संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ६ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिकेऽनादिकृष्णनारायणस्य वै ।प्राप्ते त्वेकादशे चाह्नि लोमशाद्या महर्षयः ॥१॥शीलव्रताः साधवश्च ब्रह्मविद्यापरा जनाः ।पित्राऽऽहूता आययुस्ते कृष्णनारायणगृहम् ॥२॥नामकरणसंस्कारं चक्रुस्ते तु विधानतः ।आद्यं ग्रहार्चनं चक्रुर्देवतापूजनादिकम् ॥३॥गाणेशार्चनमीशादिपूजनं चक्रुरादरात् ।मातृकापूजनं चार्षं पूजनं चक्रुरीश्वराः ॥४॥ऊर्जाऽष्टम्यां कृष्णपक्षे मिथुने चन्द्रके स्थितौ ।जन्माऽस्य तेन नामाऽस्य कृष्णनारायणेति हि ॥५॥यस्य नाऽऽदिर्नचैवाऽन्तोऽनादिनारायणस्ततः ।अवतारपतिः सोऽयमवतारी निगद्यते ॥६॥सर्वदुःखहरश्चाऽयं हरिरित्यभिधीयते ।दुःखानां कर्षणात् कृष्णो नरस्थत्वान्नरायणः ॥७॥नारस्थोऽस्ति यतश्चाऽयं नारायणोऽपि गद्यते ।अक्षराधिपतिश्चाऽयमक्षरातीत उच्यते ॥८॥पुरुषेषूत्तमश्चायं पुरुषोत्तम उच्यते ।पुंसामुत्तम एवाऽयं पुमुत्तमः सदोच्यते ॥९॥बृहत्वाद् व्यापकत्वाच्च परत्वात् सर्वतस्तथा ।परब्रह्मेत्यभिधानं कृष्णवल्लभते यतः ॥१०॥श्रिया जुष्टः सदा तस्माच्छ्रीकृष्णवल्लभः स्वयम् ।ईश्वराणामीश्वरोऽस्ति परमेश्वर उच्यते ॥११॥मायानामीश्वरश्चायं धवो माधव उच्यते ।सर्वात्मनामतं स्वामी स्वामिनारायणो यतः ॥१२॥घनश्यामस्तथा छत्रशाल्याचार्योऽस्ति सर्वदा ।जयारमाललितामाणिक्यालक्ष्मीपतिः प्रभुः ।प्रभापारवतीमंजूहंसासगुणिकापतिः ॥१३॥द्वादशोत्तरशतसुराज्ञीनां परमेशिता ।अन्यासां कोट्यर्बुदानां पतिश्चायं भविष्यति ॥१४॥अस्य हस्ते धनुर्मत्स्यो ध्वजः स्वस्तिर्विराजते ।वज्रं शरस्त्रिशूलं च पादयोः शिखरादिकम् ॥१५॥षोडशानां च चिह्नानां रेखाः सन्ति शुभाः स्फुटाः ।ललाटे कानकी रेखा तिलकस्य विराजते ॥१६॥नेत्रकोणेषु च रक्ता रेखाः सन्ति विमोहिकाः ।आकर्णान्ते तथा नेत्रे चन्द्रकोट्याननोज्ज्वलः ॥१७॥ओष्ठौ स्वभावतो रक्तौ कण्ठे तिलश्च वर्तते ।वक्षसि चास्य रोम्णां च दक्षावर्तोऽपि वर्तते ॥१८॥कानकी च शुभा लक्ष्मीरेखा मणिप्रलेखिका ।असूत्रहारः सौवर्णो वर्तते हृदयेऽस्य च ॥१९॥नखाश्चन्द्रसमाः सन्ति करपादतलानि तु ।पद्मगर्भनिभान्येव चतुश्चक्राणि सन्ति च ॥२०॥शंखचिह्नं स्वकं चास्य वर्तते शोभनं हरेः ।सक्थिमूले क्षतचिहं वर्तते वामसंज्ञिते ॥२१॥वामजान्वोपरि सक्थ्नि पाण्डुरश्चन्द्रमा अपि ।वर्तते कोटिपत्नीनां स्वामित्वबोधको हि सः ॥२२॥जघने नाभ्यधोभागे स्त्रीचिह्नं चास्य वर्तते ।अर्धनारीश्वरश्चायं पतिपत्नीस्वरूपवान् ॥२३॥आजानुलम्बभूजौ च वर्ततेऽस्य प्रभोस्तथा ।घूटिकात्रयमस्तस्य प्रत्येके चरणेऽस्ति वै ॥२४॥दक्षिणे सक्थिनि मध्ये रथचिह्नं हि वर्तते ।गरुडस्तिष्ठति तत्र रेखयाऽतो नरायणः ॥२५॥सहस्रभुजवान्नाऽयं भवत्येव परेश्वरः ।लिंगे चास्योपरि चास्ते तिलः कृष्णो हि पार्श्वके ॥२६॥वामे सक्थिमूलके च ततोऽसौ वीर्यवान् बहु ।चत्वारश्चास्य वृषणा द्वौ पार्श्वे द्वावधःस्थितौ ॥२७॥ततोऽसौ कोटिनारीणां तृप्तिदोऽस्खलितो बली ।अस्योदरे तु नाभेर्वै ह्युपरि कुंभलेखिका ॥२८॥विद्यते कुंभवद् रेखा प्राणायामनिरोधिका ।ततोऽसौ योगिराट् नैकरूपधारी भवेदपि ॥२९॥नेत्रेऽस्य चान्धकारेऽपि सूर्यवत्तु प्रकाशते ।ततोऽसौ दिव्यदर्शी च वर्तते परमेश्वरः ॥३०॥जिह्वाग्रं रक्तमस्याऽस्ति लिंगाग्रं रक्तमित्यपि ।अंगुल्यग्राणि रक्तानि विद्यन्तेऽस्य स्वभावतः ॥३१॥ततश्चायं भवेद् राजाधिराजः परमेश्वरः ।रोमाग्राणि स्वर्णवर्णसमानानि लघूनि च ॥३२॥प्रकाशन्ते चान्धकारे विद्युल्लता यथा स्थिताः ।ततोऽसौ परधामस्थो भगवान् पुरुषोत्तमः ॥३३॥दन्तेष्वस्य च धावल्यं चमत्कृतिकरं तथा ।कान्तिप्रदं च हास्यादौ दृश्यतेऽतो नरायणः ॥३४॥पश्य गोपालकृष्णऽस्य बाह्वोर्मूले करावुभौ ।स्वर्णरेखामयौ दिव्यौ राजेतेऽतो नरायणः ॥३५॥उज्ज्वला त्रिवली चास्य मध्यनाभौ प्रवर्तते ।ललाटं चोन्नतं नेत्रे दीर्घे नासाग्रवक्रता ॥३६॥विद्यते दन्तकलिकाः समानाः पूर्णसंख्यया ।सुगन्धश्चास्य च पारिजातकुसुमवत् सदा ॥३७॥मूर्तौ संवर्तते श्वासे कैसरो वास इत्यपि ।स्वेदे शैत्यं च धावल्यं नैर्मल्यं च सुगन्धिता ॥३८॥मेहनादावपि चास्य दौर्गन्ध्यं न मनागपि ।औज्ज्वल्यं चान्तरे भागे कुक्षौ कुक्षौ च रक्तता ॥३९॥श्यामता रोममध्येषु कृष्णता मूलकेषु च ।वक्रता नाडिकाः श्यामा रक्ताः पिशंगिकास्तथा ॥४०॥मर्माणि धवलान्यस्य रम्यता च मनोहरा ।स्थलपद्मसमं चास्य सौकुमार्यं प्रविद्यते ॥४१॥वाणी वेदमयी गीतिः स्वरा घोषाश्च शारदाः ।सर्वज्ञाननिधिश्चायं परमात्मा परेश्वरः ॥४२॥नामान्यस्य त्वनन्तानि गुणाश्चाऽसंख्यकास्तथा ।ऐश्वर्याण्यप्यनन्तानि गणनारहितानि वै ॥४३॥अनादिश्रीकृष्णनारायणोऽयं सर्वदा भुवि ।ख्यातिमाप्स्यति ऋषिभिः संहिताभिश्च सर्वथा ॥४४॥कथाभिर्बहुभिश्चापि पत्नीनां चार्बुदैस्तथा ।अवतारैरनेकैश्च कार्यैश्चमत्करैस्तथा ॥४५॥एवमुक्त्वा विरराम लोमशो मुनिसत्तमः ।ऋषयोऽपि तदा चान्ये शुभाशीर्वादमाददुः ॥४६॥कुमारिका अपि कान्तं सेवयामासुरुत्सुकाः ।अथ नामानि च पिता श्रावयामास चाऽच्युतम् ॥४७॥वाद्यानि वादयामासुर्गापयामासुरुत्तमाः ।गीतिका नर्तयामासुर्नृत्यवेत्र्यः सतालिकाः ॥४८॥वर्धयामासुराशीर्भिर्देव्यः सर्वभुवां तदा ।रमयामासुरत्यर्थं कृष्णनाममहोत्सवे ॥४९॥प्रजा जनाश्च भोज्यानि भोजयामासुरत्यति ।ददौ दानानि च तदा श्रीमान् गोपालकृष्णकः ॥५०॥पूजयामासुरीशाश्चाऽनादिकृष्णनरायणम् ।उपायनानि च ददुः स्वर्गधामाऽभिजानि च ॥५१॥एवं नामविधं कृत्वा लोमशाद्या ययुर्गृहान् ।देवाः सर्वे यथास्थानं ययुः प्रजाजना ययुः ॥५२॥शृण्वत्र राधिके नाममहोत्सवेऽसुरो महान् ।द्रष्टुं देवं समायातो व्याघ्रारण्यनिवासकृत् ॥५३॥साणनामाऽसुरो गिरेर्गह्वरे कृतकेतनः ।यत्र साणो वसत्येव गिरयोऽपि तदा च ते ॥५४॥साणस्य गिरयश्चैवं ख्यातिमाप्तास्तदाऽभवन् ।साणोऽयं तु पुरोत्पन्नो हिरण्याण्डस्य मेहतः ॥५५॥असुरस्य मृतेः काले संकर्षणसमीपतः ।स च विलोक्य संहारकारणं कर्षणं बलम् ॥५६॥तुष्टाव भयसम्पन्नः शरणं समियेष च ।तदा संकर्षणस्तं तु जीवनं दानमाददौ ॥५७॥साणः पृथ्वीं खण्डभूतां वियुक्तां च विलोक्य वै ।तत्र वासं तदा कर्तुं चाययौ समरण्यकम् ॥५८॥अरण्यं चायतं वृक्षान् निबिडान् शतयोजनम् ।वीक्ष्य तत्र शतक्रोशक्षितौ पर्वतकोच्छ्रयान् ॥५९॥साणश्चकार वसतिं चासुरस्तत्र निर्भयः ।स च तत्र समायातो नामसंस्कारके दिने ॥६०॥यत्राऽनादिः प्रभुः कृष्णनारायणो गृहेऽस्ति वै ।साणो विप्रस्वरूपेण चागत्य प्राप्य भोजनम् ॥६१॥दक्षिणां विविधां नीत्वा ययौ साणाद्रिगह्वरम् ।द्वादशे दिवसे तस्य मतिर्जाताऽतितामसी ॥६२॥सस्मार पितृवैरं च मारकं बालकं च तम् ।संकर्षणात्मकं नारायणं निश्चित्य माधवम् ॥६३॥अस्त्रशस्त्राणि नीत्वैव सन्नद्धश्चागतोऽसुरः ।कृष्णं नाशयितुं राधे वैरिणं बालरूपिणम् ॥६४॥दिवा विप्रो हि स भूत्वाऽतिथिरूपेण वर्तते ।मार्गयन् हर्तुमेवैनं छिद्रं दिने न लब्धवान् ॥६५॥षष्ठीकन्याः कुमार्यस्ताः संभूय कान्तमच्युतम् ।रामयन्ति रमयन्ति रमन्ते स्माऽविरामतः ॥६६॥रात्रौ तास्तं विहायैव लोमशस्याऽऽश्रमं ययुः ।तदा छिद्रं परं प्राप्य व्याघ्ररूपधरोऽसुरः ॥६७॥रात्र्यर्धे विगते बालं भक्षितुं क्रूररूपवान् ।क्रूरकर्मा क्रूरनेत्रः क्रूररावोऽभवत्क्षणम् ॥६८॥सूतिकागृहमागत्य गर्जनां प्रचकार ह ।चकाराऽन्या गर्जनाश्च वनं कम्पयुतं तदा ॥६९॥भूः सर्वा कम्पिता लोकास्त्रासं ययुश्च विह्वलाः ।माता च विह्वला त्रस्ता पिता भीतिं जगाम ह ॥७०॥जना व्याघ्रभयात्तत्र निलिल्युश्च गृहेष्वपि ।हाहाव्याक्रोश एवाऽऽसीत् कृष्णशय्यास्थले तदा ॥७१॥अहो व्याघ्रो वनाद् यातो मृत्युरूपोऽर्भकस्य वै ।रक्षन्तु देवता देवं देव्यश्चेति जगुर्जनाः ॥७२॥अनादिश्रीकृष्णनारायणं रक्षन्तु रक्षकाः ।इति माताऽवदत्तत्र साक्रोशं वै मुहुर्मुहुः ॥७३॥व्याघ्रस्तावत्समुत्प्लुत्य सूतिकाशयनं ददौ ।बालं करेण जिघृक्षुर्यावद् यतते श्वापदः ॥७४॥तावत् कृष्णोऽभवत्तत्र किशोरः ससुदर्शनः ।माता मूर्छां गता वीक्ष्य मत्वा व्याघ्रहृतं सुतम् ॥७५॥सुदर्शनं परं चक्रं कृष्णनारायणेन वै ।अङ्गुलिमध्यतो मुक्तं वह्निव्याप्तं महोज्ज्वलम् ॥७६॥भ्रमत्सहस्रारयुक्त शतसूर्यातिशायि तत् ।तदा चोग्रमभूद् व्यग्रं यावद् व्याघ्रं जिघांसति ॥७७॥तावन्मृत्युभयाद् व्याघ्रः समुत्प्लुत्य गृहाद् बहिः ।विनिपत्य प्रदुद्रावाऽरण्यं जीवितुमुत्सुकः ॥७८॥चक्रं पृष्ठे तस्य लग्नं तं ददाह पुनः पुनः ।क्वचित्क्वचित् पृष्ठदेशं स्पृष्ट्वा चकर्त भागतः ॥७९॥व्याघ्रो निहन्यमानोऽसौ प्लवते स्माति वेगतः ।आक्रोशति स्म दीनार्तो वाचा भीभृतया तदा ॥८०॥क्रोशमात्रं गतो यावद् दक्षिणां दिशमेव सः ।सुदर्शनेन निहतः साणः सव्याघ्रदेहभृत् ॥८१॥व्याघ्रहणं च तत्तीर्थं सुदर्शनकृतं स्थलम् ।प्रख्यातं कुंकुमवाप्या दक्षिणेऽश्वसरोवरात् ॥८२॥साणो नष्टो योजनोच्छ्रं शरीरं प्राज्वलत्तदा ।सुदर्शनाग्निना भस्म जातं पुण्येन तेन वै ॥८३॥साणात्मा तद्विनिर्गत्य भूत्वा चतुर्भुजस्तदा ।दिव्यो वै पार्षदो भक्तो धौतात्मा पापवर्जितः ॥८४॥अनादिश्रीकृष्णनारायणेतिमुखतो वदन् ।सुदर्शनस्य वशगोऽनादिकृष्णं प्रति द्रुतम् ॥८५॥व्योम्ना समाजगामाथ प्रभौ विलीनतां गतः ।अथाऽक्षरस्य मुक्तास्तं नेतुं विमानसंस्थिताः ॥८६॥आययुः श्रीहरेः क्षेत्रे तदाऽयं कृष्णमूर्तितः ।विनिर्गत्य ययौ धामाऽक्षरं साणस्तु शाश्वतम् ॥८७॥सुदर्शनं तदा शान्तं कृष्णाङ्गुलौ लयं गतम् ।अनादिश्रीकृष्णनारायणोऽपि निद्रितः सुखम् ॥८८॥अन्ये मात्रादयो योगनिद्रां कृत्वा प्रगे तदा ।विघ्नशान्तिक्रियां चक्रुर्लोमशाद्या अपीश्वराः ॥८९॥व्याघ्रासुरो हतश्चेति श्रुत्वा निश्चिक्युरीश्वरम् ।साधारणा जना बालं देवाश्चक्रुः प्रपूजनम् ॥९०॥श्रुत्वा च कन्यकाः सर्वा रुरुदुर्विघ्नमुल्बणम् ।रक्षणं च बलं श्रुत्वा जहृषुश्चागताः पुरः ॥९१॥दर्शनं च समाचक्रुः कान्तस्याऽतीव भावतः ।शुभाशिषः प्रददुश्च मेनिरे नवमागतम् ॥९२॥पिता विघ्नस्य शान्त्यर्थं होमं जपं चकार ह ।साध्वादींस्तर्पयामास भोज्यान्नपानसद्धनैः ॥९३॥वस्त्रभूषादिदानानि कन्यकाभ्यो ददौ सती ।गोभ्यो ददौ च घासानि मिष्टान्नान्यपि भूरिशः ॥९४॥पिपीलिकादिसूक्ष्मेभ्यः पिष्टकणादिकं ददौ ।एवं शान्तिं कारयित्वा रमयामास माधवम् ॥९५॥माता पिता तथा चान्यवर्गः कुमारिकागणः ।इत्येतत् कथितं राधे बालकृष्णपराक्रमम् ॥९६॥पठनाच्छ्रवणाच्चापि मोक्षदं स्वर्गदं परम् ।पुत्रदं धनदं स्मृद्धिप्रदं रोगविनाशकम् ॥९७॥शोकविघ्नहरं रम्यं रक्षाकरसुखावहम् ।नारीणां शोकहरणं शुभं सौभाग्यवर्धनम् ॥९८॥अवैधव्यकरं कृष्णचरित्रं पावनोत्तमम् ।श्रोतव्यं सततं चैतदैश्वर्यार्थिभिरादरात् ॥९९॥षण्मासाभ्यन्तरे श्रोतुरुपतिष्ठन्ति सिद्धयः ।अणिमाद्या दिव्यगुणा दिव्याः समृद्धयस्तथा ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने परमेश्वरस्य नामकरणसंस्कारविधिः, साणाऽसुरस्य व्याघ्ररूपधरस्य हरिं हन्तुमिच्छतश्चक्रेण विनाशनं शान्तिकरणं चेत्यादिनिरूपणनामा षष्ठोऽध्यायः ॥६॥ N/A References : N/A Last Updated : April 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP