संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ६० त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ६० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६० Translation - भाषांतर श्रीकृष्ण उवाच-अपि राधे शृणु त्वन्यं चमत्कारं हरेस्तदा ।उदयाख्योऽभवद् राजा धार्मिको देवपूजकः ॥१॥अरवल्यद्रिभूभागे राज्यं यस्य महत्तमम् ।उदयाख्यं पत्तनं च राजधानी ह्यभूच्छुभा ॥२॥राजा व्रतं परं चक्रे चातुर्मास्यैकभोजनम् ।नित्यं दानं विप्रसाधुभोजनं धेनुसेवनम् ॥३॥अनाथबालसाध्वीभ्यश्चान्नवस्त्रसमर्पणम् ।विद्यादाने तथा द्रव्यं देवालयेषु सद्धनम् ॥४॥हवनं सर्वदा प्रातर्ब्राह्मं सायं जलाप्लवम् ।एवं व्रते सुकुर्वाणे श्रावणे मासि सर्वथा ॥५॥इच्छा तस्याऽभवत् स्नातुं मासमेकं सरोवरे ।यथावाषाढमासेऽसौ धीरवीरसरोवरम् ॥६॥परिमेयाऽनुगो राजा आर्यायनऋषेर्वने ।आश्रमे च निजावासं चकार सरितस्तटे ॥७॥श्रावणे नित्यमेवाऽसौ प्रातरुत्थाय सत्वरम् ।नारायणं नमस्कृत्य ध्यात्वा श्रीविष्णुमच्युतम् ॥८॥स्नात्वा सम्पूज्य च लक्ष्मीनारायणं प्रभापतिम् ।पार्वतीस्वामिनं राधेश्वरं सम्पूज्य भावतः ॥९॥ततश्चार्यायनऋषेः पूजां करोति नित्यशः ।अथ पश्चात् सदायाति तीर्थानि द्रष्टुमेव सः ॥१०॥सतीतीर्थं शंभुतीर्थं चक्रतीर्थं ततः परम् ।कृष्णतीर्थं स्वामितीर्थं मञ्जुलातीर्थमित्यपि ॥११॥सूर्यतीर्थं चेन्द्रतीर्थं ब्रह्मतीर्थं ततः परम् ।मुक्ततीर्थम् ऋषितीर्थं धर्मतीर्थं जलाश्रयम् ॥१२॥एवमादीनि तीर्थानि कृत्वा सरोवरेऽभितः ।प्रदक्षिणं सरः कृत्वा दत्वा दानानि सर्वशः ॥१३॥स्वर्णं रूप्यं चाम्बराणि पात्राणि विविधानि च ।भोज्यानि चान्नदानानि ततो याति निजाश्रयम् ॥१४॥एवं कृत्वा ततो होमं वैश्वदेवं करोति च ।विप्रानृषीन् सतीः साध्वीः साधून् बालाननाथकान् ॥१५॥विभज्याऽन्नान्यतिथीँश्च भोजयित्वाऽनुगानपि ।ततो भुंक्ते स्वयं राजा नत्वा त्वार्यायनमृषिम् ॥१६॥एवं पुण्यप्रतापेन राज्ञः पूर्वकृतानि च ।यानि कान्यपि पापानि दग्धान्येव समन्ततः ॥१७॥पुण्यपुञ्जोऽपिं च महानस्य कृष्णेऽर्पितस्ततः ।कृष्णनारायणस्यैव प्रसन्नताऽस्य शिष्यते ॥१८॥प्रसन्नता महत् पुण्यं नान्यत् पुण्यं स मन्यते ।हरिकृष्णः प्रसन्नोऽभूदार्यायनर्षिहृद्गतः ॥१९॥ऋषिः प्राह च राजानं राजन्नेहि ममान्तिके ।गृहाण परमं मन्त्रं यद्देवः पुरुषोत्तमः ॥२०॥राजा तदा ऋषेरग्रे उपाविवेश तम् ऋषिः ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥२१॥इति मन्त्रं दिदेशापि स्रजं च तौलसीं तथा ।ततोऽनुगानपि मन्त्रमाह चार्यायनो मुनिः ॥२२॥मन्त्रं लब्ध्वा ऋषिं नत्वा राजा सहानुगो गृहम् ।ययौ तत्र नदीतीरे स्वोटजायामुपाविशत् ॥२३॥तावत् तत्रागतो बालो मुरलीकरशोभितः ।राधया प्रभया लक्ष्म्या पारवत्या च सेवितः ॥२४॥रूपरूपानुरूपाधिमूर्तिः श्रीभगवान् स्वयम् ।हसन् मुहुस्तथा कान्ता हासयन् रङ्गपूरितः ॥२५॥दिव्यो दिव्यस्वरूपाभिः पत्नीभिः परिवारितः ।मयूरपिच्छकल्ग्याढ्यहैममुकुटशोभितः ॥२६॥वह्निशुद्धांशुकधरो दिव्यभूषाविराजितः ।करे मीनध्वजस्वस्तिधनुःशूलादिलक्षितः ॥२७॥तत्पार्श्वे च मनाक् दूरं लक्ष्मीश्रीकम्भरा सती ।पार्श्वान्तरे मनाक् दूरं श्रीमद्गोपालकृष्णकः ॥२८॥अन्या दास्यस्तथा दासाः पर्णकुट्यां समागताः ।कोटिकोटयर्कभातुल्यं तेजस्तत्र बभौ सुखम् ॥२९॥राजा विलोक्य रुचिरं मूर्तौ तत्र स्थिरोऽभवत् ।नेमे नेत्रे च सम्मिल्य तेजोव्याहतरश्मिणी ॥३०॥क्षणान्तरे समुद्धाट्य यावत् पश्यति केशवम् ।तावदेकोऽभवत् कृष्णस्तन्मूर्तौ श्रीहरिः स्वयम् ॥३१॥दर्शयामास सौराष्ट्रं तथा कुंकुमवापिकाम् ।अश्वपट्टसरश्चापि तथा श्रीलोमशाश्रमम् ॥३२॥तथा श्रीकम्भरालक्ष्मीं तथा गोपालकृष्णकम् ।कोट्यर्बुदाब्जकन्याश्च तीर्थान्यपि च सर्वशः ॥३३॥एवं प्रदर्श्य भगवान् सर्वं लीनं चकार ह ।ततः स्वपादयोस्तस्मै दर्शयामास वै क्षणात् ॥३४॥पातालं च तदूर्ध्वं च रसातलं ततः परम् ।महातलं जंघयोश्च जान्वोस्तलातलं ततः ॥३५॥सुतलं चोर्वधोभागे सक्थ्नोश्च वितलं ततः ।सक्थिमूले चातलं च तत्रत्यान् दैत्यदानवान् ॥३६॥सर्पान्नागानन्यजीवान् नदीपर्वतभूस्तरान् ।विभूतीन् दर्शयामास शेषं च कच्छपं तथा ॥३७॥कट्यां भुवं जघने च भुवर्लोकं ततः परम् ।नाभ्यां स्वर्गं महर्लोकं ह्युदरे हृदये जनम् ॥३८॥तपोलोकं मुखे सत्यं ललाटेऽस्मै व्यदर्शयत् ।चर्मणि सप्तकान्येवावरणानि व्यदर्शयत् ॥३९॥एवं प्रदर्श्य च क्षणाल्लीनं चकार तत्तदा ।अथैनं दर्शयामास वैष्णवं रूपमात्मनः ॥४०॥सहस्रशिरसं रम्यं सहस्रकरपादकम् ।तत्र वै पादयोरेनं दर्शयामास वै जलम् ॥४१॥तेजो वायुं चाम्बरं च ब्रह्मविष्णुमहेश्वरान् ।पादयोर्जलवैकुण्ठं वैराजं जंघयोस्तथा ॥४२॥जान्वोश्चाथ महाविष्णुं सक्थ्नोर्भूमानमित्यपि ।सक्थिमूले प्रधानं च पुरुषं शिश्नके तथा ॥४३॥प्रकृतिं जघने नाभौ वासुदेवमदर्शयत् ।कट्यां कालं च पुरुषं पार्श्वे संकर्षणं तथा ॥४४॥पार्श्वान्तरे च प्रद्युम्नं ह्युदरे त्वनिरुद्धकम् ।कुक्ष्योर्वैकुण्ठगोलोकौ वक्षस्यनन्तदासिकाः ॥४८६॥राधारमादिशक्तीश्च दर्शयामास केशवः ।कण्ठे ब्रह्मस्वरूपाँश्च मुक्तान् कोट्यर्बुदाब्जकान् ॥४६॥मुखे त्वमृतलोकं च नेत्रयोरक्षरं तथा ।ब्रह्म प्रदर्शयामास ललाटे तेजसां चयम् ॥४७॥तत्र श्रीकम्भरालक्ष्मीं श्रीमद्गोपालकृष्णकम् ।ब्रह्मरन्ध्रे परं धाम नैजं प्रादर्शयद्धरिः ॥४८॥तत्र सिंहासनं दिव्यं स्थितं तस्मिन् हरिं तथा ।सेवमानं च तं तत्र स्वं राजा संव्यलोकयत् ॥४९॥ततः पुनश्च तत्सर्वमदृश्यं समजायत ।कुंकुमवापिकाक्षेत्रे स्थितं तं बालरूपिणम् ॥५०॥ददर्श राजा श्रीमन्तं सेवितं कोटिदेहिभिः ।तत्रात्मानं नृपः पुनर्ददर्श निकटे स्थितम् ॥५१॥अथ सर्वं क्षणात् लीनं नृपस्त्वाश्चर्यमाप्तवान् ।ततः क्षणान्तरे नैजोटजां ददर्श शोभनाम् ॥५२॥स्वस्थो भूत्वा दिशो नत्वा तुष्टाव ध्यानसंस्थितः ।ओं नमः श्रीनिवासाय मूलप्रकृतियामिने ॥५३॥अजिताय च देवाय महात्मने नमोऽस्तु ते ।अनाश्रिताय शान्ताय निःस्पृहाय नमोस्तु ते ॥५४॥नम आद्याय देवाय सर्वदेवमयाय च ।आर्षायाऽऽदिस्वरूपाय श्रीकृष्णाय च ते नमः ॥५५॥अनन्तराय चैकाय सदा व्यक्ताय ते नमः ।नमो गुप्ताय काशाय गुणेश्वराय ते नमः ॥५६॥अतर्क्यायाऽप्रमेयाय चातुलाय च ते नमः ।निश्चिन्ताय च पूर्वाय सनातनाय ते नमः ॥५७॥पुराणाय नमस्तस्मै निर्गुणाय नमोऽस्तु ते ।नमो जगत्प्रतिष्ठाय ब्रह्मनिष्ठाय ते नमः ॥५८॥पद्मनाभाय योगाय गोविन्दाय नमो नमः ।नमोऽस्तु सांख्यवेद्याय विश्वेश्वराय ते नमः ॥५९॥हरये शिवरक्षाय नारायणाय ते नमः ।परात्मनेऽमितदात्रेऽमितक्रमाय ते नमः ॥६०॥शार्ङ्गचक्रगदापद्मशालिने ते नमो नमः ।महोरगाय सिंहाय नमोऽस्तु वेदवासिने ॥६१॥महामत्स्याय कान्ताय कच्छपाय च ते नमः ।वामनाय च दीर्घाय चतुर्भुजाय ते नमः ॥६२॥सिद्धचारणगन्धर्वसंस्तुताय नमो नमः ।अच्युताय सकलाय नागेन्द्रशयनाय च ॥६३॥दुग्धवर्णाय कृष्णाय हेमाभाय नमो नमः ।पीताम्बराय दैत्यादिनाशनाय च ते नमः ॥६४॥अक्षरायाऽक्षरेशाय नाभिपद्माय ते नमः ।चतुर्मुखाय देवाय पञ्चवक्त्राय ते नमः ॥६५॥क्षीरवासाय यशसे कान्तये वरदाय च ।सर्वेश्वराय कान्ताय कामिनीशाय ते नमः ॥६६॥वरेण्याय विघ्नहर्त्रे भक्तिप्रियाय ते नमः ।पद्मायतसुनेत्राय शुकनासाय शार्ङ्गिणे ॥६७॥योगेश्वराय वृक्षाय शाखिने ते नमो नमः ।देवायनाय मुनये साधवे ते नमो नमः ॥६८॥मोहिनीरूपभासाय जीववासाय ते नमः ।वाराहाय नृसिंहाय शरभाय च ते नमः ॥६९॥कूटस्थं सर्वहेतुं च पुरुषं च पुरातनम् ।मायाकान्तं चेशकान्तं सर्वकान्तं नमाम्यहम् ॥७०॥क्षेत्रज्ञं कालमायेशं व्यूहेशं मुक्तजीवकम् ।वासुदेवं सतीकान्तं कृष्णनारायणं प्रभुम् ॥७१॥कम्भरानन्दनं कृष्णं गोपालकृष्णबालकम् ।परधामनिवासं तं पुमुत्तमं नमाम्यहम् ॥७२॥ब्रह्मर्षयो ब्रह्मरूपं यं वदन्ति सनातनम् ।अक्षरेशं च मुक्तेशं प्रपद्ये शरणं हरिम् ॥७३॥श्रीवत्साऽङ्कं श्वेतपद्मरेखं विगुणहारकम् ।षोडशादिचिह्नशोभं प्रपद्ये शरणं पतिम् । ७४॥यत्र विश्वं यश्च विश्वे सर्वं यत्र प्रतिष्ठते ।प्रभवं सर्वभूतानां दिव्यगुणं परेश्वरम् ॥७५॥प्रपद्ये मुक्तसंगानां साधूनां परमां गतिम् ।भगवन्तं चात्मवासं स्त्रीवासं पुष्करेक्षणम् ॥७६॥शरण्यं शरणं भक्त्या प्रपद्ये भक्तवत्सलम् ।अन्तकाले समागत्य प्रदर्श्यात्मानमेव यः ॥७७॥नैजं धाम निजं भक्तं नयत्येव प्रभुः परः ।तं नमामि परं देवं मोक्षदं पुरुषोत्तमम् ॥७८॥पातालान्तं च सत्यादि सर्वं माति तु यत्र वै ।महामायान्तकं सर्वं यस्मिन् माति जनार्दने ॥७९॥धामानि मुक्तकोट्यश्च यस्मिन् मान्ति परेश्वरे ।तं प्रपद्ये परं कृष्णं नारायणं श्रियः पतिम् ॥८०॥न त्वां स्तोतुं तथा वेद्मि यथा त्वं वर्तसे प्रभो! ।स्वरूपं न यथार्थं च वेद्मि वेद्मि तटस्थकम् ॥८१॥त्वया यत् कृष्ण कृपया कृष्णनारायणात्मकम् ।रूपं प्रदर्शितं मह्यं तपः फलं कृपाफलम् ॥८२॥धाम प्रदर्शितं चापि तथा कुंकुमवापिका ।अश्वपट्टसरश्चापि दर्शितं लोमशाश्रमम् ॥८३॥सर्वं पुनः पुनर्नाथ द्रष्टुमिच्छामि सेवया ।प्रसन्नतां समिच्छामि तथा मे वरदो भव' ॥८४॥इत्येवं संस्तुतोऽनादिश्रीमत्कृष्णनरायणः ।सान्निध्यं चाजगाम द्राक् चक्रपद्मधरः प्रभुः ॥८५॥प्रीतिमान् पुण्डरीकाक्षः शरणागतवत्सलः ।प्रोवाच मधुरं तस्मै उदयाय महात्मने ॥८६॥तव स्तोत्रेण च राजन् प्रसन्नोऽस्मि पुनः पुनः ।सर्वमिष्टां च ते राजन् आर्यायनप्रसंगतः ॥८७॥भविष्यत्यचिरात् क्षेत्रे मम वासोऽपि ते भवेत् ।सन्नेष्ये त्वां मम क्षेत्रं वारुणेन पथा नृप ॥८८॥ते योगान्मम योगाच्च नदीतीर्थं भविष्यति ।इदं स्तोत्रं तु ये राजन् पठिष्यन्ति गृहे वने ॥८९॥प्राप्स्यन्ति परमां सिद्धिं मम प्राप्तिस्वरूपिणीम् ।अत्र तीर्थे धीरवीरसरोवरे तु ये जनाः ॥९०॥पशवः पक्षिणः कीटा वृक्षवल्ल्यादिकास्तथा ।जलपानं करिष्यन्ति मुक्तिं यास्यन्ति पावनीम् ॥९१॥श्राद्धं दानं जपं होमं तर्पणं भोजनं जलम् ।येऽत्र दास्यन्ति विधिना तेषां मुक्तिर्भविष्यति ॥९२॥इत्युक्त्वा भगवान् भूपं चादृश्यभावमास्थितः ।राजा जजाप बहुधा कृष्णनारायणं प्रभुम् ॥९३॥जगौ ननर्त दध्यौ च जहास च रुरोद च ।तस्थौ सिषेवे पुपूज ददर्श तं यथा तथा ॥९४॥भृत्यान् वै प्रेषयामास नैजमुदयपत्तनम् ।नागदेवं सुतं राज्यदानं समादिदेश च ॥९५॥साधुवद्वर्तते स्माऽत्र राजा भागवतोत्तमः ।रात्रौ सुप्तः श्रावणस्याऽष्टम्यां ववर्ष मेघराट् ॥९६॥सरोवरं नदी कूपा जलाकाराः समुद्रवत् ।अतिवृष्ट्या तदा जाता पर्णशाला जलान्तरे ॥९७॥लयं याता जनाश्चापि जले मग्नाः शताऽधिकाः ।अनादिश्रीकृष्णनारायणं सस्मरुरत्यति ॥९८॥द्रागेव राधिके कृष्णनारायणो दयानिधिः ।ययौ रक्षणकर्ता स नावमादाय शाश्वतीम् ॥९९॥सहस्ररूपधारी च यत्र यत्र जले जनाः ।निमग्ना बालवृद्धाद्या नरा नार्यः पशूत्तराः ॥१००॥सर्वानुद्धारयामास नैकोऽपि मृतिमाप्तवान् ।आर्यायनं महर्षिं च समाधिस्थं गतं जले ॥१०१॥उद्गृह्य नावि भगवान् दधार करुणालयः ।नद्यां मह्यां तु सा नौका स्थापिता परमात्मना१०२॥शतद्वयाऽधिकान् तस्यां मग्नान् धृत्वा ररक्ष सः ।पशून् पक्षिगणाँश्चापि ररक्ष जीवतस्तदा ॥१०३॥राजा च मानवा सर्वे जीवन्तः श्रीनरायणम् ।भेजिरेऽनन्यभावाश्च नौरास्ते जलमस्तके ॥१०४॥जलोपरि वहत्येव शनैः कृष्णेन वाहिता ।राधिके रक्षिता कृष्णस्तत्र का नाम वेदना ॥१०५॥इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने उदयपुरनृपतेः चातुर्मास्ये धीरवीरसरोवरतटस्थितस्य प्रभोर्दर्शनं चातिवृष्ट्या जलमग्नत्वं प्रभुणा नावा रक्षा कृतेत्यादिनिरूपणनामा षष्टितमोऽध्यायः ॥६०॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP