संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १६ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १६ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके न त्वया पूर्वं श्रुतं दिव्यकथानकम् ।कथयामि चमत्कारं सावधाना निबोध मे ॥१॥आषाढे कन्यकाः सर्वाश्चातुर्मास्यव्रतानि वै ।चक्रुर्लोमशदिष्टानि बालकृष्णस्य तुष्टये ॥२॥आषाढशुक्लपक्षस्यैकादश्यां प्रातरेव ताः ।स्नात्वा ध्यात्वा कृपानाथं नत्वा समर्च्य लोमशम् ॥३॥चन्दनाऽक्षतपुष्पाणि कुंकुमाऽम्बरमालिकाः ।गोक्षीरं शर्करैलाकेसराढ्यं क्वाथितं तथा ॥४॥नीत्वा भूषाम्बरहारशृंगारशोभिताः प्रभुम् ।अनादिश्रीकृष्णनारायणं द्रष्टुमुपागताः ॥५॥गायन्ति गीतिका मिष्टस्वरैः श्रीस्वामिमानसाः ।मौक्तिकनद्धहिन्धानीधृतकलशमस्तकाः ॥६॥हस्तधृतफलपूजापात्रा नेत्राग्रमाधवाः ।हृदयेषु धृतकृष्णाः कृतकौतुकमंगलाः ॥७॥स्मरन्ति श्रीपतिं चाहमहमिकया त्वग्रगाः ।चमत्कारस्तदा प्रातर्बालकृष्णेन दर्शितः ॥८॥मम पूजाकृते कोटिकन्याश्चायान्ति मे गृहम् ।सम्मर्दोऽत्र महान् भावी मया गम्यं सरस्तटे ॥९॥ग्राह्या पूजा च युगपत् सम्मर्दो न यथा भवेत् ।इति निर्णीय भगवान् कोटिरूपाणि तत्क्षणम् ॥१०॥धृत्वा हसन् किशोरात्मा तासामभिययौ पथि ।एकया दृश्यते त्वेको नान्यया दृश्यतेऽपरः ॥११॥एका जानाति मामेव हसन्नायाति मां प्रति ।नान्याः प्रति ययौ नाथो मम प्रेम्णाऽतिरेकिणा ॥१२॥अन्या जानाति मामेवाभियाति नेतराः प्रति ।परा पश्यति चायान्तं स्वां प्रत्येव कृपाकरम् ॥१३॥एवं सर्वा हि प्रत्येकं कान्तं पश्यन्ति वै निजम् ।मत्वा सौभाग्यमतुलं द्रुतं मिलन्ति वक्षसि ॥१४॥लोमशं श्रीहरिर्नेमे लोमशोऽपि हरिं मुदा ।अथ तत्कोटियुगलैर्भूतलं द्यौरिवाऽभवत् ॥१५॥कृष्णो वार्तां कुशलाढ्यां पृच्छन् प्रयाति चाग्रतः ।पार्श्वे पार्श्वे मनाक् पृष्ठे वामे प्रयाति कन्यका ॥१६॥अश्वपट्टसरस्तीरे विशाले बहुयोजने ।मेघच्छत्रसमच्छाये पुष्पितद्रुमवल्लिके ॥१७॥शुभकोमलसस्याऽऽसे शीतगन्ध्यनिलाऽन्विते ।पूजापात्राणि सन्न्यस्य कान्तं कृत्वाऽऽसने पुरः ॥१८॥सर्वाः सम्पूजयामासुर्भावभृद्द्रव्यवस्तुभिः ।ललाटे पत्रिकाश्चक्रुश्चन्दनेन सुगन्धिना ॥१९॥नेत्रयोः कज्जलं ददुस्तिलकं च ललाटके।दक्षगण्डे रक्तबिन्द्वीं दत्वा चुचुम्बुरुत्सुकाः ॥२०॥मस्तके पुष्पमुकुटं मयूरपत्रकल्गिकम् ।कर्णयोः पुष्पगुच्छौ च शेखरान् विविधान् ददुः ॥११॥पुष्पहारान् तौलसेयान् कटकान् रशनास्तथा ।पुष्पप्रच्छदवस्त्राणि धारयामासुरीश्वरम् ॥२२॥अलक्तकुंकुमं तस्य पादयोः करयोर्ददुः ।सकिंकिणीनुपूरौ च पादप्रकोष्ठयोर्ददुः ॥२३॥पीताम्बराणि क्षौमाणि कौशेयकानि ता ददुः ।मुरलीं चाप्यंकुराणि कर्णयोर्गुच्छकौ ददुः ॥२४॥पद्मपत्रं करे दक्षे सुगन्धिप्रोक्षणं ददुः ।शीतं मिष्टं जलं भोज्यं फलं रसान् पयो ददुः ॥२५॥एलालवंगबीजानि मुखशुद्धिं दलं ददुः ।एवं सम्पूज्य तं कृष्णनारायणं पुनः पुनः ॥२६॥आरार्त्रिकं कम्बुजलं वस्त्रमार्जनमादधुः ।नमः स्तुतिं दण्डवच्च प्रदक्षिणं च दक्षिणाम् ॥२७॥आत्मनां चार्पणं पुष्पाञ्जलिं क्षमाऽर्थनं व्यधुः ।पादयोः क्षालनजलं पपुर्न्यधुश्च मस्तके ॥२८॥वक्षःसु कृष्णचरणौ निधायाऽऽनन्दमागताः ।प्रसन्नाः प्रार्थयामासुर्व्रतानि निजनाथतः ॥२९॥काचिच्चतुर्षु मासेषु ययाचे फलभोजनम् ।काचित्कन्दाऽदनं काचित्पत्रादनं पयोऽदनम् ॥३०॥काचिदेकान्नभक्ष्यं च काचिन्मुन्यन्नभक्षणम् ।काचिद्यवादनं काचिद्गोधूमादनमात्रकम् ॥३१॥काचित् तण्डुलकवलान् काचिद्रसविवर्जितम् ।काचिदक्षारभोज्यं च काचिन्मिष्टविवर्जितम् ॥३२॥काचित् तिक्तविहीनं च काचित् कटुविवर्जितम् ।काचिदनग्निपक्वं च काचिच्छुष्कं तु भर्जितम् ॥३३॥काचिन्निरन्नमेवाऽपि काचिच्छाकविवर्जितम् ।काचित्तु द्विदलावर्ज्यं काचिदनारनालकम् ॥३४॥काचित्तक्रविहीनं च काचिद्दुग्धविवर्जितम् ।काचिदधृतभोज्यं च काचिदतैलमित्यपि ॥३५॥अन्या नक्तं चैकभुक्तं काचित्कालचतुर्थकम् ।षट्कालादनमित्यन्या सप्ताहादनमित्यपि ॥३६॥पक्षादनं तथा मासादनं चान्द्रायणादिकम् ।कृच्छ्रं बहुविधं चापि एकद्वित्रिदिनादिजम् ॥३७॥एवं व्रतानि जगृहुः कृष्णप्रसन्नतेच्छया ।श्रुत्वा श्रीलोमशः प्राह शृणुत कन्यका! हितम् ॥३८॥येन कृष्णः प्रसन्नः स्यात् तद्व्रतं चोत्तमोत्तमम् ।व्रतेन तपसा वाप्याराधनेन यमादिभिः ॥३९॥तोषणीयः कृष्णनारायणः साधनकोटिभिः ।अव्रतेऽपि प्रसन्नः स्यादव्रतं व्रतमेव तत् ॥४०।व्रते नास्ति प्रसन्नश्चेद् व्रतं चाऽव्रतमेव तत् ।तस्मात् पुत्र्यो! हरिर्येन तुष्येत् प्रष्टव्यमेव तत् ॥४१।ज्ञात्वा तोषप्रदं चातुर्मास्ये कुरुत तद्व्रतम् ।इत्युक्ताः सुकुमार्यस्ता हरिं कृष्णनरायणम् ॥४२॥पप्रच्छुः सुखमासीना येन तुष्यसि तद् वद् ।श्रुत्वा हसन् हरिः प्राह भक्त्या तुष्यामि नान्यथा ॥४३॥न व्रतैर्नैव दानैश्च न यमैर्नियमैस्तथा ।न यज्ञैर्दक्षिणाभिश्च न देहक्षपणैस्तथा ॥४४॥न विचारैर्न च धनैर्न सौकुमार्यभावनैः ।किन्तु प्रेम्णा प्रसन्नः स्यां निर्व्याजेनाऽनिवर्तिना ॥४५॥प्रेमवतं मदर्थं च कार्यं युष्माभिरेव यत् ।प्रेम्णा पूज्यो वन्दनीयः प्रेम्णा स्मर्तव्य एव च ॥४६॥प्रेम्णा दास्यं प्रकर्तव्यं कैंकर्यलक्षणं मयि ।स्नाने ध्याने भोजनादौ देहकार्येऽपि सर्वथा ॥४७॥अहं कृष्णः प्रयोक्तव्यस्तद्व्रतं मोक्षदं भवेत् ।अबलानां बलं चाहं बालानां बलभागहम् ॥४८॥कन्यानां कं सुखं कुर्वे नारायणोऽस्मि मोक्षदः ।चातुर्मास्ये मदर्थं वै प्रदक्षिणं नमस्क्रिया ॥४९॥मम मालाजपो ध्यानं मम नाम्नां सुकीर्तनम् ।मम गाथा मम कथा मदर्थं जीवनं प्रियाः ॥५०॥सर्वं कृष्णार्पणं तद्वै व्रतं श्रेष्ठं मया कृतम् ।भवतीनां कृते दिव्यं साक्षान्मद्योगसंभृतम् ॥५१॥नैतत्तुल्यं व्रतं त्वन्यत्तेन मोक्षसुखं भवेत् ।व्रतेर्यः खलु चाप्तव्यः सोऽहं प्राप्तोऽस्मि सर्वथा ॥५२॥तद्व्रतं किं व्रतं चान्यत् तिष्ठतैवं व्रते मयि ।इत्युक्त्वा भगवाँस्तासां जग्राहार्चनवस्तुकम् ॥५३॥दर्शस्पर्शसुखं ताभ्यो ददौ कोटिस्वरूपभाक् ।ताः सर्वाश्च हरिं नत्वा तदोचुः परमेश्वरम् ॥५४॥नाथ नित्यं तव पूजां करिष्यामोऽत्र संगताः ।एवमेव सुखं देहि पूजाग्रहणानुग्रहात् ॥५५॥तथाऽस्त्विति हरिः प्राह तावदाश्चर्यमत्र यत् ।जातं तद् राधिके तेऽत्र कथयामि शृणु प्रिये ॥५६॥शत्रूञ्जयाख्यशैलो वै वर्तते त्वग्निदिग्भवः ।सौराष्ट्रे तत्र दैत्या वै समासन् कंकतालकाः ॥५७॥सहस्रशः कंकताला मद्यमांसपरायणाः ।अद्रिशृंगसमाकारा हलवद्दन्तमूर्धजाः ॥५८॥तप्ततालोच्छ्रया मेघमार्गमस्तकसंस्पृशाः ॥सामुद्रमत्स्यभक्षाश्च नरमांसादनास्तथा ॥५९॥वनारण्यपशुभक्षाः पक्षिप्राणिप्रभक्षिणः ।आययुस्ते तदा ज्ञात्वा कृष्णपूजनकोत्सवम् ॥६०॥व्रतघ्नास्तेऽसुराः सर्वे खलाः शस्त्रास्त्रधारिणः ।निपेत्तुर्व्योममार्गात्ते हंतुं बालनरायणम् ॥६१॥मारयैनं घातयैनं बालकृष्णं विरोधिनम् ।असुराणां महाशत्रुं लक्षाणां घातकं परम् ॥६२॥तत्पत्नीनां हारकं च मारयत द्रुतं प्रभुम् ।लोमशं नाशयत क्षिप्रं बध्वा रज्ज्वा गले पुनः ॥६३॥विप्राणं त्वत्र कुरुत ध्वंसध्वं च तदा श्रयान् ।इत्युक्त्वा त्वम्बराद् यावन्निपेतुर्हननाशयाः ॥६४॥लोमशः स्तम्भयामासाऽऽकाशे तान् वै तथाविधान् ।अनादिश्रीकृष्णनारायणः श्रीभगवान् स्वयम् ॥६५॥नैजानि सर्वरूपाणि संगृह्य क्षणमात्रतः ।वैराजरूपमास्थाय बभौ गिरिवरोपमः ॥६६॥सस्मार गरुडं दिव्यं समाययौ क्षणाद्धि सः ।पक्षाभ्यां विवृताभ्यां च कन्यकाश्चाश्रमं तथा ॥६७॥अश्वपट्टसरश्चापि स ररक्ष वितानवत् ।दशयोजनविस्तारं क्षेत्रं संरक्ष्य पक्षिराट् ॥६८॥व्यात्तपक्षश्च तस्थौ स निर्भयश्चाच्युताज्ञया ।भगवान् द्राक् तस्य पृष्ठं समारुरोह हेतिमान् ॥६९॥सुदर्शनं तथा चक्रं मुमोच लीलया वदन् ।शत्रूञ्जयाः कंकतालाः कथं तिष्ठथ निष्क्रियाः ॥७०॥प्रयत्यन्तां प्राणग्लहैर्भवद्भिर्नष्टभालकैः ।एष चास्ते लोमशोऽत्र जडभावं विकर्षति ॥७१॥एवमुक्ते जडभावे संहृते तेऽसुरास्तदा ।श्रीकृष्णमायया दग्धा हतभाग्या पुनर्बलम् ॥७२॥चक्रुः कृष्णविनाशार्थं दुद्रुवुर्वेगतो ह्यभि ।श्रीकृष्णे गरुडे यावत् शस्त्राणि प्रथमं तु ते ॥७३॥योजयन्ति प्रहारार्थं तावच्चक्रं सुदर्शनम् ।प्रलयाग्निसमाकारं भ्रमत्तीक्ष्णारदुःसहम् ॥७४॥कंकतालासुराणां तु मस्तकान्यभ्यकर्तयत् ।निपेतुश्चार्धभिन्नास्तद्देहा व्योम्नः समन्ततः ॥७५॥शिरांसि चापि गलतश्छिन्नान्यपि तदाऽपतन् ।हस्तौ पादौ कटिभागा न्यपतन् भूतलेऽभितः ॥७६॥हस्तशस्त्रा अपि चक्रकर्तिता निर्बला यथा ।हन्तुं कृष्णं गरुडं वा लोमशं नाऽशकंस्तदा ॥७७॥सहस्रं तु तदा तेषां शस्त्रच्छिन्नं लयं गतम् ।शेषा विदुद्रुवुस्ताँश्च गदा कौमोदकी स्वयम् ॥७८॥मूर्तिमती चाद्रितुल्या बहुशस्त्रकरान्विता ।मार्गमारुद्ध्य परितो धावमाना ह्युपस्थिता ॥७९॥यत्र यत्र दिशि दैत्या दुद्रुवुस्तत्र तद्दिशि ।गदा नैकस्वरूपा सा भयंकरी महासती ॥८०॥समुत्प्लुत्य पुरस्तस्थौ ममाराऽति तु ताँस्तदा ।गदया ते हताश्चान्ये पञ्चषश्चावशेषिताः ॥८१॥कन्यारूपाणि धृत्वैव गरुडस्याश्रयं गताः ।कन्यकासु प्रविश्यैव रक्षणं चक्रुरीश्वरात् ॥८२॥अथ नारायणश्चक्रं गदा च गरुडस्तथा ।दैत्यान् हत्वा च नैजं वै सूक्ष्मं रूपं दधुस्ततः ॥८३॥गरुडः श्रीहरिं तत्र समर्च्य परमेश्वरम् ।वैकुण्ठं प्रययौ शीघ्रं सुदर्शनं करागतम् ॥८४॥भगवानपि चैकैकः कन्याधैर्यप्रदस्तदा ।जहास लोमशं प्राह नूत्नाः कन्यास्तु पंचषः ॥८५॥वर्तन्ते कन्यकास्त्वत्र पश्य गुरो! मृतेर्भयात् ।दैत्याः समभवन् प्राणहेतोः कपटयोषितः ॥८६॥तासां प्राणपरित्राणं कार्यं मया दयालुना ।इत्युक्तास्ता रुरुदुश्च प्रणेमुश्च ययाचिरे ॥८७॥रक्षणं पालनं चापि नित्यं दासीपदं तथा ।कृष्णः प्राह तथाऽस्त्वेतन्नारीरूपं सदा च वः ॥८८॥शाश्वतं कन्यकारूपं भवत्वत्र ममाऽऽलये ।लोमशस्याश्रमे तासां वासं त्वकारयद्धरिः ॥८९॥लोमशश्च ददौ मन्त्रं वैष्णवं गलमालिकाम् ।तौलसीं तिलकं नाममन्त्रं च दिव्यरूपताम् ॥९ ०॥'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।जगृहुर्मन्त्रमव्यग्राः साध्व्यः कन्यास्तु नूतनाः ॥९१॥वैष्णव्यस्ताश्च सञ्जाता भेजिरे श्रीहरिं ततः ।प्रार्थयामासुरीशेशं मोक्षार्थं मृतयोधिनाम् ॥९ २॥दैत्या युद्धे मृता ये ते कृष्णनारायणेच्छया ।सहस्रशः समायाताः सूक्ष्मदेहा विकल्मषाः ॥९३॥आसुरत्वं विनाश्यैव श्रीकृष्णेन परात्मना ।दिव्यत्वं तु तदा दत्वा विमानैर्दिव्यपार्षदैः ॥९४॥वैकुण्ठं प्रापिताः सर्वे शत्रूञ्जयनिवासिनः ।एवं मुक्तिं प्रपन्नास्ते चैकादश्यां हरिश्रिताः ॥९५॥अथ ताः सर्वकन्याश्च नीत्वा श्रीलोमशो मुनिः ।निजाश्रमं ययौ कृष्णो बालकृष्णो बभूव ह ॥९६॥तत्तीर्थं कंकतालाख्यं चाऽश्वपट्टसरोवरे ।जातं ख्यातं दक्षपार्श्वे यत्र पूजा हरेः कृता ॥९७॥बालकृष्णो विधायैवमानन्दं व्रतियोषिताम् ।तिरोऽभवत् क्षणान्ते वै गृहपर्यंकिकां गतः ॥९८॥एतच्चरित्रं सुभगं राधिके! देवदेविनः ।ज्ञात्वा श्रुत्वा पठित्वाऽपि स्मृत्वा मुक्तिं लभेद् ध्रुवम् ॥९९॥धनवान् पुत्रवान् श्रीमाननन्तस्वर्गवान् भवेत् ।नारी सौभाग्यकीर्त्याढ्या वंशसन्तानदा भवेत् ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने आषाढशुक्लैकादश्यां बालकृष्णस्य प्रभोः कन्यकाकृतपूजनं बहुरूपधारणं व्रतानि, शत्रूञ्जयपर्वतस्थकंकतालानां दैत्यानां युद्धं मोक्षणं, शेषाणां कन्यारूपधारिणां लोमशाश्रमे वासश्चेत्यादिनिरूपणनामा षोडशोऽध्यायः ॥१६॥ N/A References : N/A Last Updated : April 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP