संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १९४ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १९४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १९४ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके विष्णुतुल्यायास्तटे विशालवर्तुले ।उद्याने श्रीबालकृष्णो विमानाद् बहिराययौ ॥१॥राजा पुष्पस्रजः कण्ठे ददौ नारायणस्य ह ।ऋषिर्हारान् ददौ राज्ञी प्रधानाद्या ददुः स्रजः ॥२॥सुपुष्पैः प्रजया कृष्णो वर्धितस्त्वक्षतादिभिः ।गुच्छे करे न्यधाद् राजा श्रीकृष्णवल्लभप्रभोः ॥३॥गन्धसारादिकं गन्धिजलं वेषेऽप्यदात्तदा ।पादौ प्रक्षाल्य राजाद्या अमृतं च पपुस्ततः ॥४॥वरसिंहो नृपः कृष्णं यन्त्रगन्त्र्यां न्यषादयत् ।कुटुम्बं दीर्घगन्त्र्यां च महर्षीन् वातगासु च ॥५॥ब्रह्मप्रिया गजयानेष्वेव राजा न्यषादयत् ।महीमानयुतं शंभुं शारभेयरथे शुभे ॥६॥न्यषादयत्ततो वाद्यैः सैन्यसत्कारबोधनैः ।वाशीलायां नगर्यां वै हरिं चाऽभ्रामयन्नृपः ॥७॥गोपुरेऽपूजयत् कृष्णं ततो राजकुटुम्बकम् ।प्रधानाश्चत्वरे कृष्णं पुपूजुश्च कुटुम्बिनः ॥८॥श्रेष्ठिनस्त्वापणाग्रेषु स्थानिनो मार्गसंगमे ।प्रजाः सर्वा महामार्गे पुपूजुः कृष्णवल्लभम् ॥९॥तदानीं योषितो गौर्यः समारूक्षन् निजालयान् ।हरिं विलोकयन्त्यश्चाऽवाकिरन् पुष्पकैर्हरिम् ॥१०॥प्रोचुः परस्परं गौर्यो हृष्टाः शान्तिं गतास्तदा ।नेत्रायतफलं प्राप्य तद्वीक्षाकृष्टमानसाः ॥११॥करुणातिनोदितसुदत्तदर्शनंललना शरीरिभिरगम्यदर्शनम् ।प्रसमीक्ष्यसुन्दरतरं हरिं न्वमुंसफलं स्वकं कुरुत जन्म मा चिरम् ॥१२॥विषयातिलुब्धमवशं प्रवासनंनहि मानसं समुपगच्छति स्थितिम् ।इति चाति लुब्धमवशं प्रदर्शना-न्ननु योषितो भवति माधवः स्वयम् ॥१३॥प्रणमत्सुराधिपतिभूपतीशधृक्-मुकुटाग्रकल्गिकृतयोगितासनम् ।चरणारविन्दयुगलं सतीनुतंकमलाधृतं कुरुत मानसे न्विदम् ॥१४॥परधाम्नि यश्च शुभदिव्यविग्रहःपरिवर्णितोऽस्ति निगमैर्गुणाश्रयः ।विभवर्द्धिरूपगुणकैः प्रपूरितःप्रभयावृतं कुरुत मानसे न्विमम् ॥१५॥बहुकान्तिसंभृतमिमं हि सुन्दरंबहुपुष्टविग्रहमिमं ग्रहाश्रयम् ।अबलाः पुनर्न तु गतं त्ववाप्स्यथतदयं सदा स्वहृदये निगृह्यताम् ॥१६॥वदनाम्बुजं विविधतापनाशनंमितमन्दमिष्टहसनातिलोभनम् ।भुवि मुक्तिदं च परलोकमुक्तिदंन्विषपूर्णचन्द्रसुखदं निपीयताम् ॥१७॥पुरुषोत्तमोऽयमतिकर्षति द्रुतंहृदयं तथेन्द्रियगणं च चेतनम् ।तमवेत्य कान्तमिह शाश्वतं प्रभुंहृदये मिलन्तु मिलितः प्रभुज्यताम् ॥१८॥हृदयस्थितो बहिरुपागतो ह्ययंकुसुमैश्च मानसभरैः प्रपूज्यताम् ।रतिरत्नहीरकसमर्पणैरयंपरिरब्ध आलि! मिलितः प्रसेव्यताम् ॥१९॥इत्थं गीतयशाः कृष्णो भ्रमित्वा नगरीं ततः ।राजहर्म्यं समायातो वन्दितो नागरैर्जनैः ॥२०॥राजा तूर्णं हरेः पादौ पूजयामास चन्दनैः ।अक्षतैः कुसुमैश्चापि हरिः सिंहासनेऽभवत् ॥२१॥निषीदन्तं पुष्पहारैः कुसुमैस्तं ववर्ष ह ।लोकः प्रेमभरैर्हद्भिः स्थिरनेत्रो ददर्श च ॥२२॥सभाऽतिमहती तत्र कृता श्रीपरमात्मना ।उपादिदेश च तदा जनताहितहेतवे ॥२३॥भगवान् परमेशो यो राजते परमेऽक्षरे ।कृपया स समायाति निजप्रजावनाय वै ॥२४॥प्रजाः पुत्र्यो भगवतः पालनीयाश्च मातृवत् ।पोषणीयाः सुखनीया नेतव्याश्चाक्षरं पदम् ॥२५॥सर्वावतारधर्ताऽहं श्रीस्वामिकृष्णवल्लभः ।मायां प्रमृद्य लोकेऽत्र वर्ते भवत्प्रगोचरः ॥२६॥कांभरेयो राधिकेशो लक्ष्मीपद्मावतीपतिः ।माणिकीशः रमानाथः स्वयं गोपालनन्दनः ॥२७॥ब्रह्मप्रियाणां कान्तश्च सर्वसृष्टिपतिः प्रभुः ।सद्गुणामंजुलाहंसाललिताविजयापतिः ॥२८॥यत्र वासोऽत्र लोकेऽपि मे तद् धाममयं भवेत् ।नारायणनिवासेन भूमिवैकुण्ठसदृशी ॥२९॥जातेयं भगवान् हेतुर्दिव्यत्वे दिव्यभाविनि ।तथा भक्तोऽपि मे हेतुः सद्देशादिसमर्जने ॥३०॥राजा भक्तो भवेच्चेद्वै तत्र कृतयुगो भवेत्॥नीतिधर्मयुतो राजा कृतं प्रवर्तयेत् खलु ॥३१॥तत्र वै सर्ववर्णानां नाऽधर्मे जायते मतिः ।क्षेमं प्रजानां सुभगं सर्वदा हि प्रवर्तते ॥३२॥सत्कर्माणि समस्तानि क्रियन्ते तु द्विजातिभिः ।सुसुखाः ऋतवः सर्वे भवन्त्यपि निरामयाः ॥३३॥प्रसीदन्ति मानवाश्च हृदा च मनसा गिरा ।न जायन्ते व्याधयश्च नाल्पायुर्जायते जनः ॥३४॥कृपणा न जनास्तत्राऽपतिका न च योषितः ।पृथ्वी चापि विना कृष्टिं जनयत्येव सस्यकम् ॥३५॥ओषधयः फलन्त्येव क्ष्मारसेन सुखप्रदाः ।त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्त्यपि ॥३६॥धर्म एव सुखं चैव तृप्तिश्चैव गृहे गृहे ।जने जने च विश्वासः सुखं नोद्वेजनं क्वचित् ॥३७॥एवं राजा धर्मयुक्तः सत्यकालस्य कारणम् ।यदांऽशं त्यजते राजा धर्मस्यैव तदा भवेत् ॥३८॥त्रेतानामयुगश्चात्र मानवेषु स्थले स्थले ।अशुभांशश्चतुर्थांशस्तावन्मानं च कष्टकृत् ॥३९॥कृष्टपच्या भूर्भवेच्च त्रिभागफलदा तदा ।सर्वं त्रिभागफलदं फल्गु भागे चतुर्थके ॥४०॥सुखे तत्साधने चापि लब्धव्ये विषयेऽपि च ।सर्वं पूर्णं न फलति त्रेताहेतुर्नृपो यदा ॥४१॥अर्धं राजा यदा धर्मं नीतिं त्यजति वै तदा ।द्वापरं नृपतौ प्राप्तं प्रजास्वेवं प्रवर्तते ॥४२॥मेघेऽरण्ये ऋतौ वृक्षे रसे गोषु प्रवर्तते ।अशुभांशौ भवेतां द्वौ शुभांशौ द्वौ मतौ तदा ॥४३॥सर्वं चार्धं फलत्येव बाह्यं वाऽन्तरमित्यपि ।स्वकीयं वा च पारक्यं दैवं वाऽदैवमित्यपि ॥४४॥स्वार्थं वाऽथ परार्थं वा चार्धं फलति सर्वथा ।अर्धा पृथिवी फलति सस्येष्वर्धकणर्द्धिता ॥४५॥यदा राजा त्यजत्येव त्र्यंशं धर्मं तदा भुवि ।ऋतौ रसे जने वृक्षे कार्ये फले च पादता ॥४६॥त्र्यंशे निष्फलता बोध्या चांऽशेऽपि निश्चयो नहि ।एवं वै वर्तते राजा तदा तिष्यः प्रवर्तते ॥४७॥प्रजा क्लिश्नात्ययोगेन तदाऽधर्मपरा जनाः ।सर्वेषां मानवानां वै स्वधर्माच्च्यवते मनः ॥४८॥कलावधर्मो बलवान् गृहे गृहे जने जने ।भिक्षवो वर्णसर्वस्वा भृत्याश्च सार्ववर्णिकाः ॥४९॥वर्णसांकर्यभूयिष्ठं योगक्षेमौ न वै क्वचित् ।सत्कर्माणि न विद्यन्ते कुतो वैदिकवार्तिका ॥५०॥ऋतवश्चाऽसुखाः सर्वे भवन्त्यामयिनो जनाः ।असत्ये विजयं मन्यमानास्तिष्ठन्ति सर्वदा ॥५१॥ह्रसन्ति मानवानां तु रूपस्वरमनांस्यपि ।व्याधयो नूतनास्तत्र म्रियन्ते चाल्पकालिनः ॥५२॥विधवा विधुराः प्रायो भवन्ति बहवो जनाः ।निन्द्या एव प्रजाः प्रायः सुखशान्तिविवर्जिताः ॥५३॥पार्श्वे वर्षति पर्जन्यः पक्षेऽवग्रहकारकः ।क्वचित्सस्यकणोत्थाणं क्वचिच्चांकुरदग्धता ॥५४॥रसाः क्षयं गताः स्युश्च यदा राज्ञि कलिर्भवेत् ।प्रजारक्षाहनो भूपाः कलिकोशा भवन्ति वै ॥५५॥राजा कृतस्य स्रष्टा वै त्रेताया द्वापरस्य च ।कलेश्च स्रष्टा राजैव कारणं युगपर्यये ॥५६॥कृतस्य करणाद् राजा स्वर्गमुत्तममश्नुते ।त्रेतायाः करणाद् राजा त्र्यंशं स्वर्गं समश्नुते ॥५७॥द्वापरस्याऽर्जनाद् राजाऽर्धं सुखं समविन्दति ।कलेः प्रवर्तनात् क्लेशं राज्यनाशं च विन्दति ॥५८॥एवं कलौ पापमेव भुंक्ते राजा हि राक्षसः ।ततो यात्येव नरके वसत्येव चिरं समाः ॥५९॥प्रजानां कल्मषं भुंक्ते दुःखं भुंक्तेऽप्यसीमकम् ।पापं चाप्यपकीर्तिच भुंक्ते दुःखपरम्पराम् ॥६०॥तस्मान्नीत्या सदा राज्ञा वर्तितव्यं कृतादिवत् ।चरेद्धर्मानसंमोहान् कुर्यात् स्नेहं विबन्धनात् ॥६१॥लभेदर्थं च निर्लोभाच्चरेत् कामं सदार्तवात् ।ब्रूयात् प्रियं न कार्पण्यात् परक्रमेन्न कत्थनात् ॥६२॥दद्यात् कुपात्रदो न स्यात् स्याद् गंभीरो न निम्नगः ।मिलेत् सर्वैरनार्यैश्च गृह्णीयान्नाप्यनीतितः ॥६३॥अचारो न भवेत् क्वापि कार्यं कुर्यान्न पीडयेत् ।अर्थं वदेन्न दुष्टेषु गुणान् वदेन्न चात्मनः ॥६४॥आदद्यान्न दरिद्रेभ्यो नाश्रयं दुःसतश्चरेत् ।अविमृश्य दण्डयेन्न रहस्यं न प्रकाशयेत् ॥६५॥विसृजेन्न तु दुष्टेभ्यो विश्वसेन्नापकारिषु ।ईर्ष्याशून्यो भवेच्चापि दारेष्वपि प्रजास्वपि ॥६६॥स्त्रीः संसेवेत नात्यर्थं मृष्टं भुञ्जीत नाऽहितम् ।मानयेत् पूज्यवर्गाश्च गुरून् सेवेत् भावतः ॥६७॥देवान् प्रपूजयेद् भक्त्या श्रियं चेच्छेदनिन्दिताम् ।दाक्ष्यं कुर्याद् यथापेक्षं मार्दवं कालविच्चरेत् ॥६८॥सान्त्वयेत् हार्दलाभायाऽनुगृह्णीयात् समृद्धये ।प्रहरेत् तत्त्वमाज्ञाय कृत्वा पश्चान्न शोचयेत् ॥६९॥क्रोधं कुर्यान्नान्यथा वै मार्दवं गृह्णीयान्न च ।सतः सेवेत सततं शान्तये मोक्षणाय च ॥७०॥समाध्यर्थं पण्डिताँश्च सेवेत सततं नृपः ।एवं बुद्धिं प्रसेवेत प्रातरुत्थाय निर्जने ॥७१॥सेवेत चान्तरात्मानं मां यथार्थप्रदर्शिने ।चत्वारिंशद्गुणैः राजा देवत्वमिव राजताम् ॥७२॥विकासयितुमर्हः स्यात् तस्मान्नीतियुतो भवेत् ।मां सदा सर्वथा साक्ष्ये चान्तरे संस्मरेन्नृपः ॥७३॥ततः सर्वं प्रकुर्वीत सत्ययुगप्रदोऽस्म्यहम् ।असन्मार्गप्रवृत्तस्योद्धारकोऽहं भवामि च ॥७४॥संशयपंकमग्नस्योन्नेताऽस्म्यहं जनार्दनः ।अकार्यजालग्रथनागतस्याऽहं विमोचकः ॥७५॥अपारङ्गमगन्तुश्च पारङ्गमक इत्यहम् ।भवाम्येव सदा तस्मात् सेवनीयोऽहमाश्रयः ॥७६॥राजाऽथवा प्रजा पुत्रः पुत्री वा कार्ययोगिनः ।विस्तरेण तु धर्माणां न जात्वन्तमवाप्नुयुः ॥७७॥तैः सदाऽनुष्ठेयकेऽर्थे सन्दिग्धे नान्तवर्तिनि ।प्रष्टव्या धर्मनिष्ठाश्च श्रुतवन्तः सुरोत्तमाः ॥७८॥प्रत्युत्थायोपसंगृह्य चरणावभिवाद्य च ।निवेदनीयाः कार्यार्थे नारायणस्मृतेस्तथा ॥७९॥गोपायितारं दातारं धर्मनित्यमतन्द्रितम् ।अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः ॥८०॥मत्परं साधुसेवं च मदर्थकृतयत्नकम् ।मयि न्यस्तसमस्तं च भूतान्यनुसरन्ति हि ॥८१॥तस्मान्निरुक्तसृत्या च भाव्यं राज्ञा प्रजाजनैः ।तथा सौख्यं भवेदत्र परत्रापि गतिर्भवेत् ॥८२॥राजा प्रजा भवेद् यो वा को वाऽप्यत्र तु देहवान् ।देहदं मां भजेन्नित्यं स स्यात् सुखी न चेतरः ॥८३॥धर्मा अर्थाश्च कामाश्च मोक्षे येन नियोजिताः ।योजितः स भवत्येव नैसर्गान्मयि माधवे ॥८४॥एवं सर्वे प्रकुर्वन्तु कार्याणि मन्मयानि ह ।भुक्तिर्मुक्तिर्भवत्येव नात्र कार्या विचारणा ॥८५॥इत्युक्त्वा भगवान् कृष्णो मन्त्रं ददौ तदा निजम् ।विरराम ततः स्वामी सर्वमानसतृप्तिदः ॥८६॥राज्ञी च राजकन्याश्च पुपूजुः परमेश्वरम् ।पञ्चकन्यास्तदैवाऽस्य हस्तं जगृहुरादरात् ॥८७॥कान्तं प्राप्य परानन्दं लेभिरे पञ्चगौरिकाः ।राजा मुमुदेऽत्यर्थं च राज्ञी मेने कृतार्थताम् ॥८८॥हरेः पूजा कृता लोकैः सभाविसर्जनं ह्यभूत् ।हरिर्भोजनमासाद्य विश्रान्तिमाप चालये ॥८९॥महीमानाः समस्ताश्च विश्रान्तिं लेभिरे भृशम् ।रात्रिं निनाय भगवान् पालनादाय चर्षये ॥९०॥दत्वोपदादिसामग्रीर्गन्तुं सज्जोऽभवत्तदा ।राजा सैन्येन वाद्याद्यैर्विदायं प्रददौ महत् ॥९१॥हरिं राजा पुष्पहारैः प्रातः कृताह्निकं तदा ।दुग्धपानादिकं व्यधापयत्ततोऽतिपूजनम् ॥९२॥चकाराऽऽरार्त्रिकं चापि पपौ पादामृतं ततः ।हारालिराजितवक्षा हरिर्विमानगोऽभवत् ॥९३॥महीमानाः समस्ताश्चारुरुहुर्व्योमगामिषु ।विमानेषु ततो वाद्यान्यवाद्यन्त च भूरिशः ॥९४॥जयनादैर्ययुस्तस्माद् रायगामलराष्ट्रकम् ।रायगामलराजा च लातवायमुनिस्तथा ॥९५॥कुटुम्बं राजकीयं च पुरो गत्वाऽतिशोभनम् ।स्वागतं श्रीहरेश्चापि सैन्यशोभातिकारितम् ॥९६॥चक्रुः सर्वे निनादैः कीर्तनैर्वाद्यैः सुमादिभिः ।आकाशे चागतं कृष्णविमानं वीक्ष्य ते तदा ॥९७॥जयनादान् प्रचक्रुश्च यन्त्रीध्वानानकारयन् ।गोर्यः सर्वा गीतिनादान् मधुरानप्यगापयत् ॥९८॥एवं सन्मानसौभाग्ये स्थले ह्युद्यानशोभिते ।द्व्यूनासरित्तटे पुर्या रिगायाः सन्निधौ हरिः ॥९९॥राजदर्शितमार्गेणाऽवातारयद् विमानकम् ।अन्यान्यपि विमानानि चावतेरुस्तदाम्बरात् ॥१००॥राधिके जनताः कृष्णं व्यलोकयन् स्थिरदृशः ।पुष्पैरवर्धयन् गीतिजयध्वानैरवर्धयन् ॥१०१॥इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वरसिंहनृपस्य वाशीलानगर्यां हरेर्भ्रमणं पूजनं युगोपदेशनं भोजनं विश्रमणं निद्रोत्तरं त्रयोदश्यां मध्याह्नपूर्वं रायगामलराष्ट्रगमनमित्यादिनिरूपणनामा चतुर्नवत्यधिकशततमोऽध्यायः ॥१९४॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP