संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ७५ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ७५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७५ Translation - भाषांतर श्रीकृष्ण उवाच-एवमन्यं चमत्कारं कथयाम्यपि राधिके ।सूर्यपुत्र्यास्तपत्यास्तु तटे कामपुरे पुरा ॥१॥आसीत् सन्तापनो नाम दैत्यो दैत्यगणेश्वरः ।महाबलेन युक्तोऽसावटते तपतीतटे ॥२॥सप्तपट्टाद्रिवासं च कृतवान् मांसखादकः ।प्राङ्दिशि दूरपर्यन्तं गत्वा गत्वा च बालकान् ॥३॥तापीमूलावधिं गत्वा हरत्यल्पतरानपि ।दैत्या मानुषमांसादा मिलित्वाऽदन्ति सोत्सवाः ॥४॥भूशावालयपूर्वे तु तापीतीरेऽभवन् महान् ।विद्यालयोऽभवत्तत्र मुनिर्हिरण्यकेशकः ॥५॥कृष्णयजुर्विदांश्रेष्ठः ऋषीणां प्रवरोऽभवत् ।तस्याऽऽश्रमे कृताऽऽवासा विद्याब्रह्मचरास्तदा ॥६॥विप्रा हिरण्यकेशीयशास्त्रीयास्तु सहस्रशः ।आसँश्चान्येऽपि हिरण्यकेशाख्यगुरुसन्निधौ ॥७॥आश्रमस्थाश्च ते ब्रह्माध्येतारस्तपतीजले ।स्नातुं यान्ति ब्राह्मकाले तत्र सन्तापनोऽसुरः ॥८॥सुप्रच्छन्नः समागत्य हरते विप्रबालकान् ।नित्यं द्वौ वा पञ्च वा षट् कदाचिद् दश वा नव ॥९॥सहस्रेषु तु बालेषु क्षयं यान्ति तु येऽर्भकाः ।न ज्ञायन्ते चाश्रमस्थैः क्व प्रयान्तीति वै तदा ॥१०॥यत्र वै गणना नास्ति तत्र न ज्ञायते क्षयः ।एवं याते बहुतिथे काले पञ्चशतानि वै ॥११॥ब्राह्मणानामपत्यानि क्षयं नीतानि राक्षसैः ।शताऽपत्यानि चान्यानि क्षत्रविट्दासजानि च ॥१२॥एवं कुमारबाहुल्ये क्षयं याते तदुत्तरम् ।भोजनाऽध्ययने संख्या न्यूना विज्ञायते जनैः ॥१३॥बाला ह्रासं नित्यमेव यान्ति तापीतटे खलु ।जले मज्जन्ति मकरैर्हियन्तेऽवश्यमेव च ॥१४॥एवं सन्देहमापन्नाः सह स्नातुं प्रयान्ति ते ।राक्षसा बालका भूत्वा विशन्ति बालकेषु हि ॥१५॥शौचार्थं यान्ति ये दूरं तान् गृहीत्वा प्रयान्ति ते ।न चायान्ति परावृत्त्य तदा ज्ञातं जनैः खलु ॥१६॥हरन्ति मकरा नैव किन्तु हरन्ति राक्षसाः ।शोकस्त्वतितरश्चासीदाश्रमे बालकेषु च ॥१७॥हिरण्यकेशनामर्षिः शुशोच बहुधा तदा ।अहो मे बालका नष्टा अधिकाः षट्शतादपि ॥१८॥न ज्ञातं त्वद्यपर्यन्तं पितॄणां का गतिर्भवेत् ।तत्सम्बन्धिजनानां च काः श्रोतव्या दुरुक्तयः ॥१९॥अहो ध्यानं मया दत्तं नैव त्वद्यावधिं क्षये ।कथं जीवेयुरेवैते मारिताः स्युर्हि राक्षसैः ॥२०॥भक्षिताः स्युरहो दैवं दुर्बलानां विघातकम् ।इति धृत्वा मस्तके द्वौ करौ रुरोद रौद्रकम् ॥२१॥अन्ये तदाश्रमवासा रुरुदुश्चातिकण्ठतः ।आश्रमः कश्मलो जातो मानवाः शुद्धबुद्धयः ॥२२॥निस्तेजास्तु ऋषिर्जातः शोको द्रुष्वप्यजायत ।पशपक्षिगणाश्चाप्यरुदन्त ज्ञाततत्क्षयाः ॥२३॥मृगाद्या नाऽग्रसन् घासं शुका नाददिरे फलम् ।अपि पिपीलिका नैव कणान् जगृहुरुच्छुचः ॥२४॥वल्लिका न पपुर्वारि केदारेष्वर्पितं ह्यपि ।ववौ वायुर्न सुभगो वह्निः कुण्डे न चाऽज्वलत् ॥२५॥मयूरा नाऽवदन् केकामृषयोऽपि शवा इव ।अभवन्नाश्रमे नार्यो विधवा इव निष्प्रभाः ॥२६॥हाहाकारो महानासीदाश्रमे देशमण्डले ।दैत्याः सप्तपुटाद्रिस्था हरन्ति विप्रबालकान् ॥२७॥मारयन्ति च खादन्ति हा कष्टं कालनोदितम् ।अहो त्राता न चास्माकं घातयिता न रक्षसाम् ॥२८॥कश्चिदास्ते विना कृष्णं कृष्णस्तिष्ठति कुत्र वा ।श्रुतं पूर्वं कथायां वै चाश्वपट्टसरोऽन्तिके ॥२९॥कुंकुमवापिकाक्षेत्रे राजते भगवान् स्वयम् ।कौशिकाम्बर्षिमुखतश्चापि श्रुतं तथैव च ॥३०॥तथाऽन्येभ्यो ब्राह्मणेभ्यः श्रुतं कृष्णो विराजते ।मूर्तिमान् मानवो भूत्वा श्रीमद्गोपालनन्दनः ॥३१॥लक्ष्मीनारायणसंहितायां श्रुतो हरिः स्वयम् ।राजतेऽनादिदेवः स कृष्णनारायणः प्रभुः ॥३२॥स कुर्याद् रक्षणं नस्तु महापत्कालतः खलु ।इत्येवं शोकसम्मग्ने हिरण्यकेशकाश्रमे ॥३३॥तत्र तावत् समायातो महर्षिः कौशिकाम्बकः ।योगधर्मेण विज्ञाय चार्तनादान् ऋषिकृतान् ॥३४॥पौषमासे तु पूर्णायां हिरण्यकेशकाश्रमे ।आदृतः सत्कृतो मधुपर्काद्यैरर्चनैर्मुनिः ॥३५॥दत्तासनो न्यषीदच्च पप्रच्छ रोदनोद्भवम् ।हिरण्यकेशकः प्राह राक्षसैर्विप्रबालकैः ॥३६॥ब्रह्माध्यायपरास्तापीतटे ब्राह्ममुहूर्तके ।स्नातुं याताश्च बहवो राक्षसैः संहृता मुने ॥३७॥षट्शतानि हताश्चैवं ज्ञायते हि विचारतः ।दशसाहस्रविप्रेषु गुरोः कुले वसत्सु वै ॥३८॥आसुराणां महानेवमुपद्रवो व्यजायत ।किं कुर्मः क्व प्रयामश्च किमभूत् क्व गताश्च ते ॥३९॥यद्येवं विप्रबालानां ह्रासतन्तुः प्रवर्तते ।का गतिश्चाश्रमस्याऽत्र भवेदिति विपन्ननु ॥४०॥यदि कश्चिदुपायोऽत्र विनाशरोधकोऽस्ति चेत् ।बालानां लब्धिहेतुश्च वद योगिन् प्रकुर्महे ॥४१॥इत्युक्त्वा विररामाऽसौ हिरण्यकेशको मुनिः ।कौशिकाम्बश्च तं प्राह राधिके संस्मरन् हरिम् ॥४२॥मा विषादं याहि विप्र सर्वं जानामि योगतः ।पूर्वं ममाश्रमेऽप्येषामुपद्रवो महानभूत् ॥४३॥मया तु राक्षसा दैत्या नाशिता वै मुहुर्मुहुः ।पुनस्ते नूतना जातास्तां दिशां न प्रयान्ति ते ॥४४॥तवाश्रमे प्रकुर्वन्ति तापीतटे ह्युपद्रवम् ।मानवानपि खादन्ति सप्तपट्टाद्रिवासिनः ॥४५॥अहं योगबलेनैव ज्ञात्वा तद्वैशसं महत् ।स्मराम्यनादिदेवं श्रीकृष्णनारायणं प्रभुम् ॥४६॥वसन्तं कुंकुमवापीक्षेत्रे सर्वहृदि स्थितम् ।गच्छामः शरणं तस्य रक्षणं स करिष्यति ॥४७॥क्षेमं च कुशलं तस्य हस्तगं वर्तते च नः ।विनाऽनादिकृष्णनारायणं शक्तो न चाऽपरः ॥४८॥अवितुं दुःखसंसारादापद्भ्यश्च भवाम्बुधौ ।इत्युक्त्वा श्रीहरिं स्मृत्वा व्योममार्गेण योगिराट् ॥४९॥नीत्वा हिरण्यकेशं च सहैवाऽश्वसरो ययौ ।सूर्यचन्द्रसमौ ज्योत्स्नागोलकाविव भासुरौ ॥५०॥व्योममार्गाल्लोमशस्याश्रमाग्रे चावतेरतुः ।प्रथमं लोमशं नत्वा प्रसम्पूज्य परस्परम् ॥५१॥अश्वपट्टसरस्येव स्नात्वा कुंकुमवापिकाम् ।गत्वा तज्जलपानं च कृत्वा नत्वा च देवताः ॥५२॥ययतुः श्रीकृष्णनारायणान्तिकं तु मन्दिरे ।राजते यत्र भगवान् परमेशः परात्परः ॥५३॥गजासने तु सौवर्णे मणिरत्नसमञ्चिते ।तीर्थैश्च मुनिभिर्देवैर्लक्ष्म्यादिभिः प्रसेवितम् ॥५४॥दिव्यतेजोमयं दिव्यभूषामालाम्बरान्वितम् ।पूजितं चारुसौगन्ध्यैः प्रसन्नवदनाम्बुजम् ॥५५॥बालकृष्णं परब्रह्म दृष्ट्वा प्रणेमतुर्मुहुः ।साश्रू स्नेहभरौ सौम्यौ प्रचक्रतुश्च दण्डवत् ॥५६॥सत्कृतौ हरिणा तूर्णं प्रापितौ मधुपर्ककम् ।दत्तासनौ सुखं पृष्टौ निषेदतुः समीपतः ॥५७॥आगमे कारणं पृष्टावूचतुः परमेश्वरम् ।विप्रगोधरणिसाधुसाध्वीधर्मप्रपालक ॥५८॥दीनार्त्तकृपणाऽनाथनिराश्रयसमाश्रय ।ब्राह्मणा बहवो नष्टा विद्यार्थिब्रह्मचारिणः ॥५९॥राक्षसैर्नीयते नित्यं यद्यद्धस्तगतो भवेत् ।तेभ्यो रक्षां बालकृष्ण परब्रह्म विधेहि नः ॥६०॥मृतानां जीवनं कृष्ण तव संकल्पजं भवेत् ।यथासौख्यं यथायोग्यं भवेत् तत् त्वं तथा कुरु ॥६१॥राक्षसानां परं दण्डं विधेहि प्रतिपालक ।त्वं धाता त्वं विधाता च त्वं दुर्धाता पुमुत्तम ॥६२॥त्वदाश्रया वृषो यज्ञो वेदो विद्या च भूसुराः ।आश्रमा योगयतयस्त्वदधीनप्रजीवनाः ॥६३॥श्रुत्वैवं श्रीबालकृष्णश्चक्रं सुदर्शनं निजम् ।सस्मार शंकरं देवीं पार्वतीं वीरभद्रकम् ॥६४॥मृतसञ्जिवनीं विद्यां सन्धिनीं प्राणदायिनीम् ।कल्पवल्लीं विमानं च वैहायसं सदाऽव्ययम् ॥६५॥लक्ष्मीं सिद्धिं गणेशं च तूर्णं ते समुपस्थिताः ।अनादिश्रीकृष्णनारायणं नेमुश्च दण्डवत् ॥६६॥प्रभुः प्राह महादेव गणेश सिद्धि पार्वति ।लक्ष्मि विद्ये कल्पवल्लि वीरभद्र सुदर्शन ॥६७॥हता बालास्तु बहवः सन्तापनादिराक्षसैः ।वर्तन्ते राक्षसाः सप्तपुट्टकाद्रौ सहस्रशः ॥६८॥हन्तव्यास्तेऽद्य युष्माभिर्जीवनीयाश्च भूसुराः ।तदर्थं च वयं तत्र गच्छामो हेतिभिर्युताः ॥६९॥आरोहन्तु भवन्तोऽत्र विमाने वै मया सह ।इत्युक्तास्ते चारुरुहुः साकं श्रीपतिना तथा ॥७०॥कौशिकाम्बेन सहिता हिरण्यकेशिना युताः ।विमानं ध्यातमात्रं तद् गतं तत्र विहायसा ॥७१॥सप्तपट्टकशैलोर्ध्वे व्योम्नि भ्रमणमावहत् ।तद् दृष्ट्वा दिव्ययानं तु राक्षसा निर्ययुर्बहिः ॥७२॥हर्तुं विमानं दिव्यं च सशस्त्रा व्योमगामिनः ।केचिद्वै पर्वतप्रायाः केचिद्गह्वरनासिकाः ॥७३॥केचित्ताडसमांऽगुष्ठाः केचित्तटाककर्णकाः ।केचिद्विद्युन्निभनेत्राः केचित्सूर्यनखास्तथा ॥७४॥अपरे वंशवत्केशा अब्भ्रबाष्पाननाः परे ।नैकरूपधरा नैकवेषा मायाप्रवेदिनः ॥७५॥निर्जग्मुर्दशसाहस्राः शैलगह्वरवासिनः ।तान् दृष्ट्वा श्रीहरिस्तूर्णं शंखं दध्मौ सुदारुणम् ॥७६॥युद्धस्याऽऽवेदकं ध्वानं प्रादुश्चकार भीप्रदम् ।तावत्ते परितो वृत्त्वा मुमुचुश्चाट्टहासनम् ॥७७॥विमानं धर्तुमुद्युक्ता विनेदुः प्रबलोन्मदाः ।तावच्छ्रीभगवानाह कल्पवल्लीं सतीं प्रियाम् ॥७८॥समुत्पादय सैन्यानि युद्धार्थं शक्तिमन्ति वै ।श्रुत्वा कल्पलता योद्धृन् दशसाहस्रसंख्यकान् ॥७९॥प्राविश्चकार सहसा योद्धारो युद्धमाचरन् ।विमानान्निर्ययुः सर्वेऽभितो राक्षससन्निधौ ॥८०॥काल्पानां रक्षसां व्योम्नि युद्धं घोरतरं ह्यभूत् ।परस्परं विहन्यन्ते विजयार्थं रणान्धकैः ॥८१॥गदाभिरसिभिः खङ्गैस्तोमरैः परिघैस्तथा ।स्तंभैर्वृक्षैश्च पाषाणैर्मुशलैः शूलशक्तिभिः ॥८२॥नाराचैः पट्टिशैर्भल्लैर्निजघ्नुस्ते परस्परम् ।अकस्माद्वै समापन्नं युद्धं तद् रक्षसां भुवि ॥८३॥शिरांसि रक्षसां तत्र पृथ्व्यां पतन्ति वृष्टिवत् ।भिन्नान्यंगानि दैत्यानां पतन्ति शृंगवद् भुवि ॥८४॥केचिद्धस्तविहीनाश्चाऽपरे पादविवर्जिताः ।कटिच्छिन्नाः परे द्वेधा स्कन्धच्छिन्नास्तथाऽपरे ॥८५॥निपेतुर्भूतले घोरा राक्षसाः प्राणतो हताः ।विहतेभ्यस्तु देहेभ्यो जायन्ते नूतना नवाः ॥८६॥ते समागत्य चाकाशे योधयन्ति महाबलाः ।एवं सैन्यं रक्षसां तु वर्धमानं हि कोटिभम् ॥८७॥व्यदृश्यत तदा व्योम्नि भयंकरमसीमकम् ।कल्पभटाश्च तान् धृत्वा धृत्वा केशेषु चासिभिः ॥८८॥द्वेधा कुर्वन्ति भिन्नाँश्चास्कन्धाच्चाकटि पारगैः ।निपतन्ति शिरोहीना युद्ध्यन्ति चोत्थिताश्च ते ॥८९॥कोटिशो व्याहताः कल्पलतोत्थैः रणमूर्धनि ।हस्तपादादयस्तेषामुत्थायोत्थाय रोषतः ॥९०॥ताडयन्ति कल्पभटान् व्योम्नि चोड्डीय जीववत् ।हन्यन्ते कालयोद्धारो दिव्याश्चिद्यन्त एव न ॥९१॥शस्त्राणि येषु चाकाशे यथा रोधं न यन्ति हि ।अथ दैत्यास्ततश्चक्रुर्मायां पार्वतसर्जिनीम् ॥९२॥पर्वताश्चाऽभवन् व्योम्नि निपेतुश्चोपरिस्थिताः ।विमानोपरि वेगाद्वै विनाशार्थं तथापि च ॥९३॥विमानं दिव्यमेवाऽऽसीद् देवा दिव्याश्च देविकाः ।अस्पृश्या व्योमवत् सर्वे तान् धर्षितुं न शेकिरे ॥९४॥विमानं व्योमवद् व्योम्नि यथावस्थं स्थिरायते ।पतन्ति पर्वतास्तस्माद् अभिव्याप्याऽपि भूतले ॥९५॥आश्चर्यं परमं प्राप्ता दृष्ट्वा दैत्याश्च राक्षसाः ।नैतद्धर्तुं च वा हन्तुं योग्यं विमानकं नु वै ॥९६॥नैते देवाश्च योद्धारो हन्तुं योग्या भवन्ति हि ।इति मत्वाऽपरेशौर्यवर्जिता दुद्रुवू रणात् ॥९७॥ते हताश्चापि नाराचैः काल्पयोद्धृप्रमुक्तकैः ।भिन्नदेहाश्च ते भिन्नमस्तकाः प्राणवर्जिताः ॥९८॥निधनं हि तदा प्राप्ता उत्पन्ना अपि सर्वशः ।अन्ये मोहाच्च युद्ध्यन्ति काल्पभटैः समन्ततः ॥९९॥कल्पलतोत्थवह्निस्तान् भस्मीचकार सर्वशः ।कोटिकोट्यात्मकं सैन्यं रक्षसां भस्मतां गतम् ॥१००॥मूलास्तु पञ्चसाहस्राः क्षयं याता हि राक्षसाः ।पञ्चसाहस्रमात्राश्च प्रशिष्टा युद्धकारिणः ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हिरण्यकेशर्षिगुरुकुलस्थानां षट्शतबालानां राक्षसैर्नाशे कृते श्रीहरिणा राक्षसानां नाशार्थं कृतोद्यमयुद्धादिनिरूपणनामा पञ्चसप्ततितमोऽध्यायः ॥७५॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP