संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २५९ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २५९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २५९ Translation - भाषांतर श्रीकृष्ण उवाच-समाकर्णय राधे त्वं ततश्चाश्वनृपः पुनः ।पप्रच्छ लोमशं यत् तत् प्रवदामि सतां हितम् ॥१॥अश्वपाटल उवाच-गुरो! स्वीयप्रकाशस्य निर्वेदः शाश्वताश्रयः ।कथं व्यजायत तत्त्वनिश्चयश्चाकृतेर्हरेः ॥२॥श्रीलोमश उवाच-ब्रह्मकल्लोलसंज्ञस्य पूर्वकल्पतपस्विनः ।भक्तविप्रस्य पुत्रोऽभून्नाम्ना त्रिविक्रमः प्रभुः ॥३॥श्रीहरेरवतारः स पुनः कल्पान्तरे हरिः ।त्रिविक्रमो बभूवाऽयं प्रबलेः राज्यहृत् तदा ॥४॥सोऽयं स्वर्णनदीतीरे ददर्शाऽमानवं नरम् ।अकस्माद् हृदये योगे नारायणह्रदस्थले ॥५॥शंखचक्रगदापद्मधनुःशूलशरान्वितम् ।ध्वजस्वस्तिकवज्रादिचिह्नदक्षकरान्वितम् ॥६॥हसन्तं तेजसा व्याप्तं प्रसन्नं दीर्घनेत्रकम् ।आजानुभुजमत्यर्थं चोज्ज्वलं श्रीसमन्वितम् ॥७॥स्वीयप्रकाशो भगवान् स्वं ददर्श तदन्तरे ।ब्रह्मरूपं वामनं त्रिविक्रमं प्रबलेर्गुरुम् ॥८॥निजां मूर्तिं विलोक्यैव श्रीमन्नारायणे तदा ।क्षणं मुमोह सहसा कोऽयं पृथङ् व्यचिन्तयम् ॥९॥ततो दिव्यदृशा नैजं मूलं रूपं बुबोध सः ।तुष्टाव श्रीकृष्णदेवं स्वामिनं परमेश्वरम् ॥१०॥अन्तरात्मन् परात्मँस्त्वं सर्वावतारधारक ।सर्वाविर्भावहेतुस्त्वं सर्वेषां हृदये स्थितः ॥११॥सर्वं ते हृदये चास्ते ब्रह्माऽब्रह्ममयं वपुः ।अहं पृथङ्निवासोऽस्मि चाऽपृथङवासवाँस्त्वयि ॥१२॥त्वमेव परमं तत्त्वं कृपया मेऽक्षि गोचरः ।गोचरे मम रूपं चाऽपरोक्षानुभवाञ्चितम् ॥१३॥आत्मदर्शनमासाद्य परमात्मप्रदर्शनम् ।उभदर्शनमासाद्य कृतकृत्योऽद्य संवृतः ॥१४॥आज्ञां देहि कृपासिन्धो जगद्बन्धो जनार्दन ।प्राप्य त्वां परमात्मानं प्राप्तव्यं नाऽवशिष्यते ॥१५॥कृत्वा त्वद्योगमुद्यानं कर्तव्यं नावशिष्यते ।इति स्तुतः प्रभुः श्रीशोऽनादिकृष्णनरायणः ॥१६॥स्वीयप्रकाशमूर्तौ तं निजस्थायां ततोऽधिकम् ।सर्वं संसारचक्रं च दर्शयामास चैक्यतः ॥१७॥ईश्वरान् ब्रह्मपुरुषान् मुक्तान् धामान्यनेकशः ।देवानृषीन् पितृगणान् देवेश्वराँश्च मानवान् ॥१८॥उरगान् राक्षसान् दैत्यान् दानवानासुरानपि ।पशून् पक्षिण एवापि स्थावरान् जडचेतनान् ॥१९॥महाभूतानि सर्वाणि तत्त्वानि प्रकृतिं स्थिराम् ।विकारान् देहभाजश्च दर्शयामास तल्लयान् ॥२०॥एवं प्रदर्शयित्वैव तिरोभावं चकार ह ।तदिदं चाऽपरोक्षं च ज्ञानं शाश्वतमात्मगम् ॥२१॥प्रकाशयित्वा तस्मै वै हृदयेऽस्थापयद् ध्रुवम् ।वरदानं ददौ तस्मै नित्यं तेऽस्तु प्रभामयम् ॥२२॥ज्ञानं चेदं स्वतःप्रकाशाख्यं मास्तु तिरोगतम् ।ततः आरभ्य देवोऽयं त्रिविक्रमः स्वतःप्रभः ॥२३॥स्वतःप्रकाशयोगी च ख्यातो बभूव योगिषु ।स चार्थयत् विलोक्यैव क्षेत्रं चाक्षरसंज्ञकम् ॥२४॥हृद्ये हरिवासाढ्यं चाश्वपट्टसरोन्वितम् ।निजवासार्थमत्यर्थं रूपं दिव्यं तथाविधम् ॥२५॥तथास्त्विति प्राह कृष्णनारायणश्च तत्क्षणम् ।दिव्यदेहोऽभवत्तत्र चतुर्भुजो नरायणः ॥२६॥मानसः श्रीहरेः शिष्यो नित्यज्ञानाश्रयः सुतः ।नारायणह्रदे तत्र कृष्णनारायणेन वै ॥२७॥साकं स्नात्वा ततस्तूर्णं कुंकुमवापिकास्थलीम् ।प्राप योगेन वेगेन बलेन कृपया हरेः ॥२८॥एवं जन्मान्तरं देहान्तरं वृत्त्यन्तरं तथा ।कायाकल्पं ह्यवापासौ पुत्रत्वं मुक्तसंज्ञया ॥२९॥अवतारस्वरूपेण विष्णुरूपेण सर्वदा ।अनादिश्रीकृष्णनारायणमानसजाकृतिम् ॥३०॥दिव्यामवाप्य सततं जातमात्रो नरायणः ।धर्मवैराग्यसम्पन्नो भक्तः षोडशहायनः ॥३१॥बभूव कुंकुमे क्षेत्रे प्रभुः कुंकुमवर्णकः ।नैसर्गशेवधिः सर्वविद्यानां स बभूव ह ॥३२॥सार्वज्ञ्याश्रय एवापि सर्वैश्वर्यसमन्वितः ।सर्वकल्याणकर्ताऽसौ योगिधर्मपरायणः ॥३३॥सर्वातिरेककार्यश्च सर्वातिरेकवर्णनः ।विचचाराऽक्षरे क्षेत्रे तस्मै कृष्णनरायणः ॥३४॥अन्वशात् सकलान् धर्मान् गुरुपूर्वीप्रसिद्धये ।लौकिकान् वैदिकाँश्चापि मानसाँश्च तदुत्तरान् ॥३५॥श्रीकृष्णनारायण उवाच-पुत्र त्वं सात्त्वतान् धर्मान् निषेवस्व हितावहान् ।प्राणं जय सहस्वाऽपि क्षुत्पिपासे हिमातपौ ॥३६॥जित्वेन्द्रियाणि तपसा सत्यं दमं प्रपालय ।अद्रोहमनसूयां चाऽऽर्जवं शीलं प्रपालय ॥३७॥देवपित्रतिथिप्राप्तशेषान्नयात्रिकां हव ।भज कृष्णं परेशं मां मा स्वपिहि तमोमये ॥३८॥फेनबुद्बुदवत्स्थैर्ये चेतनाश्रितगत्वरे ।आकस्मिकेऽज्ञवत्पुत्र मा विश्वासं विधेहि वै ॥३९॥अप्रमत्ता विनिद्राश्च नित्ययत्ना हि शत्रवः ।छिद्रं पश्यन्ति देहेऽस्मिन् मा त्वं तैर्धर्षितो भव ॥४०॥दिवसाः क्रमशो यान्ति कृन्तन्ति वै जनायुषम् ।जीवनं क्षीयते नित्यं गुरुं शरणमाव्रज ॥४१॥अज्ञाश्चेच्छन्ति देहाद्यैर्मांसशोणितवर्धनम् ।यदन्ते गत्वरं सर्वं प्रसुप्ता मोक्षसाधने ॥४२॥मा तन्मात्रेण पुत्र त्वं प्रयाहि प्राकृतो यथा ।प्रान्तदुःखैकमात्रेण याम्यभवनवाहिना ॥४३॥याहि सतां वृषस्थानां योगिनां च महात्मनाम् ।धर्म्यं पन्थानमेवाप्तं मोक्षदं चाक्षरान्तगम् ॥४४॥उपासस्व ततः सम्यक् पृच्छ धारय तद्वचः ।मनोमन्थं सन्नियच्छ स्थैर्यमावह सत्पतौ ॥४५॥धर्मं निःश्रेणिकां धृत्वा चारुह्य भक्तिभूमिकाम् ।आत्मनिष्ठाप्रवेगेण याहि धाम सनातनम् ॥४६॥वामतः कुरु विप्रेन्द्र नास्तिकान् भक्तिवर्जितान् ।आशां तृष्णां रुषं मोहं त्यज पुत्र च दूरतः ॥४७॥नावं योगं समालम्ब्य तर संसारवारिधिम् ।लोकोऽयं मृत्युना नीतो जरया मर्दितोऽभितः ॥४८॥वहत्येव वैतरण्यां ज्ञानपोतेन तं तर ।तिष्ठन्तं वा वहन्तं वा पिबन्तं शयने गतम् ॥४९॥मृत्युरन्वीक्षते मर्त्यं मा त्वं तत्करगो भव ।सञ्चिन्वानं सुखार्थांश्चाऽतृप्तं लुब्धं च मानिनम् ॥५०॥अनिर्वृत्तं विघ्नमर्द्यं गर्विष्ठं च विमार्गगम् ।आकस्मिकगतिर्मृत्युः सुप्तमादाय गच्छति ॥५१॥अन्धकारमयः कोष्ठो ब्रह्माण्डोदरनामकः ।तद्बहिर्गमनार्थं त्वं दीपं ज्ञानं प्रधारय ॥५२॥अनेकदेहचक्रेषु गच्छत्सु निष्फलेषु वै ।दिव्यपूण्येन ब्राह्मण्यं प्राप्तं ब्रह्ममयं वह ॥५३॥ब्रह्मदेहो महान् श्रेयान् क्षुद्रकामाय नोचितः ।मोक्षाय धर्मलाभाय तपसे श्रेयसे मतः ॥५४॥अमूल्यस्तादृशो मणिश्चिन्तितार्थफलप्रदः ।हेलनीयो न निर्मूल्यः क्षुद्रा कपर्दिका यथा ॥५५॥गूहते मुखमुपरिष्टादन्तरे कामसंभृता ।लज्जां प्रदर्शयत्यस्मै भोक्त्रे परजनान्तिके ॥५६॥अन्तर्विषामृतव्याप्ता बन्धयितुं च तत्परा ।यतते निजलाभार्थं भुक्त्वा दुःखाकरोति च ॥५७॥त्यजन्तं न त्यजत्येषा याति स्थानान्तरं सह ।तिरस्कृताऽपि संलग्ना वासनामूलबन्धना ॥५८॥निरयाख्या स्वसौधेषु वासयत्यतिथिं चिरम् ।प्रमत्तं मदपानेन पश्य मायाविचेष्टितम् ॥५९॥को नु तत्र भवेद् बद्धो रक्तो वा दिव्यनेत्रकः ।सुपात्रतां देहसंलग्नां माऽनुप्रसर कर्हिचित् ॥६०॥देहः कर्मावनद्धश्च पुनः कर्माभिसर्जकः ।कामनाशेवधिः कोपो मा तं नैजं निशामय ॥६१॥यत्र राजभयं चास्ते यत्र चौरभयं तथा ।तद्विहाय धनं दिव्यं पाथेयं चार्जयस्व ह ॥६२॥परत्र जीव्यते येन न च कापि वियुज्यते ।ध्रुवं तदक्षरं द्रव्यं समर्जयस्व पुत्रक ॥६३॥माता पिता सुहृद् बन्धुः संकरे नानुयान्ति हि ।कर्मैकं केवलं याति नैष्कर्म्यं तत्समाचर ॥६४॥हिरण्यसञ्चया राज्यं दासा दास्यः प्रजाः प्रियाः ।देहक्षये निवर्तन्ते प्रभुं सहचरं भज ॥६५॥साक्षिणं चान्तरस्थं वै ब्रह्मानन्दप्रदं प्रभुम् ।उद्धारकं मोदनिधिं परमेशं सदा भज ॥६६॥गृहस्थधर्मिणो लोकाः प्रजापतेर्बृहस्पतेः ।शतक्रतोश्च लोकान् संव्रजन्ति त्वान्तनाशिनः ॥६७॥मा त्वं वृत्तिं समाधत्स्व गार्हस्थ्ये ब्रह्मपुत्रक ।निर्भयं च निरन्तं च निधिं ब्रह्मव्रतं वह ॥६८॥असंगो दिव्यदृष्टिस्त्वं ब्रह्मणः सन्निधिं कुरु ।समर्प्य परमे कृष्णे मयि कर्म समस्तकम् ॥६९॥नैर्गुण्यं परमं भुञ्जन् भव मुक्तोऽक्षरे यथा ।ग्रामवासो बन्धनं वै तच्छित्त्वा वनमाविश ॥७०॥किं ते धनेन सुहृदा बन्धुना च सुतेन च ।स्वतःप्रकाशो भूत्वैव स्वीयं प्रकाशं संभज ॥७१॥म्रियमाणान् समानाँश्च विलोक्य जगति स्थितान् ।मरिष्यतश्च सञ्चिन्त्याऽन्विच्छाऽऽत्मानं गुहागतम् ॥७२॥शुभ्रं शीघ्रं प्रकुर्वीत श्वः कार्यं चाद्य वै द्रुतम् ।क्षणान्तरे न जाने यन्मृत्युरादाय यास्यति ॥७३॥मृत्युशिखे हि संसारे महाकालस्य भक्षणे ।गुर्वाश्रये विवेकी सन् मोक्षं सर्वात्मना व्रज ॥७४॥मरणं चात्मनो मोक्षस्तमेव साधय प्रधे ।विद्वान् मोक्षार्जनपरस्तद्धीनो जडवर्गगः ॥७५॥स्वर्गसोपानकं वर्ष्म मानुष्यं दुर्लभं त्विह ।तेन साधय मोक्षोयं चानन्तं शाश्वतं सुखम् ॥७६॥यस्य मतिर्मोक्षमार्गादन्यत्र नैव धावति ।स एव पुण्यकर्माऽस्ति चाशोच्यः सर्वमानवैः ॥७७॥मोक्षार्थं यन्मतिः शुद्धा दृढा चारब्धतत्कृतिः ।अन्यभावादिरिक्ता च न तस्य कालतो भयम् ॥७८॥हतस्य पुण्यपापैश्च लुब्धस्य विषयात्मनः ।स्नेहसम्बन्धमग्नस्य विद्यते कालतो भयम् ॥७९॥मातापितृसहस्राणि पुत्रदाराऽयुतानि च ।अतीतानि गते काले कस्य ते कस्य चाऽप्ययम् ॥८०॥एकोऽहं त्वात्मसंज्ञोऽस्मि त्वं चात्मा चैकलः स्वयम् ।अन्येऽन्यत्र गताः सन्ति पश्यन्त्येते न वै मिथः ॥८१॥न तेषां भवतां कार्यं न कार्यं तव तैरिह ।स्वकर्मभिर्गतान्येव त्वं स्वकृत्यैर्गमिष्यसि ॥८२॥लोकोऽयं स्वार्थबहुलः स्वार्थस्निग्धः स्वयोगकृत् ।स्वार्थं प्रसाध्य सहसा त्यजन्ति निर्गुणं जनम् ॥८३॥समृद्धानां धनिनां हि विजनः स्वजनायते ।दरिद्राणां निर्धनानां स्वजनो विजनायते ॥८४॥कलत्रयोगमासाद्य जनोऽशुभं चिनोति च ।ततः क्लेशभृतं जन्म पुनर्दुःखं पुनर्जनिम् ॥८५॥एवमावर्तमग्नस्य वासनाप्रेरितस्य च ।मध्यसागरभागाद्वै तीरयानं न जायते ॥८६॥तत्पुत्र धर्ममासाद्य वैराग्यसहचारवान् ।ज्ञानदीपातिनेत्रश्च भक्त्या याहि परं पदम् ॥८७॥कालः पचति भूतानि कटाहे मोहसंज्ञिते ।सूर्याग्निना दिवाकाष्ठैर्मासर्तुदर्विकादिभिः ॥८८॥नात्र त्रातारमीक्षेऽहमीक्षसे त्वं न नेतरः ।न तं पश्यामि यस्याऽहं न तं पश्यामि यो मम ॥८९॥तस्मात् सदा परेशं श्रीपतिं श्रीपरमेश्वरम् ।कर्मभूमौ भजस्वात्र येन धामाऽक्षरं व्रजेः ॥९०॥किं जन्मना च देहेन ज्ञानेन च वृषेण च ।तपसा वनवासेन येन मोक्षो भवेन्न चेत् ॥९१॥अश्वपाटल इत्युक्तः स्वतःप्रकाश एव ह ।अनादिश्रीकृष्णनारायणोक्तं चावधार्य च ॥९२॥दधौ मोक्षे मनो नित्यं ब्रह्मचर्ये वसन् सदा ।क्वचिद् दृश्यः क्वचिच्चाऽप्यदृश्योऽवर्तत वै क्षितौ ॥९३॥कुंकुमवापिकाक्षेत्रे दिव्यदेहोऽतिभासुरः ।चिरञ्जीवो महामुक्तश्चातिमानववर्तनः ॥९४॥सर्वसंगवियुक्तश्च ब्रह्मसंगमुपागतः ।द्वेधा भूत्वैकदेहेन ययावक्षरमुत्तमम् ॥९५॥अपरेण सदा चास्ते क्षेत्रेऽत्राऽक्षरसंज्ञके ।अनादिश्रीकृष्णनारायणे भावपरायणः ॥९६॥सर्वविद्याश्रयो भक्त्याचार्यो ज्ञाननिधिः प्रभुः ।चतुर्भुजो द्विभुजो वा यथेष्टानन्दशेवधिः ॥९७॥राजंस्तत्त्वं मम योगाज्ज्ञानमासाद्य सत्वरम् ।भजैनं परमात्मानं दिव्यदेहो भवाऽत्र च ॥९८॥तीर्थं स्वतःप्रकाशाख्यं चाश्वसरोजले हि तत् ।वर्तते दिव्यतादातृ स्नानपानादिभिर्नृप ॥९९॥एतज्ज्ञानं समासाद्य मुक्तता स्यान्न संशयः।सर्वविद्याप्रकाशश्च भवेदात्मप्रकाशिता ॥१००॥देवप्रकाशिता स्याच्च चिच्चैतन्यप्रकाशिता ।पुत्र ज्ञानेन यन्नैव धर्मेण तपसाऽपि च ॥१०१॥प्राप्यते तल्लभ्यते वै गुरोः प्रसादलेशतः ।इत्युक्त्वा राधिके श्रीमान् लोमशो विरराम ह ॥१०२॥अथ राजातिसन्तृप्तो हरिं स्वे हृदि संस्मरन् ।कृतानां फलविषये पप्रच्छ स्वादकर्षितः ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायां ब्रह्मकल्लोलात्मजस्याऽनादिश्रीकृष्णनारायणोपदेशजन्यपावनाध्ययनं मोक्षस्थितिश्चेति नव-पञ्चाशदधिकद्विशततमोऽध्यायः ॥२५९॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP