संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १७१ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १७१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७१ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके तत्र नित्यं वै रात्रौ जनसमाजके ।लक्ष्मीनारायणसंहिताकथा जायते शुभा ॥१॥सनत्कुमारो भगवान् स्वयं वाचयति प्रभुः ।श्वेतकृष्णायनव्यासः कथां विवेचयत्यपि ॥२॥श्वेतव्यासस्य नाम्ना च श्वेतासनं तदुच्यते ।स्थलं तीर्थस्वरूपं तज्ज्ञानविज्ञानदं सदा ॥३॥यवक्रीतो महर्षिश्च गांगेयो यत्र वै स्थले ।क्षारस्य कवलं भुक्त्वा तपस्तेपे सुदारुणम् ॥४॥क्षारकवलसंज्ञं तत्पावनं तीर्थमुत्तमम् ।तत्र स्थल्यां समभवत् प्रसिद्धं मोक्षदं सदा ॥५॥तन्नाम्ना स प्रदेशोऽपि शतयोजनविस्तृतः ।कृष्णवार्धिप्रपर्यन्तं निस्तारां यावदेव ह ॥६॥यवक्रीतः प्रसिद्धोऽभूत् निष्ठापरातटाश्रयः ।यवक्रीतो महर्षिः स वेदकर्मपरायणः ॥७॥एकादश्यां तु मध्याह्ने बालकृष्णं जगाद ह ।हरेऽभिजिन्मुहूर्तेऽत्र पूर्णाहुतीः प्रदेहि वै ॥८॥लोमशस्तत्तथा श्रुत्वाऽनुमत्या श्रीहरेस्तथा ।ददौ पूर्णाहुतीस्तत्र परब्रह्मात्मवह्नये ॥९॥ताम्बूलफलपूगीफलाऽक्षतघृतकानि च ।श्रीफलं च स्रुवे कृत्वा ददौ पूर्णाहुतीर्हरिः ॥१०॥ओं समुद्रादितिमन्त्रान् पूर्णादर्वीतिबोधितान् ।ऋषिभिर्वाच्यमानाँश्च श्रुत्वा पूर्णाहुतीर्ददौ ॥११॥इदमग्नये वैश्वानराय वसुरुद्रादित्येभ्यःशतक्रतवे अद्भ्यश्च नमम ।इदं त्रिदिवेभ्य ईशेभ्योऽवतारेभ्यः शक्तिभ्यःपरब्रह्मणे स्वाहा नमम ॥१२॥इदं सप्ततलस्थेभ्यो भूस्थेभ्यश्चतुर्भ्योजडचेतनेभ्यः स्वाहा नमम ।इदं सप्तस्वर्भ्यश्चाष्टावृतिस्थेभ्यईशानान्तेभ्यो धामिभ्यः स्वाहा नमम ॥१३॥इदं च ब्रह्मणे स्वाहा स्वाहा च परब्रह्मणे ।एकस्मै चाऽद्वितीयाय मह्यं स्वाहा च ओं नमम ॥१४॥इत्युक्त्वा श्रीबालकृष्णो महापूर्णाहुतीर्ददौ ।श्रीफलानि ह्यसंख्यानि सहस्रघृतधारिकाः ॥१५॥चन्दनानि समिधश्च मिष्टमहाहुतीर्ददौ ।साक्षादनादिभगवान् प्रत्यक्षो वह्निमण्डले ॥१६॥प्रत्यहात् सविशेषेण हसन् जग्राह चाहुतीः ।सर्वकुण्डेषु च तद्वज्जग्राह युगलार्पिताः ॥१७॥दक्षिणाश्च तदाऽसंख्याः स्वर्णमयीर्ददौ प्रभुः ।मणिमौक्तिकहीरादीन् रत्नानि विविधान्यपि ॥१८॥एवं पूर्णाहुतीर्हुत्वा विप्रास्तु वेदपारगाः ।आशीर्वादान् ददुस्तत्र यजमानाय मन्त्रकैः ॥१९॥शान्तिघटोदकैर्विप्राः कुशदूर्वाऽऽम्रपल्लवैः ।पुनन्त्वित्यादिभिश्चाभिषिञ्चाम इति वादिनः ॥२०॥ततः शान्तिप्रवाचश्चोचिरे विप्राः समन्ततः ।दक्षिणाश्च पुनः प्राप्ताः स्वस्तिवाचो जगुस्तदा ॥२१॥हुताशनादिदेवाँश्च निजस्थानविदायकम् ।ददुर्विप्राः पूर्णताया वाचस्ततोऽवदन् सुखाः ॥२२॥यज्ञप्रसादं सर्वेभ्यश्चरुजं पद्मरेखया ।वृद्धिं यान्तं चाऽव्ययं च ददौ कृष्णनरायणः ॥२३॥कोट्यब्जरूपधारी च ददौ सर्वत्र माधवः ।विना चरुप्रसादं वै कश्चित्तदा न शिष्यते ॥२४॥अन्तरीक्षेऽम्बरे व्योम्नि जले स्थले वने क्षितौ ।गह्वरे प्रान्तके भागेऽरण्ये वृक्षे च पर्वते ॥२५॥विमाने वाहने याने नौकायां शिखरेऽपि च ।असंख्यरूपधृक्कृष्णो ददौ चरुप्रसादकम् ॥२६॥ततो वै भोजयामास सर्वान् वै महीमानकान् ।प्राघूणिकान् महामुक्तान् मुक्तान् धामानि धामिनः ॥२७॥ब्रह्मप्रियाश्च मुक्तानी राधारमादिकास्तथा ।अवतारान् सर्वनारायणान् श्रीपरमेश्वरान् ॥२८॥व्यूहान् प्रकृतिपालाँश्च कालपुरुषकेश्वरान् ।वैराजान् भूमसंज्ञाँश्च महाविष्णुगणाँस्तथा ॥२९॥त्रिदेवानावरणेशान् तत्पत्नीदासिकास्तथा ।भृत्याँश्च पार्षदाँश्चापि पार्षदानीः समन्ततः ॥३०॥भोजयामास भगवान् ब्रह्मसृष्टीशसृष्टिजान् ।ततः सिद्धानृषीन् साधून् पितॄन् सतीश्च योषितः ॥३१॥पञ्चस्वर्गस्थितान् सर्वान् देवान् देवीः कुटुम्बिनः ।ब्रह्मचारिगणाँश्चापि दिक्पालान् लोकपालकान् ॥३२॥त्रयस्त्रिंशद्देवताश्च भुवर्लोकनिवासिनः ।भूलोकस्थान् चतुःखनिजीवान् जडाँश्च चेतनान् ॥३३॥सप्तपातालसंस्थाँश्च भोजयामास माधवः ।सुराऽसुरगणान् सर्वान् काश्यपेयाँश्च मानवान् ॥३४॥ब्रह्मसृष्टान् स्थिरचरान् गुणकर्मतदाश्रितान् ।तदाश्रयाँश्च भगवान् भोजयामास वै क्रतौ ॥३५॥अद्याऽहं भगवानस्मि भोजयामि च निर्गुणम् ।एकादशीदिने चापि फलवत् सर्वमेव मे ॥३६॥मत्स्पृष्टं निर्गुणं सर्वं भुञ्जन्तु भावतोऽखिलाः ।भोजनं वै व्रतं त्वद्य मदिच्छयैव जायताम् ॥३७॥इत्येवं भगवानाह बालकृष्णस्तु राधिके ।सर्वान् संभोज्य च ततः स्वयं पित्रा युतस्तथा ॥३८॥भ्रातृभिश्च कुटुम्बेन सह भोजनमाददे ।माता च मातरश्चान्या स्वसा सन्तोषिणी तथा ॥३९॥ब्रह्मप्रियाश्च वै सर्वाः कुटुम्बं बुभुजे तदा ।ताम्बूलं प्राप्य च सर्वे विश्रामं चक्रुरीश्वराः ॥४०॥ततो वाद्यान्यवाद्यन्त ह्यगायन्त च गीतिकाः ।अवभृथाप्लवनार्थं सर्वे वै यत्निनोऽभवन् ॥४१॥निष्ठापराप्रपीठायाः संगमेऽनन्तमानवाः ।देवा मुक्ता ईश्वराश्चावताराः शक्तयोऽखिलाः ॥४२॥सृष्टित्रयनिवासाश्चर्षयः सत्यश्च साधवः ।प्रययुर्भगवान् सर्वेश्वरेश्वरेश्वरेश्वरः ॥४३॥पद्भ्यां जगाम सहितो महर्षिभिश्च कीर्तितः ।वेदमन्त्रैः स्तूर्यमानोऽवभृथार्थं नदीतटम् ॥४४॥तस्थौ च संगमे बालकृष्णनारायणः प्रभुः ।संकल्पं कारयामास लोमशस्तु पुरातनः ॥४५॥चतुर्मुखाऽजब्रह्माण्डे सृष्ट्यारंभे कृतान्तगे ।प्रथमे पर्यये श्रीमत्कांभरेये नरायणे ॥४६॥वर्तमाने वत्सरे च चतुर्दशेऽत्र भूतले ।सर्वाद्यनररूपेऽस्मिन्नवतारिणि वर्तति ॥४७॥श्रावणे शुक्लपक्षीयैकादश्यां सूर्यवासरे ।निष्ठापराप्रपीठासंगमे यज्ञान्तकं त्विदम् ॥४८॥अवभृथात्मकं स्नानं सर्वपापविशोधकम् ।अध्वरे नान्तरीयकाघानां क्षालनशक्तिकम् ॥४९॥सर्वपुण्यप्रदं सर्वाऽज्ञातकल्मषवारकम् ।सूक्ष्मजन्तुबीजकाष्ठकणपुष्पकलार्पणे ॥५०॥वह्नौ समर्पणे भूमेः शोधने मण्डपकृतौ ।रसशालास्थले चूल्ल्यां कण्डन्यां जलकुंभके ॥५१॥पेषण्यां मार्जने चापि पत्रदलावभेदने ।दुरीतं प्रत्यवायादि यत्किंचिज्जातमित्यपि ॥५२॥तस्य नाशकरं स्नानं कृष्णनारायणः प्रभुः ।यज्ञकर्मप्रपूर्त्यर्थं सुरप्रसन्नतार्थकम् ॥५३॥परमाऽपूर्वपुष्ट्यर्थं त्ववभृथाप्लवात्मकम् ।स्नानं सृष्टित्रयोपेतः करोम्यद्य च ओं नमः ॥५४॥इति कृत्वा सुसंकल्पं भगवान् पुरुषोत्तमः ।राधिके स जले मग्नोऽभवन्निर्गवै पुनः ॥५५॥स्नानांगं तर्पणं चक्रे स्मृत्वा सृष्टित्रयं तदा ।शरीरे मर्दनं चक्रे तिलपिष्टेन वै तदा ॥५६॥आमलकीफलचूर्णैस्तीर्थमृदा च भस्मना ।यज्ञकुण्डीयकेनैव हरिद्राचूर्णकेन च ।चन्दनेन च कस्तूर्या यवपिष्टादिना तथा ॥५७॥पञ्चरंगैस्तथा चूर्णैः सर्वौषिधीभिरित्यंपि ।पञ्चगव्येन च तथा सुवर्णतीर्थवारिणा ॥५८॥ब्रह्मकमण्डलुद्वाराऽभिषेधविधिना तदा ।संमृद्य सर्वचूर्णानि चक्रे स्नानमवभृथम् ॥५९॥यदा स्नातो महाराजस्तदा तत्र तु सागराः ।ब्रह्मह्रदः सुधासिन्धुर्विरजा च महाजलम् ॥६०॥नारा आपस्तथा नद्यो नदाः सरांसि दीर्घिकाः ।व्योमवारि तथा मेघा जलं दिव्यं च पाण्डुरम् ॥६१॥वारुणं च महातीर्थं महाभूतजलं तथा ।साधिदैवानि सर्वाणि तीर्थानि तत्र चाययुः ॥६२॥स्नपयामासुरत्यर्थं भगवन्तं हि धारया ।मुक्ता धामान्यवतारा अवतारिण्य इत्यपि ॥६३॥शक्तय ईश्वरा ईश्वराण्यो ब्रह्मप्रियास्तथा ।पितरो देवदेवेशाः ऋषयः सिद्धसाधवः ॥६४॥आश्रमाः सर्ववर्णाश्च नरा नार्यो नपुंसकाः ।जरायूजाश्चाण्डजाश्चोद्भिज्जाः स्वेदजजातयः ॥६५॥दैत्याश्च दानवा यक्षा राक्षसा वह्नयस्तथा ।पार्थिवाश्च जलीयाश्च तैजसा वायुदेहिनः ॥६६॥गगनीयास्तलवासाश्चेतनाश्च जडास्तथा ।सर्वे सस्नुस्तत्र तीर्थेऽवभृथे पुण्यवारिधौ ॥६७॥दिव्ययोगे दिव्यगुणे निर्गुणे दिव्यकारिणि ।पुष्पचन्दनवृष्टिश्च तदा तत्राऽभवच्छुभा ॥६८॥आकाशाद् देवगुरवः पावनान्यवदँस्तदा ।पावयन्तु परब्रह्म ब्रह्माऽक्षरनिवासिनः ॥६९॥धामधामस्थिता भक्ता भक्तेश्वराऽवतारिणः ।अवताराः पार्षदाश्च पावयन्तु तथेश्वराः ॥७०॥ईश्वराण्यो महासत्यः पावयन्तु सुरेश्वराः ।यजमानं यजमानान् पावयन्तु महर्षयः ॥७१॥स्वभावपावनं देवं महानारायणं सुराः ।पावयन्तु च तीर्थानि चावभृथाऽऽगतानि वै ॥७२॥गंगा चेरावती मेनकांगी च ब्रह्मपुत्रिका ।अंगशिक्षांगिका हरांगहा आयूरिका तथा ॥७३॥बीना यानेश्वरी चौबी सिन्धुश्चोरलिका तथा ।वल्गुर्निष्ठापरा दीना दिनपाद्याः सरिद्वराः ॥७४॥नारायणी नष्टजरा कर्मांगी जाम्बुजा नदी ।मुरा च कारुलिंगा च परीना आमजानिका ॥७५॥मिश्रसुरी महाकाञ्जी यूकासना सरिद्वरा ।एताश्चान्या महानद्यः पावयन्तु मखेष्टिनः ॥७६॥अश्वपट्टं पुष्करं मानसं नारायणंसरः ।पम्पासरश्चेन्द्रद्युम्नसरो ब्रह्मसरोवरम् ॥७७॥शंभुलं च सरश्चिलंसरः कोलारकंसरः ।माकमानसरो बालासरश्च माङ्गिरासरः ॥७८॥लाभरुचिसरः सरः कुवनं ग्रागिरं सरः ।आरसरस्तुरुसरो गैरानरसरस्तथा ॥७९॥सुशीलं च सरो मीनकङूसरस्तथा शुभम् ।बालकृष्णसरश्चापि द्विकलं च सरोवरम् ॥८०॥युगलं च सरस्त्र्यंगिनरसरोवरं तथा ।फुलमण्डसरश्चापि लुरासं च सरस्तथा ॥८१॥मशकेलसरश्चापि जयेशानसरस्तथा ।उद्वशं च सरश्चापि योनिगं च सरस्तथा ॥८२॥लेण्डुगं च सरश्चापि पायूशं च सरोवरम् ।तूनायं च रुक्मवासम् आवालं च रुदन्फलम् ॥८२॥विश्तुरीयसरश्चापि आलवार्तं सरस्तथा ।इतिवर्त्तं सरः किम्वासरश्च तुंगयानिकम् ॥८४॥माधुरं वाग्वियालं च सरो न्यासजयात्मकम् ।शिरोवं चण्डसंज्ञं च ग्रातवीरं सरस्तथा ॥८५॥ग्रातश्लवसरश्चापि अर्थवासं सरस्तथा ।विनिपारं सरश्चापि सुपरीयारकं तथा ॥८६॥क्लिन्नवारिसरश्चापि इतीशं सरोवरम् ।शोणभद्रनदश्चापि घर्घरानद इत्यपि ॥८७॥सागराश्चापि सर्वेऽत्र पावयन्तु च देहिनः ।पुनन्तु देवसरितः पुनन्तु तीर्थकोटयः ॥८८॥मेरुर्मन्दरशैलश्च हिमाद्रिर्युरलस्तथा ।कारुकर्मा पतत्कायो रैवताद्रिः पुनन्तु वः ॥८९॥इत्येवं च शतक्रोशे सरित्सागरवारिषु ।सस्नुः सर्वे च राजानो मखेषु यजमानकाः ॥९०॥तत्र तत्रैकपुरुषो दिव्यस्तु सूर्यभास्वरः ।नद्योस्तु संगमात्तत्र समुत्पन्नो हरिर्यथा ॥९१॥हस्ते सौवर्णपात्रे च दधन् चन्दनकाक्षतान् ।पुष्पमालां च मुकुटं बालकृष्णं समाययौ ॥९२॥पूजयामास विधिना चन्द्रकं प्रचकार सः ।हरेर्भालेऽक्षताद्रैः कुंकुमचन्दनकर्दमैः ॥९३॥ददौ तु मुकुटं कृष्णमस्तके मालिकां गले ।चकार दण्डवत्तत्र बालकृष्णं जगाद ह ॥९४॥सर्वेषां शृण्वतां मेघनादगम्भीरया गिरा ।अवभृथोऽहं पुरुषो यमपुत्रोऽस्मि शाश्वतः ॥९५॥सर्वेष्टिवैष्णवो यज्ञः पूर्णोऽयं पूर्णपुण्यदः ।अहं पुष्टिं गतोऽस्म्यद्य सर्वतीर्थागमादिह ॥९६॥अत्र स्नानं प्रतिवर्षं कुर्वाणानां तु शाश्वतम् ।मोक्षपदं निश्चितं स्यान्नारायणकृपालवात् ॥९७।)।सर्वे भवन्तु सुखिनः श्रिया द्रव्यैश्च सम्पदा ।आरोग्येण कुटुम्बाद्यै रसैर्भोग्यैः प्रपूरिताः ॥९८॥योगिनः क्षेमिणश्चापि भवन्तु सिद्धिधारिणः ।नराः नार्यः समस्ताश्च येऽत्र मखे समागताः ॥९९॥भुक्तिमुक्तिकृताह्लादा भवन्तु हरिसदृशाः ।इत्युक्त्वा च जलं त्ववभृथौ पपौ हि राधिके ॥१००॥तावज्जलात्समुत्पन्ना कुमारी चन्द्रभास्वरा ।सुरूपा सर्वशोभाढ्या पुष्टा चम्पकशोभना ॥१०१॥योग्या प्रसन्ना सुमुखी लक्ष्मीतुल्या सभूषणा ।हस्ते पात्रं पूजनार्हद्रव्ययुक्तं च बिभ्रती ॥१०२॥अक्षताद्यैः परमेशं बालकृष्णं पुपूज सा ।तां दृष्ट्वा मुमुहुः सर्वे कोटिशो मानवा अपि ॥१०३॥देवा दैत्याः ऋषयश्च पितरो देहधारिणः ।बालकृष्णं हरिं नत्वा पूजयित्वा जगाद सा ॥१०४॥अहं तृप्तिः शाश्वती च हव्यपुत्री भवामि च ।यज्ञेऽत्र सर्वहव्येभ्यो मम जन्माऽस्ति पुण्यवत् ॥१०५॥कुमार्यहं सुसन्तुष्टा जाताऽस्मि च शुभाशिषा ।युनज्मि वो भवन्तोऽत्र भवन्तु सुखिनः सदा ॥१०६॥मम सौभाग्यदातारो भविष्यन्ति सुभागिनः ।श्रीहरिस्तां तदा प्राह वरं याचस्व कन्यके ॥१०७॥कन्या प्राह वरं देहि वरश्चावभृथो हि मे ।श्रीहरिर्द्राक् विचार्यैव दानकाले ह्यवभृथम् ॥१०८॥कुमारं तं समाहूय करे धृत्वा कुमारकम् ।कन्यायै चार्थितवत्यै चार्थयन्तं कुमारिकाम् ॥१०९॥ददौ कुमार्यै दानं च विधिना दानवित् प्रभुः ।कुमारदानं प्रददौ कुमार्यै भगवान् प्रभुः ॥११०॥कुमारो रत्नहारं च कुमार्यै च समार्पयत् ।एवं विवाहविधिना कुमारदानमाप्य सा ॥१११॥कुमारी सौभाग्यवती कुमारः सुभगोऽभवत् ।केतुमाले तदारभ्य कुमारदानमुत्तमम् ॥११२॥नारी प्रधानभूता च कुमारो नार्यधीनकः ।नारीवर्चस्वमेवाऽपि नरस्य पारवश्यता ॥११३॥अवभृथकृतं जातं नार्यै समर्पणं सदा ।नारीराज्यं हि तत्सर्वं तन्माहात्म्येन विद्यते ॥११४॥इत्येवं नरदानाख्यं संगमे स्नानसंगमे ।उत्सवे तत्र कृत्वैव निर्ययुश्च जलाद् बहिः ॥११५॥सर्वे वै स्नानकर्तारस्तावत्तु दम्पतीद्वयम् ।नृत्यं कुर्वत् प्रसन्नं च जलान्तरे व्यलीयत ॥११६॥इत्येवं लोकयामासुर्महाश्चर्यं मखार्थिनः ।ददौ दानानि च तदा कोटिशो मानवादयः ॥११७॥कन्याभ्यः कोटिसंख्याभ्यः कुमाराणां यथाकृतम् ।कन्यकास्तु तदा प्राप्य कुमारान् वररूपिणः ॥११८॥कोटिशस्तत्र सञ्जाताः सौभाग्यभाग्यशोभिताः ।एवं कुमारदानं वै विवाहे तत्र चाद्यजम् ॥११९॥अभवत् तत् सदा तत्र विद्यते शाश्वतो विधिः ।कुमारैश्च समं पृथ्वीगृहगोस्वर्णदानकम् ॥१२०॥ददुर्वै पितरस्तेषां वधूटीभ्यो मुदान्विताः ।एवं चावभृथं कृत्वा दत्वा दानानि कोटिशः ॥१२१॥स्वं स्वं स्थानं ययुः सर्वे विशश्रमुश्च मन्दिरे ।वादित्राणां निनादाश्च तदा शान्तिमुपागमन् ॥१२२॥इत्येवं राधिके महाश्चर्यं यत्ते निवेदितम् ।श्रवणात्पठनादस्य स्मरणाच्छ्रावणादपि ॥१२३॥अवभृथफलं प्राप्य कुमारदानजं फलम् ।लभेत् भुक्तिं तथा मुक्तिं सौभाग्यं शाश्वतं लभेत् ॥१२४॥इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रत्यक्षहरिर्महापूर्णाहुतीर्जग्राह, सर्वेषां भोजनानि, अवभृथस्नानं, अवभृथात्मककुमारप्राकट्यम्, तृप्तिरूपकुमारीप्राकट्यम्, कुमार्यै वरं याचमानायै अवभृथाख्यस्य कुमारस्य दानम्, विवाहविधौ कुमारदानानि, महादानानि, स्वस्वस्थानेषु विश्रान्तिश्चेत्यादिनिरूपणनामैकसप्तत्यधिकशततमोऽध्यायः ॥१७१॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP