन्ति कृष्णं कान्तं परेश्वरम् ॥२॥
सत्यलोके वसन्ति स्म प्रतीक्षन्ते स्म भावतः ।
तिस्रोऽग्रजाः समेष्यन्ति दृष्ट्वा कृष्णनरायणम् ॥३॥
वयं ताभिः समं तत्र गमिष्यामो विलोकितुम् ।
कृष्णनारायणं सेविष्यामहेऽनादिमाधवम् ॥४॥
इतिप्रतीक्षमाणानामानयनार्थमेव ताः ।
न निरुद्धा इदानीं वै स्थातुं श्रीलोमशाश्रमे ॥५॥
ब्रह्मणा प्रेषिताः कृष्णो रक्षयिष्यति ताः पुनः ।
अथ ताः स्वविमानेन पश्चिमां दक्षिणां दिशम् ॥६॥
समुद्रं च तथा द्वीपानब्रिक्तान् सुप्रदेशकान् ।
पश्यन्त्यो व्योममार्गेण प्रदक्षिणेच्छयोत्तरम् ॥७॥
यान्त्यः प्रददृशुर्देशं चाब्रिक्तं सुमहत्तरम् ।
पुनः पुनः परावृत्य व्योम्ना यानेन निर्भयाः ॥८॥
आरबीजं महाद्वीपं रणं दृष्ट्वा ततोऽग्रतः ।
रक्तं च वारिधिं दृष्ट्वा भूमौ नारायणीं नदीम् ॥९॥
वीक्ष्य दक्षिणभागे च रुद्रबाष्पं सरोवरम् ।
तथा विज्ञतुरीयाख्यं दृष्ट्वा श्रेष्ठं सरोवरम् ॥१०॥
तुङ्गानीकसरश्चापि तथा न्याससरोऽपि च ।
दृष्ट्वा लिंगरसाद्रिं च द्राक्षाबीजं च पर्वतम् ॥११॥
कालहरिं रणं दृष्ट्वा उमाशंभुगिरिं तथा ।
कर्माङ्गीं च नदीं दृष्ट्वा कर्मघ्नं पर्वतं तथा ॥१२॥
चण्डसरस्ततो दृष्ट्वा वीक्ष्य नष्टजरां नदीम् ।
सहरिहरसंज्ञं च रणं विलोक्य वै ततः ॥१३॥
अतलेष्टं पर्वतं च तन्मुखं पर्वतं तथा ।
त्रिराशिपर्वतं दृष्ट्वा लीलाबीजरणं तथा ॥१४॥
श्रीरमाया रणं दृष्ट्वा तुरुराज्यं विलोक्य च ।
कश्यपायनवार्धि च दृष्ट्वा चोरलपर्वतम् ॥१५॥
पश्चिमे च कुकेशाद्रिं नीलाब्धिं प्रविलोक्य च ।
नीपरां च नदीं कार्पन्थायनं चापि पर्वतम् ॥१६॥
दीनयूपां नदीं दृष्ट्वा दृष्ट्वा च ऐलपर्वतम् ।
ईपीनासनशैलं च शारदीद्वीपमित्यपि ॥१७॥
मध्यवाधिं विलोक्यैव पितृनिजं च पर्वतम् ।
तेगिरां च नदीं वीक्ष्य देशान् समुद्रमध्यगान् ॥१८॥
लुक्वारां च नदीं सेनानदीं वीक्ष्य च खाडिकाम् ।
जरामौनप्रदेशं च बालयमप्रदेशकम् ॥१९॥
ईङ्गद्वीपं तथा चायद्वीपं विलोक्य खाडिकाम् ।
कोटद्वीपं स्वेदद्वीपं फेनद्वीपं ततः परम् ॥२०॥
पिष्टवर्गान् विलोक्याऽथ गिरीनपृथिवीं तथा ।
आलीशामृतपृथिवीं दिवोनद्वीपकादिकान् ॥२१॥
विलोक्य खाडिकाद्वीपान् विक्तुरीयभुवं ययुः ।
खाडीमुत्तीर्य च ततो विविशुश्चोत्तरान् कुरून् ॥२२॥
तेषु महाबृहत्सरो महत्सुल्वभिधं सरः ।
अयाबाष्कं सरो दृष्ट्वा विनिपागच्छकं सरः ॥२३॥
हट्टासनं समुद्रं च द्विफेनद्वीपमित्यपि ।
लम्बोदरादिपृथिवीं सूपर्युपरिकं सरः ॥२४॥
सन्तलुयीप्रदेश च अतलान्तप्रदेशकम् ।
माक्षिकाऽखातमुल्लंघ्य क्युबाद्वीपं विलोक्य च ॥२५॥
वर्गिद्वीपान् विलोक्याऽथ ग्रीयानामप्यलोकयन् ।
आमार्जुनां नदीं वीक्ष्य शान्तारामप्रदेशकम् ॥२६॥
ब्राह्मीलां पृथिवीं वीक्ष्य समैक्षन्त परैनसाम् ।
आर्जयन्तीप्रदेशाँश्च कोकद्वीपौ व्यलोकयन् ॥२७॥
ग्राहामं चारकोटं च वीक्ष्य चान्तार्किवर्तुलम् ।
जलप्रस्तरदेशाँश्च वीक्ष्य भूगुह्यबिन्दुकम् ॥२८॥
परावृत्य तिरोदेवं पट्टोगानां व्यलोकयन् ।
चील्लिकां पेरुकां पृथ्वीं पन्नाम्नीं निर्झरां तथा ॥२९॥
माक्षिकं भूतलं वीक्ष्य निम्नफोर्नां विलोक्य च ।
क्वीटनाद्रिं रोकिशैलम् इलासनं च पर्वतम् ॥३०॥
रङ्गिलं पर्वतं वीक्ष्य अलांशुकां च भूमिकाम् ।
द्विरिङ्गं चाब्धिमुत्तीर्याऽलोकयन् कामचाटकम् ॥३१॥
कालिमां सरितं यामां बीनां तन्द्राप्रदेशकान् ।
यानेशीं च नदीम् ओबीं नदीं वीक्ष्य ततः परम् ॥३२॥
उरलं पर्वतं वीक्ष्य नावद्वीपं विलोक्य च ।
फियोजानासनद्वीपान् स्फीतवर्गान् विलोक्य च ॥३३॥
स्कन्दनाभमहाशैलं श्वेतवार्धिं विलोक्य च ।
देवीनां सरितं वल्गां नदीं वल्गाख्यपर्वतान् ॥३४॥
उरलं च सरो दृष्ट्वा बालकृष्णसरस्तथा ।
श्वेतरक्तप्रदेशांश्च दृष्ट्वा सावरियारणम् ॥३५॥
दृष्ट्वा किम्पुरुषं देशं द्विकलं च सरोवरम् ।
वीक्ष्य प्रभालुनाद्रिं च स्तेनावासं च भूभृतम्॥३६॥
अक्षोढावार्धिमालोक्य जलपानादिभूमिकाः ।
पिशङ्गवार्धिमालोक्य अक्षिगं पर्वतं तथा ॥३७॥
गोपीरणं विलोक्याऽथ आपतायिकपर्वतम् ।
त्रियानासनशैलं च कुनलीनं च पर्वतम् ॥३८॥
कारुकोरं पर्वतं च चिपिंगदेशमुज्ज्वलम् ।
अंगशिक्षांगसरितं वीक्ष्य शिक्षांगिकां नदीम् ॥३९॥
फुल्लिपानद्वीपान् दृष्ट्वा द्वीपाँश्च वारणीयकान् ।
वीक्ष्य द्वीपं नवगीतिं वीक्ष्य द्वीपान् समुद्रजान् ॥४०॥
उष्णालयाऽभिधां पृथ्वीं व्यलोकयन् विहायसा ।
चाटदेशं दिवादिक्पर्वतान् वीक्ष्य ततश्च ताः ॥४१॥
ओकद्वीपं नवजीवद्वीपं वीक्ष्य समुद्रगौ ।
वीक्ष्य द्वीपं त्रासमानम् उष्ट्रालये मुरानदीम् ॥४२॥
तुरुनदीम् ऐतनदीं मेकदानेयपर्वतम् ।
मशकग्रीवशैलं च महारणं वनं तथा ॥४३॥.
पञ्चसरांसि च दृष्ट्वा दारालिङ्गं च पर्वतम् ।
बालाद्रिं हेमशालाऽद्रिम् आर्नहेमप्रदेशकान् ॥४४॥
दृष्ट्वा यावान् सुमात्राँश्च मलायां पृथिवीं ततः ।
अन्नदामद्वीपान् श्यामदेशान् मिकांगनां नदीम् ॥४५॥
ईरावतीं नदीं चाराकर्णाद्रिं ब्रह्मदेशकान् ।
सुन्दराख्यवनं दृष्ट्वा हुतलीनां महानदीम् ॥४६॥
गंगां च ब्रह्मपुत्रां च खासीनापर्वतांस्तथा ।
पतत्कार्यमहाशैलं हिमालयप्रदेशकान् ॥४७॥
दृष्ट्वा मानसरश्चापि श्रीदेशं च त्रिवर्तनम् ।
सिन्धुम् इन्दुकुशं दृष्ट्वा दृष्ट्वा कृपालुपर्वतम् ॥४८॥
थररणं च कच्छं च दृष्ट्वा साभरकं सरः ।
आरवल्लीभूभृतं च दृष्ट्वा महीं च नर्मदाम् ॥४९॥
सप्तपुटाख्यशैलं च तपतीं च महानदीम् ।
महाबलेश्वरं दृष्ट्वा तथा च मलयं गिरिम् ॥५०॥
सह्याद्रिं संविलोक्यैव दक्षिणाँश्च प्रदेशकान् ।
समुद्रस्थं सिंहलाख्यं द्वीपं वीक्ष्य परावृताः ॥५१॥
कावेरीं सरितं कृष्णां गोदावरीं महानदीम् ।
जगन्नाथपुरं क्षेत्रं कपिलाश्रममित्यपि ॥५२॥
वंगं चांगं विहारं च भूतानं निपलं तथा ।
गण्डकीं च कुरुक्षेत्रं गङ्गाद्वारं विलोक्य ताः ॥५३॥
राधिके! बदरीं गत्वा न्यूषुस्तत्र निशां सुखम् ।
नारायणपरासेवां कृत्वा सम्पूज्य तं प्रभुम् ॥५४॥
गौरीशृंगं शिवशृंगं विलोक्य स्वर्धुनीं तथा ।
व्योमगङ्गानुमार्गेण स्वर्लोकात् सत्यलोककम् ॥५५॥
ययुः श्रीब्रह्मणः पार्श्वे महानन्दपरिप्लुताः ।
ववन्दुः पितरं चेडा सुषुम्णा पिंगला तथा ॥५६॥
महाहर्षप्लुतास्तीर्थविधिं प्राहुर्यथाकृतम् ।
अनादिश्रीकृष्णनारायणस्य चरणामृतम् ॥५७॥
पुष्पहारान् ददुश्चापि मन्त्रं जगुः पुनः पुनः ।
नारदस्योपकारं च समूचुश्च परस्परम् ॥५८॥
आगताः कन्यकाश्चापि तिस्रः श्रुत्वाऽन्यकन्यकाः ।
द्वासप्ततिसहस्राणि वृत्तान्तं वेदितुं तथा ॥५९॥
स्वागतार्थं चाययुश्च ब्रह्मणः सन्निधौ तदा ।
यशस्विनी हस्तिजिह्वा पूषा विश्वोदरा कुहूः ॥६०॥
अलम्बुषा च गान्धारी शंखिनी च पयस्विनी ।
सरस्वती वारुणी च तेजस्विनी च रक्तिनी ॥६१॥
पुरीतत् वीर्यवाहा च प्राणवाहा तथाऽऽर्द्रिका ।
इत्याद्याश्च द्वासप्ततिसहस्राणि ह्युपस्थिताः ॥६२॥
कन्यकाः षोडशवर्षन्यूना दिव्याः कुमारिकाः ।
स्वागतं स्नेहतश्चक्रुस्तिसृणां वै मुहुर्मुहुः ॥६३॥
अनादिश्रीकृष्णनारायणपादजलं पपुः ।
प्रसादमालापुष्पाणि जगृहुश्चादरान्विताः ॥६४॥
शुश्रुवुः श्रीहरेर्वार्तां रूपसौन्दर्यमाश्रिताम् ।
चमत्कारमयीं सर्वां तथा वै पत्तनस्य च ॥६५॥
लोमशस्याश्रमस्यापि बालकृष्णालयस्य च ।
कोट्यर्बुदानां कन्यानां सेवाभावं च शुश्रुवुः ॥६६॥
यशस्विन्यादिका नाडीसरसो ब्रह्मणः सुताः ।
ददृशुस्तिसृस्वसॄणां रूपं सौभाग्यमुत्तमम् ॥६७॥
दिव्यतां कृष्णकान्तेन दत्तां तथा च लौकिकीम् ।
चिन्तयामासुरत्यर्थं कृष्णसौभाग्यमुत्तमम् ॥६८॥
अमन्यन्त निजाऽभाग्यं दर्शनं न व्यजायत ।
दर्शनार्थं गता नैव कुतो वै दर्शनं भवेत् ॥६९॥
पित्राज्ञया ह्यवश्यं वै गन्तव्यं द्रष्टुमच्युतम् ।
अनादिश्रीकृष्णनारायणं कान्तं परेश्वरम् ॥७०॥
इत्येवं चिन्तयामासुः पितरं प्राहुरुत्सुकाः ।
पितश्चास्मान् दर्शनं त्वं कारयाऽऽभिर्यथा कृतम् ॥७१॥
वरिष्यामस्तमेवेशेश्वरेश्वरं पुमुत्तमम् ।
इत्युक्तं ब्रह्मणे ताभिर्ब्रह्मा तुतोष मानसे ॥७२॥
कोऽन्यो लाभः परश्चास्माद् यज्जामाता हरिर्भवेत् ।
धन्यास्ताः कन्यका लोके कौमार्यं सफलं तथा ॥७३॥
पिता धन्यो जननी च धन्या धन्यं कुटुम्बकम् ।
धन्यो भृगुः समुद्रश्च केदारश्चानरण्यकः ॥७४॥
सूर्यो नारायणो नान्यो यत्पुत्र्यः कृष्णयोषितः ।
धन्या लोके भविष्यन्ति ते जना यत्सुताः शुभाः ॥७५॥
कृष्णपत्न्यो भविष्यन्ति राधालक्ष्मीप्रभादिवत् ।
भक्त्या ज्ञानेन तपसा वैराग्येण मखादिभिः ॥७६॥
यः प्राप्तव्यश्च कृच्छ्रैर्वा योगैर्दानादिभिस्तथा ।
सेवया वा सतां चेत् स स्नेहेन यदि लभ्यते ॥७७॥
मोहेन यौवनेनापि वासनयेच्छयाऽथ वा ।
रूपेणेन्द्रियवेगेन मिलेच्चेत्पुरुषोत्तमः ॥७८॥
स मोहो यौवनं चेच्छा वासना रूपमिन्द्रियम् ।
सर्वं धर्मात्मकं बोध्यं कामः क्रोधोऽपि तन्मयः ॥७९॥
कृष्णे कामस्तथा लोभो मोहो मोक्षकरः सदा ।
मोक्षस्तु शाश्वतानन्दः स च कृष्णनरायणे ॥८०॥
गर्ह्यं स्तुत्यं च वा किञ्चित् कृतं चेत् कृष्णतुष्टये ।
सर्वं वन्द्यं हि तद् बोध्यं पावनं तारकं हि तत् ॥८१॥
अहो पुत्र्यः सदा धन्यो भाग्यवान् वै भवाम्यहम् ।
यत् कृष्णाय प्रदास्यामि दानं पात्राय शार्ङ्गिणे ॥८२॥
कृष्णेच्छा कीदृशी चास्ते ज्ञात्वा दास्ये शुभं भवेत् ।
इत्युक्त्वा च स्वयं ब्रह्मा सस्मार नारदं मुनिम् ॥८३॥
उपतस्थौ क्षणात्तत्र प्रणम्य चासने स्थितः ।
ब्रह्मा प्राह भगिन्यस्ते तिस्रो यत्र नरायणम् ॥८४॥
सुषुम्णाद्याः पूजयित्वा पुनरत्र समागताः ।
तत्रैताश्चपराः कन्या द्रष्टुं गन्तुं समुत्सुकाः ॥८५॥
विद्यन्तेऽतस्त्वया तत्र नेतव्या वै विमानकैः ।
समायातेऽवसरेऽहं दास्ये कृष्णाय कन्यकाः ॥८६॥
द्वासप्ततिसहस्राणि द्रष्टुमिच्छन्ति केशवम् ।
यशस्विन्यादिकाः सर्वा नाडिकासरसः शुभाः ॥८७॥
दशभौमं सहस्रैकशिखरं कामचारि च ।
गृहाणैतन्महायानं योजनायतवर्तुलम् ॥८८॥
कामवल्लीः कामवृक्षान् चिन्तामणीन् धनप्रदान् ।
अमृतमिष्टभोज्यादिप्रदानत्र निवेशय ॥८९॥
शस्त्रशालाः सैन्यशाला भोज्यशालास्तथाऽत्र वै ।
मन्त्रशालाश्चौषधादिसमूहाः सन्ति चात्र वै ॥९०॥
रसशाला वस्त्रशाला रक्षाशालास्तथाऽत्र च ।
सिद्धयः शक्तयो दास्यः किंकर्यः सन्ति लक्षशः ॥९१॥
अस्त्राणि चाप्यनेकानि वेदाश्चत्वार इत्यमी ।
मरणादिप्रयोगाश्च समूर्ताः सन्ति चात्र वै ॥९२॥
इन्द्रजालविनाशार्थं मायानाशार्थमित्यपि ।
दैत्यदानवनाशार्थं सन्त्यत्र मन्त्रमूर्तयः ॥९३॥
अन्ततोऽहं स्वयं ब्रह्मा शंकरोऽपि नरायणः ।
मूर्त्यात्मका यथा साक्षान्निवसामोऽत्र चेतनाः ॥९४॥
अच्छेद्यं चाप्यभेद्यं चाऽविलेप्यं चाऽप्यनाश्यकम् ।
अदाह्यं शाश्वतं चैतद्विमानं त्वं गृहाण च ॥९५॥
सुषुम्णेडापिंगलाभिः सहिताभिः स्वयम् ऋषे ।
द्वासप्ततिसहस्राभिः कन्याभिः सह पुत्रक ॥९६॥
अनादिश्रीकृष्णनारायणं भूस्थं प्रयाहि वै ।
उपदा विविधा नीत्वा कन्येष्टान् दिव्यवैभवान् ॥९७॥
शृंगारहारभूषाद्यानुपकारकरान् शुभान् ।
नयस्व सह यानेऽत्र सुखं चार्पय शार्ङ्गिणे ॥९८॥
इत्युक्तो नारदस्तत्र सनत्कुमारमार्थयत् ।
साधुरूपं ब्रह्मरूपं रक्षकं ब्रह्मवर्चसम् ॥९९॥
तथा रुद्रं धर्मराजं चार्थयद् रक्षणाय वै ।
ब्रह्मा सनत्कुमारं च रुद्रं धर्मं ददौ तदा ॥१००॥
दिव्यवस्तुभृतं यानं चारुरुहुश्च कन्यकाः ।
सर्वशृंगारशोभाढ्या जयशब्दान् प्रचक्रिरे ॥१०१॥
मङ्गलान्यभवँस्तत्र यात्रारम्भे पुनः पुनः ।
सावित्री चाह्वयामास गमने पृष्ठतस्तदा ॥१०२॥
यात पुत्र्यः! सावधानाः पाथेयानि स्रजस्तदा ।
गृह्णतेति ददौ ताभ्यश्चैतन्मंगलमुत्तमम् ॥१०३॥
देवशिवा तदा वामे सुस्वरेणाऽऽवहज्जयम् ।
देवहारीतमेवापि पराङ्मुखं पुरोऽभवत् ॥१०४॥
यानस्य गमने वीणा नारदस्याऽपतत् करात् ।
अमङ्गलं तु तज्जातं द्वेधा भिन्नाऽभवद्धि सा ॥१०५॥
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
इत्येवं नारदः प्राहाऽमंगलस्य प्रशान्तये ॥१०६॥
विमानं सत्यलोकात् तत् लोकालोकाचलं ह्यनु ।
अवातरत् पश्चिमायां दिशि भुवं प्रति क्षणात् ॥१०७॥
काञ्चन्यां भूमिकायां च क्षणं विश्रान्तिमाप्य च ।
पूर्वाभिमुखमाबद्ध्य दिग्भागं व्योममार्गतः ॥१०८॥
शनैः शनै समायाति कन्याः पश्यन्ति भूस्तरान् ।
अब्धिन् देशान् विचित्रांश्च मोदन्तेऽन्योन्यमित्यपि ॥१०९॥
इत्येवं राधिके! यानं चाब्रिक्तोपरि चागतम् ।
पश्यन्ति सूर्यतुल्यं तद् राक्षसाः क्रूरमानसाः ॥११०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सुषुम्णादिका विमानेन पृथ्वीखण्डान् विलोक्य सत्यलोकं ययुः, पुनर्द्वासप्ततिसहस्रकन्यका विमानेन व्योम्ना श्रीहर्यर्थं प्रस्थिताश्चेत्यादिनिरूपणनामा नवाधिकचत्वारिंशोऽध्यायः ॥४९॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP