संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १३ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १३ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु राधे ह्यसुराणां पावकः श्रीनरायणः ।सर्वान् दैत्यान् निजलीनान् कृत्वा धाम्नि स्वकोऽनयत् ॥१॥अधमोद्धार एवं श्रीभगवान् पुरुषोत्तमः ।दैत्यानां दानवानां रक्षसां द्विषां विरोधिनाम् ॥२॥शरणं स्वं प्रपन्नानामार्त्तिहा मोक्षदो हि सः ।अनुग्रहोऽयं कृष्णस्य श्रीपतेः परमात्मनः ॥३॥कृपासाध्यो ह्ययं मोक्षः पारितोषिकवन्मतः ।शृणु त्वं राधिके दैत्या मोक्षं गता मृता इति ॥४॥श्रुत्वा दमनपत्नी च शीलहाख्या तथाऽपराः ।मार्तण्डादिप्रधानानां वीरश्मिद्युहनादिकाः ॥५॥धीभक्ष्या वानसी शौण्डी मातीर्या कण्डिका हृति ।कुण्ठा कालुषिकी धूम्रा पाधूली च रजोऽण्डिका ॥६॥करंधमी च विकटी दत्कटी दामनी रुखा ।दामिनी तालजंघा च दीर्घिका दण्डिका घटी ॥७॥होरा आया दमा दिष्टिः पिष्टिः पाम्पी प्रकुण्डिका ।करण्डिकाद्याश्च तथा प्रधानानां प्रियास्तु ताः ॥८॥समाकर्ण्य तु दैत्यानां मृत्युं रुरुदुरुत्स्वराः ।हा हताःस्मेति चुक्रुशुर्व्यस्तकेशा विमूर्छिताः ॥९॥विनष्टसर्वशृंगाराः सर्वसौभाग्यवर्जिताः ।प्राणहीना इव लक्षाधिका वैधध्यपीडिताः ॥१०॥अथाऽऽयात् तत्र वै तासां गुर्वी वै शुक्रजीवनी ।सान्त्वयामास बोधेन वैरनिर्यापनं तथा ॥११॥वयं सर्वा गमिष्यामो हनिष्यामश्च लोमशम् ।बालं हत्वा करिष्यामो विनाथाः सर्वकन्यकाः ॥१२॥सज्जाभवथ सर्वाश्च पत्यर्थं प्राणदायिकाः ।स्वामिमार्गं गमिष्यामः कृत्वा वैरस्य तर्पणम् ॥१३॥या न पत्युः कृते नष्टा जीविताऽपि मृता हि सा ।पतिर्धनं हि नारीणां तद्गते विगतं धनम् ॥१४॥पतिर्दैवं पतिर्भाग्यं सौभाग्यं पतिरेव च ।स्वामी मानं पतिः शोभा प्रतिष्ठा स्वामिनि स्थिता ॥१५॥केशाः कंकणमाभोगाः शोभन्ते पतिजीवनाः ।तेषां नाशे जीवनं तु नष्टं स्त्रीणां ततो जनुः ॥१६॥निरर्थकं भवेत् पश्चान्मरणं सार्थकं भवेत्॥सतीरूपेण मर्तव्यं वैरनिर्यापनं विना ॥१७॥निरर्थिका मृतिः साऽत्र न सा पत्युः प्रशान्तये ।वैरनिर्यापनं कृत्वा सृतिः पत्युः प्रशान्तिदा ॥१८॥तस्मादायात सर्वाश्च सम्भूय कृतनिश्चयाः ।सन्नह्य सर्वा योत्स्यामो हनिष्यामश्च कन्यकाः ॥१९॥लोमशस्य जटाजूटान् त्रोटयिष्याम एव च ।बालकृष्णं हरिष्यामो मारयिष्याम एव वा ॥२०॥इत्यामन्त्र्य तदा दैत्यपत्न्यो लक्षाऽतिलक्षकाः ।शीलहाद्याः शस्त्रयुक्ताः समुत्पेतुर्विहायसा ॥२१॥शक्तितोमरखङ्गाऽसिभूशुण्डीमुद्गराऽऽयसान् ।चिपीटकान् मुशलांश्च दण्डान् दन्त्रान् त्रिशूलकान् ॥२२॥कुन्तान् सिताः कृपाणाँश्च चक्राणि पट्टिशान् शरान् ।कुन्तलान् छुरिका वेधान् दृषदो यष्टिकाः कशान् ॥२३॥शंकूनंकुशकान् भल्लान् वंशानग्निमुखान् करान् ।क्षेपणान् बन्धनान् पाशान् रश्मीन् पन्निगडान् कटान् ॥२४॥कुठारान् परशून् काष्ठोपलाः पादाँश्च शृंखलाः ।एवं बहुविधान् शस्त्रहेतीन् धृत्वाऽसुरस्त्रियः ॥२५॥वर्मयुक्ताश्चर्मयुक्ताः स्थालीगोपितमूर्धजाः ।सकच्छा बद्धकटिकाः सुदृढाम्बरबन्धनाः ॥२६॥सत्राणसाधना यानैर्व्योम्ना वादित्रनिःस्वनैः ।त्रासयन्त्यो जगत्सर्वं चाययुर्लोमशाश्रमम् ॥२७॥मद्यपानारक्तनेत्रा मांसादनप्रमादिकाः ।उन्मत्तवत्प्रलापिन्यश्चावतेरुर्भुवं प्रति ॥२८॥कृष्णकज्जलशृंगादिकृतचित्राननास्तदा ।स्तनयोः रक्तचन्द्राभिचक्रादिभिर्भयंकराः ॥२९॥छिन्धि मारय भिन्धीति खादयैनं च मर्दय ।चर्वय प्राणतश्चैनं प्रचूर्णय मदादिभिः ॥३०॥आन्त्राण्यासां कर्षयन्तु पेषयन्तु शिलातले ।मस्तकानि स्फोटयन्तु पिबन्तु रुधिराणि च ॥३१॥चर्वयन्तु च मांसानि कन्यकानां हरेस्तथा ।लोमशं खण्डशः सख्यः कुर्वन्तु भवतीव्रजाः ॥३२॥अनेनाऽस्मत्स्वामिनो वै हता भस्माऽत्र विद्यते ।लोमशं प्रथमं चात्र मारयन्तु प्रहारकैः ॥३३॥कर्षयन्तु ततो मूत्रकर्दमे मलमिश्रितम् ।कर्दमं चास्य च मुखे निक्षिपन्तु च चक्षुषोः ॥३४॥नेत्रे चोत्पाटयन्त्वस्य शूले चारोपयन्तु च ।द्वेधा पद्भ्यां विनिष्पीड्य द्विदलं कारयन्तु च ॥३५॥एवं ता वदमाना वै लोमशस्याऽऽश्रमं गताः ।परितो वनवृक्षाद्यान् नाशयामासुरुग्रगाः ॥३६॥वल्लीर्विनाशयामासुर्ग्राहयामासुरुत्कराः ।मयूरादीन् शुकान् हंसान् हरिणान् जघ्नुरुल्बणाः ॥३७॥लोमशर्षिर्योषितां तान् गणान्नैवाऽवलोकयत् ।स्त्रीणामभिभवः पुंसा नैव कार्यः कदाचन ॥३८॥तत्रापि मुनिना नैवं विचार्येति ददौ न हृत्॥तावत्तास्तु समायाताः सशस्त्रा धर्तुमेव तम् ॥३९॥ऋषिं सर्वाः कन्यकाश्च नाशयितुं प्ररेभिरे ।विलोक्यैतत्तु ऋषिणा जलमादाय सर्वतः ॥४०॥स्वस्य रक्षा कन्यकानां तथा रक्षा कृता तदा ।क्षिप्तं जलं वह्निरूपं व्यजायत ददाह ताः ॥४१॥वह्निः प्राकाररूपेणाऽव्याप्नोत् संपरितस्तदा ।दैत्यस्त्रीणां महत् सैन्यं वर्तुलाकारवह्निराट् ॥४२॥ऊर्ध्वं वितानरूपश्च भूत्वा रुरोध राक्षसीः ।दद्रुवुर्दह्यमानास्ता बालकृष्णालयं प्रति ॥४३॥अथ कन्या अपि सर्वा लोमशो मुनिराडपि ।मिथो जगुरिमा राक्षस्यो वै यान्ति हरिं प्रति ॥४४॥मारयिष्यन्ति तं बालं मातरं पितरं च वा ।अथ स्त्रीभिर्न योद्धव्यं पुरुषैः सर्वथा यतः ॥४५॥स्त्रीभिः साकं सुयोद्धव्यं स्त्रीभिरेव हि धर्मतः ।भवत्यः कन्यकाः सर्वा धारयन्तु हि वर्म च ॥४६॥शस्त्राणीमानि सर्वाणि धारयन्तु यथायथम् ।मन्त्रान् दिव्यान् धारयन्तु नाशयन्तु च ता द्रुतम् ॥४७॥इत्युक्त्वा लोमशः शीघ्रं पत्यर्थप्राणरक्षिकाः ।कन्यकाः श्रावयामास श्रीस्वामिकवचं तदा ॥४८॥त्रिराचम्य हरिं ध्यात्वा प्राणानायम्य त्रिस्तथा ।मस्तके मे हरेरस्तु मस्तकं च मुखे मुखम् ॥४९॥नेत्रयोर्मेऽस्य नेत्रे स्तां श्रवसोर्मेऽस्य वै श्रवौ ।ममकण्ठे हरेः कण्ठो हस्तयोर्मे हरेः करौ ॥५०॥वक्षसि स्तनयोर्मे च हरेर्वक्षःस्तनौ तथा ।उदरे मे हरे रस्तूदरं कट्यां हरेः कटिः ॥५१॥पृष्ठे पृष्ठं नितम्बयोर्मे नितम्बौ हरेस्तथा ।गुप्ते गुप्तं तथा सक्थ्नोः सक्थिनी पादयोः पदे ॥५२॥सर्वा मूर्तिर्हरेरस्तु मयि सर्वांगमूर्तिके ।इतिन्यासान् विधायैव स्वामिकवचमुच्चरेत् ॥५३॥ओम् अनादिश्रीकृष्णनारायणः सर्वप्रहेतिमान् ।दिव्यविमानमारूढः सर्वरक्षां करोतु नः ॥५४॥शंखचक्रगदापद्मचर्मासिचापपाशवान् ।धनुस्त्रिशूलशरवान् शस्त्रेभ्योऽवतु नो हरिः ॥५५॥व्योम्नि दिव्यक्रमोऽव्यान्नोऽनले कृष्णनरायणः ।वायौ प्राणपतिः पायाज्जले स्वामी परात्परः ॥५६॥पृथ्व्यामव्याद् बालकृष्णो युद्धेऽव्यात्पुरुषोत्तमः ।शस्त्रास्त्रमन्त्रपातेभ्योऽव्यान्नः पतिः फलस्थितः ॥५७॥इन्द्रजालादिमायाभ्योऽन्तरात्माऽव्यात् श्रियः पतिः ।प्रियस्वामी कृष्णनारायणोऽव्यात्कालवेगतः ॥५८॥राक्षसीभ्यः कृष्णकान्तश्चाव्यादनवधानतः ।मृप्युरोगाऽचिन्त्यभीभ्यः पातु न कृष्णवल्लभः ॥५९॥भौतिकेभ्यो विकारेभ्यः पातु नोऽक्षरधामपः ।सर्वावस्थासु सर्वेभ्यः पातु त्वन्तरगः प्रभुः ॥६०॥संहर राक्षसीसैन्यं रक्षय कन्यकाकुलम् ।आनन्दय ततो नश्च जयं देहि परेश्वर ॥६१॥ओमनादिकृष्णनारायणोऽस्य देवताऽवतु ।लोमशाय नमः स्वामिकवचस्यर्षये सदा ॥६२॥कम्भराश्रीमहालक्ष्म्यै रक्षाकर्त्र्यै नमोऽवतु ।नारायणाय गोपालकृष्णाय च नमोऽवतु ॥६३॥इत्युच्चावितमेवैतत् कवचं कोटिरूपधृक ।क्षणादजायत कोटिसूर्यवर्चुलमुज्ज्वलम् ॥६४॥कन्यास्ता धारयामासू राधिके च त्वया सह ।मञ्जुला पार्वती लक्ष्मीः प्रभा हंसा च माणिकी ॥६५॥कोटिकोट्यः स्वर्णवर्णं दध्युस्तच्छेदवर्जितम् ।अवृणं चाऽवियुक्तं च वर्म वर्ष्मसु पूरितम् ॥६६॥कोमलं निष्ठुरं चापि सुखस्पर्शं च रक्षकम् ।धृत्वा जलेन साकं च शस्त्रास्त्रमन्त्रकान् पपुः ॥६७॥कन्यकावर्ममन्त्राढ्या युगपत् कृपयाऽभवन् ।'ग्रसत्वेतत् कृष्णकान्तः कान्तार्थमों क्षः फट् स्वाहा' ॥६८॥जजपुस्ता मन्त्रमेवं चाष्टोत्तरशतं तदा ।युद्धे सर्वत्र चान्यत्र यः स्मृतो रक्षकोऽस्ति वै ॥६९॥मन्त्रश्चायं धृतस्ताभिर्जप्तश्चापि ततः परम् ।लोमशः प्रददौ ताभ्योऽणिमाद्याः सिद्धयस्तथा ॥७०॥ऐश्वर्याणि समस्तानि चाऽप्रधृष्याणि यान्यपि ।सन्धिनीयोजिनीक्षतवारिणीशूलहारिणीः ॥७१॥जलाऽऽचमनसार्धं वै ददौ विद्याः सहस्रशः' ।अनेकरूपभवनं मृषासत्यविधारणम् ॥७२॥अन्तर्धानं पुनर्भावं सर्वविद्या ददौ तदा ।कोट्यर्बुदानां कन्यानां सैन्यवेषाँस्तदा द्रुतम् ॥७३॥जलबिन्द्वभ्युक्षणेन कृतवान् लोमशो मुनिः ।तूर्यवादित्रयानानि गजसिंहाऽश्वकानि च ॥७४॥हंसगरुडयानानि क्षणाज्जलेन चाऽकरोत् ।तावत् तूर्याण्यवाद्यन्तोत्पेतुर्व्योम्नि कुमारिकाः ॥७५॥यत्राऽस्ते भगवान् कृष्णो बालः स्वामी गृहान्तरे ।क्षणध्यानेन गत्वैताश्चाऽम्बरं प्राप्य चाग्रतः ॥७६॥राक्षसीनां तु सैन्यानां वारणार्थं व्यवस्थिताः ।राधा लक्ष्मीः रमा श्रीश्च पार्वती माणिकी प्रभा ॥७७॥मंगला मनसा रेवा भार्गवी च सरस्वती ।गंगा च मञ्जुला भक्तिर्मुक्तिरेकादशी रतिः ॥७८॥हंसा सगुणा तुलसी कमला विरजा सती ।मूर्तिश्च गोमती स्वर्णरेखा जया च नन्दिनी ॥७९॥दुर्गा ललिता सावित्री दोला पुष्पा कलावती ।बदरी माधवी पम्पा षष्ठी प्रीतिः ऋतध्वजी ॥८०॥मौक्तिका लाडकी देवी मनुः कस्तूरिका सिता ।हैमी शान्तिः प्रशान्ता च चम्पा गोदावरी यमी ॥८१॥ओजस्वती च सविता रत्ना मिष्टाऽमृता धनिः ।चतुरा वज्रिका मुक्ता सुशीला श्यामिकाऽमला ॥८२॥सन्तुष्टा चन्द्रिका कान्तिः कुंवरी च शिवादिकाः ।एताश्चान्याः शतं चापि चत्वारिंशत्तद्ग्रगाः ॥८३॥सैनापत्येऽभवन्नग्रगताः कोट्यो बलात्मिकाः ।हर्षनादाँस्तदा चक्रुर्जयकृष्णनरायण ॥८४॥जय कान्त महाकान्त परमेश्वर वै जय ।जय स्वामिन् जय नाथ, लोमशोऽपि जयत्विह ॥८५॥ 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।एवं मन्त्रं रटन्त्यश्च रोधयामासुरासुरीः ॥८६॥'ग्रसत्वेतत् कृष्णकान्तः कान्तार्थम् ओं क्षः फट् स्वाहा' ।मन्त्रजापं तदाऽकुर्वन् वारयामासुरासुरीः ॥८७॥आकस्मिकं राक्षसीनां सैन्यं चाम्बरमार्गतः ।समायातं वीक्ष्य मातापितरौ वासिनोऽपरे ॥८८॥भयं प्रापुस्तदा बालकृष्णो भूत्वा किशोरकः ।पितृभ्यामाह भेतव्यं नैव नैव च नैव च ॥८९॥निर्यातुं विधवा वैरं राक्षस्यो योद्धुमागताः ।स्त्रियो नैव प्रहन्तव्या मया क्वापि नरेण यत् ॥९०॥लोमशेनापि हन्तव्या नैव नैव कदाचन ।वह्निनाऽऽश्रमरक्षां स चकार गुरुराड् यतः ॥९१॥ता भीताश्च ततोऽत्रापि मां हन्तुं चागताः खलु ।लोमशप्रेषितास्ताभिर्युद्ध्यन्तां कन्यकास्त्विमाः ॥९२॥सन्नद्धा मन्त्रशस्त्रास्त्रयुद्धर्मोदिबृंहिताः ।कोटिशस्ता इमाः सैन्यरूपेणाऽम्बरसंस्थिताः ॥९३॥युयुत्सन्तीच्छया मेऽम्ब! नाऽत्र चित्रं कथंचन ।इति कृष्णे प्रवदिते गरुडान् हंसवाजिनः ॥९४॥गजान् यानानि दिव्यानि ब्रह्मविष्णुमहेश्वराः ।ददुर्व्योम्नि कन्यकाभ्यो रथान् विमानकानि च ॥९५॥वीरकन्यामहासैन्यं वाहनैरुपशोभितम् ।यावत् तावत्तु राक्षस्यः समुत्पेतुः समन्ततः ॥९६॥ताडयामासुरत्युग्रं वीरकन्यागणं तदा ।कन्यका रणचण्ड्यस्ताः प्रतिताडनमाचरन् ॥९७॥गजानां वाजिनां हंसगरुडानां निनादनम् ।सिंहानां देवयानानां गर्जनं चाण्डमावृणोत् ॥९८॥गर्दभानां तथोष्ट्राणां कुक्कुटानां च रक्षसाम् ।शुनां च जम्बुकानां चाऽक्रोशास्तत्राऽभवन् प्रति ॥९९॥हेतीनां चाऽऽयुधानां च शराणां पातनानि वै ।हन्त्रीणां योषितां चान्योन्यं देहेष्वभवन् मुहुः ॥१००॥निजघ्नुस्तोमरैः काश्चित् काश्चिज्जघ्नुः कृपाणकैः ।काश्चित् केशान् प्रगृह्यैव चिक्षिपुः पृथिवीतले ॥१०१॥अन्या जघ्नुर्गदाभिश्च तथाऽपरास्तु मूशलैः ।भिन्दीपालैश्चेतराश्च निजघ्नुश्चाऽसिभिः पराः ॥१०२॥खड्गैश्चान्या उपलाभिः पाषाणैः क्षेपणैस्तथा ।शृंखलाभिस्तथा दण्डैर्नाराचैश्च शरैः पराः ॥१०३॥हन्यन्ते तत्र राक्षस्यो जीवतो न तु कन्यकाः ।शक्तिभिर्मुद्गरैश्चान्या भूशुण्डीभिस्तथाऽपराः ॥१०४॥घ्नन्ति क्रोधानलदग्धा ओष्ठचर्वणरोषिताः ।दण्डैर्दन्तैस्त्रिशूलैश्च चिपीटकैश्च पट्टिशैः ॥१०५॥मूढमाराण्यपतन् वै सिताभिश्च कृपाणकैः ।कुन्तैः कुन्तलकैश्चापि शरैश्चक्रैश्च मूशलैः ॥१०६॥छुरिकाभिर्दृषद्भिश्च यष्टिकाभिश्च वेधनैः ।भिद्यन्ते ब्रह्मरन्ध्राणि छिद्यन्ते सक्थिबाहवः ॥१०७॥शंकुभिः कुशकैर्भल्लैर्वंशैरग्निमुखैः करैः ।विदीर्यन्ते हृदयानि स्तनानि मस्तकानि च ॥१०८॥बद्ध्यन्ते रश्मिपाशैश्च क्षिप्यन्ते कटकादिभिः ।कुठारैः परशुभिश्च विभिद्यन्ते कबन्धकाः ॥१०९॥शृंखलाभिः प्रताड्यन्ते ज्वाल्यन्ते चानलैस्तदा ।राक्षस्यः कन्यका हन्यन्तेऽन्धताडनकैर्मिथः ॥११०॥एवं वै तुमुलस्तत्र संग्रामः समजायत ।न कस्याश्चिच्छ्रूयतेऽत्र शब्दे युद्धप्रगर्जनैः ॥१११॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने राक्षसीनां कन्यकानां च अश्वपट्टसरःसन्निधौ तुमुलयुद्धारंभो नाम त्रयोदशोऽध्यायः ॥१३॥ N/A References : N/A Last Updated : April 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP