संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु राधे प्रवक्ष्यामि शान्तिदं माणिकीश्वरम् ।यतश्चाहं ततश्च त्वं त्वत्तो हिरण्मयः पुमान् ॥१॥महाविष्णुः समुत्पन्नस्ततो विराडजायत ।अष्टावृत्तियुताण्डानि वैराजात् संप्रजज्ञिरे ॥२॥वैराजस्य नाभिदेशान्नालं विश्वसृजा युतम् ।समुत्पन्नं जले तत्र ब्रह्मणे चाण्डमर्पितम् ॥३॥पञ्चाशत्कोटिसंख्याकयोजनं त्वेकमण्डकम् ।पीठयुक् कानकं तेजोव्याप्तं शुभास्पदं बहिः ॥४॥अन्तर्लोकांस्ततो ब्रह्मा कल्पयामास योगतः ।चतुर्दशप्रसंख्यातान् ह्युपर्युपरि संस्थितान् ॥५॥मध्ये मेरुर्महाशैलश्चाधारस्तंभ इत्यपि ।कृतवाँस्तं स्वयं ब्रह्मा यदाधारास्तरा मताः ॥६॥पृष्ठदण्डो यथा देहे ब्रह्माण्डे मेरुराट् तथा ।वैराजस्य च देहाद् यज्जलं तत्र व्यजायत ॥७॥तस्मिंस्तु कमलं नाभेर्जातं ब्रह्मात्र साऽण्डकः ।ववृते सर्वथा पूर्वं दिव्यवर्षसहस्रकम् ॥८॥स्वोत्पन्ने च जले शिष्ये वैराजोऽब्दसहस्रकम् ।अथ यस्मात्स्वयं जातो वैराजः स हिरण्मयात् ॥९॥सोऽपि हिरण्मयः कोशो द्वेधा मध्याद् व्यजायत ।द्वौ तौ जातौ कूर्चभागौ स्थितौ तौ तु महाजले ॥१०॥यथा शकुनिबालं च पक्वं सम्पूर्णगात्रकम् ।अण्डं भित्त्वा बहिर्याति बहिस्तस्मात्तथा विराट् ॥११॥निर्यात्येव जले तत्र विद्यमानः स्वपित्ययम् ।तदाऽण्डकोशभागौ द्वौ कूर्चौ स्थितौ तु यौ जले ॥१२॥क्लिद्यमानौ जलपक्वौ बहुवर्षसहस्रकम् ।कूर्चाभ्यां जलपक्वाभ्यामुत्पन्नावसुरौ तदा ॥१३॥हिरण्यकूर्चनामा च हिरण्याण्डाभिधः परः ।वैराजतुल्यदेहौ तौ ब्रह्माण्डाऽधिकवर्ष्मणौ ॥१४॥क्षुधितौ बलगवाढ्यौ गदावर्मान्वितौ दृढौ ।नर्दन्तौ सुमहानादान् भ्रामयन्तौ गदे निजे ॥१५॥जलान्यालोडयन्तौ च स्फोटयन्तौ स सक्थिनी ।गर्जयन्तौ दिशः सर्वास्त्रासयन्तौ महेश्वरान् ॥१६॥हसन्तौ त्वट्टहासाँश्च मुञ्चन्तौ लीलयाऽन्वितौ ।पश्यन्तौ चाभितस्तत्र भक्ष्याणि वारिधौ तदा ॥१७॥धावमानौ च परितो दृष्ट्वा छायां जलादिषु ।भ्रान्त्या भक्ष्याणि मत्वैवाऽलाभे निराशतां गतौ ॥१८॥मार्गणेऽपि न लब्ध्वा तौ भक्ष्यं जलसमुद्भवम् ।तदा सुप्तं तु वैराजं भक्षयितुमुपागतौ ॥१९॥एकेन संधृतश्चायं वैराजो मस्तके तदा ।अपरेण धृतश्चायं पादयोर्जलमध्यतः ॥२०॥उत्तोल्य च ततः स्थानाद् गन्तुमुद्यमितावुभौ ।तौ विलोक्य तु वैराजः स्वसदृशौ महासुरौ ॥२१॥अप्रधृष्यौ भक्षणार्थमुद्यन्तौ तामसावुभौ ।सस्मार स्वजनकं च महाविष्णुं शरण्यकम् ॥२२॥तुष्टाव परया भक्त्या कर्षयद्भ्यां प्रपीडितः ।वैराजस्तौ गदाचक्रैस्ताडयामास वै तदा ॥२३॥पल्लताभिर्मुष्टिभिश्च ताडयामास वेगतः ।तथाऽप्यगणयन्तौ तत् जह्रतुस्तं जलान्तरे ॥२४॥तदा परवशः सोऽयं वैराजः पितरं निजम् ।एकाग्रमानसो भूत्वा दध्यौ रक्षार्थमेव च ॥२५॥ब्रह्मणः कमलं नालं ब्रह्माण्डं सर्वमेव च ।जले विलुलितं तत्राऽभवत् प्रलयकालवत् ॥२६॥ब्रह्माऽपि भयमापन्नो रक्षार्थं परमेश्वरम् ।सस्मार प्रपितरं स्वं महाविष्णुं हिरण्मयम् ॥२७॥काविमौ भगवन् दैत्यौ महावार्षु विनाशकौ ।रक्ष रक्ष महाविष्णो शीघ्रं नाशय तावुभौ ॥२८॥एवं स्मृतो विराजेन ब्रह्मणाऽपि मुहुर्मुहुः ।महाविष्णुः शंखचक्रगदापद्माऽसिशक्तिमान् ॥२९॥नाराचमुद्गरशूण्डीशतघ्नीसहितः प्रभुः ।दिव्यं यानं समारुह्योपतस्थे दैत्यसन्निधौ ॥३०॥दृष्टौ तेन समुत्पन्नौ शकलाभ्यामुभौ दृढौ ।हन्तुं समिच्छुकौ पुत्रं वैराजं जलशायिनम् ॥३१॥शखनादः कृतस्तेन विष्णुना प्रभविष्णुना ।ईशलोकानभिव्याप्य गोलोकं व्याप्तवान् ध्वनिः ॥३२॥वैकुण्ठं च तदा व्याप्तोऽव्याकृत धाम सर्वशः ।अमृताख्यं तथा धाम संव्याप्तो युद्धबोधकः ॥३३॥ध्वनिस्तेन महाराजः संकर्षणः प्रतापवान् ।युद्धं ज्ञात्वा क्षणं ध्यात्वा ब्रह्माण्डरक्षणाय सः ॥३४॥वैराजस्य महाविष्णोर्ब्रह्मणो रक्षणाय च ।स्मृतमात्रं दिव्यदेहो ययौ दिव्यगदान्वितः ॥३५॥यत्र दैत्यौ महाविष्णुर्विराडपि जले स्थिताः ।महाविष्णुः सृष्टिपालं संहारकं दुरात्मनाम् ॥३६॥तुष्टाव नमनं कृत्वाऽर्थयामास प्ररक्षणम् ।संकर्षणस्तदा रूपं विकरालं समातनोत् ॥२७॥सहस्रदशकं यस्य बाहूनां वर्तते तदा ।शिखाः यस्य तु वैकुण्ठमभिव्याप्योर्ध्वमागताः ॥३८॥सहस्रदशकं तस्य पादानां तु महाजले ।कच्छपस्याऽप्यधो यातं मध्ये ब्रह्माण्डकोटयः ॥३९॥करकन्दुकतुल्यास्ताः शिलाः शस्त्राणि चाऽभवन् ।क्षेपयित्वा करैस्तानि ब्रह्माण्डानि परस्परम् ॥४०॥युयुधुस्तेऽसुराभ्यां वै संकर्षणादयस्तदा ।अनेकाऽण्डानि नष्टानि प्रक्षिप्तानि परस्परम् ॥४१॥गदाभिस्ताड्यमानानि बभञ्जुश्चूर्णवत्तदा ।दैत्यावपि च तान्येव समादायाऽण्डकानि वै ॥४२॥चिक्षिपाते महाविष्णौ संकर्षणे दृढौ दृढौ ।संकर्षणस्तु गदया निजघान च तान्यपि ॥४३॥व्योममार्गे तथा युद्धं घोरं ताभ्यामजायत ।हिरण्यकूर्चेनोत्प्लुत्य महाविष्णुर्ललाटके ॥४४॥प्रताडितोऽगमन्मूर्छा हिरण्याण्डेन मस्तके ।ताडितो गदया रोषं संकर्षणो जगाम ह ॥४५॥हिरण्याण्डकटिनिम्ने जघान गदया रुषा ।हिरण्याण्डः क्षणं मूर्छामवाप पुनरुत्थितः ॥४६॥स्वस्थो बभूव च यावत् तावत्संकर्षणः प्रभुः ।गदया ताडयामास हिरण्यकूर्चकं हृदि ॥४७॥भग्नं वै हृदयं तस्य ममार गदयैकया ।हिरण्याण्डस्तदा मूर्ध्नि महाविष्णुं जघान ह ॥४८॥महाविष्णुः समुत्प्लुत्य हिरण्याण्डं जघान के ।उत्प्लुत्य स विदुद्राव संकर्षणं तु पृष्ठके ॥४९॥ताडयामास गदया संकर्षणस्तदाऽसुरम् ।गदया ताडयामासाऽसुरोऽपि गदया तदा ॥५ ०॥ताडनं तत् प्रतिगृह्य चाट्टहासं मुमोच वै ।भ्रामयित्वा गदां व्योम्नि दशब्रह्माण्डसदृशीम् ॥५१॥प्राहिणोद्धस्तमुक्तां तां संकर्षणजिघांसया ।महाविष्णुः स्वगदया मध्ये तताड तां गदाम् ॥५२॥बभञ्ज सा गदा तत्र जले वै शतधाऽभवत् ।संकर्षणो गदायुक्तो दुद्राव चाऽसुरं प्रति ॥५३॥असुरः स्वस्य रक्षार्थं जग्राहाऽण्डं महत्तमम् ।षट्पंचाशत्स्तरयुक्तं चिक्षेप कर्षणं प्रति ॥५४॥गदया चूर्णतां यातं संकर्षणस्य तत्तदा ।ततः परंधावमानोजग्राहान्यन्महाण्डकम् ॥५५॥महाविष्णोश्च गदया हतं तच्छतधाऽभवत् ।ततः परं धावमानस्तृतीयाण्डं करे तदा ॥५६॥गृहीत्वा प्राक्षिपत्तूर्ण संकर्षणस्य वै हृदि ।हृदि लग्नं बिभेदाऽपि चूर्णतां चागमद्धि तत् ॥५७॥अथ संकर्षणो देवः क्रुद्धः सृष्टिविनाशकम् ।हन्तुं वै प्राणतस्तत्र समैच्छद् गदया प्रभुः ॥५८॥पृष्ठं दैत्यस्य तु संकर्षणोऽधावन्महाजले ।दैत्योऽपि च प्रदुद्राव गृहीत्वाऽण्डं समीपगम् ॥५९॥ब्रह्मनालस्थितं यत्तत् सावरणं समेरुकम् ।साऽण्डकटाहकं पद्मे ब्रह्मणा सह यत् स्थितम् ॥६०॥सर्वां पृथ्वीं गृहीत्वैव संकर्षणभयात् स च ।दुद्राव व्योममार्गेण संकर्षणोऽन्वगात्तदा ॥६१॥अथाऽसुरः प्रविवेश महाजलतले तदा ।संकर्षणोऽपि च पृष्ठलग्नो विवेश वै जलम् ॥६२॥संकर्षणेन च धृतो केशेषु च महासुरः ।तावत् सूक्ष्मं तदा रूपं धृत्वाऽसुरो महाजले ॥६३॥भयाद् युद्धश्रमाञ्चापि साहाय्यरहितः खलु ।अष्टावरणमाविश्य ब्रह्माण्डस्योदरेऽगमत् ॥६४॥तत्र संकर्षणो देवः सूक्ष्मरूपधरः प्रभुः ।ब्रह्माणं सह नीत्वैव क्षणमात्रे समाययौ ॥६५॥ब्रह्माणं स्थापयामास सत्यलोके परस्तरे ।संकर्षणस्तदा रौद्रं रूपं दधार लीलया ॥६६॥महाविष्णुस्तदा सूक्ष्मं विष्णुरूपं दधार ह ।अथ ते च त्रयस्त्वत्र ब्रह्माण्डान्तर्निवासिनः ॥६७॥असुरं मार्गयामासुर्मेरावदृश्यतां गतम् ।हिरण्याऽण्डोऽण्डरूपः सन्मेरुकट्यां व्यवस्थितः ॥६८॥दृश्यते नैव देहेन मृग्यमाणोऽपि वै तदा ।योगं चकार वै विष्णुर्ददर्श छन्नविग्रहम् ॥६९॥मेरुकट्यां गुप्तभागे स्थितं भीतं महाश्रमम् ।अथ संकर्षणो रुद्रो धृत्वा सूक्ष्माणुरूपकम् ॥७०॥विवेश मेरुकट्यां स योगास्त्रेण च तं तदा ।प्रजग्राह महादैत्यं प्रच्छन्नवासकारिणाम् ॥७१॥असुरो मायया तत्र शीघ्रं स्थूलो बभूव च ।विनिर्गत्य करात् तस्य संकर्षणस्य शूलिनः ॥७२॥मेरुं प्रदक्षिणं कृत्वा पलायनं चकार सः ।संकर्षणोऽपि च तस्य पृष्ठे दुद्राव वेगतः ॥७३॥असुरस्त्वाश्रयं मेरुं मत्वा बभ्राम चक्रवत् ।शतोत्तराणि च तदा कृतानि भ्रमणानि वै ॥७४॥तेनाऽत्यतीव श्रान्तेन मर्तुकामेन वै तदा ।संकर्षणः परावृत्त्य मुद्गलेन प्रताडितः ॥७५॥संकर्षणोऽपि च गदां प्राहिणोत् करमुक्तगाम् ।हिरण्याण्डं प्रति हन्तुं तावद् दैत्यो बलेन वै॥७६॥साकर्षणीं गदां धृत्वा संकर्षणमताडयत् ।पुनर्दुद्राव च मेरुं बभ्राम भयतस्तथा ॥७७॥संकर्षणो ययौ पृष्टे यत्र यत्र स धावति ।संकर्षणो गदां धृत्वा तस्य पृष्ठेऽप्यताडयत् ॥७८॥एवं प्रधावमानाभ्यां मेरुकम्पो व्यजायत ।पृथिवी सप्तलोकाश्च दिवः पातालकान्यपि ॥७९॥ह्यकम्पयन् पदन्यासैर्गदाशब्दैश्च घोषणैः ।संकर्षणस्य स गदा नीत्वा चक्रे पलायनम् ॥८०॥संकर्षणो महाविष्णोर्गदां जग्राह कानकीम् ।मेरोः कट्यां गदाभ्यां तौ युयुधाते परस्परम् ॥८१॥द्वयोर्गदाप्रहननान्मेरुश्चुक्षोभ शैलराट् ।मेरोः पार्श्वानि सर्वाणि चुक्षुभिरे समन्ततः ॥८२॥भूकम्पो मेरुकम्पश्च शृंगकम्पो व्यजायत ।निष्फलं हननं मेरोः कट्यां यदा प्रवर्तते ॥८३॥तदा विशीर्यते खण्डो मेरोः कट्याः पुनः पुनः ।एवं विशीर्णभावेन वह्निस्तत्र च घर्षणात् ॥८४॥समुत्पन्नो लोकदावानलो जज्वाल वै दिवम् ।गदाहननसञ्जाताऽनलप्रवाहरश्मयः ॥८५॥यावत्कटाहमायान्ति ब्रह्माण्डं परितस्तदा ।सविमानं च देवानां प्रजज्वाल समन्ततः ॥८६॥महाविष्णुश्चामृतेन शमयामास चानलम् ।हाहाकारो महानासीत् सर्वलोकनिवासिषु ॥८७॥गदापातैस्तदा मेरोः पार्श्वखण्डाः समन्ततः ।पृथग् व्योम्नि निपेतुश्च ताडिताश्च वियोजिताः ॥८८॥लक्षयोजनदीर्घाश्च केचिच्चाऽयुतयोजनाः ।अन्ये विंशतिसाहस्रयोजना द्विगुणास्ततः ॥८९॥पञ्चविंशतिसाहस्रत्रिंशत्साहस्रयोजनाः ।चत्वारिंशत्सहस्रयोजनाः खण्डास्तथाऽपरे ॥९०॥केचित् षष्टिसहस्रयोजनाऽऽयतास्तदाऽभवन् ।केचिद् दीर्घाश्च पञ्चाशद्साहस्रयोजनाः परे ॥९१॥प्रसप्ताशीतिसाहस्रा बभूवुरायता हि ते ।एवं भिन्ना ग्रहाः कृष्णवर्णा मेरोः समन्ततः ॥९२॥स्वर्लोकस्य निम्नदेशे स्मोड्डयन्तेऽन्तरीक्षके ।केचित् खण्डा जले केचिद् वायौ वर्तन्त एव ते ॥९३॥आकर्षणेन वै सर्वे तूड्डयन्ते व्यवस्थया ।तारकावत् ग्रहाः सर्वे केतवश्चाऽभवंस्तदा ॥९४॥मेरोर्वै दक्षिणे भागे हिरण्याण्डं महासुरम् ।जघान वक्षसि पार्श्वे मस्तके पतितं तदा ॥९५॥संकर्षणस्तु गदया प्राणतो हि जघान तम् ।तदा गदाप्रहारैश्च गदामारैरनेकधा ॥९६॥प्रभिन्नो दक्षिणो भागः पृथ्व्या मेरोरवाऽक्षरत् ।लक्षक्रोशमितः खण्डो युतो लावणवारिभिः ॥९७॥यत्र हैमश्च माहेन्द्र उरलश्चाम्रिकाचलः ।अब्रिक्तशैलराजोऽपि चान्ये शैलाः प्रसन्त्यपि ॥९८॥ध्रुवाकर्षणयोगेनाऽन्तरीक्षे तदधः स्थितः ।यत्रोत्तराः कुरवश्च किंपुरुषाः प्रदेशकाः ॥९९॥नरनामास्तथा देशा दक्षिणे लावणे जले ।पश्चिमे तत्र वै भागे चाब्रिक्ताश्च प्रदेशकाः ॥१००॥द्वीपा लावणमध्याश्च दशसाहस्रयोजनाः ।सहस्रयोजनाश्चान्ये स्वल्पास्त्वन्ये सहस्रशः ॥१०१॥त्रयो दाक्षिणखण्डास्ते पुष्ट्या मेरोः पृथक्तताः ।षष्टिसाहस्रकक्रोशायतो लावणवारिधिः ॥१०२॥चत्वारिंशत्सहस्रक्रोशात्मा भूतलभागवान् ।एवं लक्षक्रोशमानो ग्रहोऽन्तरीक्षकेऽभवत् ॥१०३॥तत्र कालेन च वारिस्थलयोः पर्ययान्मुहुः ।मध्यसामुद्रकखण्डाः पर्यावर्तन्त कालतः ॥१०४॥जलं स्थलं स्थले वारि वने वासो गृहे वनम् ।एवं कालेन जायेरन् भ्वां परिवर्तनानि वै ॥१०५॥खण्डमध्ये समुद्राश्च भवन्ति कालयोगतः ।जलमन्नं चाजनाभं पृथक् करोति पश्चिमम् ॥१०६॥सिंहारण्यं जलमग्नं चाब्रिक्तं वियुनक्ति च ।शुक्ल_ कुरुर्जलमग्नश्चोत्तरं किन्नरीयकम् ॥१०७॥विभजते किंपुरुषं राशनीं जापनीं भुवम् ।मध्ये निम्नाऽखातदेशा अवान्तरप्रदेशकान् ॥१०८॥विभजन्ते यत्र लोके हैमे पार्थिवगोलके ।नरनारायणो यत्र हिमाद्रौ राजते प्रिये ॥१०९॥तदेतस्मिन् मम राधे चानर्तमणिभूतले ।कुंकुमवापिकाक्षेत्रे सौराष्ट्रे पुरुषोत्तमः ॥११०॥अश्वपट्टसरस्तीरे गोपालकृष्णबालकः ।प्राविर्बभूव च श्रीकम्भरालक्ष्मीसमुद्भवः ॥१११॥अनादिश्रीकृष्णनारायणः श्रीपरमेश्वरः ।तत्र याहि प्रिये राधे कृष्णनारायणी भव ॥११२॥येन दत्ता च यस्याऽसि तं प्रसेव्य सुखं लभ ।पुनर्यास्यसि मे धाम गोलोकं तदनुज्ञया ॥११३॥हिरण्याण्डो मृतो मेरौ संकर्षणकरेण वै ।हिरण्मयी तु सा भूमिरण्डमध्ये व्यजायत ॥११४॥हिरण्यकूर्चनामा च लोकालोकाचलाद् बहिः ।जले मृतश्च तद्देहाज्जाता भूस्तत्र काञ्चनी ॥११५॥इत्येतत् कथितं राधे प्रागाख्यानं भुवस्तव ।प्रत्ययार्थं तथाऽण्डस्य परिचयार्थमत्र वै ॥११६॥अनादिश्रीकृष्णनारायणो यत्र तु गोलके ।प्राविर्बभूव भगवान्नरनारायणाश्रये ॥११७॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्तानेऽक्षरपरधामाधिपतेर्बहुधा वंशविस्तारे हिरण्याण्डकोशकूर्चजन्ययोर्हिरण्यकूर्चहिरण्याण्डयोरसुरयोः संकर्षणद्वारा नाशः, पृथ्वीगोलकस्य तु मेरोर्दक्षिणखण्डात्मकस्यैवाऽवशेषतया राधिकायैश्रीकृष्णस्य परिचयदानमित्यादिनिरूपणनामा द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : April 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP