संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ८३ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ८३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८३ Translation - भाषांतर श्रीकृष्ण उवाच-एवं राधे नृपतिः स जयध्वजः सुवैष्णवः ।द्रोणैलानीलश्रीशैलान् चतुरोऽपि निजालये ॥१॥सुसत्कृत्यासनाद्यैः संचकार स्वागतं परम् ।ददौ भोज्यानि रम्याणि पेयान्येभ्यो विधान्यपि ॥२॥भोग्यानि चोपकरणप्रासादिकजलानि च ।श्रीहरेः पूजनवस्तून्यपि ददौ जयध्वजः ॥३॥पर्वतास्ते कृतकृत्याः पप्रच्छुस्तं जयध्वजम् ।कथं पापानि नश्यन्ति तीर्यते प्रकृतिः कथम् ॥४॥कथं पाप्यभियोगेऽपि निर्लेपत्वं भवेत् सदा ।केषां समागमान्मुक्तिः कस्माच्छान्तिश्च शाश्वती ॥५॥कः स्वार्थः कः परार्थश्च का प्रवृत्तिः शुभावहा ।जडता दिव्यता वापि प्राप्यते केन कर्मणा ॥६॥भवानास्ते महाराज सर्वज्ञ इव भक्तराट् ।अनादिश्रीकृष्णनारायणानुग्रहलेशतः ॥७॥तस्मान्नो वद परमं श्रेयो येनापि लभ्यते ।श्रुत्वा जयध्वजः प्राह ममारण्ये महर्षयः ॥८॥वसन्ति बहवो दिव्या ये विज्ञानसमृद्धयः ।तेषां नित्यं दर्शनार्थं प्रयामि ज्ञानलब्धये ॥९॥तेभ्यः श्रुतं मया यद्यत् कथाप्रसंगलाभतः ।लक्ष्मीनारायणसंहितायाः कथाश्रवेऽपि च ॥१०॥आत्मनाऽप्यनुभूतं च कथयामि निबोधत ।तीर्थे पापानि नश्यन्ति तीर्थं स्थिरं च जङ्गमम् ॥११॥तारयित्वा वासनाख्यसागरात् शरणागतम् ।प्रस्थापयति धामाऽपि परमं पारमेश्वरम् ॥१२॥तीर्थं तत् सर्वथा बोध्यं जडं वा चेतनात्मकम् ।जडं जलानि चैत्यानि वस्तूनि भौतिकानि च ॥१३॥निर्गुणानि च दिव्यानि दिव्ययोगाद्भवन्ति हि ।पापिनस्तारयन्त्येव तीर्थानि तानि सर्वथा ॥१४॥आत्मा तीर्थं महत् प्रोक्तं कृष्णस्तीर्थोत्तमोत्तमम् ।अनादिश्रीकृष्णनारायणस्तीर्थं परोत्तमम् ॥१५॥तस्य तीर्थस्य योगेन भक्तास्तीर्थस्वरूपिणः ।भवन्ति तारकाः सर्वे सन्तः साध्व्यश्च योगिनः ॥१६॥ब्रह्मशीला गृहशीला वनशीला विरागिणः ।न्यासशीला ध्यानशीलाः कृष्णतीर्था हि ते मताः ॥१७॥कृष्णदास्यः कृष्णभक्तास्तथा कृष्णस्य पार्षदाः ।कृष्णसम्बन्धमाप्ताश्च तीर्था जडाश्च चेतनाः ॥१८॥कृष्णगुणाढ्यपुरुषः सती कृष्णकृपामयी ।पशुः पक्षी वृक्षलताः कृष्णयोगा हि तारका ॥१९॥वाटिका ग्रामशालाश्च धर्मशालाः सरित्तटाः ।सरस्तटा वनस्थल्यः शैलाः अरण्यभूमयः ॥२०॥स्थावरा जंगमाश्चापि तीर्थास्ते कृष्णयोगिनः ।ग्रामः पुरी पत्तनं च नगरं घोष इत्यपि ॥२१॥पल्ल्यश्चावसथाश्चापि यत्र कृष्णो विराजते ।तत् सर्वं तीर्थमेवेति तारकं दिव्यतां गतम् ॥२२॥यत्स्पृष्टं हरिणा साक्षात् तत् तीर्थं तारकं भवेत् ।यथा हरिस्तथा तस्य सन्तस्तीर्थानि सन्ति हि ॥२३॥सन्तारयन्ति सततं जनान् ज्ञानप्रदानकैः ।अज्ञान नाशयित्वा च समर्पयन्ति दिव्यताम् ॥२४॥कामं क्रोधं च लोभं च मदं मानं च मत्सरम् ।तृष्णां च वासनां नाशयित्वा कुर्वन्ति शोधनम् ॥२५॥तद्योगात्तीर्यते माया सत्सु नौषु स्थितैर्जनैः ।सन्तो भवन्ति चक्षूंषि सन्तो दीपा भवन्ति च ॥२६॥सन्तो नौकाश्चार्णवस्था दावस्था अमृतस्थलाः ।विषोल्बणेषु वै सन्तो विषघ्नाः क्ष्वेडहारिणः ॥२७॥हालाहलाब्धिसंसारे नीलकण्ठा हि साधवः ।महारोगाब्धिसंसारे धन्वन्तरिस्वरूपिणः ॥२८॥विषयानलदग्धानां सन्तो मानसवृष्टयः ।वासनाजालबद्धानां कर्तनीरूपिणो हि ते ॥२९॥सन्तस्तीर्थं परं तीर्थं परमात्मविनिर्मितम् ।यत्र नारायणः साक्षान्मूर्तिमान् वर्तते सदा ॥३०॥हर्यर्थं यैश्च गार्हस्थ्यं त्यक्तं त्यक्तं च सर्वशः ।बन्धनं श्रीहरौ बद्धास्तीर्थरूपा हि साधवः ॥३१॥हरिस्तीर्थं परं तीर्थ तीर्थं तत्साधवस्ततः ।साध्व्यस्तीर्थं साधुवच्च तरन्ति पापिनश्च तैः ॥३२॥एतत्त्रयं परं तीर्थं चतुर्थं विप्रमण्डलम् ।गुरुस्तीर्थं सर्वतीर्थोत्तमं मोक्षप्रदं सदा ॥३३॥माता तीर्थं परं तीर्थं तीर्थं पिता पतिस्तथा ।सती तीर्थं धर्मतीर्थं तीर्थास्तु धार्मिका जनाः ॥३४॥पुत्रस्तीर्थं धर्मवच्च कन्या तीर्थं वृषान्विता ।स्वसा तीर्थं धर्मयुक्ता पत्नी तीर्थं सती यदि ॥३५॥कुटुम्बं धार्मिकं तीर्थं तारयेत् तीर्थमुत्तमम् ।देवस्तीर्थं मन्दिरं च तीर्थं तीर्थं कथामृतम् ॥३६॥वृद्धानां वचनं तीर्थं शास्त्रं तीर्थं च शाश्वतम् ।गोदानं परमं तीर्थं तीर्थं स्वर्णान्नदानकम् ॥३७॥सत्यं तीर्थं क्षमा तीर्थं तीर्थं रागविहीनता ।द्वेषराहित्यमेवाऽपि तीर्थं नैर्मल्यकारकम् ॥३८॥कृष्णसेवा परं तीर्थं भक्तिस्तीर्थं तथोत्तमम् ।कृष्णार्पणं तु तीर्थानामुत्तमं तीर्थमुच्यते ॥३९॥दीक्षा भिक्षा समीक्षा च तीर्थत्रयं विवेकतः ।एवं शैलास्तु तीर्थानि हरेर्योगाद् भवन्ति वै ॥४०॥किं बहुनाऽत्र वचसा सन्तस्तीर्थानि सर्वथा ।सर्वप्रदास्ते जीवानां धर्मार्थकाममोक्षिणाम् ॥४१॥सतां शरणमापन्नस्तरत्येव न संशयः ।काष्ठाधारं समापन्नस्तरत्येव जलार्णवम् ॥४२॥काष्ठे लघुत्वमेवाऽस्ति सत्सु हरिर्वसत्यपि ।यत्र हरिस्तत्र सर्वं यद्यदिष्टतमं भवेत् ॥४३॥कल्पवल्ली सतां हस्ते चिन्तामणिः सतां मुखे ।कल्पवृक्षः सद्धृदये कामधेनुः सतां मतौ ॥४४॥अणिमाद्याः सिद्धयस्तु लुठन्ति पादयोः सताम् ।ऐश्वर्याणि सतामोष्ठे वसन्ति सुखदानि वै ॥४५॥पावित्र्यं तु सतां दृष्टौ वाक्ये धर्मो वसत्यपि ।मुक्तिं सतां तु सेवायां वर्तते शरणं गता ॥४६॥प्रकृतिः प्रोच्यते मायाऽभ्यासो विषयवस्तुषु ।संस्कारः स्थितिसंस्थोऽयं कृष्णाभ्यासेन जीर्यति ॥४७॥कृष्ण कृष्णेति कृष्णेति नारायणेति सर्वदा ।रटणेन हि संस्कारा भावनाख्या भवन्ति वै ॥४८॥कृष्णयोगेन दिव्यास्ते नाशयन्ति तु मायिकान् ।प्राकृतान् नाशयित्वैव शोधयन्ति हृदन्तरम् ॥४९॥सा माया भ्रमरूपा वाऽविद्याऽहंममतात्मिका ।रागद्वेषात्मिका वापि संशयो वा मृषात्मिका ॥५०॥याथार्थ्येन विधानेन लयं याति हरेर्बलात् ।आमृत्युक्षणमासाद्य कृष्णे मतिर्न चेद् भवेत्। ॥५१॥यत्र नार्यां नरे पुत्रे द्रव्येऽन्यत्र मतिर्भवेत् ।सा माया बन्धकर्त्र्येव कृष्णस्मृत्या विनश्यति ॥५२॥एवं शैलाः संशृण्वन्तु कृष्णयोगो हि तारकः ।सतां योगस्तारकोऽपि माया तेन निवर्तते ॥५३॥यथा लौहं काष्ठयोगे तरत्येव जलोपरि ।तथा पापी सतां योगे तरत्येव भवोपरि ॥५४॥यथा पद्मं स्वभावाच्च जलेऽपि नहि लिप्यते ।तथा ज्ञानी भक्तियुक्तः पापेऽपि नहि लिप्यते ॥५५॥यथा तैलं जलमध्ये क्षिप्तं तरति मूर्धनि ।तथा ज्ञानी पापिमध्ये स्थितस्तरति पापतः ॥५६॥ज्ञानं दहति कर्माणि भक्तिः कर्मफलानि च ।दहत्येवं द्वयं चान्यत् कृष्णेतरत् कृतं तु यत् ॥५७॥आत्मा येन धृतः कृष्णे नारायणे परात्मनि ।स चात्मा वर्तते चान्तःकरणेभ्यो वियोगवान् ॥५८॥आन्तरं करणं तेन भिन्नं प्रयत्नमन्तरा ।नेन्द्रियैर्शयते शक्तिशून्यं रूक्षं पतिं विना ॥५९॥नेन्द्रियाणि ततो यान्ति विषयान् कृष्णवर्जितान् ।विषयेषु गत पापं नोपसंक्रामति ह्यतः ॥६०॥इन्द्रियाण्यविषयाणि यदा भवन्ति योगिनः ।मानसं चाऽविषयं च जायते सर्वदाऽस्य तु ॥६१॥आत्मा विषयशून्यश्च कृष्णमात्रेण संमतः ।भवत्येव तदा पापान्निवृत्तो मोक्षगो यथा ॥६२॥एवं भूत्वा शरीरं चेन्द्रियाण्यस्य करोति चेत् ।क्रियां यां कां, न चैषा स्याद् बन्धनाय तु योगिनः ॥६३॥विधिक्रियाऽथवा विधिविवर्जिताऽपि काऽपि वा ।लोके मताऽथवा नैव मता लोकविवर्जिता ॥६४॥विवेकेन कृता वा न कृता विवेकवर्जिता ।पापा वा पापशून्या वा लोकदृष्ट्या तु यादृशी ॥६५॥यादृशी तादृशी वापि क्रिया या स्यात्तु योगिनः ।निसर्गजा न सा तस्य बन्धनाय प्रजायते ॥६६॥यस्य नास्ति सुखे रागो न द्वेषो दुःखवस्तुषु ।हर्षाहर्षरहितात्मा न स पापेन लिप्यते ॥६७॥यस्य नास्ति सुखं मे स्याद् दुःखं मा स्यादिति प्रधीः ।ईहाशून्यस्य कर्तव्यं निरीहं नहि लुम्पति ॥६८॥इष्टं तथाप्यनिष्टं च त्यक्तं येनाऽऽत्मतः सदा ।गुणत्रयाऽभिभवनं तस्य नैव हि जायते ॥६९॥सर्वं कृष्णात्मकं यस्य भोग्यं भोगश्च भोक्तृता ।क्रियाकृष्णार्पिता येन देहेन्द्रियतदीयजा ॥७०॥तत्पापं तस्य पुण्यं वा फलं कृष्णार्पितं तथा ।स तु सर्वेषु लिप्तोऽपि लिप्यते न मनागपि ॥७१॥एवं वै वर्तमानस्य कृष्णार्थकृतकर्मणः ।प्रसाधितप्रसाध्यस्य सदा साधुस्वभाविनः ॥७२॥निर्लेपस्य प्रसंगेन मुक्तिः स्याद् बन्धनाशिनी ।बन्धो वै वासना प्रोक्ता चाहंममत्वकारिता ॥७३॥मिथ्याज्ञानजनिर्या च वासना जडतात्मिका ।स संसारो बन्धनं वै कृष्णयोगेन नश्यति ॥७४॥सतां कृष्णस्वभावानां समागमेन नश्यति ।ततो मुक्तिर्जीवतो वै भूतबन्धनवर्जिता ॥७५॥निर्द्वन्द्वा च निरीहा च वितृष्णा रागवर्जिता ।स्थितिर्नित्यात्मसंस्था च नित्यानन्दपरिप्लुता ॥७६॥सदा शान्तस्य कृष्णस्य योगेन शान्तिरच्युते ।आत्मना चात्मनि ध्रौव्या या शाश्वत्यनुभूयते ॥७७॥सा शान्तिः शाश्वती कृष्णात् परमेशात् प्रजायते ।इयं मुक्तिः परा मुक्तिर्यतः शान्तिर्न वै परा ॥७८॥असंख्यानन्दसन्दोहे मग्नता परमात्मनि ।स स्वार्थस्वात्मनो ह्यर्थः परं प्रयोजनं हि तत् ॥७९॥मोक्षोऽर्थो जीवलोकस्य मुमुक्षोः स्वार्थ एव ह ।ज्ञातोऽर्थः स्वात्मनि प्रेच्छेत् स्वार्थः स चात्र मोक्षणम् ॥८०॥क्षणिकः सुखदः स्वार्थो नापेक्ष्यो वै मुमुक्षुभिः ।शाश्वतानन्दभृत्स्वार्थः समपेक्ष्यो मुमुक्षुभिः ॥८१॥एवं स्वार्थं प्रलक्ष्यैव प्रवृत्तिः शुभदायिनी ।शुभं पुण्यं स्वर्गलोकः सत्यमैश्वरधिष्ण्यकम् ॥८२॥विनाशयोगि तत् प्रोक्तं प्रकृतेः कृतसर्जने ।अविनाशं शुभं मोक्षः कृष्णपादाभिलंभनम् ॥८३॥कृष्णनारायणप्राप्तिः शुभं सर्वोत्तमोत्तमम् ।कृष्णो दिव्यः सदा चास्ते यादृशस्तादृशोऽपि वा ॥८४॥तादात्म्यकर्मभिर्दिव्यभावं विन्दति मानवः ।शरीरेन्द्रियकर्माणि जडान्यपि हरेर्ग्रहात् ॥८५॥भवन्ति दिव्यभावानि जडता याति दिव्यताम् ।एवं शैला! भवन्तोऽपि जडा भक्तिप्रयोगतः ॥८६॥जाड्यं भावं परित्यज्य भवन्तु दिव्यरूपिणः ।अनादिश्रीकृष्णनारायणस्वामिपतिप्रभुः ॥८७॥वर्तते कुंकुमवापीक्षेत्रे चाश्वसरोन्तिके ।तद्योगं तद्भजनं च कुर्वन्तु तेन दिव्यताम् ॥८८॥प्रयास्यथैव शीघ्रं च नारायणकृपावशात् ।इत्येवं प्रोच्यमानेषु जयध्वजेन चाऽद्रिषु ॥८९॥चत्वारः पुरुषाश्चान्ये शान्तास्तत्र समाययुः ।जयध्वजादिकान् नत्वा तस्थुः पृष्ठास्ततो हि ते ॥९०॥कुत आगम्यते कुत्र गम्यते किं प्रयोजनम् ।ते प्रोचुस्तं विनताश्च वयं श्रुत्वा तव क्रतुम् ॥९१॥आगता हर्षतश्चात्र गच्छामोऽश्वसरोवरम् ।स्नातुं द्रष्टुं परेशं श्रीकृष्णनारायणं प्रभुम् ॥९२॥यात्रिकैः सम्प्रदत्तानि पापान्यसंख्यकानि तु ।क्षालयितुं प्रगच्छामः कुंकुमवापिकास्थलीम् ॥९३॥कोलारसर एवायं नाम्ना ख्यातोऽस्ति तीर्थराट् ।द्वितीयो वर्तते नाम्ना ह्ययं चिलसरोवरः ॥९४॥तृतीयः शंभलसरोऽभिधोऽयं तीर्थराजकः ।चतुर्थोऽहं पुमानस्मि नारायणसरोवरः ॥९५॥वयं त्वद्य मिलित्वा तु याता अभूम मानसम् ।सरो दिव्यं हैमशैले दर्शनार्थं ततः पुनः ॥९६॥श्रुत्वा चात्र समायाता यज्ञं तेऽथ ततो वयम् ।गच्छामस्तत्र यत्रैव परमेशो विराजते ॥९७॥एतच्छ्रुत्वा च ते शैला जयध्वजोऽपि भूपतिः ।व्योम्ना कुटुम्बसहितः सर्वे ययुर्हरेः पुरीम् ॥९८॥कुंकुमवापिकातीर्थं चाश्वपट्टसरोवरम् ।व्योम्ना ते चाऽवतेरुश्च सस्नुश्चाश्वसरोवरे ॥९९॥ततो दिव्यस्वरूपाश्च दृष्ट्वा श्रीलोमशं मुनिम् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥१००॥गृहीत्वा परमं मन्त्रं बालकृष्णान्तिकं ययुः ।सम्पूज्य विधिवत् कृष्णनारायणं च ते ततः ॥१०१॥पीत्वाऽमृतं चरणयोर्निषेदुः सत्कृताः पुरः ।प्रार्थयामासुरत्यर्थं देहि मोक्षं परं पदम् ॥१०२॥श्रीहरिः कृपया ताँश्च त्रिरूपान् संव्यधापयत् ।तीर्थभक्तमुक्तरूपान् तीर्थान्यप्रेषयत्तदा ॥१०३॥नैजं नैजं निवासं च पावनार्थं हि देहिनाम् ।भक्तरूपाँस्तत्र चाश्वसरस्येव न्यवासयत् ॥१०४॥निजाश्रये महाभक्तान् संविधायैव सेवकान् ।तत आरभ्य तत्तीर्थे तीर्थाष्टकं ततोऽवसत् ॥१०५॥कोलाटतीर्थं च तथा चिलतीर्थं तथोत्तमम् ।तथा शंभलतीर्थं च नारायणसरस्तथा ॥१०६॥द्रोणतीर्थं नीलतीर्थं श्रीतीर्थं चैलतीर्थकम् ।दिव्यरूपा विराजन्ते श्रीकृष्णपादपंकजे ॥१०७॥मुक्तरूपान् विमानेनाऽक्षरं चाऽप्रेषयत् प्रभुः ।धाम मुक्तनिवासाख्यं राधिके करुणानिधिः ॥१०८॥इत्येवं तच्चमत्कारं दृष्ट्वा जयध्वजोऽपि च ।स्थित्वा मासं मार्गशीर्षं ययाचे मोक्षणं हरेः ॥१०९॥चक्रे तस्य हरिर्मुक्तिं विमानेन ययौ स तु ।धामाऽक्षरं पदं दिव्यं शाश्वतानन्दपूरितम् ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने जयध्वजेन प्रदत्तं ज्ञानं, द्रोणैलनीलश्रीपर्वतानां कोलाटचिलशंभलनारायणसरसां दिव्यरूपता मोक्षणं जयध्वजस्य मुक्तिश्चेत्यादिनिरूपणनामा त्र्यशीतितमोऽध्यायः ॥८३॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP