संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ९४

त्रेतायुगसन्तानः - अध्यायः ९४

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके वासुदेववाक्यैः प्रबोधिताः ।
माहात्म्यज्ञानवन्तस्ते त्रयोऽण्डस्तदग्रजम् ॥१॥
पूर्वोत्सवेषु कृष्णस्य दर्शनार्थं वयं गताः । [
इदानीं तद्दर्शनार्थं माहात्म्यज्ञानसंयुताः ॥२॥
जिगमिषामो भवता सार्धं बालस्वरूपिणः ।
लीलाकैवल्यवीक्षार्थं तद्विज्ञानेन रञ्जिताः ॥३॥
इत्येवं भ्रातृभिः प्रोक्तो वासुदेवो हरिः प्रभुः ।
भ्रातृभिः सह तल्लोकाद् ब्रह्माण्डोदरमाययौ ॥४॥
वासुदेवस्य लोकात्ते वैराजसदृशाणवः ।
भूत्वा वैराजलोकाँश्चाविविशुश्च ततोऽपि च ॥५॥
भूत्वा चाणुतराः सत्ये लोके चाविविशुस्ततः ।.
ततोऽप्यणव एवैते भूत्वा दिवं समाययुः ॥६॥
ततोऽप्यणुतमा भूत्वा मानवं लोकमाययुः ।
यत्पूर्वं श्रीवासुदेवमूर्तिर्वै स्वस्य धामनि ॥७॥
तस्या रोम्णस्तु पारार्ध्यभागोऽत्र मानुषे स्थले ।
तस्यापि कोटिभागेन मानुषं देहमास्थिताः ॥८॥
तेजसा भासुरास्ते च चत्वारो व्यूहसंज्ञकाः ।
बालकाः सदृशा भुत्वा चाऽश्वपट्टसरोऽम्बरे ॥९॥
आययुर्दिव्यहंसानां विमाने चातिभासुराः ।
वासुदेवोऽभवत्तत्र चतुर्भुजोऽतिभासुरः ॥१०॥
शंखचक्रगदापद्महेतिमान् मुकुटोज्ज्वलः ।
अन्ये त्रयो द्विभुजाश्चाऽभवँश्चक्रगदायुधाः ॥११॥
किशोरा दिव्यरूपाश्च वासुदेवसमाः शुभाः ।
अनेकसूर्यसंकाशाः स्वर्णकुण्डलभूषणाः ॥१२॥.
वनमालाकौस्तुभादिधरा मुकुटशोभनाः ।
दिव्यदेहा दिव्यसिद्ध्यैश्वर्यसामर्थ्यराजिताः ॥१३॥
सहस्नकोटिदेवानां तेजांसि भासुराणि च ।
येषां रोमसु विद्यन्ते तादृशास्ते विमानके ॥१४॥
व्यदृश्यन्ताऽम्बरस्थे ते सायं मध्याह्नवद्ध्यभूत् ।
सौराष्ट्रस्य प्रजाः सर्वा विलोक्य दिवसादपि ॥१५॥
चातिप्रमाणतेजांसि व्यतर्कयन् प्रभुः स्वयम् ।
विमानेन विहारार्थं व्योम्ना याति स्थलान्तरम् ॥१६॥
यद्वा देवाः समायान्ति पूजनार्थं हरेर्मुहुः ।
तथैवेते समायाता भवेयुश्चेत्यतर्कयन् ॥१७॥
अथ कुंकुमवाप्याश्च प्रजा भागवतास्तदा ।
निर्ययुः स्वगृहेभ्यश्च तूर्णं दर्शनहेतवे ॥१८॥
तावद् विमानं रुचिरं ह्यवाततार चाम्बरात् ।
अश्वपट्टसरस्तीरे लोमशाश्रमसन्निधौ ॥१९॥
चत्वारस्ते व्यूहकृष्णा विमानाद्वहिराययुः ।
कोटिचन्द्रोज्ज्वलकान्तिव्याप्तामृताब्धिमूर्तयः ॥२०॥
पद्भ्यां विहृत्य च शनैरश्वपट्टसरोजले ।
सस्नुर्मानुषरूपास्ते प्रययुर्लोमशाश्रमम् ॥२१॥
ऋषिश्चकार सत्कारं स्वागतं माननादिकम् ।
मधुपर्कं ददौ पूजां चकार चन्दनादिभिः ॥२२॥
दिव्यदृष्ट्या व्यूहतत्त्वं ज्ञात्वा चकार दण्डवत् ।
आरार्त्रिकं ततश्चक्रे व्यूहानां लोमशो मुनिः ॥२३॥
ब्रह्मप्रियाः ऋषयश्च चक्रर्नमःक्रियां ततः ।
उत्थाय ते ऋषीन्नत्वा बालकृष्णालयं ययुः ॥२४॥
बालकृष्णः पितरौ च प्राह व्यूहागमं तदा ।
सोत्साहौ पितरौ तूर्णं मानार्थं चाभिजग्मतुः ॥२५॥
श्रुत्वा त्वन्ये सुराश्चापि मुनयश्चेश्वरा अपि ।
तीर्थानि तत्त्वसंघाताः सन्तः साध्व्यो महर्षयः ॥२६॥
सन्मानार्थं चाभिजग्मुर्यत्रैते व्यूहमूर्तयः ।
अक्षतैश्चन्दनैः पुष्पैर्जयशब्दैः पुनः पुनः ॥२७॥
वर्धिताः सत्कृतास्ते च बालकृष्णालयं ययुः ।
बालकृष्णस्तदा नैजं रूपं दधार धामगम् ॥२८॥
वासुदेवसमूहास्तु यन्मूर्तौ यान्ति लीनताम् ।
कोटिगोलोकवैकुण्ठाधिपाः प्रयान्ति लीनताम् ॥२९॥
तादृशं परधामस्थं दिव्यरूपं दधार सः ।
दिव्ये गजासनेऽनादिकृष्णनारायणो हरिः ॥३०॥
कोटिमुक्तगणैर्जुष्टः तत्स्थमूर्तिर्व्यराजत ।
तदा व्यूहान् विहायाऽन्यचक्षूंषि श्रीहरौ क्षणात् ॥३१॥
न प्रावर्तन्त वै पराभूतानि हरितेजसा ।
पराभूताक्षिकमलाः सुराद्या निर्ययुस्ततः ॥३२॥
स्वस्वस्थानं ययुः सर्वे ततो व्यूहान् हरिस्तथा ।
पितरौ स्वागतं प्रेम्णा चक्रतुर्भवनांगणे ॥३३॥
बालकृष्णस्य भवने विविशुस्ते सदीश्वराः ।
गजासनस्थितं स्वेष्टं ववन्दिरे च नेमिरे ॥३४॥
कृत्वा च दण्डवद् भूमौ पूजनं चक्रिरे मुदा ।
वासुदेवो ददौ दिव्यं मुकुटं मस्तके हरेः ॥३५॥
ललाटे चन्दनं तैलसारं संकर्षणो ददौ ।
तिलकं चन्द्रकं गन्धसारं प्रद्युम्न आर्पयत् ॥३६॥
नेत्रयोः कज्जलं रम्यं रञ्जनादि समार्पयत् ।
कर्णयोः कुण्डले गुच्छौ कर्णपूराऽवतंसकान् ॥३७॥
वासुदेवो ददौ कण्ठे सौवर्णमालिकाः शुभाः ।
हारान् हीरकमाणिक्यमुक्ताञ्चितान् सकौस्तुभान् ॥३८॥
ददौ संकर्षणो रम्यान् कटकान् शृंखलास्तथा ।
ऊर्मिकाङ्गूलीयकानि प्रकोष्ठशृंखलास्तथा ॥३९॥
रशनां च सुमञ्जीरे ददौ स्वर्णेऽनिरुद्धकः ।
पादुके दिव्यमृदुले चामरे चातपत्रकम् ॥४०॥
यष्टिं च कानकीं रत्ननद्धां करे तु नक्तकम् ।
सौगन्धं पुष्पपत्रादिग्रन्थिं संकर्षणो ददौ ॥४१॥
प्रद्युम्नश्चार्पयामास सौवर्णस्थालिकां शुभाम् ।
मिष्टान्नामृतसम्पूर्णफलबीजादिसंभृताम् ॥४२॥
अनिरुद्धोऽमृतपानं ददौ ताम्बूलकं तथा ।
आरार्त्रिकं चकाराऽसौ वासुदेवः स्वयं प्रभुः ॥४३॥
प्रदक्षिणं नमस्कारं दण्डवत् चक्रुरीश्वराः ।
पुष्पाञ्जलीन् ददुः कृष्णं तुष्टुवुः परमेश्वराः ॥४४॥
त्वमनादिकृष्णनारायणः श्रीपुरुषोत्तमः ।
राजमानः परे धाम्नि द्विभुजोऽक्षरसेवितः ॥४५॥
तन्मुक्तैस्तव मुक्तैश्च सेवितः परमेश्वरः ।
परब्रह्म परमात्मा परस्त्वं भगवान्प्रभुः ॥४६॥
त्वत्तो मुक्ताः प्रकाशन्ते लीयन्ते विग्रहे तव ।
तवान्तिके च तिष्ठन्ति तवानन्दातिनन्दिताः ॥४७॥
असंख्या ब्रह्मभावाश्च ब्रह्मप्रिया भवत्समाः ।
ऐश्वर्यशक्तयस्ते च तव विग्रहजा हि ताः ॥४८॥
तव सेवां प्रकुर्वन्ति मुक्तान्यो ब्रह्मविग्रहाः ।
त्वत्तो जाता वयं व्यूहा अवतारास्तथेश्वराः ॥४९॥
ईश्वराण्यस्तथा माया पूरुषाः कालवत्सराः ।
वैराजा वैष्णवाश्चापि ब्राह्मणाः शांभवास्तथा ॥५०॥
विग्रहास्तव मूर्तेर्वै समुत्पन्ना महर्षयः ।
पितरो मुनयः सिद्धाः साधवः शीलयोगिनः ॥५१॥
सत्यः साध्व्यः सांख्ययोगव्रतिन्यः कान्तयोषितः ।
पतिव्रता तथा पत्नीव्रतो लक्ष्मीर्नरायणः ॥५२॥
पितरो दिव्यवासाश्च नरो नारायणस्तथा ।
पातालस्थाभूगृहाश्च क्षीरे शेषो नरायणः ॥५३॥
श्रीर्लीला भूः सती पद्मा गंगा प्रभा सरस्वती ।
माणिक्या सगुणा प्रेमा पारवती च मञ्जुला ॥५४॥
विभूतिः राधिका सीताऽमृता सन्तोषिका रमा ।
हंसा च दुःखहालक्ष्मीर्दया जया च तूलसी ॥५५॥
हैमी शान्ता च सावित्री वृन्दास्त्वेतास्तु शक्तयः ।
चम्पा ललिता कस्तूरी ओजस्वत्यादिकास्तथा ॥५६॥
कपिलो दत्त ईशानो नृसिंहो वामनो हरिः ।
हंसो मत्स्यस्तथा कूर्मो वराहो जिष्णुरित्यपि ॥५७॥
हरिः पृथुश्च गोपालो हंसः ऋषभ ईशिता ।
रामः परशुरामश्च बलश्च भगवान् शुकः ॥५८॥
वल्लभश्चापि हेमन्तो देवप्रकाश इत्यमी ।
यज्ञः कुमारयोगाश्च तवैवांशविभूतयः ॥५९॥
तत्त्वानि तत्त्वचैतन्यं गुणशक्तिरसादयः ।
तवांशा भगवन् सर्वे येषु त्वमोत एव च ॥६०॥
त्वयि प्रोतं तथा सर्वं त्वमेव पतिरुत्तमः ।
तव दर्शनलाभार्थं बालं वीक्षितुमुत्सुकाः ॥६१॥
दर्शनं प्राप्तवन्तश्च कृतकृत्या वयं प्रभो ।
इत्युक्त्वा प्रणताः पुष्पाञ्जलिं दत्वा सुखस्थिताः ॥६२॥
बालकृष्णस्तु तं राधे तदाऽऽहाऽर्थयितुं वरम् ।
वासुदेवस्तदा प्राह वासं ते चरणे सदा ॥६३॥
देहि नाथ कृपासिन्धो व्यूहेच्छां सम्प्रपूरय ।
तथास्त्विति प्रभुः प्राह चकारैषां तनुद्वयम् ॥६४॥
कुंकुमवाप्यां वासार्हं व्यूहतीर्थेऽवसद्धि तत् ।
द्वितीयं मूलरूपं च व्यूहचतुष्टयं तु यत् ॥६५॥
श्रीहरेराज्ञया तत्तु ययौ द्वीपं सितं ततः ।
तस्माद् ययौ सत्यलोकं ततोऽव्याकृतधाम च ॥६६॥
एवं ते वासुदेवाद्या व्यूहसंज्ञा महेश्वराः ।
जीवेशसृष्टिशास्तारो राधिके श्रीहरेः पुरः ॥६७॥
सर्वदा वासमाचक्रुश्चाश्वपट्टसरोवरे ।
तीर्थतोयतटे तेषां मन्दिरं परमं शुभम् ॥६८॥
वासुदेवालयाख्यं च निर्मितं विश्वकर्मणा ।
श्रीहरेराज्ञया तत्र राजन्ते भ्रातरश्च ते ॥६९॥
अनादिश्रीकृष्णनारायणस्य पट्टशिष्यके ।
स्वयंप्रकाशे लीनाश्च वर्तन्ते व्यूहसंज्ञकः ॥७०॥
भगवन्तश्च चत्वारश्चैतन्यमूर्तिरूपिणः ।
व्यूहस्यैवाऽवतारः स स्वयंप्रकाश ईशपः ॥७१॥
वासुदेवः स्वयं चास्ते चतुर्गुणसमन्वितः ।
दिव्यं चतुर्भुजं चैनं स्वयंप्रकाशं मानवाः ॥७२॥
येऽर्चयिष्यन्ति ते पुण्यं लप्स्यन्ते व्यूहजं फलम् ।
शृणु त्वं राधिके वासुदेवं स्वयं प्रकाशकम् ॥७३॥
पूजनार्थं सदा प्रातः प्रयान्त्येव च तत्प्रियाः ।
वासुदेवस्य वै पत्नी लक्ष्मीर्मा हरिणी तु या ॥७४॥
संकर्षणस्य या पत्नी सुनन्दा सा महासती ।
प्रद्युम्नस्य प्रिया धीश्च सर्वपोषणकारिणी ॥७५॥
अनिरुद्धस्य सुशीला चतस्रस्ताः स्त्रियः खलु ।
चतुःश्रियो विमानेन नित्यं यान्ति च राधिके ॥७६॥
पश्याऽयं समयश्चास्ते ब्राह्मस्तासां प्रवासयुक् ।
तावत्तासां विमानं च निर्यातं राधिकापुरः ॥७७॥
राधिका ताः प्रवीक्ष्यैव विमानादवरोहयन् ।
राधिका तु समुत्थाय नत्वा चाश्लिष्य भावतः ॥७८॥
प्रसन्ना स्वागतं चक्रे मधुपर्कं तथासनम् ।
ददौ पूजां प्रचकाराऽऽतिथ्यं पूर्णं चकार च ॥७९॥
कुशलं परिपप्रच्छ ता अपि राधिकां तथा ।
राधाऽऽह क्व प्रयाणं वः प्रातः सञ्जायते प्रियाः ॥८०॥
ताः प्राहुर्नः पतिः श्रीशः स्वयंप्रकाशनामतः ।
व्यूहावतारो भगवान् वर्ततेऽश्वसरोवरे ॥८१॥
अनादिश्रीकृषगनारायणशिष्यो महाप्रभुः ।
अस्मत्पतीनामंशाश्च चत्वारस्तत्र सन्ति हि ॥८२॥
वर्तते मानवे भावे बालब्रह्मव्रतान्वितः ।
कुमारस्तस्य पूजार्थं गच्छामो नित्यमेव वै ॥८३॥
त्वया स्मृतास्ततो राधे त्वागतास्त्वत्र हर्षिताः ।
इत्युक्त्वा राधिकां तास्तु पूजयामासुरुत्सुकाः ॥८४॥
सर्वशृंगारद्रव्याणि राधिकायै ददुर्हि ताः ।
आज्ञामादाय च तूर्णं ययुश्चाश्वसरोवरम् ॥८५॥
हरिणी च सुनन्दा च धीः सुशीला च ता इमाः ।
पत्यंशं सम्प्रपूज्यैव कुसुमाक्षतचन्दनैः ॥८६॥
पत्यंगुष्ठजलं पीत्वा भोजयित्वा च तं ततः ।
आरार्त्रिकादिकं कृत्वा प्रसादमाप्य तस्य च ॥८७॥
पादसंवाहनं कृत्वा ततः श्रीकंभराश्रियम् ।
नत्वा सम्मिल्य च पूजां दत्वा प्राप्य शुभां गिरम् ॥८८॥
अनादिश्रीकृष्णनारायणं प्रति ययुस्ततः ।
पूजयित्वा परेशेशं नत्वा स्तुत्वा पुनः पुनः ॥८९॥
आरार्त्रिकं हरेः कृत्वा तस्थुर्दध्युः क्षणं हरिम् ।
प्रभुः प्राह प्रसन्नोऽस्मि वरं वृणुत चेप्सितम् ॥९०॥
तदा ताः प्राहरस्माकं वासस्त्वत्र यथा भवेत् ।
पातिव्रत्यं प्ररक्ष्येत तथोभयत्र सेवने ॥९१॥
वाञ्च्छापूर्तिं सदा कृष्णनारायण विधापय ।
तथास्त्विति हरिः प्राह रूपद्वयं विधाय च ॥९२॥
तीर्थरूपाणि चत्वारि व्यूहतीर्थे न्यवासयत् ।
मन्दिरे प्रतिमास्वासां वासं चाकारयत् प्रभुः ॥९३॥
यथा दिव्यस्वरूपैर्हि स्वयप्रकाशसेवनम् ।
भवेत्तथा कृतं ताभिः कृते नारायणेन वै ॥९४॥
अन्यानि मूलरूपाणि चाज्ञामादाय वै ततः ।
ययुस्त्वव्याकृतं धाम वासुदेवादिसंश्रितम् ॥९५॥
इत्येवं राधिके दुष्टं भवत्या चाक्षिगोचरम् ।
अनादिश्रीकृष्णनारायणायस्यैश्वर्यमद्भुतम् ॥९६॥
किमहं तस्य वक्ष्यामि प्रतापं परमेशितुः ।
यद्गुणानां कीर्तनेन भुक्तिर्मुक्तिर्ध्रुवा सदा ॥९७॥
यत्रैश्वर्याणि सततं वर्तन्ते दिव्यविग्रहैः ।
यत्रेश्वरेश्वराश्चापि वर्तन्ते दिव्यविग्रहैः ॥९८॥
यत्रावतारहरयो वर्तन्ते दिव्यविग्रहैः ।
यत्र सृष्टीश्वराः सर्वे सुराश्च दिव्यविग्रहैः ॥९९॥
यत्र ब्रह्मप्रिया मुक्ता वर्तन्ते दिव्यविग्रहैः ।
अनादिश्रीकृष्णनारायणप्रसन्नताप्तये ॥१००॥
तस्य क्षेत्रस्य महिमा वर्णयितुं न शक्यते ।
ज्येष्ठस्य पूर्णिमायां तद् व्यूहतीर्थं सरस्यभूत् ॥१०१॥
आषाढद्वितीयायां च श्रीचतुष्टयतीर्थकम् ।
स्वयंप्रकाशतीर्थं च पावनं तदभूत् तदा ॥१०२॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने व्यूहचतुष्टयश्रीचतुष्टययोः कुंकुमवापीतीर्थागमनं स्वयंप्रकाशतीर्थं व्यूहचतुष्टयतीर्थं चेत्यादिनिरूपणनामा चतुर्नवतितमोऽध्यायः ॥९४॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP