संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १९९ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १९९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १९९ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके श्रीमद्बालकृष्णो हरिः स्वयम् ।लेपराष्ट्रनृपं सैन्यसहितं भुव्यलोकयत् ॥१॥स्वागतार्थं स्थितं नैजे महोद्यानेऽतिविस्तृते ।राजदर्शितमार्गेण भगवान् कृष्णवल्लभः ॥२॥विमानमम्बरात् पृथ्व्यां मुरमाषापुरीतटे ।विशाले रम्यभागे चावातारयत् सुशोभिते ॥३॥अन्यान्यपि विमानानि चावतेरुः समीपतः ।तदा वाद्यान्यवाद्यन्त जयनादास्तथाऽभवन् ॥४॥गौरीणां गीतिकाश्चासन् प्रजानां हर्षघोषणाः ।विमानाच्च हरिः शीघ्रं बहिस्तत्र समाययौ ॥५॥राज्ञा च प्रजया राज्ञ्या महर्षिणाऽर्चितः प्रभुः ।हारैः सुशेखरैः पुष्पैश्चन्दनैरक्षतादिभिः ॥६अन्येऽपि पूजितास्तत्र महीमानाः प्रजाजनैः ।नरयाने हरिं राजा निषाद्याऽन्यान् गजादिषु ॥७॥मुरमाषानगर्यां चाऽभ्रामयद् बहुमानतः ।राजवंशः प्रधानाश्च श्रेष्ठिनः पण्डिता अपि ॥८॥नरा नार्यो गोपुरादौ राजमार्गे सुसंगमे ।चत्वरादौ च शालासु पूजयामासुरादरात् ॥९॥बह्वीभिस्तूपदाभिश्च स्वर्णरत्नविभूषणैः ।अनेकदिव्यभूषाभिः कम्बलैश्च धनैस्तथा ॥१०॥स्थले स्थले प्रचक्रुस्ते नीराजनं समर्हणम् ।गौर्यः पुष्पादिभिः कृष्णं वर्धयामासुरीश्वरम् ॥११॥एवं भ्रमित्वा नगरीं राजसौधं स आययौ ।सभां कृत्वा जनानाह भगवान् हितकारकः ॥१२॥सच्चिदानन्दरूपो वै परमेशः सनातनः ।पूजनीयो भजनीयो मानवैर्मोक्षकांक्षिभिः ॥१३॥सत्यं व्रतं परं साधु न सत्याद् विद्यते परम् ।हानिदं सत्यमेवापि वक्तव्यं न कदाचन ॥१४॥अहिंसार्थाय भूतानां धर्मप्रवचनं कृतम् ।धारणाद् धर्म इत्याहुर्धर्मेण विधृताः प्रजाः ॥१५॥यः स्याद्धारणसंयुक्तः स धर्म इतिनिश्चयः ।यः स्यादहिंसासंयुक्तः स धर्म इतिनिश्चयः ॥१६॥हिंसायां सत्यवचनेऽनृतं धर्म इतिस्थितिः ।अनृतेऽपि च हिंसायां धर्म इतिस्थितिः ॥१७॥सत्येऽनृते वा हिंसायां मौनं धर्म इतिस्थितिः ।जीवरक्षा सत्यशिष्टा सत्यं ब्रह्म यतो मतम् ॥१८॥चौरेभ्यो न धनं वाच्यं सत्यं तत्र न भूषणम् ।तेभ्यः सत्यं न चाख्येयं स धर्म इतिनिश्चयः ॥१९॥अकूजनेन चेन्मोक्षो नाऽवकूजेत् कथंचन ।अवश्यं कूजितव्ये वा स्वल्पं चानृतमिश्रितम् ॥२०॥धर्म एव भवेत्तत्र श्रेयस्करं तदाऽनृतम् ।शपथोऽपि प्रवक्तव्यो यदि चौरैः प्रमुच्यते ॥२१॥प्राणात्यये विवाहे चानृतं सत्यं तदुच्यते ।अर्थस्य रक्षणार्थाय परस्य प्राणधारणे ॥२२॥अनृतं सत्यमेवाऽस्ति धर्मतत्त्वं निगूढकम् ।साधुभ्यो नाऽनृतं वाच्यं तारकास्ते हि देहिनाम् ॥२३॥तेष्वनृतं सदा पापं सत्यपूतं ततो वदेत् ।सत्यं ब्रह्मस्वरूपं वै व्रतं श्रेष्ठतमं मतम् ॥२४॥कर्मणा मनसा वाचा सत्यं धर्मं समाचरेत् ।सत्यव्रतस्य दुःखानि नोपयान्ति कदाचन ॥२५॥संयतात्मा वितृष्णश्च दुःखदुर्गं तरत्यपि ।दंभाचारविहीनश्च विषयाणां विनिग्रही ॥२६॥अहिंसको नातिवादी दुःखदुर्गे तरत्यपि ।दाता याचकताहीनोऽतिथिसंपूजकस्तथा ॥२७॥अनसूयोऽतिसेवाकृत् मातापित्रोर्गुरोः सताम् ।पापहीनो न्यायवृत्तिर्दुःखदुर्गं तरत्यपि ॥२८॥सत्यव्रतोऽन्यकष्टस्य निवारकः शुचिः स्थिरः ।कुहकेन विहीनश्च दुःखदुर्गं तरत्यपि ॥२९॥तापसो ब्रह्मवर्चस्कः शान्तः सत्त्वातिवर्तनः ।त्रासशून्योऽभयदश्च दुःखदुर्गं तरत्यपि ॥३०॥समदृष्टिश्च सर्वत्र परश्रीवर्धकस्तथा ।ग्राम्यार्थविनिवृत्तश्च दुःखदुर्गं तरत्यपि ॥३१॥सर्वदेवनमोयुक्तः सदा कृष्णकथाश्रवः ।श्रद्धधानः शान्तचित्तो दुःखदुर्गं तरत्यपि ॥३२॥अमानी मानदो मान्यो देवर्षिपितृपूजकः ।अक्रोधः क्रोधशमनो दुःखदुर्गं तरत्यपि ॥३३॥जितजिह्वो जितशिश्नो जितनारायणोऽपि च ।जिततृष्णो जितवृत्तिर्दुःखदुर्गं तरत्यपि ॥३४॥यत्राऽहं पद्मरक्ताक्षः पीतवासा जनार्दनः ।सुहृद् भ्राता च मित्रं च सम्बन्धी च सुखप्रदः ॥३५॥काम्भरेयो बालकृष्णो गोपालबालकोऽच्युतः ।स्थितोऽस्मि हितकृद् यत्र भक्तस्य हृदि सन्निधौ ॥३६॥ब्रह्मप्रियाप्रियः कान्तः श्रीपतिर्यत्र चास्मि तम् ।मां हरिर्यश्चाश्रयति दुःखदुर्गं तरत्यसौ ॥३७॥सत्योऽहं सत्यधर्मोऽहं दुःखानां नाशकोऽप्यहम् ।मां विदित्वाऽऽश्रयन्तश्च दुःखदुर्गं तरन्त्यपि ॥३८॥तस्माद् भजत मां नित्यं मामेवाप्स्यथ धाम्नि मे ।इत्युक्त्वा प्रददौ मन्त्रं भगवान् शरणार्थिने ॥३९॥राज्ञे चापि प्रजाभ्यश्च ततो राजाऽर्चयद्धरिम् ।राज्ञी कन्यायुता कृष्णं राधे प्रापूजयत्तदा ॥४०॥कन्यैका कृष्णकान्तं तं करे जग्राह भावतः ।विवाहविधिना प्राप्य कृतकृत्या बभूव ह ॥४१॥सभां विसर्जयित्वैव स राजा महीमानकान् ।भोजयामास विविधान्नानि रस्य फलानि च ॥४२॥उत्सवं सुभगं चक्रे राजा भाद्रस्य चार्जुने ।तृतीयाया निशायां च विशश्रमुस्ततः परम् ॥४१॥सर्वे प्रातः कृतस्नानाश्चक्रुः पायसभोजनम् ।तावद् गांगेयपुत्र्यश्चाययुस्त्वर्थयितुं हरेः ॥४४॥नारायणं नमस्कृत्य कन्यास्ता वरदानकम् ।वव्रिरे बालकृष्णाद्वै तीर्थीकर्तुं सरिद्वराः ॥४५॥स्नाहि नारायण कृष्णवल्लभश्रीपते जले ।सर्वा वयं भविष्यामस्तीर्थात्मिकास्तवाप्लवात् ॥४६॥हरिस्तथास्त्विति प्राह धृत्वा रूपाण्यनेकशः ।कृपया प्रययौ शीघ्रं स्नातुं नदीषु वै तथा ॥४७॥सरस्सु च समुद्रेषु ययावनेकरूपधृक् ।तथैकरूपतः कृष्णो राजते राजसन्निधौ ॥४८॥कोलकाख्यो महाराजो दिव्यदृष्ट्या प्रदत्तया ।सर्वं पश्यति तत्रैव मुरमाषास्थितोऽपि सन् ॥४९॥हरिः सस्नौ नीपरायां निस्तारायां तथा तदा ।पृथायां दिनपायां सेविकायां स्नानमाचरत् ॥५०॥त्रिवरायां राहुणायां सेनायां स्नानमाचरत् ।इन्दिरायां गवादकवितायां स्नानमाचरत् ॥५१॥गवादयानानद्यां त्रिगिरायां स्नानमाचरत् ।दूरानद्यां गुरूणायां मित्रायां स्नानमाचरत् ॥५२॥सेनायां लववारायां द्विलीनायां तथाऽप्लवम् ।सुकौतुक्यां स्थायिनद्यां चाल्पापायां तथाऽकरोत् ॥५३॥औदर्यां विष्णुतुल्यायां प्रपीठायां समाप्लवम् ।नियमानाजले दूनानद्यां च पायुपश्यके ॥५४॥सरस्यपि लेण्डुगे योनिगे स्नानं समाचरत् ।त्रिनयायां च हीनायां पंचोरायां समाप्लवम् ॥५५॥कामायां चापि वोल्गायां दोनायां स्नानमाचरत् ।आजवाब्धौ श्वेतवार्धौ कृष्णाब्धौ काश्यपेयके ॥५६॥बालत्रिकेऽब्धौ भगवान् सस्नौ वै युगपत्तदा ।चत्वारिंशद्रूपधर्ता भगवान् भूतभावनः ॥५७॥विधाय तीर्थरूपास्ताः कन्यकाश्च सरांसि च ।उपकन्याश्च वै तत्राद्यात्मिकाः संविधाय च ॥५८॥शीघ्रं तिरोऽभवत् कृष्णः कोलकालयमाययौ ।कोलकस्तु तदा कृष्णमाहात्म्यं संबुबोध ह ॥५९॥अवतारावतार्येव परमात्मा परात्परः ।सोऽयं नारायणः साक्षाज्जामाता मेऽभवत् प्रभुः ॥६०॥कृतकृत्योऽहमेवाऽस्मि वसाऽत्र भगवन् सदा ।ममाऽऽवासे तव योग्ये कृपां कुरु जनार्दन ॥६१॥इत्येवं चार्थयत्तावन्मध्याह्नः समजायत ।यवक्रीतादयः सर्वे गांगेयाश्च महर्षयः ॥६२॥आययुर्दर्शनार्थं वै हरिणा संस्मृतास्तदा ।निषेदुस्ते प्रणम्यैव बालकृष्णस्य सन्निधौ ॥६३॥लोमशाद्यास्तथा वृकायनाश्च नीलकर्णकः ।ईशानोऽन्ये गणाश्चापि पार्षदाः संस्मृतास्तदा ॥६४॥आययुः सन्निधौ सर्वे कोलराजस्य मन्दिरे ।हरिः प्राह कृतं कार्यं केतुमालस्य सर्वतः ॥६५॥देशाः सम्पाविताः सर्वे राजानो भक्तिमाश्रिताः ।प्रजा भक्ताः प्रजाताश्च तीर्थान्यपि कृतानि च ॥६६॥ऋषयश्चापि सन्तुष्टा जाता दानादिभिस्तथा ।ब्रह्मप्रियास्तथा गौर्यः सुखमय्यो मया कृताः ॥६७॥पर्वताः पाविताश्चात्र सर्वं पूर्णं ततोऽभवत् ।अधुना तत्र गन्तव्यं यत्रर्षिमण्डलं वदेत् ॥६८॥भवन्तो मे प्रमाणं वै साधवश्च महर्षयः ।इत्युक्त्वा बालकृष्णश्च ऋषिवाक्यं प्रतीक्षते ॥६९॥तावद् व्योम्नः सकाशाद्वै पुष्पवृष्टिर्ववर्ष वै ।जयशब्दैः सह साधुः सच्चिदानन्दसंज्ञकः ॥७०॥लालायनो महर्षिर्यः पूर्वं चोत्तरतो ह्यगात् ।पोषपूर्णातिथौ पश्चात् तुषितोऽपि सुरो ह्यगात् ॥७१॥तावुभौ सुविमानस्थौ त्वागतौ कोलकालये ।बालकृष्णं भजमानौ जयशब्दान् प्रचक्रतुः ॥७२॥तीर्थीकुर्वन् केतुमालं जयत्वक्षरधामपः ।हरेकृष्ण बालकृष्णस्वामिश्रीकृष्णवल्लभ ॥७३॥काम्भरेय ब्रह्मशक्तिस्वामिन्गोपालनन्दन ।वर्धयाऽत्र चिरं तिष्ठ देशान् संकुरु पावनान् ॥७४॥इत्येवं व्याहरन्तौ तौ विमानं भास्करोपमम् ।अवतारयतां राजालयोद्याने शनैः शनैः ॥७५॥निर्गतौ तौ विमानाच्च मुनी सात्त्वतपुंगवौ ।पुष्पमालान्वितौ भक्तिभरौ कृष्णेऽतिमानसौ ॥७६॥नेमतुः श्रीबालकृष्णं समागत्य समीपतः ।दण्डवत् पुष्पहाराद्यैरानर्चतुः परेश्वरम् ॥७७॥साश्रुनेत्रौ गलत्कर्णौ जातपुलकिताङ्गकौ ।हर्याज्ञयाऽऽसनयोश्च निषेदतुः समीपतः ॥७८॥हरिरुत्थाय चरणौ ददौ वक्षसि वै तयोः ।न्यधाद्धस्तौ मस्तके च बाहुभ्यां परिषस्वजे ॥७९॥पप्रच्छ कुशलं ताभ्यां भक्तिकार्यप्रसारणम् ।ऊचतुस्तौ कृपया ते योगक्षेमौ प्रवर्ततः ॥८०॥केनाटाश्चामरीदेशा भवतः कृपया प्रभो ।मुमुक्षुवासिताः सन्ति प्रतीक्षन्ते तवागमम् ॥८१॥आगत्य तत्र कर्तव्यो विष्णुक्रतुर्हि पावनः ।ताः प्रजाः पावयितव्या अमरीकप्रदेशजाः ॥८२॥राजानश्च प्रजाश्चापि महर्षयश्च तद्गताः ।आगमं ते प्रतीक्षन्ते कृतार्थीकुरु तत्प्रजाः ॥८३॥इत्यर्थितो हरिः श्रीमल्लोमशं शंकरं तथा ।महर्षीन् परिपप्रच्छ किं कर्तव्यं वदन्तु माम् ॥८४॥सर्वे प्राहुर्यथा लालायनः प्रार्थयते प्रभो ।तथा कर्तव्यमेवाऽत्र तारको हि भवान् यतः ॥८५॥यवक्रीतो नीलकर्णो वृकायनश्च लोमशः ।गांगेयाश्च वयं सर्वे शंकराद्या यथादिशः ॥८६॥तथा कुर्मो न सन्देहो लोकतारणहेतवे ।एवं प्रत्युत्तरे प्राप्ते भगवान् नरनाट्यधृक् ॥८७॥तथास्त्विति प्राह लालायनं तुषितदैवतम् ।हारितर्षिर्नामतश्च प्राह तत्र तदा हरिम् ॥८८॥गच्छाम्यहं हरे पूर्वं मम शिष्यप्रदेशकान् ।गरिमाख्यान् हारिताँश्च माध्यस्थान् कुरु पावनान् ॥८९॥इत्युक्त्वाऽऽज्ञां शिरो धृत्वा ययौ विमानतः पुरः ।गरिमाख्यप्रदेशाँश्च स्वागतार्थमसञ्जयत् ॥९०॥अपरानाविकापुर्या दिनमानार्कभूपतिः ।हारितर्षिप्रशिष्यश्च स्वागतार्थं हरेः शुभैः ॥९१।मंगलैर्विविधैः कल्पैः शृंगारं समसज्जयत् ।अथात्र कोलको राजा परमेशं मुनीन् सतीः ॥९२॥महीमानान् परमान्नैस्तृप्तयामास भोजनैः ।पूजयामास बहुधा समर्पणैश्च सर्वथा ॥९३॥अर्थयामास रात्र्यैक्यं स्थातुं निजालये प्रभुम् ।हरिस्तथाऽस्त्विति प्राह राजा रात्रौ महोत्सवम् ॥९४॥कारयामास सुभगं नृत्यमल्लप्रदर्शनैः ।निशानिद्रोत्तरं प्रातर्हरिः कृताह्निको द्रुतम् ॥९५॥गन्तुं सज्जोऽभवत्तूर्णं राजा मानाऽर्हणां व्यधात् ।सैन्येन मानितश्चापि प्रजाभिर्मानितश्च सः ॥९६॥विमानं चारुरोहाऽन्ये चारुरुहुर्निजान्यपि ।यशःकीर्त्यादि शृण्वन् श्रीकृष्णनारायणः प्रभुः ॥९७॥गांगैयैर्नैजिकैश्चापि व्योममार्गेण सत्त्वरम् ।समुद्रं तु समुल्लंघ्य गरिमापृथिवीं ययौ ॥९८॥हारिताँस्तान्प्रदेशाँश्च व्यलोकयत्तदाम्बरात् ।स्वागतार्थं हारितर्षिदिनमानार्कभूपती ॥९९॥यत्रास्तां तावपरानाविकापुर्यां पुरःस्थितौ ।तौ विलोक्य ध्वजचिह्नैरम्बरे स्थैर्यमाप्तवान् ॥१००॥सैन्यकृतं स्वागतं संविलोक्य भगवान् हरिः ।राधिके बालकृष्णः स मुमुदे त्वन्तरीक्षगः ॥१०१॥इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कोलकनृपस्य मुरमाषानगर्यां श्रीहरेस्तृतीयायां भ्रमणं पूजनमुपदेशनं भोजनं गांगेयकन्यादिकृतप्रार्थनया तज्जलेषु बहुरूपाणि धृत्वा युगपत् स्नानेन तीर्थीकरणता रात्रौ विश्रान्तिर्भाद्रशुक्लचतुर्थ्यां दिनमानार्कनृपखण्डं प्रति गमनमित्यादिनिरूपणनामा नवनवत्यधिकशततमोऽध्यायः ॥१९९॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP