संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १७ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु राधे च ते दैत्या यदा गृहं न चाययुः ।तत्पत्न्यो दैत्यसैन्यस्याऽन्वेषणार्थं समाययुः ॥१॥अयुतं श्रावणे मासे वर्षान्विते स्थले तदा ।कुंकुमवापिकाक्षेत्रे जलादिसंप्लुते शुभे ॥२॥समागत्य हि दैत्यानां पत्न्यो व्योमप्रदेशतः ।व्यपश्यन् रमणीयं चारण्यस्थं महदाश्रमम् ॥३॥कोटिकन्याश्रयं चापि लोमशर्षिनिषेवितम् ।केचिद् वैखानसास्तत्र केचिदासन्निरासनाः ॥४॥यायावरास्तथा चान्ये वानप्रस्थास्तथाऽपरे ।शालीनाश्च तथा केचित् कापोतीं वृत्तिमाश्रिताः ॥५॥तथा चान्ये श्रिता वृत्तिं सर्वभूतदयां शुभाम् ।शिलोच्छाश्च तथैवाऽन्ये काष्ठपात्रादनाः परे ॥६॥अपाकपाचिनः केचित् पाकिनश्च क्वचित्पुनः ।नानाविधिधराः केचिज्जितात्मानस्तु केचन ॥७॥स्थानमौनव्रताः केचित्तथाऽन्ये जलशायिनः ।तथोर्ध्वशायिनश्चान्ये तथाऽन्ये मृगचारिणः ॥८॥पञ्चाग्नयस्तथा केचित् केचित् पर्णफलाशिनः ।अब्भक्षा वायुभक्षाश्च तथाऽन्ये शाकभक्षिणः ॥९॥अतोऽन्येऽप्यतितीव्रां वै तपश्चर्यां प्रपेदिरे ।यत्रारण्ये साधवश्च साध्व्यो वसन्ति कोटिशः ॥१०॥यत्राऽऽश्रमे हरेः पत्न्यः कोटिकन्या वसन्ति च ।यत्र मोक्षप्रदा त्वास्ते दिव्या कुंकुमवापिका ॥११॥यत्र दिव्यं त्वश्वपट्टसरोवरं प्रवर्तते ।स देशो दिव्यतासम्पादको यत्र हरेर्महान् ॥१२॥प्रासादो विद्यते रम्यो गोलोकादधिकोज्ज्वलः ।यत्र श्रीकम्भरालक्ष्मीर्यत्र गोपालकृष्णकः ॥१३॥राजन्ते श्रीबालकृष्णान्विताः समन्ततः प्रजाः ।तादृशः स महादिव्यो नन्दनोपवनद्युतिः ॥१४॥प्रदेशो वीक्षितस्ताभिर्दैत्याभिर्व्योममार्गतः ।वज्रस्फटिकपाषाणः प्रवालांकुरशर्करः ॥१५॥नीलाऽमलमृत्तिकाढ्यो जलनिर्झरशोभितः ।विचित्रकुसुमोपेतैर्लतामञ्जरीधारिभिः ॥१६॥रेजे यः प्रांशुभिर्वृक्षैरुल्लिखद्भिरिवाऽम्बरम् ।स्थल्यस्तत्राऽधिकं रेजुर्नानाधातुपरिस्रवैः ॥१७॥विचित्रकुसुमोपेताश्चित्रिता इव सर्वतः ।तासु केतकिखण्डाश्च कुन्दषण्डाश्च पुष्पिताः ॥१८॥उन्मीलिता इवाऽऽभान्ति धातकीवनराजिभिः ।भिन्नेन्द्रनीलविमलैर्धौतैः प्रस्रवणाम्बुभिः ॥१९॥चित्रैः कुसुमसंछन्नैर्धातुप्रस्तरविस्तरैः ।क्रीडद्भिर्देवमिथुनैर्नृत्यद्भिश्चाप्सरोगणैः ॥२०॥कूजद्भिः शिखिभिर्मत्तैः शोभितो देश उज्ज्वलः ।कल्हारकुसुमोपेतो हंससारससेवितः ॥२१॥प्रसन्नसलिलाकीर्णः सरोभिः फुल्लपंकजैः ।सिंहयूथानुकीणाभिर्जुष्टाभिर्मृगपक्षिभिः ॥२२॥सेविताभिर्मुनिगणैः स्थालीभिरुपशोभितः ।किन्नरोद्गीतललितः परपुष्टानिनादितः ॥२३॥विद्याधरशताकीर्णो देवगन्धर्वसेवितः ।धारापातैश्च मेघानां विस्फुल्लिंगैः सहस्रशः ॥२४॥प्रकाशितो मुहुर्मृदुरम्यहरितशाद्वलः ।सर्वर्तुकवनोद्यानः पुष्पाकरसुशोभितः ॥२५॥यज्ञकिम्पुरुषावासो गुह्यकानामथाश्रयः ।मुक्तानां पार्षदानां वैष्णवानां वासशोभनः ॥२६॥वरदो यत्र भगवान् कृष्णनारायणः प्रभुः ।सर्वामरगुरुर्देवो नित्यं सन्निहितो हरिः ॥२७॥भक्तानुकम्पी स श्रीमान् चाध्यास्ते पार्षदैः सह ।विमानयायिनः सर्वे यं देवं परमेश्वरम् ॥२८॥आयान्ति सेवितुं देवा वरेण्यमजमच्युतम् ।अन्ये देवनिकायाश्च सेवितुं प्रपतन्ति यम् ॥२९॥तदधिष्ठानरूपोऽयं देशः स्त्रीभिर्विलोकितः ।दैत्याभिर्वीक्षितो देशः श्रावणेऽतिमनोहरः ॥३०॥वृक्षशाखासु कन्याभिश्चान्दोलितो हरिः पतिः ।प्रतिद्रुलम्बिदोलायां वीक्षितः परमेश्वरः ॥३१॥आश्चर्यं ता गता दृष्ट्वा पतिनाशकरं हरिम् ।चुक्रुधुश्चाति तं कृष्णं हन्तुं पेतुर्द्रुमे द्रुमे ॥३२॥यद्यद्द्रुमस्य शाखायां प्रेंखा कृष्णस्य लम्बते ।स स वृक्षोऽभवद् देवो वृक्षरूपी प्रसेवकः ॥३३॥स स वृक्षोऽभवत् द्राक् च शस्त्रधृक् देवपूरुषः ।रक्षितुं तं भगवन्तं हन्तुं ता दैत्ययोषितः ॥३४॥आकाशे एव राक्षस्यो युद्धं देवैर्व्यधुस्तदा ।भिन्दीपालैस्तोमरैश्च मूशलैरस्थिहेतिभिः ॥३५॥वृक्षशाखाभिरुग्राभिर्वंशैः प्रस्तरकण्टकैः ।पाषाणैर्यष्टिभिश्चापि केशाकेशि ततः पुनः ॥३६॥देवा वृक्षा राक्षसीभिर्युयुधुर्न च जीवतः ।न जघ्नुर्मर्मभागेषु कोमलांगेषु नैव च ॥३७॥स्त्रीजातिं न विहन्याद्वै मत्वैवं प्राणतो न ताः ।नाशयामासुरुग्रास्तास्ततः कन्याभिरेव च ॥३८॥स्मृतः कृष्णप्रभुर्ज्ञात्वा नारीर्युद्धप्रमर्दिनीः ।द्रागेव भगवाँस्तत्र द्वेधा भूत्वा समागतः ॥३९॥काललक्ष्मीरूपधरः सर्वशस्त्रान्वितः प्रभुः ।सहस्रभुजवान् हस्तिस्थितो व्योम्ना समाययौ ॥४०॥श्वेतो हस्तिः पक्षयुक्तो जगर्ज त्वम्बरे यदा ।प्रतिध्वन्या स्फुटकर्णा राक्षस्यो विह्वलास्तदा ॥४१॥मूर्छामवापुराकाशे निपेतुर्वनभूतले ।अन्यास्तु दुद्रुवुर्हस्तिनं तु नाशयितुं हरिः ॥४२॥काललक्ष्मीस्वरूपस्ता जघान जीवतस्तदा ।म्रियमाणा द्विधा छिन्ना भिन्नाः पेतुर्मृताः स्त्रियः ॥४३॥तासामात्मा काललक्ष्म्या लयं यातो मुहुर्मुहुः ।किशोरश्चापररूपः कृष्णनारायणस्तदा ॥४४॥कन्यकामध्यवर्ती च विरेजे लोमशाश्रमे ।काश्चिद् दैत्ययूथपत्न्यो हस्तिना शुण्ढया हताः ॥४५॥अन्याः शस्त्रैर्हता लक्ष्म्या निःशेषा नष्टतां गताः ।मृतास्ता दिव्यतां प्राप्ता यथा देव्यो विरेजिरे ॥४६॥मुभुहुः श्रीकृष्णानारायणं दृष्ट्वा किशोरकम् ।अर्थयामासुरत्यर्थं परमेश्वरमीश्वरम् ॥४७॥कान्तो भव सदाऽस्माकं ह्यनाथानां प्ररक्षकः ।मृता दैत्यगुणैर्हीना जातास्तव प्रतापतः ॥४८॥कन्यकासु च नो वासं देहि लोमशसन्निधौ ।सेवां कर्तुं समीहा नः सदा तेऽस्ति कृपाकर ॥४९॥तथाऽस्त्विति हरिः प्राहाऽयुतदिव्यास्तु कन्यकाः ।ऊनद्वादशवार्षिक्योऽभवन् कृष्णप्रतापतः ॥५०॥रूपानुरूपावयवा प्रिया राधारमासमाः ।ताभ्यो ददौ लोमशश्च मन्त्रं श्रीवैष्णवोत्तमम् ॥५१॥'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।तौलसीं मालिकां कण्ठे ललाटे तिलकं शुभम् ॥५२॥पीतशाटीर्ददौ हस्ते मालिकां जपसाधनीम् ।ज्ञानं विद्यां ददौ ताभ्यो वासं ददौ निजाश्रमे ॥५३॥ताश्च सर्वा बालकृष्णचरणौ दुग्धधारया ।प्रक्षाल्य च पपुस्तस्य प्रसादान्नं फलादिकम् ॥५४॥भक्षयामासुरत्याप्तप्रेम्णा दास्येन तास्तदा ।लोमशश्च ततस्ताभ्यः सर्वाभ्यः शरणागतिम् ॥५५॥बोधयामास वै षोढा सर्वसमर्पणात्मिकाम् ।कन्याः! शृणुत सर्वा वै कृष्णार्थकृतनिश्चयाः ॥५६॥नारीदेहः परार्थोऽस्ति परः श्रीपुरुषोत्तमः ।तदर्थं सर्वथा भाव्यं नारीभिः पतिभक्तिभिः ॥५७॥पतिरेव परब्रह्म तारको मोक्षदायकः ।शतजन्मकृतपुण्यात् कन्या भवति धार्मिकी ॥५८॥सहस्रजन्मपुण्यैस्तु भवेत् कृष्णार्पिता तु सा ।लक्षजन्मार्जितपुण्यैः कृष्णपत्नी भवेत् सती ॥५९॥यूयं सर्वाः कृष्णपत्न्यः कृपया स्थ न संशयः ।कस्मात् कुतश्च तावद्वै पुण्यमुपार्जितं भवेत् ॥६०॥हरेर्योगात्पुण्यवार्धिः शेवधिरिव वर्धते ।कामात् क्रोधाच्च संयोगाल्लोभान्मोहादपि प्रभौ ॥६१॥तल्लीनास्तदधीनाश्चेत् सर्वं पुण्यमुपार्जितम् ।एवं यूयं चाद्य जाता लक्ष्मीहस्तगताः स्त्रियः ॥६२॥वैरेणापि हरेर्योगात् पुण्यं प्राप्ता हि शाश्वतम् ।अनादिश्रीकृष्णनारायणस्याऽनुग्रहान्मम ॥६३॥आश्रमे परितो माया नैवाऽऽविशति काचन ।मायापरोऽयं देशोऽस्ति लोमशस्य ममाश्रयः ॥६४॥कामक्रोधादिदोषास्तु दोषिणां प्रज्वलन्ति वै ।ये ममाश्रमभागस्योपरि व्योम्नि प्रयान्ति तु ॥६५॥उपरितोऽपि गच्छन्ति तेषां नश्यन्ति वै हृदः ।दोषा रागादयश्चापि पशूनामपि पक्षिणाम् ॥६६॥देवानां दानवानां च दैत्यानां चापि योषिताम् ।संसारिणां च संसारो मिथ्याविद्वासनात्मकः ॥६७॥आमूलतो लयं याति ममाश्रमनिषेवणात् ।अत्राश्रमे कृतवासा दिव्या भवन्ति देहिनः ॥६८॥शान्तिस्तेषां सदा दास्ये श्रीकृष्णस्य प्रतापतः ।यूयं सर्वा हरिं कृष्णं भजथाऽत्र तदाश्रिताः ॥६९॥हरेः प्राप्तिं विना नान्यद् वाञ्च्छनीयं विशिष्यते ।तस्य भक्तिं हि कुरुत ध्यानं चरत तस्य वै ॥७०॥सेवां लभध्वं तस्यैव नित्यं नित्यमतन्द्रिताः ।गतं पापं गतो भावो दैत्यता वृद्धता गता ॥७१॥गता भीर्मरणं चापि गतं युष्माकमार्त्तिदम् ।सर्वं लब्धं च लब्धव्यं प्राप्तव्यं प्राप्तमित्यपि ॥७२॥कृतं कृत्यं च यावद्वै नाऽतोऽन्यदवशिष्यते ।सेवध्वं षड्विधं दास्यं हृदि कृत्वा तु कन्यकाः ॥७३॥विश्वासो माधवे कार्यो यथाऽपत्यस्य मातरि ।वरदानं वरणं च तस्मिन् कार्यं त्वमेव मे ॥७४॥सन्न्यासः सर्वथा तस्मिन् कृष्णे देहस्य देहिनाम् ।कार्पण्यं चापि कैंकर्यं भृत्यवत् परमात्मनि ॥७५॥सदा स्थैर्यं सुखे दुःखे पातिव्रत्यं न चेतरत् ।मम कान्तस्याऽनुकूल्यं तदिच्छेच्छा तु मामकी ॥७६॥प्रातिकूल्यं न मे तस्य तदनिष्टं तु नेष्यते ।इत्येवं स्वामिसौख्ये स्वसौख्यं मन्येत मानिनी ॥७७॥स्वामिदुःखे तु याऽशान्ता दुःखिनी भवति ध्रुवम् ।स्वात्मवद् वर्तते तस्मिन् कान्ते देवे परात्मनि ॥७८॥सर्वं तस्मै प्रदातव्यं शरणं या समिच्छति ।स एवाऽत्र पिता पाता स एव जननी जनुः ॥७९॥कृष्ण एव महान् बन्धुर्भ्राता स्वसा हरिः स्वयम् ।कृष्ण एव कनिष्ठोऽपि चानुजो दुहिताऽपि सः ॥८०॥कृष्ण एव पतिः पत्नी स्नुषा वधूर्हरिर्मम ।कृष्ण एव श्वशुरश्च श्वश्रूर्ननान्दा चात्मजा ॥८१॥पुत्रः पुत्री सखी मित्रं कृष्ण एव सदा मम ।कृष्णनारायणो भ्राता राजा भत्यश्च किंकरः ॥८२॥सेवकश्च गुरुः कृष्णः शिक्षकश्च पुरोहितः ।दर्शकः सार्थ एवाऽयं गृहं गृहपतिः प्रभुः ॥८३॥आश्रयः फलदश्चापि मम श्रेष्ठों स माधवः ।मम क्षेत्रं वाटिका च मम द्रव्यं हरिः स्वयम् ॥८४॥सम्बन्धी मे केशवः स बालः स बालिका मम ।मम हृद्यो महीमानः प्राघूणिको मम प्रभुः ॥८५॥सपत्नी मे सदा कृष्णः सपत्नो मायिके मम ।मयि द्रष्टा मयि श्रोता मयि स्प्रष्टा जनार्दनः ॥८६॥घ्राता रसयिता कृष्णो मयि मन्ता हरिः स वै ।गन्ता मयि ग्रहिता स वक्ताऽऽनन्दयिता मयि ॥८७॥विसर्जयिता कृष्णः स बोद्धा चिन्तयिता मयि ।निर्णेता सः प्रापयिता वेत्ता विद्वान् स वै मयि ॥८८॥तर्पयिता मोदयिता रत्ना मयि हरिः स च ।गोप्ता चाकर्षयिता च गर्भे कुक्षौ स मे हृदि ॥८९॥प्राणयिता जीवयिताऽन्तरात्मा मे पुमुत्तमः ।साक्षी चेता पतिः कृष्णः सर्वाऽहं तन्मयी वधूः ॥९०॥तस्य सर्वं मयि चाहं तस्मिन् श्रीपरमात्मनि ।इत्येवं पुत्रिका! यूयं भवताऽस्मिन्निवेदिताः ॥९१॥यन्मिष्टं यच्च मे हृद्यं यन्माधुर्यं यच्छीतलम् ।तत्सर्वं मे बालकृष्णश्चैवं भवत दासिकाः ॥९२॥गोपायन्ति यथा गोप्यं प्रभुर्गोप्यतमो हरिः ।कान्तः सोऽयं गोपनीयः कर्तव्यं नाऽवशिष्यते ॥९३॥कान्तार्थं गोपनं सर्वं कान्ताग्रे नैव गोपनम् ।कान्तवद् भाव्यते कृष्णस्ततः कान्तायते हि सः ॥९४॥कान्तायते यथा कान्ता कान्तं प्रत्यभिकामुकी ।कृष्णः कृष्णायते कृष्णां कृष्णं प्रत्यभिकामुकीम् ॥९५॥अनादिश्रीकृष्णनारायणो युष्मासु वर्तते ।अभिन्नस्तिष्ठति द्रव्यं शाश्वतं चाव्ययं हि सः ॥९६॥स एव मिलितश्चाऽत्र गोपालकृष्णमन्दिरे ।कम्भराश्रीनन्दनः स प्राप्तो युष्मद्व्रतं हि सः ॥९७॥भोजने शयने स्नाने ध्याने याने समासने ।विहारे रमणे पाने विश्रामे च प्रवर्तने ॥९८॥विकृतौ सुकृतौ सौम्ये जुषध्वं तं विषादने ।निवर्तने च निद्रायां जुषध्वं तं प्रियं पतिम् ॥९९॥एवं क्रियाकलापं स्वं समर्पयत तत्र वै ।एतावच्छास्त्रविस्तारश्चैतावत्त्वनुशासनम् ॥१००॥ओं शान्तिरस्तुविरतिर्भवतीनां नरायणे ।सर्वकामलयश्चाऽस्तु भवतीनां परात्मनि ॥१०१॥इत्युपादिश्य मुनिराट् मायाक्षालनसद्बलः ।कन्याभ्यः स च संवासान् ददौ पर्णालयेषु वै ॥१०२॥स्वयं ध्याने निमग्नोऽभूत् कन्याभिर्भोजिताश्च ताः ।पूजिता वन्दिताः स्वागतादिभिश्चाऽभियोजिताः ॥१०३॥ततस्ता अपि नित्यं वै शुश्रुवुः परमाः कथाः ।लक्ष्मीनारायणसंहितायाः प्रातः सायं दिने दिने ॥१०४॥प्रातर्नित्यं पूजयन्ति स्म श्रीकृष्णं पतिं प्रियम् ।जन्मनः सफलत्वं च कुर्वन्त्येव दिवानिशम् ॥१०५॥इत्येवं राधिके! तेऽत्र कथितां दिव्यताप्रदाम् ।पत्यर्थं प्राणदात्रीणां कथां कृष्णनिवेदिनीम् ॥१०६॥यासु नास्ति सदाचारो यासु नास्ति च सेवनम् ।भक्तिराराधना यासु नास्ति कृष्णस्य भावनम् ॥१०७॥तासां तुष्टो हरिश्चायं त्वनुग्रहपरायणः ।कृपासाध्यो महाराजो ववर्ष सीमतोऽतिगः ॥१०८॥कर्तुमकर्तुमन्यथाकर्तुं शक्तः परात्परः ।दैत्यजातीन् देवजातीन् ब्रह्मजातीन् करोति वै ॥१०९॥पापात्पापतमश्चापि पठनाच्छ्रवणादपि ।देववन्मुक्तवत् कृष्णपत्नीवत् संप्रजायते ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कंकतालदैत्यपत्नीनां युद्धे कुंकुमवापिकाक्षेत्रे कृष्णकान्तात्वं लोमशकृतबालकृष्णात्मनिवेदितोपदेशश्चेत्यादिनिरूपणनामा सप्तदशोऽध्यायः ॥१७॥ N/A References : N/A Last Updated : April 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP