संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २४८ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २४८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २४८ Translation - भाषांतर श्रीकृष्ण उवाच-पञ्चमे दिवसे राधे प्रातः सोमस्य चोत्तरम् ।विधिं सर्वं प्रवक्ष्यामि लोमशो यं चकार ह ॥१॥द्वादश्यां ब्राह्मकालस्याऽऽरंभे तु सर्वऋत्विजः ।प्रबुध्य स्नात्वा सोमाभिषवकर्माणि चारभन् ॥२॥अध्वर्युस्तानि पात्राण्ययोजयत् तत्स्थलीषु वै ।होता शस्त्रं चानुवाकाख्यमारभत वै ततः ॥३॥सवनीयहविषां निर्वापं चक्रे च पञ्चभिः ।धानाभिश्च करंभेन परिवापेन वै तथा ॥४॥पुरोडाशेन च प्रतिप्रस्थातामिक्षया तथा ।धाना भ्रष्टयवा बोध्याः करंभो यवसक्तवः ॥५॥परिवापश्च वै लाजाः पयस्याऽऽमिक्षिका मता ।तेषां च देवताः पञ्च हरित्वानिन्द्र आदिमः ॥६॥पूषण्वानिन्द्रो द्वितीयः सरस्वती तृतीयका ।इन्द्रस्तुर्यो मित्रावरुणौ पञ्चमदेवता ॥७॥ताः प्रपूज्य ततश्चक्रे दधिग्रहप्रचारकम् ।तद्यथोदुम्बरपात्रे गृहीत्वा दधिं ह्युत्तमम् ॥८॥प्रजापतिदेवतायै जुहावौदुम्बरेण वै ।ततोऽदाभ्यग्रहं चक्रे सोमदेवाय तद्यथा ॥९॥दध्ना वा पयसाऽऽपूर्य पात्रं तथोपनह्य च ।सोमलतावयवानामंशुत्रयं प्रगृह्य च ॥१०॥ग्रहपात्रे स्थापयित्वा पञ्चकृत्वो ग्रहं हि तत् ।सप्तकृत्वोऽथवाऽऽधूय तत्पात्रं सञ्जुहाव ह ॥११॥ततश्चक्रेंशुग्रहं संगृह्यैकग्रहसोमकम् ।क्षिप्त्वा पाषाणके सिक्त्वा वसतीवरीवारिणा ॥१२॥अभिषुत्य ग्रावभिश्चाऽदाभ्यपात्रे निधाय च ।जुहाव च प्रजापतिदेवतायै ततः परम् ॥१३॥गृहीत्वैव च तत्पात्रं प्रविश्य च सदस्ततः ।भक्षयित्वा पात्रगतं सोमरसं च वै ततः ॥१४॥पात्रं खरेऽसादयश्चोपांशुग्रहं व्यधात्ततः ।तत्र क्रीतं तथा वस्त्रे स्थापितं चोपनह्य च ॥१५॥सोमं समवमुच्यैव गृहीत्वा सर्वमेव च ।प्रविभज्य द्विधा प्रातस्सवनार्थ विशेषतः ॥१६॥स्वल्पं माध्यन्दिनसवनार्थं कृत्वा च वै ततः ।प्रातः स्तवनसोमाद्वै चैकग्रहार्थमेव ह ॥१७॥सोमं धृत्वा होतृचमसे निधाय च वै ततः ।वसतीवरीभिरद्भिः सिक्त्वा पिष्ट्वा च ग्रावभिः ॥१८॥निष्पीड्य च रसं लब्ध्वाऽञ्जलिनाऽध्वर्युरेव तम् ।उपांशुपात्रे त्रिवारं चानाय्य च जुहाव ह ॥१९॥आधाराग्रह एवाऽयं देवताप्राण एव च ।तस्यै दत्वा ततश्चकुर्धाराग्रहान् ध्रुवान्तकान् ॥२०॥सोमाभिषवकः सोऽयं महाभिषवः सम्मतः ।उपविश्याऽध्वर्यवश्च ह्यभिषवस्थले ततः ॥२१॥ग्राव्णः प्राच्यामध्वर्युश्च प्रत्यङमुऽख उपाविशत् ।दक्षिणे प्रतिप्रस्थाता चोदङमुख उपाविशत् ॥२२॥पश्चिमे प्राङ्मुखो होता चोत्तरे दक्षिणामुखः ।उन्नेता निषसादापि शिलायां न्यस्य सोमकम् ॥२३॥सिक्त्वा वसतीवर्यद्भिः पिष्ट्वाऽभिषुणुयुस्तथा ।दक्षस्तेनैवमेव वारत्रयं विधाय च ॥२४॥पिष्टान् सोमलताखण्डान् निक्षिप्याऽधावनीयके ।मृत्पात्रे च प्रपीड्यैव रसं निष्कास्य तं रसम् ॥२५॥पात्रान्तरे गृहीत्वैव तुषान् पार्श्वे समक्षिपन् ।अथाऽजलोमजां नाभिं प्रादेशमात्रनिर्मिताम् ॥२६॥पवित्रवस्त्रखण्डे तामालम्ब्य द्रोणपात्रके ।वितत्याऽधारयँस्तां चोद्गातारश्च ततः परम् ॥२७॥उन्नेताऽऽधवनीयादुदचनेन च सोमकम् ।रसं धृत्वाऽऽनिनयच्च होतृचमसे एव तम् ॥२८॥यथा पवित्रवस्त्रांशे पतेद् रसस्तथाऽधरेत् ।ततः स्रवन्त्या धाराया अन्तर्याम्याख्यपात्रके ॥२९॥अन्तर्यामग्रहं न्यस्याऽध्वर्युर्जुहाव शेषकम् ।सशेषमेवाऽऽग्रयणस्थाल्यां सम्पातमाप्य च ॥३०॥सशेषं च ग्रहं खरेऽसादयच्च ततः परम् ।इन्द्राख्यदेवतायै तं होमं ददौ गुरुः स्वयम् ॥३१॥अथैन्द्रवायवाद्याँश्च ग्रहान् चक्रुस्ततः परम् ।ऐन्द्रवायवं संगृहीत्वा धारातश्च ततो गुरुः ॥३२॥पवित्रदशया बहिर्मृष्ट्वा खरेऽप्यसादयत् ।एवं मैत्रावरुणं च, शुक्रं च, मन्थिनं रसम् ॥३३॥आग्रयणं, तथाऽऽग्नेयम्, ऐन्द्रं सौर्यं समुक्थ्यकम् ।ध्रुवं चेति क्रमाद् गृह्ये खरेऽसादयदेव सः ॥३४॥ध्रुवग्रहग्रहणोर्ध्व धाराविराममाचरत् ।हविर्धानमण्डपाच्च पञ्चर्त्विजो बहिर्ययुः ॥३५॥प्रासर्पन् समन्वारब्धा बहिष्पवमानकृते ।अग्रेऽध्वर्युस्ततः कच्छं धृत्वा प्रस्तोताऽन्वसरत् ॥३६॥कच्छं धृत्वा प्रतिहर्ता तत उद्गाताऽन्वसरत् ।ततो ब्रह्मा यजमानसतः कच्छेन चाऽसरत् ॥३७॥चात्वालदेशं गत्वोपविश्य कच्छमवाऽसृजन् ।उद्गाता सम्प्रस्तोता च प्रतिहर्ता त्रयस्त्विमे ॥३८॥अस्रुवँस्ते बहिष्पवमानस्तोत्रेण वै तदा ।तेन सम्पावितौ चाश्विनौ ग्रहौ मखयोग्यकौ ॥३९॥कृत्वाऽऽग्नीध्रेण धिष्ण्येषु प्रज्वालितेषु चाश्विनम् ।अध्वर्युर्ग्रहमासाद्य द्रोणघटात् खरेऽन्यसन् ॥४०॥ततः कृत्वा सवनीयफलोपाकरणादिकम् ।वपायागान्तकं प्रातःसवनाय ततः परम् ॥४१॥अध्वर्युब्रह्मयजमानसदस्याः सदःस्थलम् ।प्रविश्य ग्रहचमचादिकपात्राणि वै तथा ॥४२॥धृत्वा द्रव्याणि च ब्रह्मा यजमानस्ततः परम् ।तैस्तैर्मन्त्रैरुपस्थाय सर्वपात्राणि वै ततः ॥४३॥उत्तरेण हविर्धानं गत्वा च पूर्वया तथा ।द्वारा सदः प्रविश्यैव स्वस्वस्थाने उपाविशन् ॥४४॥ततश्चक्रुः सवनीयहविषामनुष्ठानकम् ।धाराग्रहप्रचारं च चक्रुर्यथोचितं तथा ॥४५॥स्विष्टकृदन्तकर्माऽनुष्ठायाऽध्वर्युः समाचरत्॥ऐन्द्रवायवमैत्रावरुणाश्विनान् हि त्रिग्राहान् ॥४६॥अध्वर्युणैन्द्रवायवे गृहीते च ततः परम् ।प्रतिप्रस्थाता चादित्यपात्रे द्रोणघटात् खलु ॥४७॥ऐन्द्रवायवनिग्राह्यं धृत्वा साकं जुहाव ह ।परस्पररससेकोत्तरमादित्यपात्रके ॥४८॥समानयच्च सम्पातं होत्रे पात्रं गुरुर्ददौ ।एवमुत्तरग्रहयोरनुष्ठानं च पातनम् ॥४९॥उन्नेता च ततश्चाच्छावाकचमसमेव च ।वर्जयित्वा तत्र नवचमसानप्यपूरयत् ॥५०॥होतुश्च ब्रह्मणश्चाप्युद्रातुर्यजयितुस्तथा ।ब्राह्मण्याच्छंसिनो मैत्रावरुणस्य तथा च वै ॥५१॥पोतुर्नेष्टुस्तथा चाग्नीध्रस्य ते चमसा नव ।परिप्लवया कलशादास्राव्य सोमकं रसम् ॥५२॥पूतभृत्कलशात् सोममादाय चमसाँस्ततः ।प्रपूर्य द्रोणकलशान्न्यस्याऽथ चमसेषु च ॥५३॥अस्रावयत् प्रथमं स्रावणं चोपस्तरात्मकम् ।द्वितीयं स्रावणं चाभिधारणस्थानकं मतम् ॥५४॥एवं सर्वोन्नयनं कर्तव्यं प्रपूरणे खलु ।ततोऽध्वर्युः शुक्रपात्रं गृहीत्वा सोमसंयुतम् ॥५५॥मन्थिपात्रं प्रतिप्रस्थाता गृहीत्वा ससोमकम् ।हविर्धानमण्डपस्य पूर्वद्वारि सुसन्मुखौ ॥५६॥तिष्ठन्तौ स्वं गृहं वाऽरत्निं सन्धाय परस्परम् ।मन्त्रकृत्वश्चाहवनीयस्य पुरोऽनुगम्य च ॥५७॥पश्चमुखौ ग्रहहोमार्थं सज्जा सम्बभूवतुः ।तदा नवचमसाध्वर्यवः सचमसाः खलु ॥५८॥आवहनीयदेशं च गत्वा पूर्वाननास्तदा ।होमार्थमुद्यताश्चासन् चक्रुश्चाश्रवणं तथा ॥५९॥चक्रुः प्रत्याश्रवणादि ददौ प्रैष ततो गुरुः ।होत्रा कृते वषट्कारेऽनुवषट्कारके कृते ॥६०॥द्विर्हुत्वा चमसश्चाध्वर्युणा च प्रेषिता सदः ।प्रतिभक्षार्थं चमसानाहरत् होतृकादयः ॥६१॥मैत्रावरुणाद्याध्वर्यवश्चमसान् प्रपूर्य च ।होमार्थमानयँश्चाप्याहवनीयं प्रति द्रुतम् ॥६२॥अध्वर्युप्रतिप्रस्थातारौ च होमं प्रचक्रतुः ।इन्द्रदेवतायै स्वाहाऽग्नये स्विष्टकृते स्वाहा ॥६३॥प्रतिप्रस्थाता संस्रावहोममंगारकेऽकरोत् ।रुद्राय स्वाहेति ततोऽध्वर्युश्चमसमाप्य च ॥६४॥जुहाव मित्रवरुणाभ्यां स्वाहेति क्रमादपि ।सर्वेऽध्वर्यवो जुहुवुः स्वं स्वं चमसमेव ह ॥६५॥इन्द्राय मरुते त्वष्ट्रे चाग्नये स्वाहा नमम ।ततश्चमसप्रसादं भक्षयामासुरेव ते ॥६६॥अच्छावाकोऽपि चमसं भक्षयामास वै ततः ।ऋतुग्रहप्रचारं चाऽकुरुतां द्वौ ततः परम् ॥६७॥अध्वर्युप्रतिप्रस्थातारौ चक्रतुर्हवान् शुभान् ।इन्द्राय मधवे स्वाहा मरुत माधवाय च ॥६८॥त्वष्ट्रे शुक्राय च स्वाहाऽग्नये च शुचये स्वाहा ।इन्द्राय नभसे स्वाहा मित्रावरुणनभस्येभ्यः स्वाहा ॥६९॥द्रविणोदसे इषाय स्वाहा द्रविणोदसे ऊर्जाय स्वाहा ।द्रविणोदसे सहाय स्वाहा द्रविणोदसे सहस्याय स्वाहा ॥७०॥अश्विनाभ्यां तपसे स्वाहा, गृहपतये तपस्याय स्वाहा ।ततश्चमसानां वै भक्षणं विधिनाऽभवत् ॥७१॥ततः शस्त्रप्रपठनं प्रतिगरस्य पाठनम् ।'अध्वर्यो शोंसावो इम्, शोंसामोद इव' ॥७२॥'ओं मो३थामोद इव, ओथामोद इव' ।'ओं ओथामोद इवेत्यादिपाठं समाचरन् ॥७३॥ततो नाराशंसहोमं जुहावाऽध्वर्युरेव च ।इन्द्राग्निभ्यामिदं स्वाहा पितृभ्यः स्वाहा नमः ॥७४॥नाराशंसं विधायैवं प्रउगशस्त्रमुक्तवान् ।विश्वेदेवताभ्यश्च स्वाहेति हवनं ददौ ॥७५॥चमसाँश्च ततोऽभक्षयन् वै निरवशेषतः ।उक्थ्यग्रहप्रचारं च होमं च सर्वभक्षणम् ॥७६॥प्रक्षालनं खरे सादनं चेति सर्वमाचरत् ।मित्रावरुणाभ्यां च स्वाहेन्द्राग्निभ्यां तथा स्वाहा ॥७७॥ऋत्विजश्च विधायैवं सादनान्तं विधिं ततः ।प्रातः सवनं निर्वर्त्य बहिर्ययुश्च मण्डपात् ॥७८॥मध्याह्ने च प्रचक्रुश्च माध्यन्दिनं सवं च ते ।प्रातर्वत् सर्वमाकृत्वो धारास्रावं व्यधुश्च ते ॥७९॥शुक्राय मन्थिने चाग्रयणाय स्वाहा नमम ।पवमानं जगुश्चापि दधियागं व्यधुस्ततः ॥८०॥भक्षणं सादने चक्रुरुच्चावचं च कर्म च ।दक्षिणादानमेवापि यजमानश्चकार ह ॥८१॥गावोऽश्वाश्चाश्वतराश्च गर्दभाऽजाऽवयस्तथा ।तिलमाषव्रीहियवा गजवासोहिरण्यकम् ॥८२॥सर्वस्वमेव राज्यादि कन्यागृहाणि वाटिकाः ।दक्षिणायां प्रदत्तानि राज्ञा तदा मखोत्सवे ॥८३॥मरुत्वतीयग्रहप्रचारस्ततोऽभवत् खलु ।वैश्वदेवपञ्चहोमानध्वर्युः प्रचकार ह ॥८४॥अध्वर्युः प्रतिप्रस्थाता हुत्वा चक्रतुर्भक्षणम् ।होमं कम्पं प्रचक्रुश्च इन्द्राय मरुत्वते स्वाहा ॥८५॥ऊर्वोभ्यः पितृभ्यः स्वाहा माहेन्द्राय नमः स्वाहा ।अग्नये चेन्द्राय स्वाहा रक्ताय च स्वाहा नमम ॥८६॥उक्थ्यविग्रहानुष्ठानं पञ्चस्तोत्रप्रपाठनम् ।सवसमाप्तिहोमं च कृत्वा बहिर्ययुस्ततः ॥८७॥तृतीयं सवनं चापि चक्रुर्होमं च भक्षणम् ।आदित्येभ्यः स्वाहा नमः पयो दधीदं सोमकम् ॥८८॥ततश्चार्भवपवमानाय प्रसर्पणं व्यधुः ।धिष्ण्यान् प्रज्वालयामासुः कृत्वेडाभक्षणान्तकम् ॥८९॥सवनीयहवींषि सम्प्रचर्याध्वर्युरेव तु ।सकृद्धोमं प्रचकार होमं चक्रे तदुत्तरम् ॥९०॥चमसिनः स्वस्वपितॄनुद्दिश्य तानतिष्ठिपन् ।ततो होमं सवित्रे च विश्वदेवेभ्य आददौ ॥९१॥मक्षणं च ततः सौम्यचरुयागो ह्यवर्तत ।अनवस्रावितस्तण्डुलपक्वौदनकं चरुम् ॥९२॥जुहाव चाग्नये पत्नीवते स्वाहेति वै गुरुः ।एकविंशतिकस्तोमं स्तोत्रं चागायत प्रखम् ॥९३॥चमसान् जुहुवुश्चापि वैश्वानराग्नये स्वाहा ।मरुद्भ्यः स्वाहेति नमम भक्षणं च ततः परम् ॥९४॥ततो हारियोजनात्मग्रहप्रचारकं व्यधुः ।उन्नेता च सोमरसं यवधानादिमिश्रितम् ॥९५॥जुहावाऽन्येऽपजिघ्रँश्च पत्नीसंजायसं तथा ।यजुहोमादिकं प्रायश्चित्तहोमान् चकार ह ॥९६॥यजमानस्य च ततो विष्णुक्रमणकादिकम् ।एवं समाप्य तृतीयसवने भोजनानि च ॥९७॥व्यधुः सर्वे महीमाना जनाश्च तीर्थवासिनः ।स्थायिनश्च ततश्चावभृथेष्टिः समजायत ॥९८॥सपत्नीको यजमानः ऋत्विजश्चापरे जनाः ।राजासन्द्यां सोमपात्राण्यादायाऽऽगृह्य जीषकम् ॥९९॥ययुर्जलसमीपं च गायन्तः सामगीतिकाः ।जलेऽग्नीवरुणाभ्यां च आज्यभागौ ददुस्तदा ॥१००॥चतुःप्रयाजाँश्चक्रुश्च द्वावनूयाजकौ तथा ।वरुणाय पुरोडाशं ददामि वै जले नमः ॥१०१॥ऋजीषादीनि च जले क्षिप्त्वा पत्नीनृपस्तथा ।सस्नतुश्चापरे चापि नेमुश्चादित्यमित्यपि ॥१०२॥शालामुखे समागत्योदयनीयेष्टिमाचरन् ।तत आनुबन्ध्यफलयागश्चामिक्षिकायजिः ॥१०३॥मित्रावरुणाभ्यां स्वाहा दत्वा बलिं तथोचितम् ।यजमानः केशश्मश्रुनखलोमानि वै ततः ॥१०४॥वापयित्वा च स्नात्वा चेष्टिकल्पेन च पञ्च च ।धाताऽनुमतिराकासिनीवालीकुहूरित्यपि ॥१०५॥व्याज्येनेष्ट्वा देवतास्ता उदवसानीयेष्टिकाम् ।अष्टाकपालपुरोडाशद्रव्यां तथाऽकरोत् ॥१०६॥विष्णवे स्वाहेति दत्वाऽग्निहोत्रं निशि चाचरत् ।ततश्चक्रुः परिहारं सोमयागस्य चर्षयः ॥१०७॥सोमपानं प्रचकार राजा पत्नीयुतस्तदा ।भोजनानि प्रचक्रुश्च सर्वे वै मखिनोऽध्वरे ॥१०८॥एवं वै राधिके सोमयागो द्वादशिकादिने ।सम्पूर्णश्चाऽभवद् रात्रौ यज्ञनारायणः स्वयम् ॥१०९॥दर्शनं प्रददौ राज्ञे वरदानं ददौ तथा ।स्वस्ति तेऽस्तु सदा राजन् चान्ते मोक्षपदं व्रज ॥११०॥स्थापयाऽत्र च मां सौधे मूर्तिरूपं नरायणम् ।स राजा राधिके तूर्ण मन्दिरं समकारयत् ॥१११॥यज्ञनारायणस्तत्र याज्ञीपत्नीसमन्वितः ।स्थापितस्तेन विधिना तीर्थं यज्ञाख्यमेव तत् ॥११२॥सोमतीर्थं तथा चाऽभूत् स्नानाद् यज्ञफलप्रदम् ।अश्वपट्टसरस्येवेशानकोणे हि पावनम् ॥११३॥नृपोऽश्वपाटलः श्रीमद्बालकृष्णस्य हस्ततः ।कण्ठीं च वैष्णवीं प्राप मन्त्रं जग्राह लोमशात् ॥११४॥'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।ततः प्रपूज्य देवेशं दत्वा दानानि सर्वशः ॥११५॥ययौ नैजं प्रराष्ट्रं च राधिके सुखतो नृपः ।ऋषयोऽन्ये देवताद्या ययुर्नैजान् प्रदेशकान् ॥११६॥तत्र दानाज्जलपानादवगाहाच्च भोजनात् ।पूजनादपि स्वर्गं स्यादन्तेऽक्षरपदं व्रजेत् ॥११७॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सोमयागे पञ्चमदिने मार्गकृष्णद्वादश्यां प्रातःसवने माध्यन्दिनसवने तदुत्तरसवनं पूर्णाहुतिरवभृथेष्टिःपरिहारश्चेत्यादिनिरूपणनामाऽष्टाचत्वारिंशद-धिकद्विशततमोऽध्यायः ॥२४८॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP