संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १८५ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १८५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १८५ Translation - भाषांतर श्रीकृष्ण उवाच-अथाऽयं भगवान् राधे जीवनीनगरीं प्रति ।दृष्टिं कृत्वा विमानात् स्वाद् बहिस्तूर्णं समाययौ ॥१॥तावद् राजाऽल्पकेतुश्चाप्यायनर्षिस्तथा परे ।कुमारा बालकृष्णस्य कण्ठे हारान् न्यधुः शुभान् ॥२॥सौवर्णान् कौसुमाँश्चापि हैरकान् रात्निकानपि ।करे गुच्छान् सुगन्धाँश्च ददुः पुष्पाणि मस्तके ॥३॥अक्षतैर्वर्धयामासुः प्रणेमुः पादयोरपि ।अन्येऽपि पूजिताः सर्वैरीशानाद्यास्तथर्षयः ॥४॥पितरः सकुटुम्बाश्च स्वागतैश्चातिमानिताः ।पादौ प्रक्षाल्य च वारि पपुर्भक्ता हरेस्तदा ॥५॥हरिं सुवर्णशोभायां गजगन्त्र्यां न्यषादयन् ।अन्यान् शुभेषु यानेषु वाहनेषु ह्यनस्सु च !। ६॥शिबिकासु विमानेषु निषाद्य मंगलस्वनैः ।नगरीं भ्रामयामासुः राजाद्याः प्रेमविह्वलाः ॥७॥प्रधानैश्च नृपाद्यैश्च श्रेष्ठिभिश्चाधिकारिभिः ।प्रजाभिः सर्वजातीयनारीभिश्च नरैस्तथा ॥८॥वर्धितः पूजितश्चापि घण्टापथे च चत्वरे ।अंगने मार्गिकायोगे चाऽऽपणानां च वर्तुले ॥९॥स्वागतेन हरिः सर्वैः प्रासादितः पुनः पुनः ।उपदाभिरमूल्याभिः सर्वोपकरणादिभिः ॥१०॥फलपुष्पैर्मंगलैश्च समर्चितो नरायणः ।एवं तां नगरीं वीक्ष्य दत्वा च दर्शनं ततः ॥११।निवासालयमागत्य जलपानं समाचरत् ।हरिस्तूर्णं सभायां च निषसादाऽऽदिदेश च ॥१२॥यत्राऽऽस्ते भगवान् साक्षात् यत्र सन्तो हरिं श्रिताः ।यत्र वसन्ति भक्ताश्च देशः स दिव्य उच्यते ॥१३॥निर्गुणः स प्रदेशो वै भुक्तिमुक्तिफलप्रदः ।धन्योऽयं केतुमालश्च धन्या नृपा नदीतटाः ॥१४॥धन्यान्येषां नगराणि यत्र मच्चरणागमः ।धन्या यूयं प्रजाश्चात्र वैष्णवत्वमुपागताः ॥१५॥वैष्णवत्वं च सत्संगः परमेशप्रसन्नता ।सदेष्टदेवभक्तिश्च सेवा सतां हि दुर्लभाः ॥१६॥ते येषां मिलितास्तेषां प्राप्तव्यं नाऽवशिष्यते ।स्थानिनो दिव्यलोकस्था वाञ्च्छन्त्येतत्तु पञ्चकम् ॥१७॥तपःस्वाध्यायशीलानां सन्ति लोकाः सनातनः ।अजातशत्रवो धीरा भक्त्या मोक्षं परं गताः ॥१८॥विषयेभ्यः परावृत्ता यान्ति भक्त्या परं पदम् ।अनिर्देश्यां गतिं यान्ति मोक्षिणो भक्तिसंयुताः ॥१९॥उक्तं तु पञ्चकं येषां नास्ति तेषां तु लौकिकम् ।विपाट्य कदलीस्तम्भं सारलाभो न विद्यते ॥२०॥तस्मात्तत्पञ्चकं लब्ध्वा श्रेयो लक्ष्यं विधाय च ।निगृह्य च मनस्तृष्णामुत्सृज्य कर्मसन्ततिम् ॥२१॥परेश्वरे तु संलग्नः सतां मार्गमनुस्मरन् ।ध्यायेद्देवं चान्तरस्थं स वै श्रेयः प्रयास्यति ॥२२॥क्रियारताः क्रतौ मग्ना दाने सेवाविधावपि ।मां प्रलक्ष्योत्सृजन्तो ये ते मता मम लोकगाः ॥२३॥त्यागः सन्तोष इशेज्याऽभिलालसाक्षयस्तथा ।मानादिविलयो येषां तेषां वै शाश्वतं सुखम् ॥२४॥चतुष्पदो भवेदत्र निःश्रेणी ब्रह्मलोकदा ।कथायज्ञः ऋषिश्रेणी ज्ञानं श्रेणी तु तत्त्विनाम् ॥२५॥कर्मश्रेणी गृहस्थानां तपःश्रेणी सतां मता ।ईहा चेद् विषयाढ्याऽस्ति ततोऽनीहा गरीयसी ॥२६॥ईहायां बहवो दोषाः संहारजननप्रदाः ।ईहया दूष्यते चात्मा श्रेयस्तेन विलीयते ॥२७॥अनर्हं योऽर्जयत्यत्राऽर्हं च त्यजति सर्वथा ।स चान्ते संपरित्यक्तो भवेद् द्वाभ्यां ततोऽन्धगः ॥२८॥एवं विचार्य मनुजैर्गृहस्थैस्तु विशेषतः ।कर्मयज्ञोऽपि विधिना धनयज्ञोऽपि सद्धनैः ॥२९॥कर्तव्यश्च समेष्टव्यो नारायणोऽहमेव च ।इन्द्रो यज्ञैश्च विविधैः सुरराजोऽभवत् पुरा ॥३०॥महादेवो महायज्ञे हुत्वाऽऽत्मानं बभूव सः ।देवदेवो व्याप्य विश्वान् विष्टभ्येशानतां गतः ॥३१॥आविक्षितो मरुतश्च यज्ञे श्रीं परिवेषिणीम् ।प्राप सर्वप्रदां भक्त्या ययौ धाम ममापि च ॥३२॥एवमन्ये पूर्वकल्पे कल्पान्तरेषु कर्मिणः ।कर्मयज्ञेषु संयुज्य धनं चापि दिवं गताः ॥३३॥कर्मयज्ञे वैष्णवत्वं सत्संगो हरितोषणम् ।सतां सेवा भवन्त्येव तादृग्यज्ञं समाचरेत् ॥३४॥अनीहश्चेत् सुसन्तोषी विन्दते ब्रह्म शाश्वतम् ।सन्तोषो वै परं स्वर्गं परानन्दो हि तोषणम् ॥३५॥तुष्टेः परं न वै किञ्चित् सुखं क्वापि प्रशस्यते ।देही कामान् समाहृत्य स्वात्मन्येव प्रसीदति ॥३६॥भयं नाऽस्य कुतस्ताद्वै नास्मात्तु कस्यचिद् भयम् ।स्वयं हीनः कामरुड्भ्यां यदा तत्राऽऽत्मदृग् भवेत् ॥३७॥अद्रोहः सर्वभूतानां सर्वाकांक्षाविवर्जितः ।सर्वार्पणं हरौ प्राप्तो ब्रह्म सम्पद्यते स च ॥३८॥यथा प्रवृत्तिर्येषां तु भूतानां रागवाहिनी ।तत्र तेषां गतिश्चास्ति हर्यर्पणे तु शाश्वती ॥३९॥केचित् साम प्रशंसन्ति प्रयत्नं चापरे जनाः ।अन्ये ध्यानं प्रशंसन्ति चेतरे चाश्रयं शुभम् ॥४०॥केऽपि यज्ञं प्रशंसन्ति सन्न्यासमपरेऽपि च ।दानं चैके प्रशंसन्ति परे लान्ति प्रतिग्रहम् ॥४१॥शान्तास्तूष्णीं स्थितिं प्राप्य परमेशं भजन्ति च ।अशान्ता राज्यमिच्छन्ति यत्रोभयतुला समा ॥४२॥एतद् विचार्य विज्ञानैः श्रयणीयं सुखप्रदम् ।नैसर्गानुगमं श्रेयःप्रदं वै साधनं शुभम् ॥४३॥अद्रोहेण तु भूतानां वर्तनं साधुसाधनम् ।सतां मार्गः स वै प्रोक्तो यत्रात्मा नैव बध्यते ॥४४॥राजा चेत् स सदा राज्ये वर्तेताऽद्रोहवर्त्मना ।सत्येन संविभागेन दमेन दयया तथा ॥४५॥ह्रिया दानेन देवेऽतिभक्त्या प्रजासु रक्षया ।वशिभावेन च प्रियाऽप्रियतुल्यमनीषया ॥४६॥यज्ञशिष्टादनेनाऽपि साध्वनुग्रहणेन च ।तस्याऽयं च परो लोको भवेच्छ्रेष्ठफलोदयः ॥४७॥एवं धर्मपराणां वै साधुसेवाजुषां सदा ।प्रजारक्षार्थमेवाऽत्र युध्यतां धर्महेतवे ॥४८॥भवेत् स्वर्गात्परे स्वर्गे सर्वोत्तमा गतिः शुभा ।पूर्वे रुद्राश्च वसवश्चादित्या लोकपालिनः ॥४९॥साध्या मरुतो विश्वेशा देवा धर्मं तथाविधम् ।कृत्वा पुण्यैः परं स्वर्गं प्राप्तास्ततोऽत्र मानवाः ॥५०॥तद्विधं धर्ममाश्रित्य यान्तु वै परमां गतिम् ।गृहस्थं हि सदा देवाः पितरोऽतिथयस्तथा ॥५१॥भृत्याः सन्तश्च सततं चोपजीवन्ति मानवाः ।वयांसि पशवश्चापि भूतान्युपाश्रितानि च ॥५२॥तपो यज्ञस्तथा विद्या भैक्ष्यमिन्द्रियसंयमः ।ध्यानमेकान्तशीलत्वं तुष्टिर्ज्ञानं च सेवनम् ॥५३॥विप्रधर्मा गृहस्थे ये ते कृष्णेऽर्प्याः सदा मयि ।यज्ञो विद्या समुत्थानं श्र्यर्जनं दण्डधारणम् ॥५४॥उग्रत्वं चरितं ज्ञानं प्रजावनं प्रदानकम् ।राजधर्मा गृहस्थे ये ते कृष्णेऽर्प्याः सदा मयि ॥५५॥धनार्जनं व्यवसायो दानं च पालनादिकम् ।सस्योत्पत्त्यादिकं वैश्यधर्मा अर्प्या मयि प्रभौ ॥५६॥सेवनं सहनं चाज्ञावर्तनं शेषभोजनम् ।भृत्यत्वं शूद्रधर्मा येतेऽप्यर्प्या मयि माधवे ॥५७॥पातिव्रत्यं गुरोः सेवा गृहसंस्करणादिकम् ।अपत्यरक्षणं नारीधर्मा अर्प्याः प्रभौ मयि ॥५८॥अध्ययनं खेलन च विकासनं च रञ्जनम् ।नर्म साहसकं बालधर्मा अर्प्याः प्रभौ मयि ॥५९॥कामो बलं स्वार्थदृष्टिर्विजयोऽतिविचारिता ।अर्जनं योजनं युवधर्मा अर्प्याः प्रभौ मयि ॥६०॥जल्पनं कम्पनं पारवश्यं चाशक्तिरुग्रता ।आलस्यं चाऽवमानादि मय्यर्प्या वृद्धधर्मकाः ॥६१॥ताडनं सहनं दुःखं दारिद्र्यं पशुतुल्यता ।दण्डः पारुष्यमर्प्याश्च दीनधर्माः प्रभौ मयि ॥६२॥हास्यं रतिर्विलासश्च प्रीतिर्दासीत्वमुग्रता ।बन्धो निराश्रितेत्यर्प्या स्त्रीधर्मा वै प्रभौ मयि ॥६३॥इत्येवं वर्तमानानां मय्येवार्पितचेतसाम् ।समुद्धारं करोम्येव मृत्युवार्धिनिमज्जताम् ॥६४॥पुरा शंखश्च लिखितो भूदेवसंभवौ मुनी ।अभूतां भ्रातरावावसथावास्तां तयोः पृथक् ॥६५॥नित्यं पुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु ।कदाचिल्लिखितश्चायादाश्रमे शंखपालिते ॥६६॥शंखो नाऽभूदाश्रमे तु तदा वनान्तरं गतः ।लिखितः पातयामास पक्वानि तु फलानि वै ॥६७॥भक्षयामास तत्रैव तावच्छंख उपागतः ।भ्रातरं प्राह चाऽपृष्ट्वा सस्वामिकानि वै त्वया ॥६८॥पातितानि फलान्यत्र तव धर्मोऽत्र दूष्यति ।त्वया स्तेयं कृतं चेदं फलान्याददता स्वयम् ॥६९॥गच्छ राजानमासाद्य चौर्यं कर्म निवेदय ।सोऽपि तूर्णं गतो भूपं न्यवेदयच्च कर्म तत् ॥७०॥मया चौर्यं कृतं प्रायश्चित्तं तस्य प्रदेहि मे ।सुद्युम्नो नाम राजाऽऽह यदि राजा मतस्तव ॥७१॥तदाऽनुज्ञां मम विप्र गृह्णाऽन्यद् दण्डतो वृणु ।एवमुक्तोऽपि ऋषिराट् वरयामास नेतरत् ॥७२॥ततो राजा करौ प्रच्छेदयामास ऋषेस्ततः ।धृतदण्डो ययौ विप्रो भ्रातरं प्रजगाम ह ॥७३॥शंखस्तं प्राह धर्मिष्ठ भ्रातर्याहि च बाहुदाम् ।ऋषीन् पितॄन् सुराँश्चैव तर्पयस्व यथाविधि ॥७४॥ततः पुनः कदाचिद्वै नैवाऽधर्मे मनः कृथाः ।शंखस्याऽऽज्ञां गृहीत्वैव लिखितो बाहुदां ययौ ॥७५॥अवगाह्याऽऽपगां पुण्यां प्रायश्चित्तफलं मयि ।समर्प्योदकदानार्थं यावद्विप्रः प्रचक्रमे ॥७६॥प्रादुरास्तां करौ तावत्तस्य मय्यर्पणात्तदा ।ततः कृत्वोदकदानं सर्वार्पणं सदा मयि ॥७७॥समाचरत् स विप्रोऽत्र कर्मभूमौ निरन्तरम् ।विज्ञायाऽर्पणमाहात्म्यं सर्वपापप्रणाशनम् ॥७८॥राजा यो दत्तवान् दण्डः सोऽपि तेनाऽर्पितो मयि ।उदकादिप्रदानं च लिखितेनाऽर्पितं मयि ॥७९॥शंखेनाऽऽज्ञावचनं च तथैवाऽभ्यर्पितं मयि ।एवं सर्वार्पणेनैते पूता मम प्रभावतः ॥८०॥न वाग्दोषोऽस्ति शंखस्य दण्डदोषो न भूभृतः ।हस्तदोषो नापि तथा लिखितस्य मदर्पणात् ॥८१॥इत्येवं मानवा ये मां स्मृत्वा मयि समर्प्य च ।भुञ्जते चापि वर्तन्ते निर्बाधास्ते ममाश्रिताः ॥८२॥मामेवान्ते प्रयान्त्येव कर्मपाशविवर्जिताः ।तथा यूयं राजवर्गाः प्रजावर्गाश्च सर्वशः ॥८३॥मयि सर्वार्पणं कृत्वा भजित्वा यात धाम मे ।अहमन्तेऽसुविगमे तूपस्थास्यामि गोचरः ॥८४॥नयिष्येऽहं विमानेन मद्भक्तान् धाम मे परम् ।भजनं मे प्रकुरुत प्रपूजयत मां सदा ॥८५॥दृढाश्रयं मे कुरुत नयिष्ये धाम मे परम् ।इत्युक्त्वा भगवानाह लोमशाय महात्मने ॥८६॥देहि मन्त्रान् प्रजाभ्यश्च गृह्णन्तु भोजनं जनाः ।इत्युक्तः स ददौ मन्त्रान् शरणागततारकान् ॥८७॥अथ सर्वप्रजाः स्वस्वगृहान् ययुस्ततो हरिः ।भोजनं राधिके चक्रे सर्वेऽपि भोजनं व्यधुः ॥८८॥रात्रौ विश्रान्तिमासाद्य प्रातरुत्थाय सत्वरम् ।कृतनित्यविधिः कृष्णो निषसाद निजासने ॥८९॥तावद् राजा दुग्धपानादिकं कारयितुं प्रभुम् ।प्रार्थयामास च हरिश्चकार दुग्धभोजनम् ॥९०॥ताम्बूलकं चाददेऽपि प्रस्थानार्थमियेष च ।अन्येऽपि कृतदुग्धादिभोजनाः प्रातरेव ह ॥९१॥गन्तुं सज्जा बभूवुश्च तावद् राज्ञी सकन्यका ।पूजनार्थं चाययौ च पुपूज परमेश्वरम् ॥९२॥सप्तकन्याः कुमार्यश्च जगृहुश्च करं हरेः ।करदानं तथा कृत्वा प्राप्य कान्तं परेश्वरम् ॥९३॥वरमालादिकं प्राप्य कृतकृत्यास्तदाऽभवन् ।ब्रह्मप्रियासु ताः सप्त मिलित्वा तद्विमानकम् ॥९४॥आरुरुहुस्तदा राजा हरिं पुपूज चादरात्॥प्रजा विदायदानं च ददुः राजोपदा ददौ ॥९५॥तदा वाद्यान्यवाद्यन्त प्रस्थानसूचकानि वै ।महीमाना विमानानि चारुरुहुस्ततः प्रभुः ॥९६॥आरुरोह विमानं स्वं कुटुम्बेन च शंभुना ।सह स्वेष्टजरेणापि मुनिना भक्तिशालिना ॥१७॥राज्ञा च जयकृष्णवनाम्ना तदाऽर्थितो हरिः ।अल्पकेत्वादिकान् वर्धयित्वाऽऽशीर्भिस्तदाऽम्बरे ॥९८॥विमानेन गतिं चक्रे जयकृष्णवराष्ट्रकम् ।अल्पाद्रिं च व्यतिक्रम्य स्वेष्टजराश्रयां भुवम् ॥९९॥प्रापाऽम्बरे हरिकृष्णस्तथाऽन्ये व्योमवाहनाः ।राहूनाया आपगाया मूलदेशेषु चाययुः ॥१००॥राजा ऋषिर्ययतुश्च पूर्वं स्वागतसिद्धये ।भूतलं चक्रतुस्तत्र वाद्याद्यैः स्वागतं हरेः ॥१०१॥वरणां नगरीं दृष्ट्वा जहर्ष हरिरीश्वरः ।विशालां शोभितां शृंगारितां च राधिके तदा ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने ऽल्पकेतोर्जीवन्यां नगर्यां श्रीहरेर्भमणं पूजनं सभायां शंखलिखितदृष्टान्तेनोपदेशनं भोजनं रात्रौ विश्रमणंप्रातर्भोजनोत्तरं स्वेष्टजरर्षिदेशेषु जयकृष्णवनृपतेः षष्ठ्यां वरणानगर्यामागमनमित्यादिनिरूपणनामा पञ्चाशीत्यधिकशततमोऽध्यायः ॥१८५॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP