संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ४० त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ४० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४० Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके तत्र चाश्वपट्टसरोवरे ।बालकृष्णं प्रपूज्यैव निवासं प्रभुसन्निधौ ॥१॥प्रचक्रुः सरसस्तीरे पश्चिमे सेतुकोच्छ्रये ।दत्तात्रेयं परं तीर्थं तथा वाराहतीर्थकम् ॥२॥कूर्मतीर्थं मत्स्यतीर्थं कपिलं तीर्थमित्यपि ।हरितीर्थं पृथुतीर्थं वासुदेवाभिधं तथा ॥३॥हंसतीर्थं दत्तात्रेयतीर्थं नृसिंहतीर्थकम् ।तीर्थमृषभसंज्ञं च योगेश्वराख्यतीर्थकम् ॥४॥तीर्थं च वामनं पर्शुरामतीर्थं शुभं ततः ।यज्ञतीर्थं रामतीर्थं तीर्थं हयशिरोऽभिधम् ॥५॥सनत्कुमारतीर्थं च तीर्थं नारदसंज्ञकम् ।व्यासतीर्थं कृष्णतीर्थं बुद्धतीर्थं तथा परम् ॥६॥तीर्थं नारायणं विष्णुतीर्थं श्रीपुरुषोत्तमम् ।महाविष्णुकृतं तीर्थं नरनारायणाभिधम् ॥७॥अर्धनारीश्वरतीर्थं लक्ष्मीतीर्थं परं शुभम् ।राधिके च त्वया साकं स्नातं यत्र मया च तत् ॥८॥राधातीर्थं कृष्णतीर्थं चाश्वपट्टसरोवरे ।पापतापक्षयकरं मोक्षदं धामवासदम् ॥९॥एवमेतानि तीर्थानि जातानि तत्र राधिके ।अथ षष्ठे मार्गमासे महाकालवनस्थिताः ॥१०॥ऋषयस्त्वाययुश्चाऽश्वपट्टक्षेत्रे हि तैर्थिकाः ।समीरणः पवमानः सन्तारणश्च बर्बुरः ॥११॥वोढुश्च घनभेदश्च द्युविश्रामश्च पङ्किलः ।नीलकर्णस्तथाऽलर्कः पुण्डरीकः कलायनः ॥१२॥वीतिहोत्रश्च चमसः पर्णकुत्सोऽश्वपाटलः ।भाल्लवेयश्चोर्जव्रतश्चाश्वलायन इत्यपि ॥१३॥पार्ष्णिरदः सुमन्तुश्च ह्यशोकाक्षोऽभयाऽक्षकः ।ब्रहास्तम्बः कूप्यवालश्चेतनब्रह्म इत्यपि ॥१४॥देव्यः श्रीः कमला पृथ्वी राणिकाऽमरपुत्रिका ।धन्येश्वरी सतीशा च देवानिकी च कृष्णिका ॥१५॥पम्पा नारायणी गङ्गा यमुना गण्डकी कुशा ।सरस्वती हिरण्या च स्वर्णरेखा च गोमती ॥१६॥गौतमी वल्लयो वृक्षास्तत्त्वान्यप्याययुस्तदा ।मार्गमासे सिते पक्षे द्वितीयायां समाहिताः ॥१७॥अश्वपट्टसरःस्नानं चक्रुः प्रातश्च देवताः ।अनादिश्रीकृष्णनारायणं नेमुर्गृहं गताः ॥१८॥लोमषर्षिं ततो नेमुर्नेमुस्तेभ्योऽपि कन्यकाः ।सकृता भोजिताः सर्वे वन्दिताः पूजितास्तथा ॥१९॥अश्वपट्टसरस्तीरं पश्चिमं कुन्दशोभितम् ।कुञ्जनिकुञ्जरहितं विशालस्थलगौरवम् ॥२ ०॥पारिजातवनाढ्यं च सुगन्धिद्रुममञ्जुलम् ।ययुर्मध्याह्नकाले ते नित्यकर्मपरायणाः ॥२१॥तत्र गुन्द्रकदाडीमतिन्तिडीद्रुमशोभिते ।छायिते भूतले रम्ये बालकृष्णालयान्तिके ॥२२॥विश्रामं परमं चक्रुः सायं कथामवाचयत् ।लक्ष्मीनारायणसंहिताया ऊर्जव्रतो मुनिः ॥२३॥मार्कण्डेयः कालजितः पञ्चशिखश्च लोमशः ।आसुरिर्जमदग्निश्च हनुमान् जाम्बवाँस्तथा ॥२४॥विभीषणश्च व्यासश्च प्रह्लादश्च बलिः ऋभुः ।गालवश्च कृपश्चाऽन्ये शतकल्पायुषश्च ये ॥२५॥सप्तकल्पजीवनाश्चाऽयुतकल्पप्रजीवनाः ।कथाश्रवणमूर्धन्या निषेदुः सदसि स्थिताः ॥२६॥कम्भरानन्दनस्तत्र पितृभ्यां सहितः प्रभुः ।मध्यासने ब्रह्मविद्भिर्निवेशितो विराजते ॥२७॥देवाः सुराः सगन्धर्वाः सविद्याधरमानवाः ।देवीसमूहसहिताः शृण्वन्ति स्म कथां शुभाम् ॥२८॥ऊर्जव्रतो महर्षिश्च लक्षकल्पायुरीश्वरः ।प्रप्यक्षस्य हरेराद्यं मंगलं प्रजगाद ह ॥२९॥नासीदक्षरमेकलं नहि गवां धामाऽपि चाऽऽसीद् यदा,वैकुण्ठं च यदाऽपि नामृतपदं धामाऽपि नाऽभूद् यदा ।जीवेशादिकसर्जनं च तु यदा नासीत्तदासीच्च यः,सोऽनादिर्हरिकृष्णबालसुरूपो मे स्तान्नमो भूमिका ॥३०॥यो नैजे परधाम्नि मुक्तपुरुषैश्चान्येषुतच्छक्तिभि-मूर्तैर्ग्राह्यगुणैर्विभूतिभिरजैः संसेव्यते चार्थिभिः ।यो द्वेधाऽभिरतोऽपि चैकल इह प्रालोक्यते बालव-च्छ्रीमत्कृष्णनरायणोऽस्तु मम वाक्प्रस्थानभूमिः प्रभुः ॥३१॥यदिह ऋषिकथायां वर्तते त्वन्तरात्मा,मनुतनुजनिभोऽयं बालकः कंभरायाः ।अकलकलविलासो विश्वभारोदरोऽयं,सफलयतु जनान् गोपालकृष्णालयस्थः ॥३२॥स जयतु भुवि रम्या कुंकुमी वापिकेयंजगदघहरमग्र्यं चाश्वपट्टं सरश्च ।विजयतु मुनिमान्यो लोमशः साधुवर्यःप्रविजयतु च लक्ष्मीसंहिता मोक्षदात्री ॥३३॥आदौ मध्ये चावसानेऽनादिकृष्णनरायणः ।गीयतेऽत्र परब्रह्म सोऽयं तनोतु मङ्गलम् ॥३४॥ज्येष्ठो भ्राता च भगवान् सन्तुष्टा च स्वसा सती ।शुको भ्राता ततो विज्ञोऽनुजः श्रीवल्लभस्तथा ॥३५॥माता च कंभरालक्ष्मीः पिता गोपालकृष्णकः ।शतं द्वादश कान्ताश्च विजयन्तु सबालकाः ॥३६॥स्वयंप्रकाशः शिष्यश्च मूर्धन्यः शिष्यमण्डले ।कोटिशिष्यगणाश्चान्ये कोट्यर्बुदाऽब्जयोषितः ॥३७॥लोमशो गुरुमुख्यश्च ऋषयोऽन्ये हरिंविदः ।नमस्यामो ब्रह्मवंश्या जंगमास्तैर्थिकार्चिताः ॥३८॥अपरोक्षः परोक्षोऽयं बालोऽबालबृहत्परः ।करोतु श्रेय इष्टं नः श्रीहरिः पुरुषोत्तमः ॥३९॥लक्ष्मीशो माणिकीशश्च पार्वतीशः प्रभापतिः ।श्रीराधारुक्मिणीकान्तः करोतु मंगलं सदा ॥४०॥जानन्तु ऋषयश्चैनं परमेशं परात्परम् ।अनादिनिधनं कृष्णं स्वामिनं परमेश्वरम् ॥४१॥अनेन हि पुरा वेदा उद्धृताः सागरात्तथा ।उद्धृता पृथिवी देवी दन्ताग्रेण पुरा तथा ॥४२॥अनेन पृष्ठभागे च शेषो धृतो हि विद्यते ।अनेन निजपर्यंके धृतो नारायणः स्वयम् ॥४३॥अनेन सांख्यविज्ञानं स्वप्रकाशाय चार्पितम् ।अनेन ब्रह्मणे ज्ञानं पुरा श्रीहरिणाऽर्पितम् ॥४४॥दैत्या निषूदिताश्चापि वासुदेवेन शार्ङ्गिणा ।जन्मरक्षालयाँश्चक्रे सोऽयं व्यूहात्मको हरिः॥४५॥पृथ्वी प्रपालिताऽनेन राजराजोऽप्ययं ह्यभूत् ।तपस्तप्तं तथाऽनेन हंसः सोऽयं पुराभवत् ॥४६॥केशरी सोऽयमेवाऽऽसीत् हिरण्यकोशकान्तकः ।साधुचेष्टो वन्यवासोऽभवत् सोऽयं दयापरः ॥४७॥ह्रस्वरूपो भूमिहर्ता महेन्द्राऽनुज एव च ।अत्रातारः क्षताः पर्शुघातेनाऽनेन सूरिणा ॥४८॥वह्नावाज्यपिबोऽयं वै वृष्टियोगप्रदोऽप्ययम् ।दक्षिणापथगान् दैत्यान् याम्यं प्रापयिता ह्ययम् ॥४९॥ब्रह्मपुत्रः साधुश्रेष्ठो बालरूपः पुरा तु यः ।स एवाऽद्य बालवेषो वर्ततेऽत्र नरोत्तमः ॥५०॥वीणामग्नो महर्षिश्च वेदविद्याविभाजकः ।राधाकान्तः सतीसेव्यो बोधवार्धिरयं हि सः ॥५१॥स्वामी कान्तः पतिः पाता रक्षको जनकः पिता ।राजा द्रष्टाऽन्तरात्मा च बालोऽयं ऋषिसम्मतः ॥५२॥भजध्वं भावतो भक्त्या शाश्वतालयदो यतः ।प्रपद्ये परमेशानं तं ह्यजं वैष्णवप्रियम् ॥५३॥परब्रह्म महात्मानं विश्वस्य जगतः पतिम् ।नमस्तस्मै देवदैत्येश्वरमुक्तादिसेविने ॥५४॥सर्वाक्षाय सर्वव्याप्तात्मनेऽन्तर्यामिणे नमः ।गायन्ति यं गायत्रिणोऽर्चयन्त्येनं समर्पिताः ॥५५॥यत्र सर्वं कारणं च कार्यं क्रिया च साधनम् ।दैवतं सदसश्चापि नमस्तस्मै विलासिने ॥५६॥नमः शान्ताय वरिणे शंखचक्रध्वजाब्जिने ।शूलिने शार्ङ्गिणे चापि वज्रिणे शरिणे नमः ॥५७॥स्वस्तिमते मीनवते नमस्ते प्रभविष्णवे ।नमोऽस्त्वप्रतिरूपाय स्वरूपध्वजधारिणे ॥५८॥नमो नानाभिरामाय नमः पटुतराय च ।नमः सांख्यप्रवक्त्रे ते योगवक्त्रे च ते नमः ॥५९॥नमः श्रुतिप्रवक्त्रे ते न्यायवक्त्रे नमो नमः ।नमो मुक्तिप्रवक्त्रे ते नमः शिक्षाप्रदाय च ॥६०॥नमो मीमांसनवक्त्रे नमोऽमृतप्रदाय च ।नमो हिरण्यवपुषे नमश्चम्पकवर्चसे ॥६१॥नमः स्तुत्याय मन्त्राय सर्वभूतशरीरिणे ।नमो होत्रे नमः शीलव्रतस्थायाऽतिरूपिणे ॥६२॥नमो दीर्घाक्षिणे तुभ्यं सर्वकामप्रदायिने ।नभश्चान्तरनेत्राय सर्वनेत्राय ते नमः ॥६३॥भेदाऽभेदप्रभिन्नाय नमस्ते व्यतिरेकिणे ।छायातपनरूपाय शान्तसत्त्वाय ते नमः ॥६४॥यज्ञभागप्रियायैकमूर्तये ब्रह्मणे नमः ।पञ्चालपुत्रीरक्षाय भगुपुत्रीप्रवाहिने ॥६५॥अनरण्यसुतेशाय नमो नारायणीशिने ।अन्नदायाऽन्नपतये कोशात्मकाय ते नमः ॥६६॥बालानुरूपगोत्रे च बाललीलाविलासिने ।नमो बालाय वृद्धाय मञ्जुकेशाय ते नमः ॥६७॥नमः षट्कर्मतुष्टाय सहस्राभरणाय च ।धर्मार्थकाममोक्षाणामाश्रयाय च ते नमः ॥६८॥नमोऽनन्तगुणैश्वर्यविभूत्याश्रयिणे नमः ।मेघशोभाय चन्द्रार्कताराप्रभाय ते नमः ॥६९॥त्वमन्नमन्नभोक्ता च पक्वभुक् पावनोऽनलः ।वारि त्वं त्वं तथातृप्तिः सुखमानन्द ते नमः ॥७०॥जरायुजाऽण्डजाश्चापि स्वेदोद्भिजास्त्वया कृताः ।त्वमेव चावतारेश भूतग्रामश्चतुर्विधः ॥७१॥स्रष्टा चराचरस्याऽस्य पाता हन्ता त्वमेव ह ।त्वामाहुर्ब्रह्म विद्वांसः परं ब्रह्मविदां गतिः ॥७२॥मनसः परमं ज्योतिर्ज्यातिस्त्वं ज्योतिषामपि ।हंसो वृक्षो मधुकरः प्राहुस्त्वां ब्रह्मवादिनः ॥७३॥यज्ञेष्टकृत् फलनरत्वं त्वामाहुर्मुनयस्तथा ।पठ्यसे स्तुतिभिर्नित्यं वेदोपनिषदां गणैः ॥७४॥नरा नार्यः स्थावरा जङ्गमास्तिर्यञ्च इत्यपि ।त्वमेव विद्यसे कृष्णनारायण जगत्प्रभो ॥७५॥त्वमेव मेघसंघाश्च विद्युतोऽशनिगर्जितम् ।संवत्सरस्त्वमृतवो मासो मासार्धमेव च ॥७६॥युगानिमेषाः काष्ठाश्च नक्षत्राणि ग्रहास्तथा ।त्वं शरी त्वं गदी चक्री खड्गी वज्री शरासनी ॥७७॥छेत्ता भेत्ता प्रहर्ताऽसि मन्ता नेता सनातनः ।समुद्राः सरितः शैला वृक्षाः सरांसि भूस्तराः ॥७८॥लतातृणौषधिवल्लीपशवो मृगपक्षिणः ।पृथुकर्मगुणारम्भः कालः पुष्पफलोदयः ॥७९॥मध्यं बीजं चांऽकुरं च पत्रं काण्डं च ग्रन्थिका ।नालं पुष्पं फलं चापि रसो गन्धस्त्वमेव च ॥८०॥पिष्टं मिष्टं सदेष्टं च त्वमेव परमेश्वर ।पवित्रं च पवित्राणां मंगलानां च मंगलम् ॥८१॥उदयानामुदयाग्र्यं त्वमेव परमा गतिः ।प्राणा निमेषा जृम्भश्च क्षुतं चाऽभ्याहतिस्तथा ॥८२॥ब्रह्मकालयमाग्नीनां शास्ता बोधयिता भवान् ।चनुर्युगश्चनुर्वेदश्चातुहोत्रप्रवर्तकः ॥८३॥चातुराश्रम्यनेता च चातुर्वर्ण्यकरस्तथा ।प्रशिल्पी गणको माता सर्वशिल्पप्रवर्तकः ॥८४॥स्वाहा स्वधा वषट्कारो नमस्कारः स्तुतिस्तथा ।प्रार्थना प्रार्थनीयं च त्वमेव ते नमोनमः ॥८५॥गूढव्रतो गुह्यतपास्तारको भूमिसन्धरः ।धाता विधाता सन्धाता त्वमेव ते नमोनमः ॥८६॥ब्रह्मा शंभुस्तथा विष्णुर्विराड् भूमा त्वमेव च ।तपः सत्यं ब्रह्मचर्यमार्जवं त्वं प्रतोषणम् ॥८७॥भूर्भुवः स्वं जीवसृष्टिरीशसृष्टिस्त्वमेव च ।ब्रह्मसृष्टिः ऋतं दीक्षा दमनं त्वं जनार्दनः ॥८८॥कान्तः प्रियः पतिः स्वामी नारायणस्त्वमेव च ।बिन्दुर्नादो ध्वनिर्ब्रह्म विमर्शः स्फोट इत्यपि ॥८९॥पश्यन्ती च परा मध्या विशिष्टा वाक् त्वमेव च ।गौर्भूमिर्ब्राह्मभक्तश्च साधुः सती च किंकरी ॥९०॥वश्यः सर्वं त्वमेवाऽऽस्से त्वां विना नास्ति नास्त्यपि ।शशांकाऽनलशीतोष्णक्षुत्तृषाश्च जरामयाः ॥९१॥आधयो व्याधयः शान्तिर्भेषजं त्वं जनार्दन ।सोमपास्त्वं च माधुंर्य मरुत्पतिर्जगत्पतिः ॥९२॥अमृताशी जगन्नाथाः कुंकुमेशस्त्वमेव च ।अक्षतेशो गणेशश्च मुक्तेशस्त्वं परेश्वरः ॥९३॥विषाग्निपाः सोमपाश्च क्षीरपा नवनीतपाः ।आज्यपा मधुपाः सर्वभोक्ता त्वं च पितामहः ॥९४॥हिरण्यरेताः पुरुषश्रेष्ठस्त्वमेव चैकलः ।त्वं स्त्रीपुमान् त्वं तृतीयो भावद्वयविवर्जितः ॥९५॥भावत्रयातिगश्चापि भावत्रये प्रवर्तसे ।बालो युवा स्थविरश्च जीर्णदंष्ट्रोऽसि विश्वकृत्। ॥९६॥चन्द्रादित्यौ चक्षुषी ते जिह्वा ते च सरस्वती ।अहोरात्रे निमिषोभे आत्मानस्ते गृहालयाः ॥९७॥न ब्रह्मा न शिवो विष्णुः पौराणा ऋषयो न ते ।माहात्म्यं वेदितुं शक्ता याथातथ्येन बालक ॥९८॥पुंसामीशेश्वराणां मुक्तानां कोट्यर्बुदानि च ।तिष्ठसे त्वं समावृत्य चान्तर्बहिस्त्वमेव सः ॥९९॥महतस्तमसः पारेऽक्षरस्याऽपि परे सदा ।परे धाम्नि परेशस्त्वं राजसे सोऽत्र मूर्तिमान् ॥१००॥यं विनिद्रा जितप्राणाः सत्त्वस्था ब्रह्मवर्तिनः ।परं पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥१०१॥या या मूर्तयः सूक्ष्मास्ते शक्या दर्शयितुं न ताः ।ताभ्यः सर्वाभ्य एवाऽत्र त्वद्रूपाभ्यो नमो नमः ॥१०२॥भक्तानुकम्पी भगवान् भक्तेषु वर्तसे सदा ।केशा मेघा यस्य नाड्यो नद्यः कुक्षौ महाब्धयः ॥१०३॥शयानाय जले हैमे तपस्यते च ते नमः ।येऽङ्गुष्ठमात्राः पुरुषाश्चिदः स्थावरजङ्गमाः ॥१०४॥ये नदीषु समुद्रेषु पर्वतेषु गुहासु च ।वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥१०५॥चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च ।हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥१०६॥येऽपि पञ्चसु भूतेषु दिशासु विदिशासु च ।चन्द्रे सूर्ये सत्यलोके वैकुण्ठाख्यचतुष्टये ॥१०७॥रसातलगता ये च ये च तस्मात् परंगताः ।तव भक्तास्तव दासाः किंकरास्तव केशव ॥१०८॥दास्यः सत्यस्तव भक्ताः किंकर्यस्तव माधव ।नमस्तेभ्यो नमस्ताभ्य उभाभ्यां च नमोऽच्युत ॥१०९॥येषां न विद्यते संख्याः प्रमाणं रूपमेव च ।असंख्यास्ते मुक्तगणा नमस्तेभ्योऽस्तु नित्यशः ॥११०॥प्रसीद बालरूप त्वं स्वकं भावं प्रदर्शय ।त्वयि नो हृदयान्यत्र भवन्तु सत्कथाफलम् ॥१११॥इत्येवं राधिके! तेन स्तुतः कृष्णनरायणः ।कथारम्भे प्रसन्नः सन्नात्मनो दर्शनं ददौ ॥११२॥दिव्यकोट्यर्कभापूर्णं रोमैकैकं तु यस्य वै ।सर्वेऽवतारा यन्मूर्तौ सर्वधामानि यत्र च ॥११३॥सर्वेश्वराः ऋषयश्च देवा मानवकोटयः ।दैत्या ब्रह्माण्डसन्नाहा यद्रोम्ण्येव चरन्ति च ॥११४॥कोटिमुक्ताः कोटिकान्ताः कोटिपाला महेश्वराः ।यत्कुक्षौ भासमानाश्च सर्वतेजांसि यत्र च ॥११५॥सर्वे वै प्रलया यत्र यत्र सर्वाश्च सृष्टयः ।यत्र सर्वे आत्मवर्गा भासन्ते दिव्यदृष्टितः ॥११६॥तादृशं परमं दिव्यं मूर्तं कैशोरशोभनम् ।दर्शयामास भगवान् कृष्णनारायणः स्वयम् ॥११७॥विहस्याऽऽभाष्य कुशलं दिव्यदृष्टिं च सन्ददौ ।विलोक्य ऋषयः सर्वे तथाऽन्ये श्रवणे रताः ॥११८॥लक्ष्मीनारायणसंहितायास्ते ददृशुः प्रभुम् ।अदृष्टपूर्वं हृद्यं च दृष्ट्वा न्यधुर्हरिं हृदि ॥११९॥एवं प्रदर्श्य च पुनः परिहारं चकार ह ।यथा बालो वर्ततेऽत्र तथा बालोऽभवत्पुनः ॥१२०॥तथा दृष्ट्वा कृतकृत्यान् मत्वा स्वान् मुनिपुङ्गवाः ।आनन्दं परमं प्रापुः शश्वन्निर्वाणगा यथा ॥१२१॥एवं साक्षात् संहितायाः पात्रं श्रीपरमेश्वरम् ।साक्षात्कृत्य ततो नित्यं शृण्वन्त्येव कथामृतम् ॥१२२॥एवं मासत्रयं जातं पारायणं परं शुभम् ।कुंकुमवापिकाक्षेत्रे राधिके मोक्षदं तदा ॥१२३॥कथान्ते फाल्गुनीं कृत्वाऽऽस्थाप्य तिर्थानि सर्वथा ।स्वस्वनाम्ना ऋषयश्च वासं तत्रैव चक्रिरे ॥१२४॥तदेतत् संहितातीर्थं कोटितीर्थं प्रगीयते ।ऋषितीर्थं कथातीर्थं दिव्यतीर्थं तदेव च ॥१२५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मार्गशीर्षे ऊर्जव्रतर्षिकृतायालक्ष्मीनारायणसंहिताकथायाः श्रवणप्रसंगे प्रभोर्दिव्यदर्शनम्, ऋषीणां स्तवनानि, ऋषीणां निवासात्तीर्थानि चेतिनिरूपणनामा चत्वारिंशोऽध्यायः ॥४०॥ N/A References : N/A Last Updated : April 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP