संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १८३ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १८३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १८३ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके श्रुत्वा रणभेरीस्तु राक्षसाः ।कृत्वा किलकिलाशब्दान् सक्थिस्फोटान् भयंकरान् ॥१॥कम्पयन्तश्च पृथिवीं नादयन्तो दिशस्तथा ।अट्टहासान् प्रकुर्वन्तो युद्धार्थं कृतनिश्चयाः ॥२॥भल्लान् शूलानसीन् खड्गान् मुद्गरान् मुशलानि च ।प्रस्तरान् सर्जवृक्षाँश्चोपलाः संगृह्य चाम्बरे ॥३॥योधनार्थं समुत्पेतुर्धृतपर्वतविग्रहाः ।अस्त्रशस्त्रान्विताः सर्वे दशसाहस्रसंख्यकाः ॥४॥मारयन्तु खादयन्तु चर्वयन्तु विमानगान् ।बन्धयन्तु मर्दयन्तु मोचयन्त्यसुभिश्च तान् ॥५॥छिन्दन्तु करपादादि शिरांसि पातयन्तु च ।भक्षयन्तु नरदेहान् हरन्तु कन्यकास्त्विमाः ॥६॥प्रज्वालयन्तु यानानि यन्त्राणि भञ्जयन्तु च ।चूर्णयन्तु मस्तकानि विमानानि हरन्तु च ॥७॥इत्येवं बहुजल्पास्ते राक्षसाः सैन्यसदृशाः ।आकाशे परितो भूत्वा गत्वोर्ध्वं क्षेपणैस्तदा ॥८॥पाषाणमारं चक्रुश्च बाणवृष्टिं भयंकरीम् ।नाराचवृष्टिं गोलानां वृष्टिं चक्रुः प्रदाहिकाम् ॥९॥तदा हरिः समुद्रं च तथा चन्द्रमसं द्रुतम् ।सस्मार तावुभौ मूर्तिमन्तावागत्य नेमतुः ॥१०॥हरिः प्राह जलैश्चाप्यमृतैः शमयतं त्विमम् ।वह्निं शीघ्रं गोलकानां तौ तथा चक्रतुर्मुदा ॥११॥समुद्रो वर्षणं चक्रे बाष्पाणां जलसंभृताम् ।चन्द्रोऽमृतं द्रुतं तत्र वर्षयामास वह्निहृत् ॥१२॥अथ राजा जिनवर्द्धिश्चाल्पकेतुर्महाबलौ ।नाराचैः शतसाहस्रैनिजघ्नुः राक्षसाँस्तदा ॥१३॥अर्धचन्द्रैस्तथा भल्लैद्वेधा छिन्नाः पतन्ति तै ।राक्षसा भूतले पादकरान् क्षिप्त्वा जलं जलम् ॥१४॥प्रलपन्तस्त्यजन्त्येव प्राणान् पार्वतदुर्गमे ।राजसैन्यानि भूस्थानि तूपगोलैस्तदाऽम्बरे ॥१५॥राक्षसान् मारयन्त्येव पातयन्ति च जीवतः ।दृष्ट्वैवं घोरकदनं मन्त्रमालिन्यकारिकाः ॥१६॥राक्षस्यो गह्वरात्तत्र बहिरागत्य सत्वरम् ।शतसाहस्रसंख्यास्ता उत्पेतुश्चाम्बरे तदा ॥१७॥मन्त्रकृतैर्मृषोद्भूतैः राक्षसैः खङ्गधारिभिः ।पातयामासुरेवैतौ राजानौ चाम्बराद् भुवि ॥१८॥सैन्यानि मारयामासुः कृत्रिमैः राक्षसैस्तु ताः ।मानवानां तु सैन्यानां मर्दनं समजायत ॥१९॥हाहाकारो विमानेषु तदाऽभवत् समन्ततः ।म्रियमाणौ नृपौ दृष्ट्वा द्रुतं कृष्णनरायणः ॥२०॥विमानादवतीर्यैव वायुवेगेन भूभृतौ ।धृत्वा भुजाभ्यां च पुनर्विमानं स्वं समाययौ ॥२१॥करस्पर्शेन राजानौ जीवयामास माधवः ।चन्द्रमाज्ञापयामासाऽर्पयाऽमृतं समन्ततः ॥२२॥मानवानां तु सैन्येषु मृतान् जीवय सत्वरम् ।चन्द्रश्चक्रे तथा शीघ्रं सैन्यानि जीवनं ह्यगुः ॥२३॥अथ कृत्रिमसैन्यानां रक्षसां नाशनाय वै ।जटातः सुसमुत्पाद्य मायां मृषादिनीं तदा ॥२४॥ईशानदेवो व्यसृजत् मृषासैन्यं जगाम सा ।प्रतिरक्षोऽभवद् राक्षसीस्वरूपाऽत्यसंख्यका ॥२५॥भक्षयामास सर्वांश्च राक्षसानथ शंकरः ।प्रेरयामास दुर्गा स्वां समुत्पाद्य तु वामतः ॥२६॥राक्षसीनां नाशनार्थं नत्वा दुर्गा तु शंकरम् ।कोटिरूपधरा भूत्वाऽष्टादशहस्तशोभना ॥२७॥सिंहारूढा बहुशस्त्रा महाबलपराक्रमा ।सर्वरूपैः सहकाले निपपाताऽम्बरेऽभितः ॥२८॥प्रत्येकां राक्षसीं धृत्वा गलेऽनयद् यमालयम् ।हाहाकारो महानासीत्तदा राक्षसमण्डले ॥२९॥हर्षनादा विमानेषु सैन्येषु मानवेषु च ।दृष्ट्वा दुर्गाकृतं कार्यं जहर्ष परमेश्वरः ॥३०॥जहृषुः कन्यका ब्रह्मप्रियाद्या लब्धलालसाः ।तावद् दृष्ट्वा राक्षसाश्च पत्नीनां यमगामिता ॥३१॥क्रुद्धाश्चातीव विधुरा दुर्गासैन्यं प्रति द्रुतम् ।स्त्रीनाशार्थं चाम्बराद्वै दुर्गाः प्रति प्रदुद्रुवुः ॥३२॥शंकरः स्वगणान् क्षेत्रपालानाह धरन्तु वै ।राक्षसान् व्योममार्गेण एकैकशो गले द्रुतम् ॥३३॥क्षेत्रपालास्तदा व्योम्ना दध्रुः पृष्ठं तु रक्षसाम् ।प्राप्य प्राप्य गले दध्रुर्मारयामासुरेव तान् ॥३४॥पद्भ्यां च गदया मुद्गरेण भल्लादिभिस्तथा ।मुष्टिभ्यां जानुमारेण कफोणिकाभिघातकैः ॥३५॥अस्थिभग्नं महाभारं मारयामासुरीश्वराः ।काँश्चिच्छस्त्रैस्तथा खड्गैः शूलैः शक्त्या च भल्लकैः ॥३६॥प्राणैर्वियोजयामासुः रक्षांसीशानपार्षदाः ।मृताः पञ्चसहस्राणि राक्षसा नरयोधिनः ॥३७॥हृताश्च शतसाहस्र्यो राक्षस्यो व्यसवस्तदा ।अवशिष्टा विचार्यैव जीवने कोऽर्थ एव नः ॥३८॥हतेषु कुलवर्गेषु मर्तव्यं सर्वथा ह्यनु ।इत्येवं संविचार्यैव सन्नद्धाः सर्वथाऽम्बरे ॥३९॥मायाजालानि रचयामासुस्ता विविधानि वै ।मोहनान्यप्यसंख्यान्यरचयन् मायिकानि च ॥४०॥यथा विमानसैन्यानि वैमानिकानि चाप्यपि ।विनाशं प्रापुरेवाऽत्राऽम्बरे तथा व्यधुर्मृषा ॥४१॥राक्षसानां महान् राजा मायाजालपरायणः ।नाम्ना मारीचशार्दूलो रोषताम्रेक्षणो दशन् ॥४२॥दन्तान् जिह्वामोष्ठकौ च मायामन्त्रानवासृजत् ।अविज्ञाय महारुद्रं नारायणं सतीं तदा ॥४३॥विज्ञाय मानवं सैन्यं बलवद् वा तथाविधम् ।रक्षसां त्वन्यभूजानां मायामन्त्रानवासृजत् ॥४४॥प्रथमं पञ्चसाहस्रान् संरक्ष्य छायया स्वया ।ततो मन्त्रान् मुमोचाऽयं शालभेयान् भयंकरान् ॥४५॥शलभानां समुद्रो वै तदाऽऽकाशेऽभवन्नवः ।यद्भारेण विमानानि निम्नानि तु तदाऽभवन् ॥४६॥योद्धारश्चावृताः सर्वे शलभैर्वृष्टिसदृशैः ।अभ्रैः शालभरूपैर्न व्यदृश्यन्त तदा मिथः ॥४७॥तद्विनाशाय रुद्रश्च किलहाऽस्त्रमवासृजत् ।असंख्याः पक्षिणो जाताः किलहाख्यास्तदाऽम्बरे ॥४८॥शलभाद्राः सर्वतस्तान् भक्षयामासुरम्बरे ।कर्बूरीणां समूहाश्च वीक्ष्य राक्षसपुंगवाः ॥४९॥तासां कलहजातीनां विनाशार्थं मनो दधे ।मायया श्येनजालानि रचयामास मार्गणैः ॥५०॥श्येनाश्चाब्जाब्जसंख्यास्ते भक्षयामासुरम्बरे ।किलहाँश्च ततो भूत्वा यानतुल्याः शरीरतः ॥५१॥विमानानि पक्षबलैस्ताडयामासुरुल्बणाः ।केचिद्विमानतुल्याश्च केचित्पर्वतदेहिनः ॥५२॥अन्यान्यस्थौल्यवन्तस्ते बभञ्जुर्वै समन्ततः ।विमानानि तु भिन्नानि क्षिप्तानि पेतुरम्बरात् ॥५३॥एवं विचित्रे घाते च जायमाने हरिः स्वयम् ।वायुदेवं तदा चाज्ञापयामास धृतेः कृते ॥५४॥भग्नान्यपि विमानानि धारयामास वायुराट् ।अम्बरे एव तु विश्वकर्मा स्मृतो ह्युपाययौ ॥५५॥शिल्पेन कर्मणा शीघ्रं भग्नभागानयोजयत् ।यथासंस्थानयानानि विधाय परमेश्वरम् ॥५६॥चकार सुप्रसन्नं च तस्थौ तत्रैव योधने ।अथ रुद्रोऽनलमन्त्रैः पक्षिणोऽनलसंज्ञितान् ॥५७॥कोट्यब्जसंख्यकान् शीघ्रं जनयामास मार्गणैः ।अनलाः पक्षिणः श्येनान् भक्षयामासुरुल्बणाः ॥५८॥राक्षसानपि चात्तुं ते दुद्रुवुः रुद्रनोदिताः ।राक्षसा मायया तत्र तिरोधानं गताः क्षणम् ॥५९॥सर्जयामासुरुग्राँश्च नागान् विषोल्बणांस्तदा ।सपक्षाँस्ते विमानस्थान् गत्वाऽऽविश्य दशन्ति हि ॥६०॥रुद्रो गारुडमन्त्रेणोत्पादयामास भक्षकान् ।गरुडान् नागसंहारकर्तॄन् कोटिसहस्रशः ॥६१॥गरुडास्ताननुद्रुत्य भक्षयामासुरेव च ।गरुडानां विनाशार्थं राक्षसो वह्निमासृजत् ॥६२॥अग्निरग्निर्महाग्निश्चाम्बरे त्वालामयोऽभवत् ।रुद्रो नेत्रं तृतीयं चोद्धाटयामास तत्क्षणे ॥६३॥तत्रोत्पन्नः प्रलयाग्निर्मृषाग्निं राक्षसोत्थितम् ।आकृष्य चाऽऽजहारैव नैजे रूपेऽतिदारुणम् ॥६४॥शशामाऽग्निस्तदा शीघ्रं राक्षसा भयमावहन् ।गह्वरस्य द्रुमाधस्ताद् गुप्ता बाणान् शराँस्तथा ॥६५॥मुमुचुर्भल्लकाँश्चापि योद्धव्यमिति निश्चिताः ।रुद्रगणा व्योममार्गात् क्षेत्रपालाः समन्ततः ॥६६॥चक्रुस्तदा बाणवृष्टिं हन्तुं राक्षसपुंगवान् ।अथ ते राक्षसाः प्राप्ताः प्राणसन्देहतां यदा ॥६७॥तदा पाषाणमन्त्रैस्ते मुमुचुर्मार्गणान् बहून् ।शिला व्योम्नि समुत्पन्ना गण्डशैलसमास्तदा ॥६८॥उत्पत्योत्पत्याऽनरीक्षे जघ्नुर्विमानकानि वै ।ज्ञात्वा रुद्रश्चेष्टितं तद् वज्रास्त्रं प्रमुमोच ह ॥६९॥शिलाश्चूर्णीभूय सर्वा वायुनोड्डिड्यिरे दिशः ।व्यलीयन्त ततो दैत्या मेघानुग्रानवासृजन् ॥७०॥वाय्वस्त्रेण तदा रुद्रो मेघान् लीनानकारयत् ।अथ ते राक्षसा भीता मृतशेषास्तु वारिधिम् ॥७१॥प्रवेष्टुं दुद्रुवुस्तावच्छंकरो लोकशंकरः ।गणान् विमोचयामास तत्पृष्ठे धर्तुमेव तान् ॥७२॥परावृत्य तदा दैत्या गणैर्युद्धं व्यधुः पुनः ।तदा रुद्रो मुमोचाथ शूलं लोकभयंकरम् ॥७३॥भ्रमद् वेगेन वह्नींश्च मुञ्चत् समन्ततश्च तत् ।मारयामास दैत्यांस्तान् मारीशेशो तिरोऽभवत् ॥७४॥धृत्वा तु मायिकं रूपं वाह्नेयं शूलमेव तत् ।मुखे समाग्रसत्तत्र सर्वेषां पश्यतां तदा ॥७५॥वीक्ष्याऽऽश्चर्यं परं प्राप्ताः शंकराद्या गणास्तथा ।तद्विलोक्य परं कर्म राक्षसस्य नरायणः ॥७६॥प्रशशंसाऽसुरस्यैतत्कर्म लोकभयंकरम् ।शंभुं वीक्ष्य हरिस्तूर्णं चक्रं करान्मुमोच ह ॥७७॥उर्मिकासदृशं चक्रं निर्गतं चांगुलेर्यदा ।शीघ्रं वह्निं विमुञ्चच्चाऽवर्धताऽतिभयंकरम् ॥७८॥सहस्रारं सूर्यतुल्यं रक्तवर्णं च वेगवत् ।निनादयद्दिशः सर्वाः प्रज्वालयद् वनानि च ॥७९॥पर्वतं भस्मसात् कुर्वत् चाग्रसद् राक्षसान् द्रुतम् ।पृथिवी कम्पिता तस्य वेगेन वायुमण्डलम् ॥८०॥कम्पितं च समुद्रा वै स्तब्धाश्चोद्वेलतां गताः ।विमानान्यम्बरे स्थैर्यं समतां तत्यजुः क्षणम् ॥८१॥सर्वदेहिहृदयानि त्रेसुर्धैर्यं प्रतत्यजुः ।हाहाकारस्तदा जातो मुमुहुर्निर्बलाः क्षणम् ॥८२॥सत्वानि मूर्छितान्येव क्षणं चक्रेऽतिवेगिते ।राक्षसाः स्तब्धतां याता ज्ञातवन्तः सुदर्शनम् ॥८३॥तावच्चक्रं प्राप्तमेव व्यदारयच्छिरांसि हि ।हताः शेषा राक्षसा ये मारिशेशोऽपि नाशितः ॥८४॥गण्डशैला इव तेषां देहाः पेतुः क्षितौ तदा ।अथ चक्रं गणरक्षाकरं शूलं प्रगृह्य तु ॥८५॥न्यवर्तत महाघोरं वह्निमण्डलसदृशम् ।अतिवेगं समापन्नं शान्तिं नाऽवाप सत्वरम् ॥८६॥पर्वतारण्यभोगेषु शनैः शनैरपाऽसरत् ।पर्वतस्य भूमिका याः प्रदेशा बहवस्तदा ॥८७॥चक्राग्निनां प्रदग्धाश्च रसभावं गतास्तदा ।श्वेतस्फटिकभस्माढ्याः कृष्णमणिसमा अपि ॥८८॥पीताः स्वर्णसमाश्चापि प्रदेशास्त्वभवन् प्रियाः ।पाषाणपर्वतरसा दग्धाश्चक्रस्य वह्निना ॥८९॥पुनः पाषाणतां प्राप्ता मणयो वै यथा शुभाः ।आसमन्ताद् रसोत्पन्नः पाषाणा आरसारत्मकाः ॥९०॥चक्रसंगेन संजाता मर्मराः संगमर्मराः ।शिल्पकार्याऽर्हदेहास्ते प्रदेशा विकृतिं गताः ॥९१॥चक्रे शान्तं ह्यभूच्चापि मूर्तिं दधार पार्षदीम् ।शूलं तु गणमूर्तिं च दधारापि त्रिलोचनाम् ॥९२॥गणानाहूय च सेनां मानवानां वनस्थिताम् ।धैर्यं च ददतुश्चोभौ विजयं च शशंसतुः ॥९३॥तावद् विजयतूर्याणि त्ववाद्यन्त समन्ततः ।पुष्पवृष्टिश्चाभवत्त्वम्बराद् देवादिभिः कृता ॥९४॥भेर्यो निनादान् चक्रुश्च शंखाश्च बिगुलानि च ।सैन्ये तु मानवे हर्षो मूर्तिमान् प्रविवेश ह ॥९५॥गणेष्वपि तु सर्वेषु वैमानिकेषु वै तथा ।उभयोर्नृपयोश्चापि हृत्स्वानन्दो न वै ममौ ॥९६॥जयशब्दा विमानेषु प्राभवन् बहुहर्षतः ।अथ चक्रं तथा शूलं पार्षदौ द्वौ च पर्वते ॥९७॥ययतुर्गह्वरद्वारं रक्षोनिवासभूमिकाम् ।विलोकयामासतुश्चान्तरे गत्वाऽन्धकारिते ॥९८॥प्रकाशं स्वं प्रसार्यैव तावत्तत्र च गह्वरे ।भक्षितानां नराणां नारीणां शेषास्थिसंचयान् ॥९९॥विलोक्य दुःखमापन्नौ दयापरौ हि पार्षदौ ।अग्रे गत्वा पुनस्तत्रालोकयामासतुस्तदा ॥१००॥कन्यकाश्च स्त्रियश्चापि राक्षसैर्या अपहृताः ।शते द्वे च सहस्रं च युवत्यो रुरुदुस्तदा ॥१०१॥तावुभौ वेदयामासुर्वृत्तान्तानि हि रक्षसाम् ।पार्श्वे च विद्यते वृक्षसमूहे नगरी वने ॥१०२॥द्रोण्यामदृश्यरूपा तु यत्र सन्ति ह्यनेकशः ।अपहृता नरा नार्यो बाला बाल्यश्च बन्धने ॥१०३॥ताः सर्वास्तौ गह्वराच्च बहिर्निष्कास्य सत्वरम् ।ययतुर्नगरी राक्षसैः प्राक् कृता यथा ॥१०४॥तत्र दृष्टा - निगडस्था बहवो युवमूर्तयः ।अन्ये विमुक्तभावाश्च प्राकारान्तर्निवेशिताः ॥१०५॥नरा नार्यश्च बहवो भक्ष्याः क्रमात्तु रक्षसाम् ।पारेसहस्रमावीक्ष्य मोचयामासतुश्च तान् ॥१०६॥अथ चक्रं स्थितं तत्र शूलं ययौ हरिं हरम् ।जगाद सर्वं वृत्तान्तं तदा नारायणो हरः ॥१०७॥विमानं सत्वरं त्यक्त्वा नगरीं ययतुर्द्रुतम् ।रुदन्तोऽपि गता हर्षं दृष्ट्वा हरिं हरं प्रभुम् ॥१०८॥प्रजास्ताश्च प्रणेमुर्बन्धनमुक्ताः पुनः पुनः ।हरिः सर्वाः प्रजास्तत्राऽऽश्वासयामास पितृवत् ॥१०९॥अनाथस्य सुतश्चापि सुताऽपि च प्रणेमतुः ।परमेशं हरं चापि रुरुदतुः पुनः पुनः ॥११०॥हरिस्तेभ्यो राधिके वै धैर्यं निर्भयतां ददौ ।शंकराय हरिः प्राह निस्तारार्थं सुखावहम् ॥१११॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने राक्षसानां राजभ्यां तत्सैन्यैः सह योधनं राक्षसीनां दुर्गया सह योधनं रुद्रेण राक्षसानां नाशनं निगडस्थप्रजानां रक्षणं पर्वतस्य सुदर्शनतेजसा रसशिलामयत्वं चेत्यादिनिरूपणनामा त्र्यशीत्यधिकशततमोऽध्यायः ॥१८३॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP