संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २२२ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २२२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २२२ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके श्रीबालकृष्णश्चोपादिदेश तत्प्रजाः ।प्रातरेव नृपसौधे विशाले हितकृत्प्रभुः ॥१॥रायसोमननृपतिः शुश्राव सकुटुम्बकः ।नरा नार्यः प्रधानाद्याः सहस्रशोऽपि शुश्रुवुः ॥२॥हरौ त्यागः सदा कार्यः प्रवृत्तेः कर्मणां तथा ।एवं त्यागी तु नैर्गुण्यं विन्दति मोक्षसाधनम् ॥३॥त्यागे यस्य हुतं कर्म न तस्य फलदं भवेत् ।निर्बन्धान् सम्परित्यज्य रागहीनो भवेत् सदा ॥४॥अशोकं मां परब्रह्माऽऽतिष्ठेद् येन महत्सुखम् ।अजितं तु जयेत् प्राज्ञो मनः संगेष्वसंगतः ॥५॥इन्द्रियैर्गृह्यते यत् तत् त्याज्यं ग्राह्यं न भावतः ।मनो निगृह्य वै प्राणान् धारयेत् परमात्मनि ॥६॥एवं धारणया स्याद्वै निर्वाणं शाश्वतं सुखम् ।सुखं वै ब्रह्मणः प्राप्यं ब्रह्मार्पणेन सर्वथा ॥७॥सत्यं ब्रह्म सदा ग्राह्यं चानृतं हेयमेव च ।अनृतं तु तमः प्रोक्तमान्ध्यप्रदं च गर्तदम् ॥८॥वासनारज्जुयुक्तस्य गर्ते पतनमास्थितम् ।अवासनस्य तृप्तस्य प्रकाशो धामदः स्मृतः ॥९॥प्रकाशं तु समालम्ब्य यतेत दुःखहानये ।तमोनाशाय सततं सतां समागमादिभिः ॥१०॥शारीरैर्मानसैर्वापि दुःखैर्नोद्विजते तु यः ।मम संगी सुखं वेत्ति स एव मम मार्गगः ॥११॥यत्र दुःखं स निरयः सुखं तु परमं पदम् ।त्यक्तदुःखसमारम्भः स्वर्गस्तस्य न दुर्लभः ॥१२॥ब्रह्मव्रतेन दोषांश्च दग्ध्वा जयेत्परं पदम् ।मुक्त्याश्रमं यश्चरते मुक्तबुद्धिर्हरिप्रियः ॥१३॥सर्वं हुत्वा हरौ ब्रह्मलोकं जनः स विन्दति ।सन्तः सेव्या ब्रह्मभक्ता ब्रह्माप्तिस्तेन जायते ॥१४॥आचारनिरताः सन्तो मम भक्तिपरायणाः ।पाल्यः सदा शुभाचारो गृहस्थैरपि भूतये ॥१५॥शौचमावश्यकं कार्यं देवानां पूजनं तथा ।पितॄणां तर्पणं चापि वृद्धानां माननं तथा ॥१६॥सूर्यं सदोपतिष्ठेत सन्ध्याकाले हरिं स्मरेत् ।शुचिः कुर्याद् भोजनं च न निन्द्यान्मानवादिकान् ॥१७॥देवालयं गुरुं साधुं साध्वीं वृषं चतुष्पथम् ।धार्मिकं दिव्यपुरुषं नित्यं कुर्यात् प्रदक्षिणम् ॥१८॥अतिथीनां च भृत्यानां रक्षणं भोजनादिभिः ।अनाथानां चोपकारं कुर्याच्छक्तो भवेद्यदि ॥१९॥द्विवारं चैकवारं वा भोजनं नाऽन्तरा तु तत् ।एवं भक्षयिता प्रोक्तश्चोपवासी सदा सुखी ॥२०॥यज्ञकार्ये प्रदाता च ऋतौ दानी न चान्यथा ।एवं दान्तो ब्रह्मचारी सदा भवति शोभनः ॥२१॥अमृतं देवभुक्तं वै पथ्यं तथाऽमृतं मतम् ।पांक्तं ग्राह्यं यस्य सोस्ति देववन्मानवः सुखी ॥२२॥सन्तस्तूपासते देवप्रसादं चायुषः प्रदम् ।सन्तश्चोपासनीया वै प्रसादकामनावता ॥२३॥गुरोः सेवा प्रकर्तव्या कर्तव्यं चाभिवादनम् ।गुरूनभ्यर्च्य युज्यन्ते ह्यायुषा यशसा श्रिया ॥२४॥तीर्थानां गुरवस्तीर्थं शुचीनां गुरवः शुचिः ।शिष्टकृतं प्रशस्तं तद् गोपुच्छं पावनं सदा ॥२५॥दर्शने स्पर्शने नित्यं गुरुं साधुं हि सेवयेत्॥साधोर्वै मस्तकं केशाः रोमाणि पावनानि वै ॥२६॥सतां पादरजो मोक्षप्रदं पापप्रणाशकम् ।साधूनां स्पर्शनं पुण्यं नेत्रे पुण्ये सदा मते ॥२७॥कर्णौ पुण्यौ हि साधूनां नासा पुण्या सुगन्धिनी ।भालं वै तु सतां पुण्यं गण्डगालौ हि पुण्यकौ ॥२८॥कपोलौ सर्वथा पुण्यौ हास्यं पुण्यं मनोहरम् ।दन्ता जिह्वा तथौष्ठौ च पुण्यदाः पावनाः सताम् ॥२९॥कण्ठः पुण्यस्तथा शब्दो वाणी पुण्या सरस्वती ।कथा पुण्या हि साधूनां पुण्यदा संगतिः सताम् ॥३०॥स्कन्धौ पुण्यौ बाहुहस्तौ पुण्यौ करांगुलिध्रजाः ।नखाः पुण्याश्च रेखाश्च प्रकोष्ठः पुण्यदस्तथा ॥३१॥कफोणिका तथा चिपीटिका पुण्या सतां सदा ।हस्ततले सदा पुण्यप्रदे वक्षश्च पुण्यकृत् ॥३२॥स्तनचिह्नो सदा पुण्यौ नाभिः पुण्या च पावनी ।उदरं पुण्यकृच्चापि कटिः पुण्यतमा सताम् ॥३३॥गुप्तं सुपावनं चापि जघनं पावनं सदा ।नितम्बौ पावनौ चापि सक्थिनी पावने तथा ॥३४॥इन्द्रियाणि पावनानि जानू च पावनौ सदा ।जंघे पावनकारिण्यौ घूटिके पावने तथा ॥३५॥पत्तले चरणौ चांगुलिका नखाश्च पावनाः ।त्वङ्मांसं रुधिरं दिव्यं दिव्यं तथाऽस्थिमण्डलम् ॥३६॥मज्जा मेदो रसश्चापि पावना धातवः सताम् ।श्रीहरेरिव साधूनां सर्वे पावनकारकम् ॥३७॥त्रिविधा भगवत्पुत्राः पावना भगवानिव ।सन्तो वै भगवत्पुत्रा दीक्षिताश्च गृहाश्रमाः ॥३८॥वंशोद्भवास्तथा पुत्रास्त्रयस्ते पावनोत्तमाः ।भगवद्भक्तिसम्पन्नास्तुर्यास्ते पावना अपि ॥३९॥दीक्षया कर्मणा भक्त्या ज्ञानेन च समन्विताः ।सन्तः श्रीहरितुल्यास्ते पावना जगतां मताः ॥४०॥तत्प्रसादः पापहर्ता तज्जलं गांगतोऽधिकम् ।तत्सेवा पापहा सर्वा ब्रह्मार्पणं तदर्पणम् ॥४१॥साधवो यं तु वृक्षादि स्पृशन्ति तरवोऽपि ते ।दिव्या मोक्षप्रदा लोके जायन्ते पापनाशकाः ॥४२॥यद्वस्त्रं धार्यते सद्भिः कार्पासं वौर्णमेव वा ।कौशेयं द्रुत्वक्स्वरूपं दिव्यं तत्पावनं सदा ॥४३॥पशुः पक्षी जनो वाऽन्यः साधुना स्पृष्ट एव यः ।स वै दिव्यो भवत्याशु भूतपिण्डोऽप्यलौकिकः ॥४४॥अशुद्धं जायते शुद्धं साधुस्पर्शेन पावनम् ।पापं पापतरं वापि साधुस्पर्शाद् विशुद्ध्यति ॥४५॥साधुना यद् धृतं देहे तच्छुद्धं नात्र संशयः ॥जलं तीर्थं भवत्याशु साधुना सेवितुं तु यत्। ॥४६॥पृथ्वी सता सेविता च तीर्थीभूता भवत्यति ।पत्रं पुष्पं फलं तोयं धार्यं भक्ष्यं च वाऽपरम् ॥४७॥यद्यत् साधुप्रसंगं वै प्राप्तं शुद्धं हि तन्मतम् ।साधुसेवी सदा शुद्धः साध्वी दिव्या हरेस्तनूः ॥४८॥वाहनं चासनं वाच्यं शुद्धं साधुप्रसेवितम् ।सायं प्रातश्च साधूनां पूजनं स्वर्गमोक्षदम् ॥४९॥साधुसेवा परो धर्मः साधुसेवा धनं परम् ।साधुसेवा परः कामो मोक्षोऽपि साधुसेवनात् ॥५०॥हृदयं साधुवृत्तानां साधुतां याति सर्वथा ।सञ्चितं साधुताद्रव्यं पदे धाम्नि सहायदम् ॥५१॥साधुता सर्वभूतानां शान्तिदा क्षेमवाहिनी ।अर्जयेत् साधुतां तस्माद् धाममार्गे सहायिनीम् ॥५२॥देवर्षिपितॄणां योनिः साधुता ब्रह्मसेविनाम् ।मुक्तानां साधुता योनिस्तां सेवेत सदा बुधः ॥५३॥मरणं ध्रुवमेवाऽस्ति कृतं भुक्तं गतं तु तत्॥नूतनं नार्जितं पुण्यं भविष्यति किमत्स्यसि ॥५४॥इत्येवं सम्विचार्यैव पुण्यप्रदा हि साधवः ।सेवनीया हि सततं पितरो देवतास्तथा ॥५५॥सेवाफलं महत्स्वर्गं त्वग्रे स्थास्यति निश्चितम् ।प्रसन्नताफलं गुरोश्चाग्रे स्थास्यति निश्चितम् ॥५६॥इति निर्णीय सततं सेव्यन्तां साधवोऽमलाः ।भगवन्मूर्तयः सन्ति साधवः सुप्रतिष्ठिताः ॥५७॥यस्मात् सृष्टिरियं जाता यतोऽवतारकोटयः ।यस्मादैश्वर्यमासाद्य जायन्ते चेश्वरादयः ॥५८॥ऋषयः पितरो देवा यमर्चयन्ति नित्यशः ।यतः सूर्यादयस्तेजःप्रधानाः संभवन्त्यपि ॥५९॥यतो भूतानि जायन्ते यस्मात् ह्रियन्त एव च ।इन्द्रियाणि मनो बुद्धिर्यस्माज्जातानि सन्ति च ॥६०॥तत्र साक्षी स्थितो देवश्चेतनोऽनुक्रियापरः ।तं नियम्याऽऽन्तरे चास्ते यः प्रभुः पुरुषोत्तमः ॥६१॥येन सर्वमिदं व्याप्तं वर्तते चापियाति च ।तं समाश्रित्य देवेशं लभते शममुत्तमम् ॥६२॥त्यक्त्वा वै प्राकृतं भावं दिव्यभावमुपेत्य यः ।आत्मरतिर्भवेद् भक्तः स गच्छेत्परमां गतिम् ॥६३॥यथा वारिचरः पक्षी वारिणा नहि लिप्यते ।कृतप्रज्ञस्तथा लोके स्थितश्चापि न लिप्यते ॥६४॥इष्टदेवकृपाप्राप्ततुष्टिसन्तोषवान् नरः ।अशोचन्नप्रहृष्येश्च तिष्ठते चोर्णनाभिवत् ॥६५॥वासनाख्यां दृढां ग्रन्थिं हृदयस्थां निजात्मनः ।विच्छित्वा सुखमासीत परंधाम स चाप्नुयात् ॥६६॥मलिनो जलमादाय यथा शुद्धति चाप्लुतः ।तथा मायाकलुषोऽपि शुद्धिं याति सतां ग्रहात् ॥६७॥महारण्यस्य पारज्ञो न वै मुह्यति तत्र वै ।तथा मायान्तविज्ञाता न वै तत्त्वेषु मुह्यति ॥६८॥त्रिवर्गो यस्य विदितः प्रेक्ष्य भुक्त्वा प्रमुञ्चति ।अबद्धस्य निरीहस्य ब्रह्ममार्गः प्रकाशते ॥६९॥विदुषां न भयं चास्ति त्वज्ञानां निर्भयं न वै ।उभयेषां हरेर्योगे चात्यन्तिकभयं न वै ॥७०॥यत्कार्यं जायते लोकेऽनभिसन्धिप्रपूर्वकम् ।न तद् बन्धाय जायेत प्रियं वाऽप्रियकं समम् ॥७१॥लोकमातुरमालोक्य साधूंश्चाऽनातुराँस्तथा ।साधुवृत्तिं समाश्रित्य मां भजेद् यस्तरेद्धि सः ॥७२॥शोचतो नैव पश्येद्वै येन शोको न नश्यति ।अशोचतः सदा पश्येद् येनाऽऽप्येत सतां सुखम् ॥७३॥सतां मार्गानुसारेण ये प्रयान्ति जनास्त्विह ।सतां गतिं लभन्ते ते प्रयान्ति परमं पदम् ॥७४॥यत्राऽहं सततं चाऽस्मि विराजितो महाहरिः ।अनन्तकोटिमुक्तैः संसेवितो ध्यात एव च ॥७५॥इत्युक्त्वा राधिकेऽनादिकृष्णनारायणः प्रभुः ।विरराम ददौ मन्त्रान् वैष्णवान् वै तदा स्वयम् ॥७६॥राजा प्रजाः पुनः कृष्णं पुपूजुर्बहुवस्तुभिः ।हरिर्गन्तुमियेषाऽथ राजा ददौ विदायकम् ॥७७॥यौतकं च ददौ श्रेष्ठं हरिः सज्जो बभूव ह ।तावत्तत्र समायातो राजारायपतिर्नृपः ॥७८॥राजगिरर्षिसहितः प्रार्थयितुं प्रभुं हरिम् ।नेतुं स्वकीयभवनम् आर्षजतनुराष्ट्रकम् ॥७९॥व्येनोजराशानगरीं परीभासरितस्तटे ।आवासयितुं सततं भगवन्तं तदाऽऽर्थयत् ॥८०॥हरिः कृपावशस्तस्मै तथास्त्विति न्यवेदयत् ।अद्य वै समयो नास्ति गन्तव्यं त्वधरे द्रुतम् ॥८१॥श्वः पञ्चम्यां भवेद् यज्ञारम्भो ब्राह्मीलराष्ट्रके ।तस्माद् यज्ञं समाप्यैव त्रयोदश्यां प्रगे नृप ॥८२॥भवद्राज्ये समायास्ये सायं नैवात्र संशयः ।भवन्मनोऽनुसारेण स्थास्ये तवाऽऽलयेऽधिकम् ॥८३॥भवता तु मखे तत्राऽऽगन्तव्यं पञ्चमीप्रगे ।एकादश्यां तु मध्याह्ने समाप्तिः संभविष्यति ॥८४॥इत्युक्तो हरिणा भूपः स्वीचकार हरेर्वचः ।पूजयित्वा ययौ नैजं राष्ट्रं तूर्णं विमानगः ॥८५॥अथ राजा द्वितीयोऽपि समायाच्छ्रीहरिं प्रति ।उरुगवाक्षनृपतिः रायग्रामापुरीपतिः ॥८६॥उरोगमनराष्ट्रेशः प्रार्थयत्परमेश्वरम् ।मानत्रिवेदऋषिराट् प्रार्थयच्चापि माधवम् ॥८७॥मम राष्ट्रं प्रजाश्चापि पावयाऽऽगत्य केशव ।हरिस्तथाऽस्त्विति प्राह सज्जो विमानगोऽभवत् ॥८८॥सार्था विमानगाश्चाप्यभवँस्तदा प्रजाजनाः ।राजाद्याश्च विदाये वै जना नादान् समूचिरे ॥८९॥बहुवाद्यान्यवाद्यन्त विमानं चाम्बरेऽभवत् ।नतं प्रजाजनैः पुष्पाक्षताद्यैः पूजितं तु खे ॥९०॥प्रससार ततश्चाग्रे उरोगमनराष्ट्रकम् ।आययौ शीघ्रमेवेति राजा ह्यवातरत् पुरः ॥९१॥सम्मानं स्वागतं चक्रे रायग्रामापुरीपतिः ।शृंगारिताऽभून्नगरी प्रासादः शोभितोऽभवत् ॥९२॥ध्वजाद्यैः पत्रकदलीस्तम्भतोरणस्वस्तिकैः ।कलशै_ रंगवल्ल्याद्यैर्जलसेचनकैस्तथा ॥९३॥एवंविधाया पुर्याश्च सन्निधौ सागरान्तिके ।विमानं श्रीहरेर्नैजं संकेतेनाऽनयद्भुवम् ॥९४॥तदा वाद्यान्यवाद्यन्त जयशब्दास्तथाऽभवन् ।भेर्याद्या नेदिरे नारीगीतयश्चाऽभवन् शुभाः ॥९५॥यन्त्रीशब्दा गर्जनाश्च प्रजानां हर्षसद्गिरः ।अभवन् स्वागतार्थं वै विमानं समवर्धयन् ॥९६॥प्रजाः पुष्पाक्षताद्यैश्च हरिस्त्वग्रे समाययौ ।वन्दितः पूजितो राज्ञा राज्ञ्या प्रजाभिरित्यपि ॥९७॥निषसाद शुभे स्वर्णासने श्रीभगवाँस्तदा ।राधिके स्तबकान् हारान् हरेर्गले ददौ नृपः ॥९८॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पात्रगोनयराष्ट्रीयप्रजाभ्य उपदेशनं विदायं ततो राजारायपतिराज्यम् आर्षजतनुराष्ट्रं प्रति गमनप्रार्थनां स्वीकृत्य तत उरोगमनराष्ट्रं प्रति गमनं सम्माननमित्यादिनिरूपणनामा द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥२२२॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP