संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १५१ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १५१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १५१ Translation - भाषांतर श्रीकृष्ण उवाचशृणु त्वं राधिके देवायताय प्राह यद्धरिः ।प्रत्यधिदेवताद्यावाहनाद्यं कथयामि ते ॥१॥मध्ये सूर्यस्य वै वामे रक्तपुष्पाक्षतादिभिः ।ओं भूर्भुवः स्वश्च अग्निमावाहयाम्येतिष्ठ च ॥२॥ओं अग्निं दूतं पुरोदधे हव्यवाहमुपब्रुवे ।देवानासादययादिह अग्नेऽर्चयामि ते नमः ॥३॥आग्नेय्यां चन्द्रवामे च श्वेतपुष्पाक्षतैर्जलम् ।ओं भूर्भुवः स्वश्च जलमाह्वयाम्येहि तिष्ठ च ॥४॥ओं अप्स्वग्नेऽसधिष्टव सौषधीरनुरुद्ध्यसे ।गर्भे सञ्जायसे पुनः जलाऽर्चयामि ते नमः ॥५॥दक्षिणे भौमपार्श्वे तु भूमिं रक्तसुमाऽक्षतैः ।ओं भूर्भुवः स्वः क्षिते चाह्वयाम्येहि तिष्ठ च ॥६॥ओं स्योना पृथिवी नो भवानृक्षरा निवेशिनी ।यच्छा नः शर्म सप्रथाः भूमेऽर्चयामि ते नमः ॥७॥ईशान्यां बुधवामे च विष्णुं पीतसुमाऽक्षतैः ।ओं भूर्भुवः स्वः विष्णो आह्वयाम्येहि तिष्ठ च ॥८॥ओं इदं विष्णुर्विचक्रमे त्रेधा वै निदधे पदम् ।समूढमस्य पांसुरे विष्णोऽर्चयामि ते नमः ॥९॥उत्तरे गुरुवामे च इन्द्रं पीतसुमाक्षतैः ।ओं भूर्भुवः स्वः इन्द्र आह्वयाम्येहि तिष्ठ च ॥१०॥ओं सजोषा इन्द्र सगणो मरुद्भिःसोमं पिब वृत्रहा शूर विद्वान् ।जहि शत्रूँरप मृधो नुदस्वाथाभयंकृणुहि विश्वतो नः ॥११॥पूर्वे शुक्रस्य च वामे पीतसुमाक्षतैः शचीम् ।ओं भूर्भुवः स्वः इन्द्राण्याह्वयाम्येहि प्रतिष्ठ च ॥१२॥ओं अदित्यै रास्नासीन्द्राण्या उष्णीषः ।पूषासि घर्म्माय दीष्वेन्द्राण्यर्चयामि ते नमः ॥१३॥पश्चे वामे शनेः श्वेतपुष्पाक्षतैः प्रजापतिम् ।ओं भूर्भुवः स्वः प्रजापते ह्वयाम्ये हि तिष्ठ च ॥१४॥ओं प्रजापते न त्त्वदेतान्न्यन्यो विश्वा रूपाणि परिता बभूव ।यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ॥१५॥राहोर्वामे च नैर्ऋत्यां नागं कृष्णसुमाक्षतैः ।ओं भूर्भुवः स्वः नागाऽऽवाहयाम्येहि तिष्ठ च ॥१६॥ओं नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु ।येऽन्तरीक्षे ये दिवि तेभ्योऽर्चयामि वो नमः ॥१७॥केतोर्वामे च वायव्यामजं श्वेतसुमाक्षतैः ।ओं भूर्भुवः स्वः ब्रह्मन्नाह्वयाम्येहि तिष्ठ च ॥१८॥ओं व्रह्मयज्ञानं प्रथमं पुरस्ताद् विसीमतः सुरुचो वेन आवः ।सबुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च व्विवः ॥१९॥अथ चावाहयेत् पञ्चलोकपालान् सुरक्षकान् ।नैर्ऋत्यामुत्तरे राहोः पीतपुष्पाक्षतादिभिः ॥२०॥ओं भूर्भुवः स्वः गणेशं ह्वयाम्येहि च तिष्ठ च ।गन्धपुष्पाक्षतैर्नैवेद्यैरभ्यर्च्य नमामि ते ॥२१॥ओं गणानां त्वा गणपतिं हवामहेप्रियाणां त्वा प्रियपतिं हवामहे ।निधीनां त्वा निधिपतिं हवामहेवसो मम गणेशं प्रणमामि च ॥२२॥आहमजानि गर्भधमात्त्वमजासि गर्भधम् ।शन्युत्तरे पश्चिमे च दुर्गां रक्तसुमाऽक्षतैः ॥२३॥ओं भूर्भुवः स्वः दुर्गे ह्रयाम्येहि च तिष्ठ च ।पूजयामि प्रणमामि सुखं कुरु जने नमः ॥२४॥ओं जातवेदसे सुनवामसोममरातीयतो निजहाति वेदः ।स नः पर्षदति दुर्गाणि विश्वानावेव सिन्धुं दुरितात्यग्निः ॥२५॥मध्ये सूर्योत्तरे वायुं पीतपुष्पाक्षतादिभिः ।ओं भूर्भुवः स्वः वायो इहागच्छ च तिष्ठ च ॥२६॥ओं आ नो नियुद्भिः शतिनी-भिरुद्धरं सहस्रिणीभिरुपयाहि यज्ञम् ।वायो अस्मिन् सवने मादयस्वयूयं पात स्वस्तिभिः सदा नः ॥२७॥पूर्वे शुक्रपूर्वभागे ह्याकाशं नीमपुष्पकैः ।ओं भूर्भुवः स्वः आकाश आगच्छात्र च तिष्ठ च ॥२८॥ओं घृतं घृतपावानः पिबत वसां वसपावानः पिबतान्तरिक्षस्य हविरसि स्वाहा ।दिशः प्रदिशः आदिशो विदिश उद्दिशोदिग्भ्यः स्वाहा पूजयामि नमामि च ॥२९॥राहोर्दक्षे च नैर्ऋत्यां श्वेतपुष्पाक्षतादिभिः ।ओं भूर्भुवः स्वोऽश्विनाविहागच्छत तिष्ठतम् ॥३०॥ओं या वां कशा मधुमत्यश्विना सूनृतावती ।तया यज्ञं मिमिक्षतामश्विनौ पूजयामि च ॥३१॥धूपं दीपं च नैवेद्यं देवान् प्रार्प्य नमामि च ।अथ पूर्वादिकाष्ठासु चेन्द्रादीनाह्वयेन्मखी ॥३२॥पूर्वे ओं भूर्भुवः स्वश्चेन्द्र इहागच्छ च तिष्ठ च ।पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ॥३३॥आग्नेय्यां ओं भूर्भुवः स्वरग्ने आगच्छ तिष्ठ च ।पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ॥३४॥दक्षिणे ओं भूर्भुवः स्वः यम चागच्छ तिष्ठ च ।पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ॥३५॥नैर्ऋत्यामों भूर्भुवः स्वः निर्ऋते चैहि तिष्ठा च ।पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ॥३६॥पश्चिमे ओं भूर्भुवः स्वः वरुणागच्छ तिष्ठ च ।पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ॥३७॥वायव्यामों भूर्भुवः स्वः वायो आगच्छ तिष्ठ च ।पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ॥३८॥उत्तरे ओं भूर्भुवः स्वः कुबेरागच्छ तिष्ठ च ।पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ॥३९॥ईशान्यामोंभूर्भुवः स्वः ईशानागच्छ तिष्ठ च ।पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ॥४०॥ईशानपूर्वयोर्मध्ये ब्रह्माणमाह्वयामि च ।ओं भूर्भुवः स्वः ब्रह्मन्नत्रागच्छ च तिष्ठ च ॥४१॥पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।निर्ऋतिवारुणमध्येऽनन्तं ह्वयामि नौमि च ॥४२॥ओं भूर्भुवः स्वश्चानन्त इहागच्छ च तिष्ठ च ।पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ॥४३॥अथ मण्डलमध्यस्थपितामहादि चाह्वयेत्॥ओं भूर्भुवः स्वः ब्रह्मन्निहागच्छ च तिष्ठ च ॥४४॥पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।ओं भूर्भुवः स्वः शिव इहागच्छ च तिष्ठ च ॥४५॥पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।ओं भूर्भुवः स्वः विष्णो इहागच्छ च तिष्ठ च ॥४६॥पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।ओं भूर्भुवः स्वः गणपते इहागच्छ च तिष्ठ च ॥४७॥पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।ओं भूर्भुवः स्वः लक्ष्मि इहागच्छ च तिष्ठ च ॥४८॥पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।ओं पञ्चनद्यः सरस्वतीमपियन्ति सस्रोतसः ॥४९॥सरस्वती तु पञ्चधा सा वै देशेऽभवत् सरित् ।ओं भूर्भुवः स्वः सरस्वति इहागच्छ च तिष्ठ च ॥५०॥पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।ओं अम्बेऽम्बिकेऽम्बालिके न मा नयति कश्चन ॥५१॥ससस्त्यश्वकः शुभद्रिकां कांपीलवासिनीम् ।ओं भूर्भुवः स्वः दुर्गे इहागच्छ च तिष्ठ च ॥५२॥पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।ओं भूर्भुवः स्वः क्षेत्रपाल इहागच्छ च तिष्ठ च ॥५३॥पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।ओं भूर्भुवः स्वः भूतानि इहागच्छत तिष्ठत ॥५४॥पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।ओं भूर्भुवः स्वः विश्वकर्मन्निहागच्छ च तिष्ठ च ॥५५॥पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।देशकालौ प्रसंकीर्त्य यज्ञसिद्ध्यर्थमुत्तमम् ॥५६॥करोमि पूजनं सर्वदेवानां चन्दनादिभिः ।ओं सूर्यादिनवग्रहेभ्यो नमः शान्तिदा हि नः ॥५७॥ओं रुद्रादिदेवताभ्यो नमः रक्षाप्रदा हि नः ।ओमग्न्यादिदेवताभ्यो नमस्तेजःप्रदा हि नः ॥५८॥ओं गणेशादिलोकप्रपालेभ्यो नम इष्टदाः ।ओमिन्द्रादिदिक्प्रपालेभ्यो नमः पुष्टिदा हि नः ॥५९॥ब्रह्मादिविश्वकर्मान्तेभ्यो नमः सम्पदांप्रदाः ।इति सम्पूज्य च मखी ग्रहवेदीसमीपतः ॥६०॥भूमौ तत्तन्नाममन्त्रैर्बलिं दद्याच्च तद्यथा ।गुडौदनं तु सूर्याय सोमाय घृतपायसम् ॥६१॥मसूरान्नं मंगलाय बुधाय क्षीरमोदनम् ।दध्योदनं तु गुरवे शुक्राय च घृतौदनम् ॥६२॥शनये तिलपिष्टं च पायसं राहवे तथा ।चित्रौदनं केतवे च ह्यन्येभ्यः पायसं बलिम् ॥६३॥दत्वा ततश्चैशकोणे कलशं स्थापयेन्मखी ।ओं भूरसीतिमन्त्रेण भूमिस्पर्शनमाचरेत् ॥६४॥ओं धान्यमसीति मनुना भूमौ धान्यं क्षिन्पेमखी ।ओमाजिघ्रेतिमन्त्रेण धान्योपरि न्यसेद् घटम् ॥६५॥ओं वरुणस्येत्युदकं च कलशे परिपूरयेत् ।ओं वसोः पवित्रेति मनुना वस्त्रं कण्ठे च वेष्टयेत् ॥६६॥ओं याः फलिनीति मनुना पूगीफलं समर्पयेत् ।ओं परिवाजेतिमनुना पञ्चरत्नानि निक्षिपेत् ॥६७॥ओं हिरण्यगर्भेति मनुना हिरण्यं च समर्पयेत् ।ओं गन्धद्वारेतिमनुना गन्धादिकं समर्पयेत् ॥६८॥ओं या ओषधीरिति च सवौषधीः समक्षिपेत् ।अश्वस्थानाद् गजस्थानाद् वल्मीकात् संगमाद् हृदात् ॥६९॥राजद्वाराद् गोकुलाच्च मृदमानीय निक्षिपेत् ।ओं काण्डात्काण्डमिति दुर्वां कलशे तु समक्षिपेत् ॥७०॥ओमश्वत्थेतिमन्त्रेण पञ्चपल्लवकान् क्षिपेत् ।ओं पवित्रेणस्थमन्त्रेण पवित्राणि विनिक्षिपेत् ॥७१॥ओं पूर्णा दर्वीति तन्दुलपात्रं च कलशे क्षिपेत् ।ओं श्रीश्च त इतिमन्त्रेण श्रीफलं कलशे क्षिपेत् ॥७२॥एवं घटं प्रतिष्ठाप्य वरुणं सलिले ह्वयेत् ।ओं तत्त्वायामीति मन्त्रेण वरुणं प्रसमाह्वयेत् ॥७३॥ओं भूर्भुवः स्वः वरुण इहागच्छ च तिष्ठ च ।पूजयामि नमस्ते च षोडशोपसुवस्तुभिः ॥७४॥सर्वे समुद्राः सरितस्तीर्थान्यपि सरांसि च ।जलदाश्च समायान्तु सर्वदुरीतनाशकाः ॥७५॥सर्वे देवाः कलशे तु प्रतितिष्ठन्ति पावकाः ।कलशस्य मुखे चेति कलशं चाभिमन्त्रयेत् ॥७६॥देवदानवमन्त्रेण कलशं प्रार्थयेत् ततः ।अथ वै सर्वतोभद्रमण्डलस्य च पूजनम् ॥७७॥प्रागुदीच्यां गता रेखाः कुर्यादेकोनविंशतिम् ।खण्डेन्दुस्त्रिपदः कोणे, शृंखला पञ्चभिः पदैः ॥७८॥एकादशपदा वल्ली भद्रं तु नवभिः पदैः ।चतुर्विंशत्पदा वापी विंशत्या परिधिः पदैः ॥७९॥मध्ये षोडशभिः कोष्ठैः पद्मष्टदलं स्मृतम् ।श्वेतेन्दुः शृंखला कृष्णा वल्लीर्नीलेन पूरयेत् ॥८०॥भद्राऽरुणा सिता वापी परिधिः पीतवर्णकः ।बाह्यान्तरदलश्वेता कर्णिका पीतवर्णका ॥८१॥परिध्यावेष्टितं पद्मं बाह्ये सत्त्वं रजस्तमः ।तन्मध्ये स्थापयेद्देवान् ब्रह्माद्यांश्च सुरेश्वरान् ॥८२॥देशकालौ च संकीर्त्य देवस्थापनकर्मसु ।सर्वतोभद्रके षटपञ्चाशद्देवान् समाह्वयेत् ॥८३॥गृहीत्वा चाक्षतान्मध्ये ब्रह्माणं तु समाह्वयेत् ।ओं भूर्भुवः स्वः ब्रह्मन्निहागच्छ च तिष्ठ च ॥८४॥पूजयामि संस्मरामि नमामि गृह्ण पूजनम् ।उत्तरे ओं भूर्भुवः स्वः सोममावाहयामि च॥८५॥पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।ईशान्याम् ओं भूर्भुवः स्वः ईशानमाह्वयामि च ॥८६॥पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।पूर्वस्यां ओं भूर्भुवः .स्वः इन्द्रमावाहयामि च ॥८७॥पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।आग्नेय्यां ओं भूर्भुवः स्वः अग्निमावाहयामि च ॥८८॥पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।दक्षिणे ओं भूर्भुवः स्वः यममावाहयामि च ॥८९॥पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।नैर्ऋत्याम् ओं भूर्भुवः स्वः निर्ऋतिमाह्वयामि च ॥९०॥पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।पश्चिमे ओं भूर्भुवः स्वः वरुणमाह्वयामि च ॥९१॥पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।वायव्याम् ओं भूर्भुवः स्वः वायुमावाहयामि च ॥९२॥पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।उत्तरे ओं भूर्भुवः स्वः कुबेरमाह्वयामि च ॥९३॥पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।ईशाने ओं भूर्भुवः स्वः ईशानमाह्वयामि च ॥९४॥पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।ईशानपूर्वयोर्मध्ये ब्रह्माणमाह्वयामि च ॥९५॥ओं भूर्भुवः स्वः ब्रह्मन्निहागच्छ च तिष्ठ च ।पूजयामि संस्मरामि नमामि सुखदो भव ॥९६॥वायुसोमान्तरालेऽष्टवसूनावाहयामि च ।.ओं भूर्भुवः स्वः वसव इहागच्छत तिष्ठत ॥९७॥पूजयामि संस्मरामि नमामि सुखदा हि नः ।सोमेशानान्तराले च रुद्रानावाहयामि च ॥९८॥ओं भूर्भुवः स्वः रुद्रा इहागच्छत तिष्ठत ।पूजयामि संस्मरामि नमामि सुखदा हि नः ॥९९॥ईशानपूर्वयोर्मध्ये आदित्यानाह्वयामि च ।ओं भूर्भुवः स्व आदित्या इहागच्छत तिष्ठत ॥१००॥इन्द्राग्न्यान्तरभागेऽश्विकुमारावाह्वयामि च ।ओं भूर्भुवः स्वः अश्विनाविहागच्छतं तिष्ठतम् ॥१०१॥पूजयामि संस्मरामि नमामि सुखदौ हि नः ।ओमग्नियमयोर्मध्ये विश्वेदेवान् सपितृकान् ॥१०२॥आह्वयामि भूर्भुवः स्वः पितरस्तिष्ठताऽत्र च ।पूजयामि संस्मरामि नमामि सुखदा हि नः ॥१०३॥यमनैर्ऋतयोर्मध्ये यक्षानावाहयामि च ।ओं भूर्भुवः स्वः यक्षाः समागच्छत तिष्ठत ॥१०४॥पूजयामि संस्मरामि नमामि सुखदा हि नः ।नैर्ऋतिवरुणान्तर्भ्वां भूतनागान् ह्वयामि च ॥१०५॥ओं भूर्भुवः स्वः भूता इहागच्छत तिष्ठत ।पूजयामि संस्मरामि नमामि सुखदा हि नः ॥१०६॥तत्रैव भूर्भुवः स्वः सर्पानाह्वयामि तिष्ठत ।पूजयामि संस्मरामि नमामि सुखदा हि नः ॥१०७॥वरुणवाय्वन्तरे च गन्धर्वाप्सरसस्तथा ।भूर्भुवः स्वश्चार्चयामि स्मरामि च नमामि च ॥१०८॥तत्रैव भूर्भुवः स्वश्चाप्सरसश्चापि तिष्ठत ।पूजयामि संस्मरामि नमामि सुखदा हि नः ॥१०९॥ओं पुञ्जिकस्थली क्रतुस्थली चाप्सरसौ दंक्ष्णवः ।पशवो हेतिः पौरुषेयो वधः प्रहेतिस्तेभ्यो नमो अस्तु ॥११०॥ब्रह्मसोमयोर्मध्ये स्कन्दं शूलं च नन्दिनम् ।भूर्भुवः स्व आह्वयामि स्मरामि च नमामि च ॥१११॥पूजयामि इह स्थाने समागच्छत तिष्ठत ।नन्दीश्वराय श्क्राय महाकालाय वो नमः ॥११२॥ब्रह्मेशानान्तराले च सप्तप्रजापतीन् शुभान् ।भूर्भुवः स्वः प्रजेशाना इहागच्छत तिष्ठत ॥११३॥पूजयामि संस्मरामि नमामि सुखदा हि नः ।ब्रह्मेन्द्रयोर्मध्यभागे दुर्गे चागच्छ तिष्ठ च ॥११४॥भूर्भुवः स्वः दुर्गामाह्वयामि नौम्यर्चयामि च ।दुर्गापूर्वे भूर्भुवः स्वः विष्णुमावाहयामि च ॥११५॥पूजयामि संस्मरामि नौम्यागच्छ च तिष्ठ च ।ब्रह्माग्न्योर्मध्यके पितॄनाह्वयामि च तिष्ठत ॥११६॥भूर्भुवः स्वः पितरश्चागच्छतार्चयामि च ।ब्रह्मयमयोर्मध्ये च मृत्युरोगान् ह्वयामि च ॥११७॥ओं परं मृत्यो अनुपरे हि पन्था यस्तेअन्य इतरो देवयानात् ।चक्षुष्मते शृण्वते ब्रवीमि मानःप्रजां रीरिषो मोत वीरान् ॥११८॥पूजयामि संस्मरामि नौम्यागच्छत तिष्ठत ।ब्रह्मनिर्ऋत्यन्तराले गणेशं चाह्वयामि च ॥११९॥भूर्भुवः स्वः गणेश इहागच्छ च तिष्ठ च ।पूजयामि संस्मरामि नमामि सुखदो भव ॥१२०॥ब्रह्मवरुणयोर्मध्ये अपश्चाह्वयामि च ।भूर्भुवः स्वः आप इहागच्छत तिष्ठत ॥१२१॥पूजयामि संस्मरामि नमामि सुखदा हि नः ।ब्रह्मवायव्यन्तराले च मरुत आह्वयामि च ॥१२२॥ब्रह्मपादे पृथिवीमावाहयामि नमामि च ।भूर्भुवः स्वः पृथिवी इहागच्छ च तिष्ठ च ॥१२३॥पूजयामि संस्मरामि नमामि सुखदा भव ।तत्रैव सप्तनद्यश्च इहागच्छत तिष्ठत ॥१२४॥भूर्भुवः स्वश्च गंगाद्याः पूजयामि नमामि च ।गंगे च यमुने सरस्वति शतद्रुतापिके ॥१२५।उष्णाऽसिक्नी सप्तनदीः स्मरामि च नमो नमः ।तत्रैव सप्तवार्धींश्च आह्वयामि नमामि च ॥१२६॥भूर्भुवः स्वः सागराश्च समागच्छत तिष्ठत ।पूजयामि संस्मरामि तृप्तिदाः सुखदा हि नः ॥१२७॥तदूर्ध्वे मेरुमाह्वयाम्यागच्छ चात्र तिष्ठ च ।भूर्भुवः स्वश्च मेरो त्वां नौमि मे सुखदो भव ॥१२८॥अथ वै मण्डलाद् बाह्ये सोमादिसन्निधौ क्रमात् ।उत्तरे तु गदामावाहयामि स्थापयामि च ॥१२९॥भूर्भुवः स्वश्च गदे इहागच्छ च तिष्ठ च ।ईशान्यां तु शूलमावाहयामि स्थापयामि च ॥१३०॥भूर्भुवः स्वश्च शूलक इहागच्छ च तिष्ठ च ।पूर्वे वज्रमाह्वयामि स्थापयामि नमामि च ॥१३१॥भूर्भुवः स्वश्च वज्र त्वमिहागच्छ च तिष्ठ च ।आग्नेय्यां शक्तिमावाहयामि संस्थापयामि च ॥१३२॥भूर्भुवः स्वश्चैहि चात्रागच्छ तिष्ठ नमामि ते ।दक्षिणस्यां दण्डमावाहयामि स्थापयामि च ॥१३३॥नैर्ऋत्यां खण्डहेतिं चावाहयामि नमामि च ।पश्चिमे पाशमावाहयामि संस्थापयामि च ॥१३४॥वायव्यामंकुशमावाहयामि स्थापयामि च ।भूर्भुवः स्वश्च दण्डाद्या इहागच्छत तिष्ठत ॥१३५॥पूजयामि संस्मरामि नमामि सुखदा हि नः ।तद्बाह्ये चोत्तरे गौतममाह्वयामि नौमि च ॥१३६॥ईशान्यां भारद्वाजं चाह्वयामि प्रणमामि च ।विश्वामित्रं च पूर्वस्यामाह्वयामि नमामि च ॥१३७॥आग्नेय्यां कश्यपमावाहयामि प्रणमामि च ।दक्षिणे जमदग्निं चावाहयामि नमामि च ॥१३८॥नैर्ऋत्यां च वशिष्ठं चावाहयामि नमामि च ।पश्चिमेऽत्रिमाह्वयामि पूजयामि नमामि च ॥१३९॥वायव्यां चारुन्धतीमाह्वयामि प्रणमामि च ।पूर्वे चैन्द्र्यै नमश्चाग्नौ कुमार्यै तु नमो नमः ॥१४०॥दक्षे ब्राह्म्यै नमो वाराह्यै नैर्ऋत्यां नमो नमः ।पश्चिमायां चामुण्डायै वैष्णव्यै वायुके नमः ॥१४१॥माहेश्वर्यै चोत्तरे चेशाने वैनायकीश्रियै ।नमः प्रपूजयामि संस्मरामि सुखदा हि नः ॥१४२॥षड्पंचाशद्देवगणानावाह्य परिपूजयेत् ।इत्याह श्रीहरिर्भक्तदेवायतनकाय तत् ॥१४३॥मया तेऽभिहितं राधे ऊह्या मन्त्रास्तदर्थगाः ।धूपदीपसुनैवेद्यैस्तर्पयेद् देवतागणान् ॥१४४॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रत्यधिदेवतावाहनलोकपालत्रिदेवदेवीग्रहावाहनादिघटस्थापनसर्वतोभद्रपूजनषट्पञ्चाशद्देवपूजनादिप्रदर्शननामैकपञ्चाशदधिकशततमोऽध्यायः ॥१५१॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP