संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २१७ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २१७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २१७ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके कायनीपुर्यां नेतुं चेयेष भूपतिः।श्रीहरिं प्रार्थयामास तूपविष्टं गजोपरि ॥१॥हरिर्गजे चतुर्दन्ते स्वर्णाम्बालिकया युते ।न्यषीदच्च ततश्चान्यान् न्यषादयद् गजादिषु ॥२॥शिबिकासु हरिप्रिया न्यषादयत्तु राधिके ।गौरीर्ब्रह्मप्रियाद्याश्च हारिताश्चामरीस्तथा ॥३॥सैन्यवाद्यैः सह श्रीमत्कृष्णो वै शुशुभे तदा ।अम्बिकर्षिश्चामरं च धृत्वा पृष्ठे ह्युपाविशत् ॥४॥एवमभ्रामयत् कृष्णं कायन्यां नृपतिः स्वयम् ।नगर्यां चत्वरादौ च सौधेष्वपि च हट्टके ॥५॥स्थले स्थले प्रजास्तं सम्पुपूजुर्बालकृष्णकम् ।अनादिश्रीकृष्णनारायणं चन्दनकाञ्चनैः ॥६॥फलैश्च मौक्तिकैर्हारै रत्नाद्यैरक्षतादिभिः ।वस्त्रैर्भूषादिभिश्चापि शर्करामिष्टवस्तुभिः ॥७॥एवं श्रीभगवान् पुर्यां भ्रमित्वाऽऽवासमाययौ ।जलं पपौ राजसभागृहे रात्रौ ह्युपादिशत् ॥८॥पूर्णारात्रौ देशजनानाह श्रीभगवान् प्रभुः ।उपार्जनीयं पुण्यं वै येन केनापि कर्मणा ॥९॥पापं वै परिहर्तव्यं यद्वै श्रेयोविघातकम् ।पापस्य विद्यते सृष्टावधिष्ठानं प्रलोभनम् ॥१०॥एको लोभो महादुष्टो लोभात्पापं प्रवर्तते ।नाशमूलं महान् लोभो येन ध्वंसगता जनाः ॥११॥लोभात् संजायते क्वापि क्रोधः कामश्च तृष्णिका ।मानं माया च मोहश्च स्तंभः पराऽसुताऽपि च ॥१२॥अक्षमा ह्रीविनाशश्च सम्पच्छ्रीधर्मसंक्षयः ।अकीर्तिर्दीनता वश्यभावो लोभात् प्रवर्तते ॥१३॥अदानं चात्यजनं च तृषा विकर्मवर्तनम् ।मदो द्रोहोऽवमानं चाऽविश्वासोऽनार्जवं तथा ॥१४॥परद्रव्यादिहरणं निन्दा वेगो विभोगकः ।ईर्ष्या कुत्सा विकत्था च मात्सर्यं दुष्टकारिता ॥१५॥साहसं वञ्चनं चौर्यं लोभात् सर्वं प्रवर्तते ।यो न पूरयितुं शक्योऽयुतजन्मगतैरपि ॥१६॥जीर्यतो जीर्यति ध्रौव्यं लोभो ध्रौव्यं न मुञ्चति ।नित्यं गभीरतां याति प्रयुक्तोऽर्थेषु चाऽक्षतः ॥१७॥रागं जनयति द्रव्ये भोग्ये प्रयोजितः सदा ।आसक्तिं च परां तृष्णां लोभात् प्राप्नोति मानवः ॥१८॥स लोभः सह मोहेन जेतव्यः श्रेय इच्छता ।लोभाश्रयौ द्वेषरुषौ शिष्टाचारविघातकौ ॥१९॥अन्तःक्रूरौ छन्नकूपौ जगतां नाशकारकौ ।लोभाश्रया जनाश्चान्यान् वञ्चयन्तीह हेतुभिः ॥२०॥सतां मार्गान् विलुम्पन्ति नाशयन्ति निजान् वृषान् ।पतन्ति दारुणे क्लेशे पातयन्त्यपरानपि ॥२१॥धर्षयन्त्युत्तमान् स्वार्थसिद्ध्यर्थं पितृबान्धवान् ।शिष्टानशिष्टान् कुर्वन्ति लुब्धा लोभादयस्तथा ॥२२॥तेन पुण्यस्य लोपः स्यात्तथा भूतो विनश्यति ।तस्माच्छुचिव्रतान् साधून् समाश्रयेद् वितृष्णकान् ॥२३॥लोभमोहरहितान् वै श्रेयः स्यात्परमं ततः ।सत्ये स्थितान् धर्मवृषान् शिष्टाचारसमन्वितान् ॥२४॥कृष्णप्रसंगसंप्राप्तान् सेवेतापि दयापरान् ।पितृदेवाऽऽतिथेयांश्च तथा सर्वोपकारिणः ॥२५॥सर्वधर्माऽऽस्तिकभावान् सर्वभूतहिते रतान् ।सर्वदेवान् पूजयेच्चाश्रयेच्छ्रेयः परं भवेत् ॥२६॥न येषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम् ।न त्रासिनो न चपला न क्रूराः सत्पथे स्थिताः ॥२७॥तान् साधून् सम्प्रसेवेताऽहिंसकान् मत्परायणान् ।सर्वदोषव्यपेताँश्च निर्ममान् निरहंकृतान् ॥२८॥सुव्रतान् स्थिरमर्यादान् समुपासीत भूतये ।न धनार्थं यशोऽर्थं वा धर्मो येषां विलुप्यते ॥२९॥अवश्यं कार्य इत्येवं शरीरस्य क्रियापराः ।न भयं रुट् न चापल्यं न शोको येषु लौकिकः ॥३०॥सत्यार्जवपरा ये च मम मूर्तिपरास्तथा ।न भ्रश्यन्ते रतिं प्राप्य न च लाभेषु हर्षिताः ॥३१॥न व्यथन्ति विलाभेषु सत्त्वमार्गमुपाश्रिताः ।समभावा दयाभावाः परोपकारभाविनः ॥३२॥लाभालाभौ सुखदुःखे प्रियाप्रिये जनिमृती ।समानि येषां चेतांसि तानुपासीत भक्तिमान् ॥३३॥महानुभावान् दैवाँश्च गुणिनः समुपाश्रयेत् ।अज्ञानहारकान् दिव्यान् गुरून् श्रयेच्च भूतये ॥३४॥अज्ञानं लोभमूलं च पापोत्पादकमित्यपि ।अज्ञानान्न नरो वेत्ति त्वात्मनः क्षयमित्यपि ॥३५॥उभावेतौ समफलौ समदोषौ महत्तमौ ।अज्ञानं चातिलोभश्च स्थितेर्विनाशकौ मतौ ॥३६॥लोभप्रभवमज्ञानं लोभवृद्ध्या प्रवर्धते ।लोभे क्षीणे क्षयं यात्यन्यथा यात्यब्जधागतीः ॥३७॥इन्द्रियाणां दमनेन लोभः क्षीणो भवेन्नन् ।वासनाया विलोपेन लोभमूलं विनश्यति ॥३८॥दमः कल्याणदो बोध्यो दमो धर्माऽतिशोभनः ।दमात् सिद्धिर्भवत्येव दमो दानाद् विशिष्यते ॥३९॥दमात्तेजो वर्धते च तेजस्वी पुरुषो भवेत् ।दमी चात्र परत्राऽपि परं सुखं प्रविन्दति ॥४०॥सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते ।सुखं पर्येति लोकाँश्च मनश्चास्य प्रसीदति ॥४१॥अदान्तो हि जनः क्लेशमभीक्ष्णं प्रतिपद्यते ।अनर्थोश्च बहूनन्यान् प्रसृजत्यदमो जनः ॥४२॥गुरुपूजाफलं प्रोक्तं दमिनः शीलिनः सतः ।कामः क्रोधो दर्पलोभौ रोष ईर्ष्याऽवमानने ॥४३॥असूयाद्या दुर्गुणाश्च दान्ते तिष्ठन्ति नैव ह ।समुद्रकल्पो दान्तोऽस्ति येनेन्द्रियझषा हताः ॥४४॥येन ग्राम्यास्तथाऽऽरण्याः प्रवृत्तयोऽपि वै हताः ।सुवृत्तः शीलसम्पन्नः प्रसन्नात्माऽऽत्मविद् बुधः ॥४५॥दान्तं प्राप्येह सत्कारं सुगतिं लभते परे ।सतां समाचरितं यत् कर्म दान्तस्य वर्तते ॥४६॥शुभं कल्याणदं वर्त्म सतां दान्तस्य वर्धते ।दान्तो धूत्वाऽऽत्मनिष्ठश्च साधुसेवापरायणः ॥४७॥मद्ध्याननिरतो भक्तो ब्रह्मभूयाय कल्पते ।यस्मादभयं भूतानां भूतेभ्यो यस्य चाऽभयम् ॥४८॥देहे वा च विदेहे वा भयं त्वस्य कुतोऽपि न ।आचिनोति तु मे सेवां सर्वेषु मित्रतां गतः ॥४९॥सतां मार्गं प्रपन्नस्य गतिर्मे सदृशी सदा ।लोभं चाऽज्ञानकं त्यक्त्वा दान्तो भूत्वा तु मां भजेत्। ॥५०॥मोक्षस्तेजोमया यद्वा लोकास्तस्य तु शाश्वताः ।समर्प्य मयि कर्माणि समर्प्य मयि वै तपः ॥५१॥समर्प्य मयि विज्ञानं प्रसन्नात्मा मदाश्रयः ।प्राप्य भोगान् दिविस्थाँश्च मत्स्वर्गं विन्दति ध्रुवम् ॥५२॥यद्वा पैतामहं स्थानं वैराजं वा ततः परम् ।ब्रह्मराशिमयं चाव्याकृतं धामाऽमृतं च वा ॥५३॥गोलोकं चापि वैकुण्ठं भक्त्या दमेन विन्दति ।ज्ञानारामस्य भक्तस्य सर्वदेह्यविरोधिनः ॥५४॥नात्र भयं पुनश्चास्ति परलोकभयं न च ।दमिनो यादृशी शान्तिस्तादृशी यत्निनो नहि ॥५५॥दमे लोकोक्तिरेका स्यात् सोढव्या साहि साधुना ।या चैनं क्षमया युक्तमशक्तं मन्यते जनः ॥५६॥अशक्त्या क्षमया श्रेष्ठो गुणोऽस्य जायते ध्रुवः ।क्षमया विपुला लोकाः सुलभा येनु दुर्लभाः ॥५७॥सहिष्णुता साधुधर्मो दुर्लभोऽन्यदुरात्मनाम् ।दान्तस्य किमरण्येनाऽरण्यं यत्र संवसेत्। ॥५८॥दान्तिस्तपः परं प्रोक्तं यदिच्छामारणं महत् ।वेगवतामिन्द्रियाणां निरोधो योधनं महत् ॥५९॥तद्वै तपः सञ्चितं च सर्वान् कामान् ददाति हि ।त्रीन् लोकाँस्तपसा सिद्धाः प्रपश्यन्ति दमान्विताः ॥६०॥यद् दुरापं भवेत् किञ्चित् तत्सर्वं तपसा लभेत् ।ऐश्वर्याणि समस्तानि तपोमूलानि तानि वै ॥६१॥सर्वपापानि तपसा दह्यन्ते तापितानि हि ।निवृत्तेन्द्रियवर्गस्य तपोऽनशननामकम् ॥६२॥सबलं वर्धते दिव्यतेजोवर्धनकं परम् ।न दुष्करतरं दानात् तपो नानशनात्परम् ॥६३॥न दाक्ष्यं चात्ममुक्त्याप्तेर्न सन्तोषात्परं सुखम् ।तपसा शक्यते प्राप्तुं देवेशमुक्ततादिकम् ॥६४॥वाङ्तपः सत्यमेवाऽस्ति सत्सु सत्यं प्रतिष्ठितम् ।सत्यं धर्मस्तपो योगो यज्ञो ब्रह्म सनातनम् ॥६५॥तत्सर्वं सत्यरूपं वै तपः कृष्णे समर्पितम् ।हरेर्योगाद् भवेत् सत्यव्रतं सतां तु सेवनात् ॥६६॥सर्ववस्तुषु मां पश्येत् समताव्रतमुच्यते ।इच्छाक्षयेन च दमव्रतं तृष्णाक्षयेन च ॥६७॥आत्मनिष्ठादृढत्वेनाऽभयव्रतं ह्यवाप्यते ।ज्ञानेन चाप्यते स्थैर्यं गांभीर्यं धैर्यमित्यपि ॥६८॥अमात्सर्यं लभ्यते च निर्ममत्वेव सर्वथा ।साधुत्वं क्षमया शीलं चाऽसंकल्पेन लभ्यते ॥६९॥धिया श्रेयो लभ्यते च कल्याणं पुण्यकर्मभिः ।ह्रीर्धर्मात्प्राप्यते क्षान्तिर्धैर्येण लभ्यते तथा ॥७०॥त्यागः स्नेहस्य यत्त्यागो विषयाणां तथैव च ।रागद्वेषवियोगेन वैराग्येण च लभ्यते ॥७१॥धैर्यं विकारशून्यत्वं सुखदुःखप्रदेऽपि च ।विषये चाऽप्यधृष्यत्वं प्राप्यते चात्मसत्तया ॥७२॥सर्वथा क्षमिणा भाव्यं भाव्यं सत्यपरेण च ।वीतहर्षभयरुड्भिर्भाव्यं कल्याणलब्धये ॥७३॥अद्रोहेण सदा भाव्यं सानुग्रहेण वै तथा ।सत्यधर्मेण शीलेन भाव्यं कल्याणमिच्छता ॥७४॥सतां सेवाकृता भाव्यं भाव्यं मद्भक्तिसंयुजा ।आत्मार्पणेन वै भाव्यं परश्रेयोऽभिकांक्षिणा ॥७५॥मन्त्रो ग्राह्यो वैष्णवश्च शरणं मे हरेस्तथा ।तेन श्रेयस्तथा प्रेयः परमं वो भविष्यति ॥७६॥इत्युक्त्वा विररामाऽसौ भगवान् पुरुषोत्तमः ।प्रजाः प्रेम्णा पुपूजुश्च मन्त्रं हरेश्च जगृहुः ॥७७॥ततो राजा च राज्ञी च कुमाराश्चक्रुरर्हणाम् ।तिस्रो राज्ञ्यस्तथा तिस्रः कन्यकाश्चक्रुरर्हणाम् ॥७८॥महानीराजनं चक्रुः कर्पूरवर्तिकायुतम् ।राजवेषं धारयामासुश्च गोपालनन्दनम् ॥७९॥योग्याः कन्याश्च वै तिस्रो रम्या युवत्य एव ताः ।मात्राज्ञया स्वहृदयैः सुवर्णवरमालिकाः ॥८०॥हरेः कण्ठे न्यधुः सर्वाश्चरणाम्बु पपुस्तथा ।मधुपर्कं ददुश्चाप्याददुः कान्ते समर्पिताः ॥८१॥कृतकृत्या अभवँस्ताः स्थलपद्मदलप्रभाः ।पारावारपिबो राजा चक्रे विवाहकोत्सवम् ॥८२॥परिहारोत्तरं चक्रर्भोजनं तत्र संगताः ।अस्वपँश्च ततः सर्वे कन्याः कृष्णं सिषेविरे ॥८३॥प्रातर्वाद्यैर्गीतिभिश्च प्रबुबोध महाप्रभुः ।कृताह्निकः कृतपूजोऽभवत् स्वस्थो यदा हरिः ॥८४॥राजा त्वायात् तत्र कृष्णं पूजयितुं पुपूज च ।तदा समायान्नृपतिः शुचिः कोटीश्वराभिधाः ॥८५॥एकद्वारप्रदेशानामधिशास्ता सुधर्मवान् ।तथा चायान्नृपतिश्च श्रीसतीशाभिधः शुचिः ॥८६॥पारूपराष्ट्रनृपतिर्धर्मवान्भक्तिभाववान् ।मृत्युहर्षिकोष्ठकर्षिभ्यां युतौ तौ नृपौ शुभौ ॥८७॥प्रार्थयामासतुः श्रीशं स्वराष्ट्रगमनाय ह ।हरिस्तथाऽस्त्विति प्राह सत्कारं चाकरोत् तयोः ॥८८॥तावदायात् प्रधानो वै ह्यमात्यो याजनेश्वरः ।ईशानपानशिष्टाख्यसम्राजो ब्राह्मिलेशितुः ॥८९॥पत्रेण साकं नत्वैवाऽप्रार्थयत्परमेश्वरम् ।ब्राह्मीलराज्ये चागत्य गोयाजनीपुरीं च नः ॥९०॥यज्ञैर्महोत्सवैः कृष्ण पावयेति नृपेषणाम् ।पूर्णां करोतु भगवान् प्रजाश्रेयो भविष्यति ॥९१॥अमरीणां च भाग्यानि भविष्यन्ति शुभानि च ।भवतो दर्शनेनाऽपि पूजनेन च सेवया ॥९२॥इत्युक्तो भगवानाह स्वागतं ते नृपस्य च ।वचनं मानयेऽमात्यवर्य योग्यं समीहितम् ॥९३॥पञ्चम्यां तु प्रगे तत्र समागत्य क्रतूत्सवम् ।करिष्ये लोमशं नीत्वा तथा महर्षिसत्तमान् ॥९४॥ईशानं च सतीं नीत्वा याहि राज्ञे निवेदय ।सामग्रीसञ्चयं चापि प्रकारय च घोषणाम् ॥९५॥नदीतीरे शुभं स्थानं योग्यं यज्ञार्थमाचर ।पञ्चम्यां तु प्रगे यज्ञारंभश्चैकादशीदिने ॥९६॥पूर्णाहुतिः क्रतोः स्याच्च प्रघोषयेति सर्वथा ।अमात्यः प्रययौ शीघ्रं त्वाज्ञां प्राप्य निजालयम् ॥९७॥ब्राह्मीलेशं तथोक्तं चावेदयामास सर्वथा ।लोमशेशानदेवौ च लालायनो वृकायनः ॥९८॥नीलकर्णो यवक्रीतस्तथाऽन्ये ऋषयो ययुः ।स्वयंप्रकाशो भगवान् ययौ यज्ञार्थसिद्धये ॥९९॥आम्रजनिसरित्तीरे शान्तारामर्षिसेविते ।गोयाजनीभूमिमध्ये यज्ञस्थलीं ह्यकल्पयन् ॥१००॥अथ कृष्णोऽभवत् सज्जो दुग्धं पीत्वा कुटुम्बयुक् ।गन्तुमेकद्वारराष्ट्रं तथा पारूपराष्ट्रकम् ॥१०१॥पारावारपिबो राजा विदायं यौतकं ददौ ।पूजालब्धं धनं सर्वं ददौ स चाम्बिकर्षये ॥१०२॥स्वागतं माननं प्राप्य हरिर्विमानगोऽभवत् ।कोटीश्वरो ययौ पूर्वं सम्मानार्थं हरेस्तदा ॥१०३॥श्रीसतीशो ययौ चापि निजराष्ट्रं हरिस्ततः ।मृत्युहर्षिसुयुक्तश्च कोष्ठकर्षियुतस्तथा ॥१०४॥व्योम्ना शीघ्रं समायाच्च पेयिस्थानगरीं प्रति ।राधिके च तदा वाद्यान्यवाद्यन्त विलोक्य तम् ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हरेः कायनीनगर्यां भ्रमणं पूजनं राजालये समुपदेशनं भोजनं स्वपनं प्रातर्विदायं आश्विनकृष्णप्रतिपदि कोटीश्वर-नृपस्य एकद्वारराष्ट्रगमनं चेत्यादिनिरूपणनामा सप्तदशाधिकद्विशततमोऽध्यायः ॥२१७॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP