संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १७७ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १७७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७७ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके चोच्चग्रहादिकं यथा हरिः ।क्रथकायाऽऽह तद्वच्मि तथाऽन्यदौपयोगिकम् ॥१॥मेषस्याऽर्को वृषस्येन्दुर्नक्रस्य मंगलस्तथा ।कन्यायाश्च बुधः कर्कराशेर्गुरुस्तथा खलु ॥२॥मीनस्य शक्रस्तुलायाः शनिश्चोच्चस्थिता हि ते ।तुलायाश्च रविर्वृश्चिकस्य चन्द्रस्तथा खलु ॥३॥कर्कस्य मंगलो मीनस्य च बुधस्तथा खलु ।मकरस्य गुरुः कन्यायाः शुक्रो मेषगो शनिः ॥४॥नीचस्थानगता एते बोध्या नैव सुखप्रदाः ।राहोर्गृहं तु कन्याऽस्ति मिथुनं चोच्चकालयम् ॥५॥धनुर्नीचं स्थानमेव बोध्यं तथा फलं ह्यपि ।द्विः स्वभावे स्थिरे लग्ने त्यक्त्वाऽष्टमं च द्वादशम् ॥६॥स्थानमन्येषु स्थानेषु भवन्ति चेत्। शुभग्रहाः ।एकादशे च षष्ठे तु पापग्रहा भवन्ति चेत् ॥७॥गृहसौधमन्दिराणामारम्भस्तत्र शोभनः ।लग्ने गुरौ रवौ षष्ठे सप्तमे च बुधो यदि ॥८॥चतुर्थे शुक्रकः शनिस्तृतीये चेत् तदा यदि ।गृहाद्यारंभणं कुर्यात् शतवर्षायुरेव तत्। ॥९॥लग्ने शुक्रे तृतीयेऽर्के षष्ठे भौमे गुरुस्त्वपि ।पञ्चमे चेत् गृहं कुर्यात् शतद्वयायुरेव तत् ॥१०॥सूर्ये चैकादशे लग्ने शुक्रे दशमगे बुधे ।तत्र कुर्याद् गृहाद्यं चेत् शतवर्षायुरेव तत् ॥११॥गुरौ तुर्ये शनौ भौमे चैकादशेऽथ चन्द्रके ।दशमे चेद् गृहं कुर्यादशीत्यायुर्भवेद्धि तत् ॥१२॥शुक्रे उच्चे च वा लग्ने गुरौ लग्ने वा तुर्यके ।उच्चे चैकादशे वा च शनौ सम्पत्प्रदं गृहम् ॥१३॥लग्ने स्याच्चेत् कर्कचन्द्रो गुरुः स्यात् केन्द्रके यदि ।अन्यग्रहा उच्चराशौ मित्रराशौ च वा यदि ॥१४॥तद्योगे मन्दिरं जातं लक्ष्मीदं शाश्वतं भवेत् ।मीनराशेर्लग्नके च शुक्रश्च वर्तते यदि ॥१५॥कर्कगुरुश्चतुर्थे च भवने वर्तते यदि ।तुलाशनिश्च वैकादशके भवनके भवेत् ॥१६॥प्रारब्धं तु गृहं लक्ष्मीप्रदं चिरायुरेव तत् ।सर्वे ग्रहा द्वादशे चाष्टमे स्थाने न शोभनाः ॥१७॥केन्द्रत्रिकोणधनुर्गाः पापग्रहा न शोभनाः ।लग्नचन्द्रो बुधयुक्तश्चापि नैव स शोभनः ॥१८॥अष्टमस्थः चन्द्रमाः स शोभनो नैव नैव च ।सर्वे ग्रहा भवेयुश्च नीचांशे तत्र निर्मितम् ॥१९॥गृहं वै निर्धनं स्याच्च तत्र कार्यं न सर्वथा ।कोऽप्येकश्च ग्रहः शत्रग्रहस्य नवमांशके ॥२०॥स्थितोऽपि दशमे वा सप्तमे स्याच्चेत् तथा पुनः ।लग्नेशो यदि वै निर्बलो भवेत् तत्र मन्दिरम् ॥२१॥कृतं वर्षान्तरे स्यात् तत्परहस्तगतं ध्रुवम् ।लग्नस्वामी जन्मस्वामी राशिस्वामी च यो ग्रहः ॥२२॥तथा चन्द्रो गुरुः शुक्रश्चैतेऽनस्तगता यदि ।तथा स्वोच्चस्थले स्वक्षेत्रके स्वांशे भवन्ति चेत्। ॥२३॥तदाऽऽरब्धं गृहं सौख्यश्रीप्रदं जायते सदा ।अथ प्रतिष्ठासमये सूर्यश्चेल्लग्नकुण्डले ॥२४॥त्रिषड्दशैकादशेषूपचयस्थानकेषु चेत्॥भवेच्छ्रेष्ठस्तथैव स्याच्चन्द्रोऽप्युक्तस्थलेषु चेत्। ॥२५॥धनुर्धर्मस्थानयुक्षु भवेच्छ्रेष्ठस्तथाविधः ।भौमः शनिस्तृतीये चैकादशे षष्ठके शुभाः ॥२६॥बुधो गुरुर्द्वादशाष्टभिन्नस्थानेषु वै शुभौ ।एकद्वात्रचतुःपञ्चनवस्थानेषु चेत् कविः ॥२७॥दशैकादशयोश्चापि वर्तते श्रेष्ठ एव सः ।पापग्रहाः रविर्भौमः शनिश्च राहुकेतुकौ ॥२८॥आद्येऽष्टमे पञ्चमे सप्तमे चेत् स्युस्तदा च ते ।तथा शुभग्रहाः स्युरष्टमे शशी तथाऽऽद्यके ॥२९॥षष्ठेऽष्टमे भवेत् कुण्डलीग्रहास्त्याज्यका इमे ।सिंहलग्ने सूर्यदेवप्रतिष्ठा तु शुभा मता ॥३०॥हरस्य मिथुने कन्यालग्ने विष्णोर्ममापि च ।कुंभे तु ब्रह्मणश्चरलग्ने क्षुद्रसुरस्य च ॥३१॥योगिनीनां तथा लग्ने चरे वै स्थापनं मतम् ।लग्ने तु द्विस्वभावे देवीनां सुस्थापनं वरम् ॥३२॥स्थिरे लग्ने सर्वदेवप्रतिष्ठा चोत्तमा मता ।प्रतिष्ठाकुण्डले चाद्यभवने मृत्युदः शशी ॥३३॥द्वितीये तु धनुःस्थाने धान्यवृद्धिप्रदः शशी ।पराक्रमे तृतीये तु क्लेशदो वै भवेच्छशी ॥३४॥पञ्चमस्थः शशी गोत्रसन्तानक्षयकारकः ।शत्रुतो भयदः षष्ठे सप्तमे दुःखदः शशी ॥३५॥अष्टमे मृत्युदो विघ्नप्रदश्च नवमे शशी ।दशमे बलदश्चैकादशस्थो धनदः शशी ॥३६॥द्वादशस्थो व्ययकारी बोध्यश्चन्द्रो हि कुण्डले ।शुभोऽपि चन्द्रमाः पापग्रहात् चेत् सप्तमे स्थले ॥३७॥अशुभः स्यात्तथा पापग्रहयुक्तोऽप्यशुद्धकः ।तथा पापग्रहमध्येऽशुभः क्षीणोऽप्यशुद्धकः ॥३८॥नीचगश्च शनुवर्गगश्चाप्यशोभनो भवेत् ।यदि चन्द्रो गुरुदृष्ट्या युक्तश्चेत् शुभको भवेत् ॥३९॥स्वकर्कराशिगः स्याद्वा उच्चगो वा शुभो भवेत् ।शुभग्रहनवांशस्थः स्वाधिमित्रनवांशगः ॥४०॥भवेद्वापि तदाऽशुभः शशी स्याच्छुभ एव सः ।चन्द्राच्चाद्ये चतुर्थे सप्तमे च दशमे स्थले ॥४१॥यदि क्रूरो ग्रहः स्यात् तत्क्रमात् योगास्त्विमेऽशुभाः ।आपीडा चापि संपीडा भृग्वाद्या वर्तिता तथा ॥४२॥तत्र कार्ये कृते स्वस्य बन्धोर्नार्याश्च कर्मणः ।चतुर्ण्णां वै विनाशः स्यात् तत्र कार्यं न चारभेत् ॥४३॥यत्र राशौ भवेच्चन्द्रस्तत्र क्रूरग्रहोऽपि चेत् ।तदा युतिर्भवेद्दोषस्त्याज्यः शुभे तु कर्मणि ॥४४॥बुधेन गुरुणा युक्ते चन्द्रे दोषो युतिर्न वै ।अब्दाऽयनर्तुमासर्क्षपक्षदग्धाहसंभवाः ॥४५॥अन्धकाणादिलग्नोत्थाः सपापेन्दुनवांऽशजाः ।दोषा नश्यन्ति गुरुज्ञशुक्रैः केन्द्रत्रिकोणगैः ॥४६॥कुनवांऽशग्रहोद्भूताः षड्वर्गक्षणलग्नजाः ।शशिन्येकादशे दोषाः सर्वे नश्यन्ति तद्बलात् ॥४७॥लग्ने वर्गोत्तमे वेन्दौ रवौ चैकादशेऽथवा ।केन्द्रे कोणे गुरुः स्याच्चेत् दोषा नश्यन्ति तद्बलात् ॥४८॥त्यक्त्वा वै सप्तमं स्थानं केन्द्रे त्रिकोणके बुधः ।शतदोषानपि हन्ति तेषु शुक्रः शतद्वयम् ॥४९॥तेषु गुरुर्लक्षदोषान् हन्ति कार्यं शुभं भवेत् ।लग्नेशो लग्नके स्याद्वा नवांशे वा भवेद् यदि ॥५०॥एकादशे वा केन्द्रे वा सर्वदोषविनाशकृत् ।लग्नबले चोत्तमे कुयोगा न दोषदाः क्वचित् ॥५१॥शुक्लाद्यदिवसाद् गणयित्वा वै तिथिसंख्यकाम् ।रवेर्वाराद् वारसंख्यामश्विन्या ऋक्षसंख्यकाम् ॥५२॥तदंकसंख्याः सम्मिश्र्य भंक्तव्यास्तुर्यसंख्यया ।एकशेषे स्थिता पृथ्वी गृहारंभे कलिप्रदा ॥५३॥द्विःशेषे क्षितिरासीना शुभा त्रिःशेषकेऽपि च ।शून्ये शेषे जाग्रती सा गृहारम्भे त्वनिष्टदा ॥५४॥एवं विलोक्य सर्वं वै क्रथकाऽत्र सुमन्दिरम् ।प्रकारय ममार्थं त्वं पूजासेवादिलब्धये ॥५५॥इत्युक्त्वा विररामेशः परेशः कृष्णवल्लभः ।क्रथकस्तद् वचो धृत्वा पुपूज परमेश्वरम् ॥५६॥रोमायनस्तथा चान्ये पुपूजुश्च प्रजाजनाः ।हरिं च नगरे तत्र भ्रामयामासुरुत्सुकाः ॥५७॥यानवाहनवाद्याद्यैर्मंगलैः स्वागतादिभिः ।उपदाभिरनन्ताभिरर्चयामासुरच्युतम् ॥५८॥हरिः सर्वं ददौ तत्र रोमायनमहात्मने ।प्रजाभ्यश्च ददौ प्रासादिकं राज्ञे कुटुम्बिने ॥५९॥नगरीं पावनीं कृत्वा हर्म्याणि श्रेष्ठिनां तथा ।आगत्य राजसौधं च भोजनं स उपाददे ॥६०॥सर्वे ते भोजनं चक्रुस्ततो नृपस्य कन्यकाः ।पञ्च दिव्यात्मवेत्त्र्यश्च हरेस्तु जगृहुः करम् ॥६१॥कुमारदानं मध्याह्ने ह्यभूत् ताश्च ततः परम् ।कुमारेण समं राज्यान्निर्ययुर्हरिणा सह ॥६२॥विमानेनर्षयः सर्वे लोमशाद्या हरिप्रियाः ।ब्रह्मप्रियास्तथा सर्वे विदायं प्राप्य निर्ययुः ॥६३॥प्रस्थापिताश्च राज्ञा ते राजमानपुरःसराः ।कृपास्थलाद्रिनृपतिपृथुना प्रार्थितास्ततः ॥६४॥पृथुना भूभृता साकं कृपास्थलर्षिणा तथा ।प्रजाजनैर्युतः कृष्णनारायणो विहायसा ॥६५॥मार्गेण दिव्ययानेन राजधानीं जरस्थलीम् ।व्योम्ना विलोकयामासू राधिकेऽरण्यशोभिताम् ॥६६॥कृतस्वागतशोभाढ्यां पृथापगातटस्थिताम् ।वीक्ष्य प्रजा विमानं च चक्रुर्जयेतिघोषणाम् ॥६७॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने उच्चनीचग्रहफलं, प्रतिष्ठाने लग्नकुण्डलीस्थग्रहाणा फलं, चन्द्रफलम्, आपीडादियोगाः, युतिदोषः, लग्नबलं, पृथिवीसुप्तेत्यादिपरीक्षा, ततो नगरीभ्रामणं पूजनं विदायं, पृथुराजधानीं जरस्थलीमागमनं चेत्यादिनिरूपणनामा सप्तसप्तत्यधिकशततमोऽध्यायः ॥१७७॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP