संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ५१ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ५१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५१ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके दूतो रक्तवार्धिर्महासुरः ।ययौ चाब्रिक्तदेशस्य जुमासेम्लानृपं प्रति ॥१॥क्रमशस्तु यथोक्तं वै श्रावयामास सर्वथा।नान्वमन्यत दुष्टात्मा भाविनाशप्रणोदितः ॥२॥क्रुद्धौ सन्नह्य सर्वांश्च स्वयं व्योम्नि महाबलः ।गदामादाय च पुरो विमानस्याऽग्रतोऽभवत् ॥३॥गर्जनां प्रचकाराऽऽदौ नादयन् रोदसी ह्युभे ।वायुस्तरान् कम्पयँश्च जगाद् कालभाषितम् ॥४॥कोऽयं विमाननेताऽऽस्ते त्वग्रतो भव मत्पुरः ।परिहाय विमानं च याहि दूरं जिजीविषुः ॥५॥यदीष्टं जीवनं तेऽस्ति क्रियतां वचनं मम ।याश्चाऽत्र कन्यकाः सर्वाः प्रदीयन्तां द्रुतं च नः ॥६॥कोऽस्ति रुद्रोऽथवा धर्मराजः सनत्कुमारकः ।क एते भिक्षुकाश्चात्र प्राणनाशार्थमागताः ॥७॥भूत्वा वै तापसाः सर्वे विमानभोगमास्थिताः ।कन्यकागणसंलुब्धाः कपटाचारवर्तनाः ॥८॥अभोग्यभोगमध्यस्थाः पापमिषस्य बोधकाः ।गोत्रभिन्ना भवेद् भार्या भिक्षुकाणां गृहे भवेत्। ॥९॥दुग्धभिन्ना भवेद् भार्या म्लेच्छानां धर्मवर्तिनाम् ।क्षेत्रभिन्ना इमाः पत्नीर्ग्रहीष्यामो हि कन्यकाः ॥१०॥हिरण्याक्षस्य वै भार्याशतमासीच्च तासु वै ।कन्याः सहस्रशो जाताः कुमाराश्च सहस्रशः ॥११॥हिरण्याक्षस्य बीजेन समुत्पन्नाश्च ताश्च ते ।भिन्नदुग्धाः परस्परं विवाहितास्तदाऽभवन् ॥१२॥एकमात्रुद्भवा नैव दम्पतीतां व्रजन्ति वै ।एकपित्रुद्भवा भिन्नगर्भाः सन्ति विवाहिताः ॥१३॥अस्मत्कुलप्रसूतानां रीतिश्चेयं सदा मता ।ब्रह्मपुत्र्योऽथवा चान्या अमातृजाः प्रिया हि नः ॥१४॥नारदः प्राह जित्वैव लप्स्यसे कुरु यद्धितम् ।तच्छ्रुत्वा दानवपतिः क्रोधदीपेक्षणोऽनुगम् ॥१५॥सान्नाहिकीं रणभेरीं ताडयितुं शशास ह ।भृत्यस्तु ताडयामास भेरीं बलेन भूयसा ॥१६॥सस्वान भैरवान् शब्दान् सोन्मत्ता रासभी यथा ।तथा तन्नादमाकर्ण्य लक्षसंख्या महासुराः ॥१७॥समाययुः रणं तूर्णं सन्नद्धा युद्धकांक्षिणः ।पूर्वोक्ताः सैन्यपाश्चापि गजैरुष्ट्रैर्हयैः रथैः ॥१८॥यानैः स्वल्पविमानैश्च योद्धुं नानायुधैस्तथा ।विमानं परितो व्यूहैर्व्योम्नि पृथ्व्यां समन्ततः ॥१९॥शीघ्रं संरोधयामासुर्गर्जयामासुरुत्सुकाः ।रुद्रः सस्मार चः तदा वह्निं चाप्यथ नन्दिनम् ॥२०॥आगतौ तावुभौ शीघ्रं शासनं देहि चाहतुः ।हरो वह्निं प्राह चाग्ने कृत्वा प्राकारमुज्ज्वलम् ॥२१॥वह्निज्वालामयं व्योम्नि रक्ष यानं स्थिरो भव ।वह्निर्विमानमभितो रक्षति स्म तथोदितः ॥२२॥रुद्रश्च नन्दिनं प्राहाऽऽमन्त्रयाऽत्र गणान् द्रुतम् ।नन्दी जलमुपस्पृश्य सस्मार गणनायकान् ॥२३॥सहस्रशो गणा गणाधिपाः शस्त्रास्त्रशोभिताः ।आययुः रुद्रजातीयाः सहस्राणि दशात्र च ॥२४॥षण्मुखाश्च समाजग्मुः षट्षष्टिशतसंख्यकाः ।गणेश्वरा हस्तिमुखाः षट्साहस्राः समाययुः ॥२५॥कालानना गणाश्चान्ये खड्गांगयोधिनस्तदा ।दिग्वाससः कज्जलाभा दशलक्षाणि चाययुः ॥२६॥कालाननेभ्यः शंभुस्तु योद्धुमाज्ञां ददौ द्रुतम् ।चतुर्नेत्राश्चतुर्हस्ताः श्रीवत्सांकितवक्षसः ॥२७॥समायाताः खगाऽऽरूढाश्चक्रशूलधरा दृढाः ।वैष्णवाश्च गणास्तत्र लक्षाणि त्वेकविंशतिः ॥२८॥चतुर्मुखा ब्रह्मगणा दशलक्षाप्तसंख्यकाः ।आययुर्व्योममार्गेण तेऽस्त्रशस्त्रादिवेदिनः ॥२९॥अथ युद्धं परं घोरं प्रववृते समन्ततः ।कालानना महाघोरा निजघ्नुर्म्लेच्छजातिकान् ॥३०॥भिद्यमानाश्च बलिभिर्गणाग्र्यैर्दैत्यदानवाः ।प्रवृत्तास्ते गणान् हन्तुं कूटमुद्गरपाणयः ॥३१॥ततो व्योम्नि स्मृता देवाः सेन्द्रविष्णुपितामहाः ।सूर्यचन्द्रवरुणाद्याः समायाता दिदृक्षवः ॥३२॥अथ कालाननाः सैन्यं निघ्नन्ति दानवीयकम् ।चतुरंगबलं म्लेच्छजातीयं मर्दितं ह्यभूत् ॥३३॥म्लेच्छाः श्मश्रुधरा गोलैर्महागोलैश्च तूपकैः ।धूष्कृतीभिर्वज्रघातैर्भूशुण्डीभिश्च छूरकैः ॥३४॥असिभिः खड्गचर्माद्यैर्भल्लैः शक्तिभिरित्यपि ।प्रासैश्च तोमरैश्चापि जघ्नुः कालाननान् क्रुधा ॥३५॥कालाननाश्चान्द्रबाणैर्गोलकैर्वह्निजालकैः ।शरैश्च तूपकाभिश्च धूष्कृतीभिश्च सर्वथा ॥३६॥क्षेपणैर्बहुयन्त्रैश्च जघ्नुः कालानलाँस्तदा ।कालानना व्योममार्गैः पतित्वोत्पत्य वेगतः ॥३७॥म्लेच्छेषु गलपाशान् सन्ददुः श्मश्रुषु चानलम् ।लक्षभटास्तु ते नष्टाः सेनाग्र्या दुद्रुवुस्तदा ॥३८॥बिगुलान् वादयामासुर्नवसैन्याह्वनाय च।दशलक्षाणि सैन्यानि त्वसुराणां पुनस्ततः ॥३९॥आगतान्यभितस्तत्र व्योमयानगमानि वै ।दारुदाहैस्तदा चूर्णैरापूर्याऽऽपूर्य गोलकान् ॥४०॥चिक्षिपुर्दशलक्षेषु तदा ब्रह्मगणेषु वै ।ब्रह्मगणास्तदा विद्युद्बाणैर्जघ्नुश्च दानवान् ॥४१॥दानवा अपि शैलैश्च वृक्षैर्वारिशिलादिभिः ।वायुप्रहारकेश्चापि निजघ्नुर्ब्राह्मदैवतान् ॥४२॥रणदेशे निपेतुस्ते दानवा विगतासवः ।विद्युत्प्रहारैः सर्वत्र गतप्राणा मृतिं ययुः ॥४३॥कुक्कटपिच्छमूर्धन्याः शंखशृंखलभूषणाः ।घोरखातीचर्मवस्त्रा नीलाञ्चलकटिभ्रमाः ॥४४॥हरिद्वर्णपटकाढ्या दशलक्षाणि ते मृताः ।अथ दृष्ट्वा महत्सैन्यविनाशं दानवेश्वरः ॥४५॥राजा त्वकारयद् भेरीनिनादान् व्योमगर्जनाम् ।विद्युन्नलीनजाक्रोशान् कोटिसैन्यागमाय वै ॥४६॥स शब्दो व्यानशे चतुःसमुद्रान्तो महाम्बरे ।अब्रिक्तदेशीयसैन्यं परितो वायुवेगतः ॥४७॥एकत्रितं मध्यदेशे परितो वै व्यजायत ।विजयस्य दीर्घनादा विमानयन्त्रतोऽभवन् ॥४८॥श्रुत्वा मुमुदिरे देवा म्लेच्छास्त्रासं परं ययुः ।सैन्यानि परितस्तत्र देवानां विचरन्ति हि ॥४९॥विश्राम्यन्त्यणिमाद्यैश्च सूक्ष्मा विमानमस्तके ।एतस्मिन् समये व्योम्नो यथा शलभकोटयः ॥५०॥तथा दैत्याः सर्वदिग्भ्यो विमानमभि चाययुः ।मारयन्तु नाशयन्तु खादयन्तु विमानगान् ॥५१॥अपहरन्तु गृह्णन्तु कन्यकास्तद्धनान्यपि ।विनश्यन्तु नाशयन्तु प्रध्वंसयन्तु दैवतान् ॥५२॥छेदयन्तु भेदयन्तु विघ्नन्तु सन्मुखान् भटाः! ।विमानं कन्यका दिव्या यस्य हस्तगता तु या ॥५३॥तत्सर्वं तु भवेत्तस्य विजेतुरिति निश्चयः ।इत्येवं नदमानास्ते कोटिसंख्या महासुराः ॥५४॥विविधैर्यन्त्रमाराख्यैः शस्त्रैश्च गोलिकाक्षिपैः ।निजघ्नुः परितस्तत्र विमानं वह्निरक्षितम् ॥५५॥अग्निदेशं समागत्य गोलिका विद्रवन्ति च ।रसरूपास्तु ता भूत्वा प्रज्वलन्ति घृतं यथा ॥५६॥दैत्यास्तन्नैव जानन्ति जानन्त्येव तु क्षेपणम् ।गोलिकानां वृष्टिरूपं विमानघातसिद्धये ॥५७॥तूपियन्त्रैर्मारयन्ति शतघ्नीभिस्तथाऽपरे ।आतंकयन्त्रैर्निघ्नन्ति त्र्यूरुपीडान् क्षिपन्ति च ॥५८॥एवं चतुःप्रहरान्तं चक्रुस्ते मारमात्रकम् ।दैत्या विमानमालक्ष्य निश्चूर्णा नष्टदारुकाः ॥५९॥विनष्टगोलिकाश्चासन् वह्निः सर्वं व्यनाशयत् ।विमानं सुस्थिरं चाप्यखण्डितं व्योम्नि वर्तते ॥६०॥अथ सैन्यं वैष्णवानामेकविंशतिलक्षकम् ।चक्रपाशगदाप्रासमुद्गरादिसुशोभितम् ॥६१॥रुद्राज्ञया न्यपतच्च दैत्यसैन्यस्य कोटिषु ।सुदर्शनानि चक्राणि लक्षाणि त्वेकविंशतिः ॥६२॥अव्याहतानि रोषाद्वै प्रयुक्तान्यभवँस्तदा ।द्विधा छिन्नं हि दैत्यानां सैन्यं कोट्येकमेव तत् ॥६३॥काँश्चिद् गलेषु चक्राणि स्कन्धयोः कटिपृष्ठयोः ।सक्थ्नोः कांश्चिद्धस्तयोश्च जान्वोः प्रकोष्ठयोस्तथा ॥६४॥पादयोर्मध्ययोर्दक्षवामयोर्वामदक्षयोः ।अर्धनिकृन्तयोर्द्वेधाभूतयोर्विदधुर्व्यसून् ॥६५॥व्योम्नो निपेतुः पृथ्व्यां ते कोट्यैकसैन्यमित्यपि ।शलभास्तु यथा वार्धौ तथा ययुर्हि ते लयम् ॥६६॥अथ शोकातुरो राजा क्षणं मूर्छामवाप ह ।बहूनां च हतानां वै स्मृत्वा निर्नाथयोषितः ॥६७॥योद्धुमायान्ति ये तेषां मध्यादेकोऽपि नैव च ।सप्राणो रणपर्जन्यान्नैवाऽऽयातीति दुःखितः ॥६८॥अथ क्षणान्तरे संज्ञामवाप प्राह सैन्यपान् ।युद्धान्नैवाऽपसर्तव्यं राजधर्मो विलुप्यते ॥६९॥अजयो वा जयो वाऽस्तु मरणं जीवनं च वा ।रणापासरणं त्वत्र निकृष्टं नेष्यते मया ॥७०॥अथाऽन्यत् कोटिसंख्याकं सैन्यं समाजुहाव सः ।निशायामपि युद्धस्य विरामो नैव विद्यते ॥७१॥व्याघ्रचर्मधराः शूरा लोहरक्षणरक्षिताः ।वह्निविद्युत्करयन्त्रा व्योमयानविहारिणः ॥७२॥कोटिसंख्याकयोधारः सप्ततालोच्छ्रया हि ते ।आययुः परितस्तत्र विमानं यत्र विद्यते ॥७३॥दुद्रुवुस्ते विमानं वै नाशयितुं च सन्निधौ ।वह्निना रक्षकेनैते ज्वलमानाः पराययुः ॥७४॥असामर्थ्यं तदा तैस्तु ज्ञातं नैजं महत्तरम् ।पक्षिणोऽप्यम्बरे यान्ति वयं चाऽप्यत्र तादृशाः ॥७५॥यतो वह्निकृतं दाहं सोढुं शक्ता न वै मनाक् ।कथं जयमवाप्स्याम इति सन्देहमागताः ॥७६॥तथापि नृपतेराज्ञा योद्धव्यं सर्वथा भटैः ।इत्येवं दूरतस्तेऽपि विद्युद्गोलैर्विमानकम् ॥७७॥लक्ष्यीकृत्य निजघ्नुश्च द्रवन्त्यग्नौ तु गोलकाः ।आश्चर्यं हि द्वितीयं तद् दृष्ट्वा विमानकोपरि ॥७८॥ऊर्ध्वं स्थिता ववृषुश्च गोलकान् नाशकारकान् ।तेऽपि गोला द्रवन्त्येव ज्वलन्त्येव विहायसि ॥७९॥वह्निना रक्षकेनैव विमानं त्वक्षतं सदा ।अथ ताँश्च तदा हन्तुं षटसहस्रगणेश्वरान् ॥८०॥हस्तिशुण्ढमयान् देवान् पाशपर्शुधनुर्धरान् ।शक्तिप्रासाऽणुगोलाढ्यान् मन्त्राक्तकुशवज्रिणः ॥८१॥प्रेषयामास रुद्रश्च क्षणात्ते तेभ्य ऊर्ध्वगाः ।अन्तरीक्षे ययुः शीघ्रं जघ्नुः शस्त्रैश्च गोलकैः ॥८२॥कोटिसंख्यान् म्लेच्छदैत्यान् दैत्याः पेतुस्तदाऽनले ।हन्यमाना न वै शक्ताः समन्ताच्च गणेश्वरैः ॥८३॥धावितुं प्राभवँस्तेन वह्नौ पेतुः प्ररक्षके ।पातमात्रेण भस्माख्या व्योम्न्येव तेऽभवँस्ततः ॥८४॥नामशेषाः पुनर्द्रष्टुं राजानं चापि नाऽऽगताः ।इत्येवं कोटियोद्धारो ययुस्तत्र क्षयं पुनः ॥८५॥अस्थिशेषं न च प्राप्तं महानलेन भक्षिताः ।अहो आशा बलवती गर्विणां क्षयकारिणी ॥८६॥सैव कालस्य दुहिता जराया अग्रजा त्विव ।ज्ञाते सर्वविनाशे च राजा धैर्यं मुमोच ह ॥८७॥गन्तुं स्वभवनं तस्मात् स्थानाद् यावत् समिच्छति ।तावत् सेनापतिर्योऽभूद् रक्तवार्धिस्तथाऽपरः ॥८८॥रौद्रवाष्पो ह्युभावेतौ राजानं प्राहतुः क्षणम् ।न गन्तव्यं न गन्तव्यं राज्ञा युद्धान्निवृत्य वै ॥८९॥.यावद्वै विद्यते सैन्यं यावद्बलं च पार्श्वयोः ।यावद्बलं च भुजयोः सैन्यपाः सन्ति चाऽक्षताः ॥९०॥यावत् तावन्न गन्तव्यं रणाद् गृहं कथंचन ।अथ युद्धं करिष्यामो जेष्यामो यानकन्यकाः ॥९१॥इत्युक्त्वा रणतूर्याणि नादयामासुरुग्रगाः ।विद्युद्वाद्यानि चोग्राणि विद्युद्वंशाँश्च भूरिशः ॥९२॥वादयामासुरत्यर्थं सैन्याऽऽवाहनबोधकान् ।श्रुत्वा सैन्यं दशकोटिसंख्याकं परितोऽभवत् ॥९३॥एकत्रितं क्षणात्तत्र मध्यदेशे सरोऽभितः ।कर्मघ्नपर्वतादग्रे यावच्चन्डसरस्तथा ॥९४॥कर्मांगों च नदीं यावत् यावच्छ्वेतनरायणीम् ।त्रिराशिपर्वतं यावद् दशकोटिभटाश्रयम् ॥९५॥स्थलं युद्धमहाभूमिस्तदा वै समजायत ।तुंगानीकसरसश्च यावन्न्याससरस्तथा ॥९६॥कोटिसैन्यं भस्मसाद्वै जातमेत्पुराऽम्बरे ।तस्य प्राक च कालहरिरणादासाम्बपर्वतम् ॥९७॥विज्ञतुरीयसरितस्तीरे तु दशलक्षकाः ।हतास्तत्र ततः प्राक् च द्राक्षाबीजाद्रिपश्चिमे ॥९८॥वालनद्यास्तटे लक्षं हता दैत्या हि राधिके! ।एवमेते दशकोटिभटा विद्युत्कृताऽस्त्रकाः ॥९९॥वह्निमन्त्रविदश्चापि नाशं यातुं समागताः ।युयुधुस्ते वह्नियन्त्रैर्विद्युद्गोलैस्तथाऽस्त्रकैः ॥१००॥मन्त्रकृतैः पुत्तलैश्च व्योम्नि विमानसन्निधौ ।वह्निदेवेन ते सर्वे कृत्रिमा भस्मसात्कृताः ॥१०१॥अथैते प्रेषयामासुर्विमानानि द्युमन्ति च ।यत्र विद्युन्महागोला यन्त्रपुत्तलिकास्तथा ॥१०२॥यन्त्राश्वा यन्त्रवाहाश्च यन्त्ररथाश्च ताम्रजाः ।यन्त्राणां हेतयश्चापि विद्युत्ताम्रकृतास्तथा ॥१०३॥तैः कृतैः साधनैश्चैता भटानां दशकोटयः ।युयुधुर्निर्भया वह्नेर्वह्नेः प्राकारमध्यमाः ॥१०४॥वह्निमुल्लंघ्य च गतास्तदा तत्र विमानिषु ।हाहाकारो ह्यभूत् तावच्छंभुरुत्थाय वाडवम् ॥१०५॥अनलं प्राह गच्छैतान् भस्मसात्कुरु सत्तम ।तावत्प्रलयकालीनसदृशोत्थस्तु वाडवः ॥१०६॥शिखाः प्रसार्य परितः कोटिरूपधरोऽभवत् ।लेलिह्यमानः सर्वास्तान् योद्धृँश्च पुत्तलाँस्तथा ॥१०७॥चकार भस्मसात् स्पर्शाद् दशकोटिभटान् क्षणात् ।ज्वालामुखो यथा व्योम्नि पर्वतो वा रविर्ग्रहः ॥१०८॥नाशं प्राप्तो यथा ज्वालामयो ब्रह्माण्डसदृशः ।विशालः स्याद् वह्निमयस्तथा दृश्यमदृश्यत ॥१०९॥दशकोटिभटास्तत्र दग्धा वाडववह्निना ।दुद्रुवुश्च बहिस्तस्मात् प्राणरक्षणकाम्यया ॥११०॥तदा तेषां निरोधार्थं कार्तिकेयं महाबलम् ।सार्धषट्कृतसाहस्रं नागपाशैर्न्यरोधयत् ॥१११॥अनिर्गमाश्च ते तत्र भस्मीभूतास्ततोऽभवन् ।येषामस्थि न वा केशा न शिरांसि न नाडिकाः ॥११२॥गम्यं लभ्यं च किमपि तत्र दाहे त्वभूत् किल ।एवं विनष्टा योद्धारो राधिके! वीरमानिनः ॥११३॥प्रातर्जातं ततो राधे! मायारूपधराः पुनः ।राजाज्ञया सुसज्जाश्च योद्धुं मन्त्रैरुपाययुः ॥११४॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने अब्रिक्तदेशे ब्रह्मविमानेन योधिनागरम्लेच्छाश्चैकादशकोटयश्चैकादशलक्षाणि च नष्टाश्चेत्यादिनिरूपणनामा एकपञ्चाशत्तमोऽध्यायः ॥५१॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP