संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १५०

त्रेतायुगसन्तानः - अध्यायः १५०

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके पश्चाद् यत् कर्तव्यं तदाह च ।
अनादिश्रीहरिर्भक्ताय त्वा सर्व वदामि तत् ॥१॥
शुद्धिमान् यजमानश्च दक्षिणद्वारसन्निधौ ।
पश्चिमांशे उदङ्मुखश्चोपविश्य द्विजोस्ततः ॥२॥
कुरुध्वं तु क्रतोः कर्म यथाविहितमादरात् ।
इत्यर्थयेत् ततः पूर्वकुण्डे ऋग्वेदिनौ द्विजौ ॥३॥
होताराबुपविशेता ब्रह्मा तु पश्चिमाननः ।
होमकर्ताऽपरश्चोदङ्मुखस्ततश्च दक्षिणि ॥४॥
कुण्डे यजुर्वेदिनौ च ब्रह्मा तत्र ह्युदङमुऽखः ।
पूर्वमुखो होमकर्ता ततः पश्चिमकुण्डके ॥५॥
सामवेदिद्विजावुत्तरकुण्डेऽथर्ववेदिनौ ।
तथाऽपरौ जापक१द्वौ शायप्यधिकभूसुरौ ॥६॥
तत्तद्वेदविदौ चोपविशेतां वै यथासनम् ।
तत आचार्य इन्द्रेशानयोर्मध्ये स्वकुण्डके ॥७॥
उपाविशेत् प्राङ्मुखोऽथ ब्रह्मा तूदङ्मुखस्तथा ।
गुरुः स्वकुण्डे आगत्य स्वगृह्योक्तविधानतः ॥८॥
अग्निं संस्थापयेत् पञ्चकुण्डिकेऽन्येऽपि तत्तथा ।
कुर्युश्चाग्निस्थापनं चैककुण्डे तु यथायथम् ॥९॥
आचार्यः प्राङ्मुखो ब्रह्मोदङ्मुखः समुपाविशेत् ।
प्रथमं कुण्डपूजां च कुर्याद्वै यजमानकः ॥१०॥
स्वयमग्नेश्चायतनादुपविश्य च दक्षिणे ।
आचार्यश्चोपविश्यैव कुण्डपश्चिमतस्तदा ॥११॥
आचम्य च तथा प्राणानायम्य च ततो वदेत् ।
अपसर्पन्तु ये भूता ये भूता भूमिसंस्थिताः ॥१२॥
ये भूता विघ्नकर्तारो दूरं यान्तु मखक्षितेः ।
विकीर्य सर्षपान् पञ्चगव्येन प्रोक्ष्य मण्डपम् ॥१३॥
कुण्डं च यज्ञसंभारान् गुरुभ्यो नम आवदेत् ।
गणेशं सम्प्रणम्यापि करे धृत्वाऽक्षतादिकम् ॥१४॥
गन्धपुष्पजलाद्यं च देशकालौ प्रकीर्त्य च ।
तदेतद्देवप्रासादोत्सर्गकर्मणि भावतः ॥१५॥
करिष्येऽग्निप्रतिष्ठां च तदंगमार्जनादिकम् ।
मेखलायोनिदेवानां स्थापनं पूजनं तथा ॥१६॥
ततश्चाग्नेरायतनं संमृज्य कुशवारिणा ।
कुण्डं प्रोक्ष्याऽञ्जलौ पुष्पाण्यादाय कुण्डमास्पृशेत् ॥१७॥
आवाहयामि तत्कुण्डं विश्वकर्मविनिर्मितम् ।
शारीरं यच्च ते दिव्यमग्न्यधिष्ठानमद्भुतम् ॥१८॥
ये च कुण्डे स्थिता देवाः कुण्डाग्रे याश्च देवताः ।
ऋद्धिं यच्छन्तु ताः सर्वा यज्ञसिद्धिं समाहिताः ॥१९॥
हे कुण्ड वाञ्छितां यज्ञ सिद्धिं ददातु नो हिताम् ।
इति प्रार्थ्य कुण्डमध्ये विश्वकर्माणमर्चयेत् ॥२०॥
ओं विश्वकर्मन् हविषा वर्धनेन त्रातारमिन्द्रमकृणोरवद्ध्यम्।
तस्मै विशः समनमंत पूर्वीरयमुग्रो विहव्यो यथा सत् ॥२१॥
उपयाम गृहीतोऽसीन्द्राय त्वा विश्वकर्मणः ।
एष ते योनिरिन्द्राय त्वा विश्वकर्मणे ओं नमः ॥२२॥
सम्पूज्य चन्दनाद्यैश्च प्रार्थयेत् खातशुद्धये ।
ज्ञाताऽज्ञातखातदोषान् विनाशय नमोऽस्तु ते ॥२३॥
श्वेतायां मेखलायां श्रीविष्णुमावाहयेत्ततः ।
ओं विष्णो यज्ञरक्षार्थं कुण्डे सन्निहितो भव ॥२४॥
औं इदं विष्णुर्विचक्रमे त्रेधा वै निदधे पदम् ।
समूढमस्य पाण्डुरे स्वाहाऽर्चयामि चक्रिणम् ॥२५॥
सम्पूज्य श्रीहरिं विष्णुमेखलायै नमो नमः ।
श्वेताद्यमेखलामाऽऽर्च्य ततो रक्तां तु मध्यमाम् ॥२६॥
मेखलां तत्र ब्रह्माणं चावाहयेत् मनुं गृणन् ।
हंसस्थो यज्ञरक्षार्थं कुण्डेऽस्मिन् सन्निधो भव ॥२७॥
ओं ब्रह्मयज्ञानं प्रथमं पुरस्ताद्
विसीमतः सुरुचो वेन आवः ।
सबुध्न्या उपमा अस्य विष्ठाः
सतश्च योनिरसतश्च व्विवः ॥२८॥
ब्रह्माणमितिसम्पूज्य मेखलायै नमो नमः ।
रक्तां ब्रह्माधिष्ठितां च मेखलां पूजयेन्मखी ॥२९॥
ततोऽधो मेखलायां तु कृष्णायां रुद्रमेव च ।
आवाहयामि वृषगं गंगाधरं पिनाकिनम् ॥३०॥
आगच्छ भगवन् रुद्र कुण्डेऽस्मिन् सन्निधो भव ।
ओं नमस्ते रुद्र मन्न्यव उतोऽत इषवे नमः ॥३१॥
बाहुभ्यामुत ते नमो मेखलायै नमो नमः ।
रुद्रदेवां कृष्णवर्णां मेखलां पूजयेन्मखी ॥३२॥
कुण्डे त्रिकोणे वृत्ते षट्कोणे पद्मेऽष्टकोणके ।
योनिर्योज्या पश्चिमेऽग्र्यं भवेत्पूर्वमुखं तथा ॥३३॥
कोणे कुण्डे योनिकुण्डे योनिः कार्या न सर्वथा ।
क्षेत्रार्धमानलम्बा च क्षेत्र्यंशायता तथा ॥३४॥
चतुर्विंशत्यंशोर्ध्वा च समेखलाऽग्रनिम्नगा ।
प्रविष्टा कुण्डमग्रेर्धगोलद्वययुता तथा ॥३५॥
विशालमूला समध्यनालाऽश्वत्थदलाकृतिः ।
ब्रह्माऽऽधानस्वरूपा सा पूजनीया हि कुण्डके ॥३६॥
नमो जगद्धेतुकायै ब्रह्मधात्र्यै च ते नमः ।
ओं सर्वस्य योनिरसि सर्वस्य नाभिरप्यसि ॥३७॥
गन्धादिभिः पूजयामि प्रार्थयामीष्टसिद्धये ।
देहिनस्त्वां प्रसेवन्ते पुरुषार्थान् युनक्ति या ॥३८॥
योनिर्ब्राह्मी सुखदायै ब्रह्मगर्भे च ते नमः ।
इति योनिं समर्च्याथ कण्ठपूजनमाचरेत् ॥३९॥
स्रग्धरं चोत्तमांगस्याधारमावाहयामि च ।
नीलग्रीवाः शितिकण्ठा दिवं रुद्रा उपश्रिताः ॥४०॥
तेषां सहस्रयोजनेवधन्वानितन्मसि च ।
इति सम्पूज्य गन्धाद्यैः प्रार्थयेत् कण्ठमुज्ज्वलम् ॥४१॥
कण्ठ कुण्डे स्थितोऽभितो मेखलाऽऽस्तेऽसि मंगलः ।
तत नाभिं पूजयेच्च कुण्डाभां पद्मभां च वा ॥४२॥
आधारां सर्वकुण्डानां नाभिमावाहयामि च ।
नाभिर्मे चित्तविज्ञानं पायुर्मेऽपचितिर्भसत् ॥४३॥
आनन्दवन्दावाण्डौ मे भगः सौभाग्यंपसः ।
जंघाभ्यां पद्भ्यां धर्मोऽसि विशि राजा प्रतिष्ठितः ॥४४॥
इति सम्पूज्य नाभे त्वं सदेवा कुण्डके स्थिता ।
भव शुभर्द्धिदेत्यभ्यर्थ्य च नत्वा पुनस्ततः ॥४५॥
कुण्डे नैर्ऋतकोणे वास्तुपुरुषं प्रपूजयेत् ।
पुष्पाण्यादायाह्वयामि वास्तुं प्रपूजयामि च ॥४६॥
ओं वास्तोष्पते प्रतिजानीह्यस्मान्
स्वावेशो अनमीवो भवा नः ।
यत्त्वेमहे प्रतितन्नो जुषस्व
शन्नोऽभव द्विपदे शं चतुष्पदे ॥४७॥
गन्धं पुष्पं धूपदीपौ नैवेद्यं चार्पयामि च ।
वास्तुपुरुषरूपाय बलिं समर्पयामि च ॥४८॥
ब्रह्मपुत्रं रुद्रपुत्रं सर्वदेवाश्रयं नरम् ।
वास्तुं नत्वा ततोऽग्निं स्थापयेत् क्रमान्मखी यथा ॥४९॥
तुषकेशकंकरादिहीने कुण्डे च वा तथा ।
स्थण्डिले तु चतुरस्रा भूमिं समूह्य सत्कुशैः ॥५०॥
ईशान्यां च कुशान् त्यक्त्वोपलिप्यया गोमयोदकेः ।
स्फ्येन वा स्रुवमूलेन प्रागग्रदेशमात्रकम् ॥५१॥
उत्तरोत्तरक्रमतस्त्रिरुल्लिख्य ततस्तथा ।
उल्लेखनक्रमेणैवाऽनामिकांगुष्ठचिप्यया ॥५२॥
मृदमुद्धृत्य च जलेनाभ्युक्ष्य कांस्यपात्रगम् ।
वह्निं कांस्याऽन्यपात्रेणाऽपिहितं प्रत्यङाननम् ॥५३॥
उपसमाधाय गायत्रीमन्त्रेणाभिपूज्य च ।
ओं भूर्भुवस्स्वस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ॥५४॥
धियो यो नः प्रचोदयाद् वह्निं चापूजयामि च ।
ओं नारायणाय विद्महे वासुदेवाय धीमहि ॥५५॥
तन्नो विष्णुः प्रचोदयाद् वह्निं नमामि चिन्तये ।
ततश्च योनिमार्गेण स्थापयेत् कुण्डकेऽनलम् ॥५६॥
ओं अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्या अयम् ।
अपां रेतांसि जिन्वति इति गृणन् निधापयेत् ॥५७॥
अग्नेश्च जीवनार्थं च किञ्चित् समिध् नियुज्य च ।
वह्निपात्रे जलादि क्षेपयेत् ततश्च वै शुभम् ॥५८॥
आचार्यकुण्डकायुद्धरणं कुण्डान्तरेषु च ।
अग्निस्थापनमादध्यात् ततो नवग्रहार्चनम् ॥५९॥
ईशान्यां गृहपीठे तु नवग्रहाह्वनं चरेत् ।
रक्तपुष्पाक्षतैर्मध्ये वर्तुलाकारके रविम् ॥६०॥
प्राङ्मुखमावाहयेच्च स्थापयेच्च मनुं गृणन् ।
ओं भूर्भुवः स्वः सूर्य इहागच्छ च तिष्ठ च ॥६१॥
ओं आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
हिरण्मयेन सविता रथेनादेवो याति भुवनानि पश्यन् ॥६२॥
सूर्याय च नमो गन्धपुष्पाद्यैः पूजयामि च ।
आग्नेय्यामर्ध चन्द्राभे चक्रे श्वेतसुमाक्षतैः ॥६३॥
चन्द्रमावाहयेद्ध्यायेत्पूजयेच्चन्दनादिभिः ।
ओं भूर्भुवः स्वः चन्द्र इहागच्छ च तिष्ठ च ॥६४॥
ओं इमं देवा असपत्नं सुवध्वं महते क्षत्राय च ।
महते ज्येष्ठाय महते जानराज्यायेन्द्रियस्येन्द्रियाय ॥६५॥
इमममुष्य पुत्रममुष्यै पुत्रमस्यै विश एष वः ।
अमी राजा सोमोऽस्माकं ब्राह्मणानां राजा च ओं नमः ॥६६॥
दक्षिणस्यां त्रिकोणे तु रक्तपुष्पाक्षतादिभिः ।
दक्षिणाभिमुखं भौममावाहयेच्च पूजयेत् ॥६७॥
ओं भूर्भुवः स्वः भौम इहागच्छ च तिष्ठ च ।
ओं अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् ॥६८॥
अपां रेतांसि जिन्वति ओं भौमाय नमो नमः ।
ईशान्यां बाणसदृशे मण्डले च उदङ्मुखम् ॥६९॥
पीतपुष्पाक्षतैः रम्यैर्बुधमावाह्य पूजयेत्॥
ओं भूर्भुवः स्वः बुध इहागच्छ च तिष्ठ च ॥७०॥
ओं उद्बुध्य स्वाप्नेप्प्रतिजागृहि
त्वमिष्ट्वा पूर्ते ससृजेऽथामयं च ।
अस्मिन्त्सधस्थे अद्ध्युत्तरस्मिन् विश्वे
देवा यजमानश्च सीदत ॥७१॥
उत्तरे चतुरस्रे च मण्डले उदङाननम् ।
बृहस्पतिं पीतपुष्पाक्षतैरावाहयेन्नमेत ॥७२॥
औं भूर्भुवः स्वः बृहस्पते इहागच्छ च तिष्ठ च ।
गन्धपुष्पादिभिर्गुरुं पूजयामि मनुं गृणन् ॥७३॥
ओं बृहस्पते अतियदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु ।
यद्दीदयच्छवसऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥७४॥
पूर्वे पञ्चकोणके च मण्डले प्राङ्मुखं कविम् ।
शुक्लपुष्पाक्षतेः शुक्रमावाहयेत्प्रपूजयेत् ॥७५॥
ओं भूर्भुवः स्वः शुक्र इहागच्छ च तिष्ठ च ।
गन्धं पुष्पं च धूपादि संगृहाण नमामि ते ॥७६॥
ओं अन्नात् परिस्रुतो रसं ब्रह्मणा
व्यपिबत् क्षत्रं पयः सोमं प्रजापतिः ।
ऋतेन सत्यमिन्द्रियं विपानं शुक्रमन्धस
इन्द्रस्येन्द्रियमिदं पयोमृतम्मधु ॥७७॥
पश्चिमे तु धनुस्तुल्ये मण्डले प्रत्यङाननम् ।
कृष्णपुष्पाक्षतैः शनिमावाहयेच्च पूजयेत् ॥७८॥
ओं भूर्भुवः स्वः शने चात्र समागच्छ च तिष्ठ च ।
ओं शन्नो देविरभिष्टय आपो भवन्तु पीतये ॥७९॥
शंय्योरभिस्रवन्तु नः पूजयामि नमामि च ।
नैर्ऋत्ये शूर्पसदृशे मण्डले दक्षिणाननम् ॥८०॥
कृष्णपूष्पाक्षतैः राहुमावाहयेच्च पूजयेत् ।
ओ भूर्भुवः स्वः राहो चात्रागच्छ च तिष्ठ च ॥८१॥
ओं कयानश्चित्र आभुवदूतीसदावृधः सखा ।
कया शचिष्ठयावृता पूजयामि नमामि च ॥८२॥
वायव्यां च ध्वजाकारे मण्डले दक्षिणाननम् ।
धूम्रपुष्पाक्षतैः केतुमावाहयेच्च पूजयेत् ॥८३॥
ओं भूर्भुवः स्वः केतो इहागच्छ च तिष्ठ च ।
ओं केतुं कृण्वन्नकेतवे पेशोमर्या अपेशसे ॥८४॥
समुषद्भिरजायथाः पूजयामि नमामि च ।
अथाधिदेवता आवाहयामि स्थापयामि च ॥८५॥
आदित्याभिमुखाः स्थाप्या देवता मध्यके रविः ।
दक्षपार्श्वे श्वेतपुष्पाक्षतैः रुद्रं समाह्वयेत् ॥८६॥
ओं भूर्भुवः स्वः रुद्र समागच्छेह तिष्ठ च ।
ओं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ॥८७॥
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ।
आग्नेय्यां चन्द्रदक्षे च रक्तपुष्पाक्षतैरुमाम् ॥८८॥
आवाहयेत् स्थापयेच्च पूजयेच्चन्दनादिभिः ।
ओं भुर्भुवः स्वः उमे इहागच्छ च तिष्ठ च ॥८९॥
ओं श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे
पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् ।
इष्णन्निषाणामुम्मईषाण
सर्वलोकम्मइषाण उमायै नमः ॥९०॥
याम्यां भौमस्य दक्षे तु पीतपुष्पाऽक्षतादिभिः ।
स्कन्दमावाहयेत्संपूजयेन्नमेच्च संस्मरेत् ॥९१॥
ओं भूर्भुवः स्वः स्कन्द इहागच्छ च तिष्ठ च ।
गन्धं पुष्पं धूपदीपौ नैवेद्यादि गृहाण च ॥९२॥
ओं यदक्रन्दः प्रथमं जायमानः
उद्यन्त्समुद्रादुत वा पुरीषात् ।
श्येनस्य पक्षा हरिणस्य बाहू
उपस्तुत्यं महिजातन्ते अर्व्वन् ॥९३॥
ईशान्यां बुधदक्षे तु विष्णुं पीतसुमाऽक्षतैः ।
आवाहयेद् भूर्भुवः स्वः विष्णोरागच्छ तिष्ठ च ॥९४॥
ओं इदं विष्णुर्विचक्रमे त्रेधा वै निदधे पदम् ।
समूढमस्य पांसुरे स्वाहा च विष्णवे नमः ॥९५॥
उत्तरे तु गुरोर्दक्षे श्वेतपुष्पाक्षतैरजम् ।
आवाहयेद् भूर्भुवः स्वः ब्रह्मन्नागच्छ तिष्ठ च ॥९६॥
ओं ब्रह्मयज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो व्वेन आवः।
सबुध्न्या उपमा अस्य विष्ठाः सतश्च योनिरसतश्च व्विवः ॥९७॥
पूर्वस्यां शुक्रदक्षे तु पीतपुष्पाक्षतेर्हरिम् ।
आवाहयेद् भूर्भुवः स्वः इन्द्र आगच्छ तिष्ठ च ॥९८॥
ओं त्रातारमिन्द्रमवितारमिन्द्रं
हवेहवे सुहवं शूरमिन्द्रम् ।
ह्वयामि शक्रम्पुरुहूतमिन्द्रं
स्वस्ति नो मघवा धात्विन्द्रः ॥९९॥
पश्चिमे शनिदक्षे च कृष्णपुष्पाक्षतैर्यमम् ।
आवाहयेद् भूर्भुवः स्वः यम आगच्छ तिष्ठ च ॥१००॥
ओं यमाय त्वा मखाय त्वा सूर्य्यस्य त्वा तपसे ।
देवस्त्वा सवितामद्धानक्तुपृथिव्याः संस्पृशस्पाहि ॥१०१॥
अर्च्चिरसि शोचिरसि तपोऽसि यम ते नमः ।
राहोर्दक्षे च नैर्ऋत्यां कालं धूम्रसुमाक्षतैः ॥१०२॥
आवाहयेद् भूर्भुवः स्वः काल आगच्छ तिष्ठ च ।
ओं कार्षिरसि समुद्रस्य त्वा क्षित्या उन्नयामि ॥१०३॥
समापो अद्भिरग्मत समोषधीभिरोषधीः काल ते नमः ।
वायव्यां केतुदक्षे तु रक्तपुष्पाक्षतादिभिः ॥१०४॥
आवाहयेच्चित्रगुप्तमिहागच्छ च तिष्ठ च ।
ओं भूर्भुवः स्वः चित्रावसो स्वस्ति ते पारमशीय ॥१०५॥
पूजयामीति वै राधेऽधिदेवतासमर्चनम् ।
श्रीहरिः प्राह भक्ताय यत्तन्मया त ईरितम् ॥१०६॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने अग्निस्थापनकुण्डदेवमेखलादेवयोनिवह्निपूजनं नवग्रहपूजनमधिदेवतापूजनं चेतिनिरूपणनामा पञ्चाशदधिकशततमोऽध्यायः ॥१५०॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP