संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २५३ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २५३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २५३ Translation - भाषांतर श्रीकृष्ण उवाच-राधिकेऽश्वपाटलश्च श्रुत्वा नैःश्रेयसं परम् ।लोमशं परिपप्रच्छ पुनश्चात्मविमोक्षणम् ॥१॥अश्वपट्टल उवाच-वद मेऽत्र पुनः श्रेय इहाऽमुत्र सुखावहम् ।कर्तव्यार्थेन निर्वर्त्यं चाभ्युदयोत्तरोत्तरम् ॥२॥श्रीलोमश उवाच-शकटं रथिनो याति बहुभारं प्रवासिनः ।देहयात्रापरे भारे तृप्तिहीनस्य भूतले ॥३॥क्षुधातृषे द्वे वृषभौ शोकमोहौ च चक्रके ।सुखदुःखे चाग्रपृष्ठौ वासना मध्यसंस्थिका ॥४॥रथी स्वयं च शकटं नीत्वा यात्यधिकाय ह ।यात्रामात्रातिरेकेषु लुब्धोऽनुविन्दतीह षट् ॥५॥अत एव सदा क्लिष्टो निद्रां वेत्ति न वाहकः ।शकटेन वहन् वस्तून्यसंख्यानि मुहुर्मुहुः ॥६॥अरण्ये चेन्द्रियचौरे लुण्ठितो जायतेऽवशः ।सुखशान्त्यात्मकं द्रव्यं चौरा हरन्ति सर्वशः ॥७॥तस्मान्न वृषभौ रक्ष्यौ रक्ष्यं न शकटं तथा ।तत्त्यागे देहयात्रायां सुखं शान्तिर्हि योगिवत् ॥८॥जायतेऽस्य रथिनो वै यात्रामात्रप्रयोगिणः ।नाधिकं चाभिवाञ्छेच्च वस्त्रान्नजलमन्दिरम् ॥९॥पुण्यकार्याणि कुर्वीत देवकार्याणि यानि च ।परोपकारकार्याणि प्रकुर्वीतात्मसंदृशा ॥१०॥दुर्लभं मानवं चायुर्नैव क्षिपेत् प्रगर्तके ।उत्कर्षाभ्युदयार्थं च प्रयतेत विमुक्तये ॥११॥पुण्येन कर्मणाऽऽप्येतोत्कर्षश्चाभ्युदयस्तथा ।व्रतयत्नाऽभ्यासभाग्यैः सतामाशीर्भिरेव च ॥१२॥अकर्माणि दैवतानां मुनीनां च सतां तथा ।महतां न चरेत्तानि तेजस्विनां न दूषणम् ॥१३॥महतां चाऽघटितानि कुत्सयेन्न कदाचन ।शुभे विदध्याच्छान्तात्मा भद्राण्येव स पश्यति ॥१४॥नृशंसं नाऽर्जयेत्कर्म धनं मानं प्रशासनम् ।तत्सर्वं याम्यलोकस्य दुःखदं भावि वै यतः ॥१५॥प्रशस्तं चाचरेत् सर्वं ख्यातं धन्यपरायणम् ।दैवं पैत्र्यं चातिथेयं मानवं पाशवं च यत् ॥१६॥अव्ययकर्मणा यान्ति सिद्धिं सन्तो महर्षयः ।व्ययेन कर्मणा भूपाश्चोपासनेन योगिनः ॥१७॥सेवया योषितः शूद्रा दासा दास्येन वै तथा ।पण्डिता ज्ञानमार्गेण कारवः शिल्पविद्यया ॥१८॥गवाद्या दुग्धदानैश्च वृक्षाद्याः फलदानकैः ।स्तम्बाः पत्रप्रदानेन वल्लिकाः पुष्पदानकैः ॥१९॥मानवाश्चोपकारेण परस्परं सहायिनः ।सिद्धिं वै यान्ति परमां मुक्तिसिद्धिं प्रयान्ति च ॥२०॥हुत्वाऽपि हवनं वह्नौ मुनयोऽपि यतव्रताः ।प्रयान्ति सिद्धिं परमामुद्दिश्य श्रीनरायणम् ॥२१॥पत्नी चात्मा च माता च पिता जनयिता सुतः ।गुरुः पुत्री च देवास्ते सेव्या येन फलं सुखम् ॥२२॥ते सर्वे वह्नयः प्रोक्तास्तद्धोत्रं होत्रमेव तत् ।तेषां तृप्तौ हरिस्तृप्तो भवत्येवान्तरे स्थितः ॥२३॥तस्यास्तृप्तेः फलं चात्र सुखं परत्र शाश्वतम् ।भक्त्या वा सेवया वापि दानेन च मखेन च ॥२४॥तपसा कृच्छ्रसंज्ञेन चानर्हाश्चार्हतां गताः ।उशना विश्वामित्रश्च वाल्मीकः सद्गतिं गताः ॥२५॥उशनास्तपसा शंभोः शुक्रत्वं प्राप्य वै ततः ।शुक्राचार्यो दैत्यगुरुः स्वर्गे सदा ह्यजायत ॥२६॥क्षत्रियो विश्वामित्रश्च ब्रह्मर्षित्वमवाप ह ।वाल्मीकिः शबरश्चापि सदा मुक्तो बभूव ह ॥२७॥शुश्रूषया स्त्रियः शूद्रा गतिं यान्ति परां शुभाम् ।सतां संगः सदा भाग्योदयप्रदः सुपुण्यदः ॥२८॥सन्निकर्षेण च सतः साधुर्वै जायते जनः ।सत्यश्रमोपार्जिता च कपर्दिकाऽपि सौख्यदा ॥२९॥अन्यायोपार्जितं स्वर्णं दुःखदं निगडप्रदम् ।अन्यायोपार्जितं चान्नं रोगाय वमनाय च ॥३०॥अन्यायोपार्जितं क्षेत्रं वह्नये नरकाय च ।अन्यायोपार्जिता नारी मृत्यवे चाप्यकीर्तये ॥३१॥अन्यायोपार्जिता सम्पन्मूलनाशाय जायते ।ब्रह्माऽसृजत् पुरा पुत्रं धर्म प्रजासुखाय वै ॥३२॥सर्वे वर्णाः स्वधर्मस्थाः स्वर्गस्थाः सुखिनो हि ते ।तेषां मुक्त्यर्थमथ च धर्मोऽसृजन्निजांगतः ॥३३॥भक्तिं यथा जना यान्ति स्वर्गं हरेर्हि शाश्वतम् ।ताभ्यां स्वर्गं चिरं चापि शाश्वतं च ततो मिलेत् ॥३४॥एवं प्रयत्नं कुर्वीत स्वर्गद्वयजयो भवेत् ।यदा व्यपेतहृल्लेखं कर्माऽसंगं प्रजायते ॥३५॥हृत्स्थाऽन्तर्यामिणं श्रित्वा कल्याणमर्जयेच्छुचिः ।प्रायेण राजन् साधूनां त्यागिनां च विरागिणाम् ॥३६॥प्रज्ञाबलेन भक्त्या वा बन्धनं न दृढं भवेत् ।शैथिल्यं चाप्यते ज्ञानाद् विवेकाच्छास्त्रशीलनात् ॥३७॥गृहस्थानां जडानां वा बन्धनं दृढतां व्रजेत् ।गृहाण्याश्रित्य गाश्चापि क्षेत्राण्यपि धनानि च ॥३८॥दारान् पुत्राँश्च भृत्याँश्च बन्धनं दृढतां व्रजेत् ।रागद्वेषौ विवर्धेते भोगमोहादिभिः सदा ॥३९॥रतिस्तैश्चाप्युदेत्येव रतो ग्राम्यसुखादिषु ।नहि जानाति चात्मार्थे विवेकं मोक्षमित्यपि ॥४०॥किन्तु यतते भोगी स्यां ततः पुनर्विनश्यति ।तस्मान्निःसंगिना स्थेयं गृहदाराधनादिषु ॥४१॥तपःफलं सम्पदश्च बन्धयन्ति जनानिह ।आदित्या वसवो रुद्रा मरुतौ मनवस्तथा ॥४२॥विश्वेदेवा अश्विनौ च सिद्धाः साध्या महार्षयः ।किंपुरुषाश्च गन्धर्वा वह्नीन्द्रसूर्यचन्द्रकाः ॥४३॥पितरो लोकपालाश्च राक्षसा यक्षकिन्नराः ।गणाश्च पार्षदाश्चापि ग्रहा देवाश्च दानवाः ॥४४॥राजानो गुरुवर्गाश्चाऽऽचार्याः सिद्धाः सतीस्त्रियः ।ते सर्वे तपसा सिद्धा भुञ्जते तपसां फलम् ॥४५॥महाकुले प्रसूता ये स्मृद्धा मोदन्त ईश्वराः ।कौशिकान्यम्बराण्येव स्वर्णहीरकभूषणम् ॥४६॥वाहनासनभोज्यानि पानस्त्रीदासदासिकाः ।शय्योत्तमाश्च मृद्वयश्च वासः प्रासादभूमिषु ॥४७॥अभिप्रेतानि सर्वाणि सर्वे तत् तपसां फलम् ।भोगार्थे जायते सर्वं कर्मणे नरकाय च ॥४८॥असन्तोषः प्रदुःखाय प्रज्ञानाशकरस्तथा ।भ्रामकश्च भवत्येव वृथाधावनकर्षितः ॥४९॥इषुप्रपातमात्रं हि स्पर्शयोगेन कामजम् ।औष्ण्यसुखं प्रदुःखाय सर्वथा निरयाय च ॥५०॥तस्माद् विज्ञाय क्षणिकं दुःखबहुलमेव तत् ।मेधावी च यतेताऽपि मोक्षार्थं गृहधर्म्यपि ॥५१॥मोक्षं चानभिसन्धानाः कामानन्दादिसञ्जकाः ।मनुष्या अपि पुण्यानि ध्वंसयन्तीव सूकराः ॥५२॥योग्यं पात्रं युञ्जते न प्राप्तं कल्पलतासमम् ।मर्दयन्ति शुष्कयन्ति नाशयन्ति हि दुर्भगाः ॥५३॥प्राप्तं चिन्तामणिं देहं महिषीमाययाऽऽवृतम् ।क्षपयन्ति नरा नार्यो मोक्षं कृत्वा तु निष्फलम् ॥५४॥यद्यपि नृपतेः लोकः स्वभावात् कामनादिमान् ।रुध्यते नाऽवशो नित्यं प्रवर्तते हि कर्मसु ॥५५॥अनेकेषु विषयेषु दैहिकाऽऽमोददायिषु ।तथापि गुरुवाक्येन तेषु कर्मस्वथाऽपरम् ॥५६॥भक्त्याख्यं कर्म कर्तव्यं चाधिकं येन मुच्यते ।सतां वृत्तमधिष्ठाय मग्ना अप्युद्दिधीर्षवः ॥५७॥पुण्यं सुखं शमं प्राप्य स्वर्गं परमवाप्नुयुः ।यद्यपि विषयासक्ता अपि द्रोहविवर्जिताः ॥५८॥हर्यर्थं कर्म कुर्वाणा उद्धरन्तीव गोपिकाः ।नैःश्रेयसं कर्मपथं समारुह्य हरेः रथम् ॥५९॥सतां सार्था भक्तिपराः समर्पणविधायिनः ।प्रयान्ति स्थानमजरं चाऽक्षरं स्वर्गमूर्ध्वगाः ॥६०॥भक्ता जयन्ति सर्वत्र सगुणाश्चाऽगुणा अपि ।पुत्राः शिष्या जयन्त्येव भक्तिमन्तः स्त्रियोऽपि च ॥६१॥पिता सखा गुरुः पत्नी राजा माता पतिः सुरः ।अभक्तानां न तुष्यन्ति पितरः साधवोऽपि च ॥६२॥भक्तिर्हि साधनं श्रेष्ठं तोषणे सेवनं शुभम् ।शुश्रूषणं तथा दास्यं प्रापणे श्रेष्ठमत्र ह ॥६३॥तस्माद् भक्त्यादिभिः कृष्णनारायणः परेश्वरः ।तोषणीयो हि सहसा देहेनाऽनेन जानता ॥६४॥राजान् कश्चित् त्रायते न मृत्युपाशमुपागतम् ।अवशिष्टे पुण्यपापे नापि कश्चिद् विकर्षति ॥६५॥शत्रुरज्ञानतुल्योऽत्र वर्तते नाऽपरो नृप ।तद्वशे मनुजो नित्यं करोति घोरवैशसम् ॥६६॥तेन दुःखान्यपियन्ति नवं जन्म नवां मृतिम् ।तस्य प्रबाधनायेह वृद्धानुपास्य वै सतः ॥६७॥प्रज्ञामासाद्य शत्रुं तं ससार्थं विप्रवासयेत् ।ततश्चिन्तामणिं गर्तं क्षिप्त्वा मोक्षात्पतेन्न वै ॥६८॥चाण्डालत्वेऽपि मानुष्यं भक्त्यर्थं शोभनं यतः ।मनुष्ययोनि श्रेष्ठा वै चात्मत्राणत्य साधनम् ॥६९॥उपभोगैर्न देहोऽयं क्षपणीयो ह्यनर्थके ।यावन्न विप्रणश्येत्र तावत् कुर्मः शुभं परम् ॥७०॥एतादृशं कल्पबीजं प्राप्य मानुषविग्रहम् ।द्विषते यो निजं मोक्षं स मतो वञ्चितः सदा ॥७१॥लोकार्थे वै प्रकुर्वीतोपकारं दानकर्मभिः ।कुटुम्बार्थे प्रकुर्वीत साहाय्यं धनवस्तुभिः ॥७२॥पुत्राद्यर्थे प्रकुर्वीत व्यवसायं यथोचितम् ।आत्मार्थे तु प्रकुर्वीत मोक्षदं साधनं परम् ॥७३॥इष्टिं दानं च यजनं पुण्यं पित्र्यं च दैविकम् ।भजनं सेवनं चापि श्रेयसोऽर्थे सदाऽऽचरेत् ॥७४॥अश्वपाटल उवाच--किं मूलं श्रेयसां यच्च कृतं नैव विनश्यति ।क्व गतो न निवर्तेत क्वापि ब्रूहि च मे गुरो ॥७५॥श्रीलोमश उवाच-सत्त्ववृत्तिरसंगश्च सतां सेवा समागमः ।वृद्धाशीर्वादलाभश्च श्रेयसां मूलमक्षयम् ॥७६॥तपो भक्तिस्तथाऽभयदानं नारायणाश्रयः ।आत्मार्पणं कृतं चैतत् सर्वे नैव विनश्यति ॥७७॥कायक्लेशेभ्य एवात्र तपोभ्यश्चोत्तमं तपः ।हरौ वृत्तेर्निरोधो वै चाऽपरोक्षदृशिप्रदः ॥७८॥साऽपरोक्षानुभूतिश्च लब्धा नैव निवर्तते ।अभयं च परं दानं सर्वेभ्यश्चातिवर्तते ॥७९॥सर्वाऽभयप्रदस्याऽत्र परत्राऽभयमक्षयम् ।वसन् विषयमध्येऽपि विज्ञो नैव वसत्यपि ॥८०॥अज्ञोऽसत्स्वपि विषयेष्वतीव वसतीति वै ।धर्षयन्ति न विषयाः प्राज्ञं तेजस्विनं जनम् ॥८१॥अप्राज्ञं चाधिकं स्वल्पा अपि वल्गन्ति वै दृढाः ।दुष्कृतं तस्य कर्तारं नैव मुञ्चति कर्हिचित् ॥८२॥कृतात्मानो न भिद्यन्ते विषयैः कर्मकोटिभिः ।अकृतात्मानमेवाऽत्र भयं क्वचिन्न मुञ्चति ॥८३॥वीतरागस्य वै जन्माऽदर्शनान्मुक्तिरेव ह ।कृतेन कर्मणा तस्य लेपो नैवास्ति जीवतः ॥८४॥मृतस्यापि न वै भोगः कर्मणामस्य विद्यते ।भक्तिमार्गप्रयातस्य परधामगतिर्मता ॥८५॥विस्तराः क्लेशसंयुक्ताः संक्षेपाः सुखदायिनः ।परार्था विस्तरा दुःखास्त्यागं चात्महितं श्रयेत् ॥८६॥अहोरात्रात्मके लोके देही मृत्युमुखे स्थितः ।ग्रस्यते नित्यमेवाऽयं छिन्नायुर्जायतेऽनिशम् ॥८७॥स्नेहपाशैश्च बहुभिः प्राकृतैर्मोहवृश्चिकैः ।दंष्टो विषमयोद्विग्नो न सुखं लभते क्वचित् ॥८८॥पाशान् छित्वा गृहं हित्वा परिग्रहान् प्रणम्य च ।यः प्रयाति हरेर्मार्गं स वै पारगतो भवेत् ॥८९॥अश्वपाटल! लोकोऽयं स्वस्थे स्वास्थ्यविभागहृत् ।अस्वास्थ्ये दूरगश्चास्ते स्वार्थमात्रपरायणः ॥९०॥स्वार्थलोकात्परार्थो यः स वै श्रेष्ठो मतः सदा॥परार्थपरतश्चापि तितिक्षुर्वै विशेषितः ॥९१॥तितिक्षोरपि विज्ञश्च विज्ञाज्ज्यायाँश्च भक्तिमान् ।स वै गुप्तं ब्रह्म बोध्यं भक्त्याढ्यं मोक्षकृत् सदा ॥९२॥अमृतस्य परः कोशो मोक्षस्य द्वारमुत्तमम् ।यानं स्वर्गस्य वै श्रेष्ठं धर्मस्य शेवधिस्तथा ॥९३॥भक्तो वै मानुषे लोके मुक्तस्तिष्ठति मुक्तवत् ।भक्तसंगेन भक्ता वै जायन्ते ब्रह्मगामिनः ॥९४॥यादृशं सेवते जन्तुस्तादृशो जायतेऽपि सः ।यदि सन्तं सेवतेऽत्र साधुः सञ्जायते स च ॥९५॥देवास्तृप्यन्ति सद्भिश्च पितरः सिद्धकोटयः ।मुक्तास्तृप्यन्ति साधुभ्यस्तस्मात् साधुत्वमाव्रजेत् ॥९६॥स्वार्थमात्रपरान् लोकान् देवास्त्यजन्ति दूरतः ।देवा मुक्ताः साधवश्च वसन्ति साधुभिः सह ॥९७॥इत्येवं साधुयोगेन ब्रह्मलोकं प्रगच्छति ।परब्रह्मस्थितो मुक्तोऽनन्तानन्दं समश्नुते ॥९८॥इत्येवं राधिके श्रीमल्लोमशश्चाऽश्वपाटलम् ।उपादिश्य विरराम राजा पप्रच्छ वै पुनः ॥९९॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायां नृपकृतोऽभ्युदयप्रश्नः, श्रेयोमूलादिप्रश्नः, लोमशदत्तोत्तराणि चेत्यादिनिरूपणनामा त्रिपञ्चाशद- धिकद्विशततमोऽध्यायः ॥२५३॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP