संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ८७ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ८७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८७ Translation - भाषांतर श्रीकृष्ण उवाच -शृणु त्वं राधिके भक्ता हरेर्गृह्णन्ति सद्गुणान् ।दुष्टा गुणेषु दोषाँश्चारोप्य गृह्णन्ति दुर्गुणान् ॥१॥विश्रवसस्तु पुत्रस्य खरस्य राक्षसस्य वै ।खचर्यामभवत् पुत्रो ह्यधर्मजीवसंज्ञकः ॥२॥कट्यां वक्रो भग्नपृष्ठो गण्डे गोधाख्यदूषणः ।कपर्दाक्षः सदा श्वासे दुर्गन्धाढ्यः शिशुप्रियः ॥३॥सकल्मषोऽतिकापट्याचारो विश्वासघातकः ।जन्मना ताडिता पद्भ्यां माता मृतेति मातृहा ॥४॥घूकस्वरः कृष्णवर्णः पिच्छतुल्यशिरोरुहः ।पृष्ठलिङ्गी कुण्ठकर्णो बहिर्दंष्ट्रोऽतिमत्सरः ॥५॥उत्पन्नमात्रदुःखकृद्बालानां धर्षकोऽभवत् ।एकदा स ययौ नद्यास्तटे रन्तुं सबालकः ॥६॥चर्मकारस्य वासेषु चान्त्यजानां गृहेषु च ।रिक्तेषु बालरक्षेषु ज्येष्ठास्तु कर्मणे गताः ॥७॥तत्र बालांस्ताडयित्वा भक्षयामास तद्गृहे ।श्वमांसं मद्यपानं च प्रचकार पपौ जलम् ॥८॥तदा बालैर्मिलित्वा च धृत्वा बद्ध्वाऽन्त्यजैर्बलात् ।क्षारकुण्डे विनिक्षिप्तो दुर्गन्धे स्वल्पकर्दमे ॥९॥शिलया छादितस्तत्र कुण्ड्यां क्षारपटस्य सः ।दिवानिशं स वै कुण्ड्यां कुण्डीगन्धं समग्रहीत् ॥१०॥मासार्धं प्राणरक्षार्थं उभुक्षितस्तृषाकुलः ।चर्मक्षालनजं वारि चार्मकर्दममित्यपि ॥११॥सूक्ष्मकीटोद्भवं कुण्ड्यां भक्षयामास पापकृत् ।राक्षसो जातिजो यश्च चाण्डालगृहभोजनः ॥१२॥चर्मकुण्डकृतावासश्चर्मकर्दमभक्षकः ।मातृहाः शिशुमारश्च कोऽस्मात्पापतरो भवेत् ॥१३॥राधिके! तादृशोऽधर्मजीवो नाम्ना महासुरः ।अन्त्यजैश्चर्मकारैश्च आवलीरञ्जनाम्बरः ॥१४॥निष्कास्य कुण्डितो दुष्टस्ताडितः षण्ढितस्तथा ।सिंहले द्वीपके तस्थौ रणान्ते वनिभक्षकः ॥१५॥पशून् पक्षिगणाँश्चापि क्वचित् कुटुम्बजाऽर्भकान् ।धृत्वा करोति तद्घातं भक्षयत्येव तानपि ॥१६॥एकदा भक्तराट् तत्र विभीषणो हरेः प्रियः ।गृणन् रामेति कृष्णेति नारायणेति सञ्चरन् ॥१७॥विहर्तुं तेन मार्गेण ययौ वनानि वीक्षितुम् ।तत्रैनं वीक्षयामासाऽधर्मजीवं महासुरम् ॥१८॥उवाच त्वं कथमत्र वर्तसे निर्जने सुत ।एहि गृहं हरिं कृष्णं भज नारायणं सुखम् ॥१९॥मा दुःखं वह शुष्केऽत्राऽरण्ये रणे तु निर्जने ।श्रुत्वा विभीषणं प्राह पितृज्येष्ठं सगर्वकः ॥२०॥को हरिः कश्च कृष्णोऽस्ति नारायणोऽपि कोऽस्ति वै ।नैनं जानामि कश्चास्ते कस्माद् भजेऽविचारितम् ॥२१॥भक्तो विभीषणः प्राह हरिर्दुःखहरोऽस्ति सः ।परब्रह्म स्वयं दिव्यो दिव्याक्षरनिवासकृत् ॥२२॥राक्षसोऽधर्मजीवस्तु प्राह धनापहारकः ।द्रव्यापहारको नार्याद्यपहारक एव सः ॥२३॥हारकस्त्वन्यसमृद्धेश्चौरः कश्चिद् भवेत् हरिः ।कृष्णं पापं दुष्टकर्म तत्कृत् कृष्णो भवेद्धि सः ॥२४॥नारास्वप्स्वयनः कश्चित् नदीस्थो धीवरो भवेत् ।जलहारकभृत्यो वा किंकरः कस्यचिद्भवेत् ॥२५॥जले वासकरो वाऽयं सर्पो मत्स्योऽथवा भवेत् ।परः शत्रुर्ब्रह्म महान् महाशत्रुर्भवेद्धि सः ॥२६॥दिव्यो धूर्तो द्यूतवेत्ता व्यसनी कश्चिदेव सः ।अक्षैः पाशैः रमते च राति गृह्णाति नाणकम् ॥२७॥द्यूतगृहे निवासी च भवेत् कश्चिदघात्मकः ।विभीषणस्तु तं प्राह परमात्मा परेश्वरः ॥२८॥पुरुषोत्तम एवाऽयं भगवानीश्वरेश्वरः ।मुक्ताऽधिपः परे धाम्नि राजमानोऽस्ति पुत्रक ॥२९॥राक्षसोऽधर्मजीवश्च प्राह नाऽयं तथा पितः ।पं पानं मद्यजं तत्र रमते त्वात्मना स्वयम् ॥३०॥मद्यपानादिलुब्धः स मद्यपः परमो भवेत् ।परस्य दीनलोकस्य दुःखकृच्चेश्वरो भवेत् ॥३१॥पुरु सिनोति पापानि चाऽधिकं तमसाऽऽवृतः ।तामसः पापकृच्चाऽयं भवेत्। स पुरुषोत्तमः ॥३२॥भगं गुह्यं च वा तस्य नारीचिह्नं भवेत् खलु ।भगवान् गुप्तनारी सा भवेत् पुरुषवेषिणी ॥३३॥ईश्वराणां मादृशानां योद्धॄणामिशुभिर्हतः ।न रक्षितुं स्वयं शक्तः स्वं भवेदीश्वरेश्वरः ॥३४॥मुक्ता याः पतिभिर्नार्यो गृहान्निष्कासिताश्च याः ।तासामधिपः स भवेद् व्यभिचारिशिरोमणिः ॥३५॥परे धाम्नि गृहे नित्यं वसति परभूस्थितः ।गृहद्वारविहीनः स भवेद्वा भिक्षुकः पितः! ॥३६॥विभीषणश्च तं प्राह पुत्र! व्यूहस्वरूपधृक् ।सर्वावतारहेतुः स सर्वशक्तिधरः प्रभुः ॥३७॥गोलोकेशः स वैकुण्ठधामेशो वै परः पुमान् ।योगिगम्योऽन्तरात्मा च मोक्षदश्चेति तं भज ॥३८॥अधर्मजीवरक्षोऽपि प्राह मन्ये स वञ्चकः ।वञ्चनार्थं तु लोकानां व्यूह्य व्यूह्य तु वेषधृक् ॥३९॥क्वचिन्नटः क्वचिद्गोपः कचिद्राजकुमारवत् ।क्वचिद्विप्रो भवत्येव वञ्चको व्यूहवान् भवेत् ॥४०॥सर्वेषामवताराणां लोके वै निम्नकर्मणाम् ।हेतुः कर्ता निम्नवर्णो भवेत् कश्चिद् विवर्णजः ॥४१॥सर्वेषु प्राणिषु शस्त्रशक्त्याख्यस्य प्रयोजकः ।भवेत् स घातकी कश्चिदिति मन्ये पितः खलु ॥४२॥प्रसह्य भवति कष्टप्रदः कश्चिद् भवेदघी ।गवां स वृषभाणां वै लोके समूहके महान् ॥४३॥महावृषभो वा कश्चिद् भवेद्वा वृषवाहकः ।कुण्ठितं धामवासादि गृहकुट्यादिवर्जितः ॥४४॥परः शत्रुस्वरूपो वा पुमान् भवेद्धि रक्षसाम् ।समशीलैर्योगवद्भिर्गम्य_ साप्तपदीनकम् ॥४५॥तस्मादसज्जनः कश्चिदिति मन्ये पितः खलु ।अन्तरं भिन्नता यस्य कामे मनसि चात्मनि ॥४६॥वाचि वा भिन्नता तस्माद् विश्वासघातको भवेत् ।मोक्षं सर्वं समाच्छिद्य दुर्बलस्य विनाशनम् ॥४७॥मन्ये करोति कश्चित् स हिंस्रो दुर्बलघातकः ।कस्तं भजेदसन्तं वै गुणाग्र्यैश्च विवर्जितम् ॥४८॥विभीषणस्तु तं प्राह स तु विद्वान् गुणाश्रयः ।वेदविद् वेदशास्त्रादिकर्ता शीलव्रतादिमान् ॥४९॥सर्वधर्माश्रयः साधुकर्मकः शान्तिसंभृतः ।अधर्मजीवो रक्षोऽथ प्राह विद्वान्न चास्ति सः ॥५०॥न रंभणं विजानाति गीतिं जानाति नैव च ।अभिचारान्न जानाति मायां जानाति नैव च ॥५१॥अतो नैव भवेद्वा स विद्वान् पितः कदाचन ।गुणो रज्जुर्गवां दोहकार्यार्थं यस्य विद्यते ॥५२॥स्कन्धे तस्माद् भवेद् गोपो गुणाश्रयः पितः खलु ।वेदं वा वेदिकां ग्रामचतुष्के निर्मितां जनैः ॥५३॥पाषाणानां मृदां वा तां कर्तुं जानाति कुंभकृत् ।कुभकारो भवेद् वाऽयं वेदिकाशिल्पवित् खलु ॥५४॥शं शातनं हि केशानां करोत्यस्त्रेण मस्तके ।नापितोऽयं भवेद्वा च रोमशत्रुप्रशस्त्रवान् ॥५५॥शीलं चाऽस्खलनं धर्मो व्रतं कृच्छ्रादि यत्तपः ।अत्ति खादति चोभं तत् तादृग्धर्मविघातकः ॥५६॥शीलव्रतादनश्चायं भवेत् कश्चिद्धि भाण्डकः ।सर्वे धर्माः पशुधर्मास्तद्वान् वा स पशुर्भवेत् ॥५७॥साधोः कर्म गृहस्थानां विरुद्धं गृहभञ्जनम् ।सन्यासादिस्वरूपं तत्कारकोऽयं यतिर्भवेत् ॥५८॥जडो वा स्याद् विचित्तो वा शान्तिसंभृत एकलः ।विभीषणश्च तं प्राह पुत्र विप्रोऽस्ति माधवः ॥५९॥यज्ञोपवीतसन्धर्ता क्लेशतापप्रशामकः ।महाविद्याश्रयः शास्त्ररचनाकारकः स्वयम् ॥६०॥एक एवाऽद्वितीयोऽयं तीर्थयात्राकरोऽच्युतः ।अधर्मजीवो रक्षस्तु प्राह विप्रो भवेन्न सः ॥६१॥विं पक्षिणं तु यः प्राति गृह्णाति मृगयूर्यथा ।तस्माद् व्याधो भवेत् कश्चित् पक्षिमारोऽथवा पशुः ॥६२॥माधवो मातृगामी वा भवेत् कश्चित् पशुप्रजः ।यस्य नियामको नास्ति यस्य नास्ति धवस्तथा ॥६३॥मातृहीनः पितृहीनो भवेत् कश्चिद् वनेचरः ।इतः प्राप्तश्च विः पक्षी तं यज्ञस्यैव सन्निधौ ॥६४॥सन् धारयति भक्ष्यार्थं शकुनादो भवेद्धि सः ।क्लेशैस्तापैः प्रकर्षैश्च शामको लोकनाशकः ॥६५॥तस्माद् विप्लवकर्ता स भवेत् कश्चित्तु घातकी ।महाविद्याः कामविद्याश्चोच्चाटनीं विनाशिनीम् ॥६६॥मारिणीं मोहिनीं चेद्वा जानात्ययं तदा पितः ।श्वपाको वाऽथ चाण्डालो मलिनो वा भवेद्धि सः ॥६७॥शास्त्रेषु रचनां चायं प्रतारणस्य कारकः ।प्रतारको भवेत् कश्चित् नहि शास्त्रस्य कारकः ॥६८॥एकाकी तु वनेऽरण्ये भ्रमन् कुटुम्बहीनकः ।अद्वितीयो विधुरोऽयं तीर्थमुण्डी च वा भवेत् ॥६९॥न च्यवते धनं दाने दरिद्रः स भवेत् पितः ।साधुधर्मविहीनश्च कपटी निन्दकः खलः ॥७०॥प्रच्छन्नचौरो नारीणां चाञ्चल्यस्य प्रवर्धकः ।असंख्यवारनारीणां भ्रामको वेषधारकः ॥७१॥गोपीनामदृश्यकर्ता सिद्धमन्त्रकरो भवेत्॥कामिनीनां कामनायाः पूरकोऽन्यायकारकः ॥७२॥धर्मलोप्ता कुललोप्ता ह्यासक्तो ग्राम्यदर्शने ।क्रोधलोभादिदोषाणामाकरोऽज्ञानशेवधिः ॥७३॥व्यवहारविधुरश्च बुद्धिहीनोऽतितामसी ।पशुपाशो भवेत् कश्चित् कन्याहरः शिशुप्रियः ॥७४॥यादृशस्तादृशो वापि भवेन्मे किं प्रयोजनम् ।तद्गुणान्न सहे दिव्यानदिव्यान् वा कथञ्चन ॥७५॥नास्ति कश्चित् ततो ध्येयो भजनीयोऽपि मे पितः ।अहं श्रेष्ठस्ततश्चाऽस्मि नास्ति श्रेष्ठोऽपि कश्चन ॥७६॥विभीषणस्ततः प्राह मा पुत्र तं विमानय ।अनादिश्रीकृष्णनारायणः श्रीकमलापतिः ॥७७॥सर्वपतिः परमेशश्चान्तर्यामी नियामकः ।कर्तुमकर्तुमन्यथाकर्तुं शक्तः स वै हरिः ॥७८॥वर्तते बालरूपस्तं भज सर्वात्मना सुत ।दिव्याः सन्ति गुणास्तस्मिन्नेकैको मोक्षदो हि यः ॥७९॥सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् ।शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥८०॥ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः ।स्वातन्त्र्यं कौशलं कान्तिधैर्यं च मार्दवं तथा ॥८१॥प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।गांभीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहंकृतिः ॥८२॥कृतोपकारश्चाद्रोहोऽनीहाऽकिञ्चनता तथा ।मैत्री सार्वज्ञ्यमेवैते गुणाः सन्ति परात्मनि ॥८३॥अधर्मजीवनो रक्षः प्राह मन्ये न तान् गुणान् ।अहं नपुंसकं मन्ये कार्योत्साहविवर्जितम् ॥८४॥धमार्थकामनाहीनं निष्क्रियं निर्बलं च तम् ।परभाग्योपजीवित्वं परसम्पद्विकर्षणम् ॥८५॥अमार्गवाहिता चापि मन्ये तत्रैव सन्ति हि ।तस्मात् पितर्न मे वक्तुं गुणानर्हसि तस्य वै ॥८६॥राधिके एवमेवायमधर्मजीवनोऽसुरः ।शताधिकान् हरौ दोषान् जगाद पितरं प्रति ॥८७॥विभीषणस्तु तं क्रुद्धो जघान गदया तदा ।अमृतश्च विदुद्राव सिंहलद्वीपतस्ततः ॥८८॥कपटी मानवो भूत्वा सौराष्ट्रे चाजगाम सः ।शत्रुजयानदीतीरे त्रिवटाख्ये भुवस्तले ॥८९॥उवास कृतकेतश्च द्विषन् कृष्णनरायणम् ।यतिवेषधरो भूत्वा सतां विद्वेषकः खलः ॥९०॥दुष्टो धर्मध्वजो भूत्वाऽप्रतारयन् जनान् बहून् ।अनादिश्रीकृष्णनारायणे श्रीपरमेश्वरे ॥९१॥वैरं कुर्वन् वचोभिश्च लोके नास्तिक्यमादधन् ।आययौ कुंकुमवापीक्षेत्रं नष्टायुरेव सः ॥९२॥लोमशस्याऽऽश्रमे गत्वा निनिन्द परमेश्वरम् ।तदा श्रीशंकरः श्रुत्वा भैरवं प्राह सेवकम् ॥९३॥याहि भैरव दुष्टं तमधर्मजीवनाऽसुरम् ।घातयैनं पिशाचैस्त्वं नारकिणं हि कर्मणा ॥९४॥इत्युक्तो भैरवः शूलं धृत्वा गत्वा पिशाचकैः ।जीवग्राहं गृहीत्वा तं बद्ध्वा चार्मणरज्जुभिः ॥९५॥निचिक्षेप मलस्थाने विष्टाव्याप्तक्षितौ तदा ।तन्मखे मूत्रयामासुर्विष्ठां चक्रुः पिशाचकाः ॥९६॥मूढमारं दृढं सर्वे मारयामासुरासुरम् ।अङ्गानि छेदयामासुश्चिक्षिपुर्लावणं जलम् ॥९७॥अनादिश्रीकृष्णनारायणद्वेषिणमेव ते ।ततो रज्जुप्रबन्धेन गृध्रवासद्रुमान्तरे ॥९८॥शाखायां बन्धयामासुर्लम्बते सोऽप्यधोमुखः ।गृध्रकाकादिविष्ठा च पतत्येव तु तन्मुखे ॥९९॥एवं मासद्वयं दण्डं चक्रे श्रीभैरवोऽसुरे ।ततः क्षुधातृषाव्याप्तो ममार प्राणतो हि सः ॥१००॥ययौ यमालयं सोऽयमसुरोऽधर्मजीवनः ।कुंभीपातेऽपतत्तत्र सहस्रवत्सरं हिं सः ॥१०१॥अथाऽत्र भैरवो देवः सस्नौ चाश्वसरोवरे ।तस्य संसर्गदोषोत्थपापप्रक्षालनाय वै ॥१०२॥एवं विनाशमापन्नोऽसुरोऽधर्मप्रजीवनः ।शिशुप्रियः स्वपापेन मृतोऽसद्गतिमार्गगः ॥१०३॥राधिके मेऽपराधस्य कर्तॄणां नास्ति सद्गतिः ।यदि स्याच्छरणापन्नस्तदा गतिं ददाम्यहम् ॥१०४॥अथ शरणं नाऽऽयातो मृतोऽपि परमेश्वरम् ।ततः कोट्यर्बुदवर्षेरप्यस्य सद्रतिर्न वै ॥१०५॥आषाढे स मृतो दैत्यसमो रक्षोऽतिनिन्दकः ।अथ विभीषणः श्रुत्वाऽधर्मजीवमृतिं ततः ॥१०६॥नीत्वा तन्मातरं तत्र सौराष्ट्रे व्योममार्गतः ।आययौ चार्थयामास सद्गतिं परमेश्वरात् ॥१०७॥हरिर्जन्मान्तरे प्राह तस्य गतिर्भविष्यति ।मम हस्तेन मृत्युं स लब्ध्वा यास्यति सद्गतिम् ॥१०८॥तस्य मात्रे ददौ मन्त्रं लोमशर्षिस्ततः परम् ।विभीषणाय मन्त्रं स ददौ श्रीपारमेश्वरम् ॥१०९॥'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।मासं स्थित्वा ययतुस्तौ राधिके वै निजालयम् ॥११०॥भेजाते श्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।विभीषणश्च खचरी त्वन्ते दिव्यौ बभूवतुः ॥१११॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने खरपुत्रस्याऽधर्मजीवनस्य नास्तिक्यं, हरेर्गुणेष्वगुणकल्पनाः, हरौ द्वेषोऽसद्गतिस्ततः कालान्तरे सद्गतिवरदानमित्यादिनिरूपणनामा सप्ताशीतितमोऽध्यायः ॥८७॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP