संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १०१ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १०१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०१ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके! चक्रवाकी सा पुनः पप्रच्छ मातरम् ।किमर्थं हरिणा त्यक्ता भवतीति वदाऽत्र मे ॥१॥इति पृष्टा जननी सा लक्ष्मीरुवाच पुत्रिकाम् ।हेमशालायनाय श्रीकृष्णः प्राह कथामृतम् ॥२॥शृणु त्वं ते कथयामि भक्तार्थं भगवानपि ।यथा त्यजति लक्ष्मीं च तत्राऽन्यस्य तु का कथा ॥३॥महावैकुण्ठलोके श्रीनारायणपरेश्वरः ।सेव्यते सततं भक्त्या महावैकुण्ठवासिभिः ॥४॥यथा लक्ष्म्या तथा सर्वैस्ततोऽप्यधिकभावनैः ।कृष्णानाम्नी सखी लक्ष्म्या लक्ष्म्यधिका च सेवने ॥५॥स्वगृहे सततं नारायणं रक्षति भामिनी ।स्नानं सुगन्धलेपैश्च सा स्वयं कुरुते प्रिया ॥६॥अंगानां मर्दनैः सम्यक् क्षौरकर्मादिभिः सह ।वस्त्रालंकारभूषाद्यैः शृंगारयति सा सखी ॥७॥पूजाभोजनपानाद्यैः शय्योपस्करणादिभिः ।हसनैर्हास्यभेदैश्च सेवाभेदैर्निरन्तरम् ॥८॥प्रेमभेदैश्च बहुभिः सर्वार्पणैर्दिवानिशम् ।क्षणं वियुक्ता नैवाऽऽस्ते स्वदेहमिव कृष्णिका ॥९॥व्यवस्थायां सदा कृष्णकृष्ण चेति रटत्यपि ।त्रिदेहैः सेवते नारायणं कृष्णं पतिं प्रियम् ॥१०॥एवं तस्या भ्रातरौ द्वी पार्षदौ जयचन्द्रकौ ।सर्वं वै कर्मकाण्डं स्वं चार्पयामासतुर्हरौ ॥११॥महाभागवत्तौ नित्यं नारायणपरायणौ ।हरौ सर्वसुखौ कृष्णं विना क्षणविवर्जितौ ॥१२॥तापसौ च जपमालापरायणौ हरिप्रियौ ।इन्द्रियाऽन्तःकरणानां कृष्णे वृत्तिसमन्वितौ ॥१३॥नवधा भक्तिसम्पन्नौ ध्यानयोगपरायणौ ।सर्वस्वार्पणभावौ तौ भजेते परमेश्वरम् ॥१४॥कृष्णस्तत्रापि वसति यत्र तद्भ्रातृसंस्थितिः ।साक्षात् कृष्णो निवसति किशोरस्तद्गृहे सदा ॥१५॥धेनुपालोऽपि गोपेशो गोपाल इव सर्वदा ।कृष्णनारायणसेवामग्नोऽभवत् पिता तयोः ॥१६॥आत्मसमर्पणैः कृष्णमूर्त्यात्मको यथा तथा ।अवर्तत हरौ प्रेम्णा सर्वसेवापरायणः ॥१७॥अथैकदा ते चत्वारो लक्ष्मीनारायणाय वै ।उपदा विविधा दातुमाययुर्निजमन्दिरम् ॥१८॥अदृश्यरूपतो नारायणश्चायाति तैः सह ।तदा दिव्ये महामहाप्रासादे चान्तरगृहे ॥१९॥शयने श्रीमहालक्ष्म्या सेवितः श्रीनरायणः ।प्रेमसेवां महालक्ष्म्या गृह्णन्नास्तेऽतितन्मयः ॥२०॥महालक्ष्मीः प्रेममग्ना नारायणांगयोगिनी ।परब्रह्ममहानन्दवार्धिमग्नाऽभवत् प्रिया ॥२१॥चिरसेवाभिलाषा सा चिरानन्देच्छया हरेः ।बियोगेच्छारहिता श्रीहर्याश्लेषयुताऽभवत् ॥२२॥एतस्मिन् समये ते तु चत्वारोऽपि सुसेविकाः ।उपदाः संगृहीत्वैव द्वारमागत्य सत्वरम् ॥२३॥कृष्णनारायण विष्णो परमेश्वरकेशव ।हृषीकेश हृदयस्य भक्तेभ्यो देहि दर्शनम् ॥२४॥इत्येवं चार्थनाशब्दं चक्रुर्भक्तिसमन्वितम् ।भगवाँस्तं भक्तशब्दं श्रुत्वा शय्यां विहाय तु ॥२५॥उत्थाय शीघ्रं द्वारस्थं पालं त्वाज्ञापयद् द्रुतम् ।प्रवेशार्थं, ततश्चापि स्वां त्यक्त्वाऽतिसुखप्लुताम् ॥२६॥गतं पतिं न सोवाच किञ्चिद् दासी पतिव्रता ।साक्षान्नारायणानन्दवियोगार्ताऽपि सा प्रिया ॥२७॥प्रतीक्षते हरिं शीघ्रं समायात् केशवश्च माम् ।रामयेतेति चिन्ताढ्या शयने सुस्थिराऽभवत् ॥२८॥तावद् भक्तान् समादाय कान्तो नारायणः प्रभुः ।प्रविवेश गृहान्तःस्थं सिंहासनं युतस्तु तैः ॥२९॥समाजुहाव लक्ष्मीं स्वां नारायणः शुभासने ।लक्ष्मीः प्रसन्नवदना नारायणाभिशब्दिता ॥३०॥समाययौ तदा तूर्णं सिंहासने हरिं प्रति ।साकं श्रीहरिणा लक्ष्मीरुपविष्टाऽऽसनेऽभवत् ॥३१॥चत्वारस्तेऽति सद्भक्त्याऽर्पयामासुस्तदाऽऽहृताः ।विविधा उपदाः सर्वा भोज्यपानावलेहनम् ॥३२॥शृंगारवस्तुसामग्रीर्वस्त्रभूषासुमालिकाः ।अनेकहारहारालीः स्थालीमौक्तिकसंभृताः ॥३३॥फलपुष्पसुगन्धाढ्यान् पदार्थान् सद्रसान्वितान् ।लक्ष्मीशृंगारयोग्याँश्च ददुर्नारायणाय ते ॥३४॥लक्ष्म्यै ददुश्च ते तत्र पुपूजुश्चातिभक्तितः ।तस्थुः स्तुतिं प्रचक्रुश्च ध्यानमग्नास्तदाऽऽभवन् ॥३५॥पूजां कृत्वोपदा दत्वा नोत्तस्थुश्च यदा चिरम् ।लक्ष्मीः रोषं गता विघ्नरूपाणामुपरि द्रुतम् ॥३६॥अप्रकाशं च रोषं सा प्रकाशयति नो बहिः ।नैव वक्तुं समर्थाऽपि हरेरिच्छा विना तु तान् ॥३७॥नोत्थितुं च समर्थाऽस्ति नारायणं विहाय तु ।सरोषा चिन्तयत्येव कदा यास्यन्ति भक्तकाः ॥३८॥पुनर्नारायणं प्राप्स्ये कदा तु शयने सुखम् ।ध्यानमग्नास्तु ते भक्ता ध्याने बद्ध्वा हरिं पुरः ॥३९॥निषेदुस्तु चिरं तत्र तावद्वै श्रीसतीहरौ ।आययतुश्च कैलासाद् वीक्षितुं श्रीं नरायणम् ॥४०॥एकं विघ्नं गतं नैव तावद् द्वितीयमागतम् ।मत्वैवं श्रीः कृष्णपार्श्वे ह्यवशा संस्थिता स्थिरा ॥४१॥शंकरोऽपि तथा भक्तोत्तमो भागवतो महान् ।सती चापि महाभक्ता कस्तावुल्लंघयेत्तदा ॥४२॥नारायणः स्वयं सिंहासनादुत्थाय सत्वरम् ।समाश्लिष्य च शंभुं तं स्वागतं त्वाचरद्धरिः ॥४३॥सत्याश्चापि स्वागतं तु लक्ष्मीराचरदादरात् ।सतीशंभू पूजनादि चक्रतुः श्रीहरेस्तदा ॥४४॥सतीदत्तासने रम्ये निषसाद श्रियाः पुरः ।शंभुर्भागवतो भक्तो नृत्यं चकार नैकधा ॥४५॥चिरं ननर्त प्रेम्णैव श्रीहरेः सन्निधौ हरः ।हरिस्तत्राऽऽकृष्टचित्तोऽभवन्नाऽन्यदवेदिषत् ॥४६॥लक्ष्मीर्नारायणस्पर्शानन्दप्रतीक्षयाऽऽकुला ।नृत्यान्तं निर्जनभावं द्रुतं समभिवाञ्छति ॥४७॥भक्तवश्यो हरिर्नैव लक्ष्मीं स्मरति पश्यति ।भक्तलग्नमना भक्तान् गन्तुं बहिर्न शास्ति च ॥४८॥तदा धैर्यं परित्यज्य वृथासमयहारकान् ।शंकरं च सतीं धेनुपालं जयं च चन्द्रकम् ॥४९॥कृष्णां सखीं शशापैव भवन्तु मानवा इति ।यत्र विघ्नफलं वश्च भविष्यति न संशयः ॥५०॥अकालताण्डवे मग्ना अकालध्यानयोगिनः ।कालापेक्षां विहायैव यतो मे विघ्नकारिणः ॥५१॥सविघ्ना मानवे लोके भवन्तु देहधारिणः ।इत्युक्त्वा श्रीहरिं चापि गृहीत्वा च करे मुहुः ॥५२॥आहाऽऽयातु गृहे कृष्ण विश्रामं कुरु वै क्षणम् ।ईदृशो भक्तव्रातास्ते नाथ कतिपया इह ॥५३॥वर्तन्ते तु विना कालम् आयान्ति स्नेहिला मुहुः ।प्रेमला भक्तकास्ते वै जानन्त्येव न मानसम् ॥५४॥समागच्छ हरे चाऽन्तःशयने शान्तिमावह ।चिरासनस्थितस्याऽत्र श्रमस्ते विपुलो भवेत् ॥५५॥इत्येवमाग्रहं चक्रे नेतुं नारायणं रमा ।शंकराद्यास्तु ते भक्ताः श्रुत्वाऽऽश्चर्यं परं गताः ॥५६॥लक्ष्म्याः शापेन नम्रास्या निस्तेजस्का इवाऽभवन् ।नत्वा नारायणं लक्ष्मीं क्लिष्टां ज्ञात्वा तु सत्वरम् ॥५७॥निर्ययुस्त्वालयाच्छीघ्रं श्रीहरेरन्तिकात्ततः ।निपेतुर्मानवे लोके पश्यतां द्वाररक्षिणाम् ॥५८॥वैकुण्ठवासिनां तत्र हाहाकारो महानभूत् ।सर्वत्र प्रासरद्वार्ता वैकुण्ठे च प्रतिस्थलम् ॥५९॥लक्ष्म्याः शापेन कृष्णद्याश्चत्वारश्च सतीहरौ ।निपेतुर्मानवे लोके ह्यकालज्ञा जडा यथा ॥६०॥तस्मात् तेजस्विनां नेयः क्षणो वृथा न वै क्वचित् ।अकाले नैव गन्तव्यं महतां सन्निधौ क्वचित् ॥६१॥विध्नं नैवाऽपि कर्तव्यं दम्पत्योश्चैकले स्थले ।सुखहा दुःखभोक्ता स्यान्महान् वाऽपीश्वरोऽथवा ॥६२॥विघ्नकृद् विघ्नमृच्छेद्वै दम्पतीविध्नकृत् किल ।हाहाकारोऽभवच्चैशलोकेषु मानवेष्वपि ॥६३॥शंकरो शिवराजेतिनाम्ना राजाऽभवच्छुभः ।कैलासधामनगरे हिमाद्रौ गण्डकीतटे ॥६४॥कृष्णसिंहगृहे पुत्रो मानसो देवयोनिवत् ।महादिव्यो महैश्वर्ययुतोऽर्जुनप्रभः प्रभुः ॥६५॥सती च मानवी जाता षण्माण्डव्यपुरेशितुः ।पुत्री सा जानकी देवी नाम्ना गुणैः शिवासमा ॥६६॥जातिस्मरौ सतीशम्भू विवर्धाते तु देववत् ।वागर्थाविव संपृक्तौ विवाहविधिना पुनः ॥६७॥सुयोग्यसमये संयोजितौ कैलासवासिनौ ।एवं तौ गण्डकीमूले हिमशैले नदीतटे ॥६८॥स्वराज्ये कैलासधाम्नि नगरे राज्यमाप्नुतः ।अथकृष्णा सखी धेनुपालश्चन्द्रो जयस्तथा ॥६९॥निपेतुर्हिमशैले ते कैलासधामपत्तने ।धेनुपालोऽभवद् भ्राता शिवराजस्य चाऽनुजः ॥७०॥कृष्णाऽभवत् सुता तस्य शिवराजस्य सद्गुणा ।चन्द्रादित्योऽनुजस्तस्याऽनुजो जयकुमारकः ॥७१॥कुटुम्बं त्वेकमेवाऽभूत् समशापप्रसंगतः ।सर्वे भक्ता ब्रह्मनिष्ठाः सदा कृष्णपरायणाः ॥७२॥ध्यानयोगतपोनिष्ठा धर्मज्ञानविरागिणः ।सततं ब्रह्मयज्ञाश्च ब्रह्मभावा अमायिनः ॥७३॥सर्वचिह्नैः समायुक्ता मानवैरविनिश्चिताः ।प्रजापालनधर्माश्च महाभागवताः सदा ॥७४॥सततं कृष्णसेवायां वैकुण्ठे इव तत्पराः ।नीपालयप्रदेशेषु हिमशैलेषु गोचराः ॥७५॥वर्तन्ते दिव्यरूपैश्च निसर्गयोगसिद्धिभिः ।वर्तन्ते मानवै रूपैः शापप्राप्तक्रियादिभिः ॥७६॥शापाद् यदा निपेतुस्ते तदा तद्धृदये हरिः ।दुःख्यभूद् भक्तदुःखेन तथापि श्रीं प्रति प्रभुः ॥७७॥वक्तुं शशाक नैवाऽन्यत् सत्त्वसंज्ञो यतो हरिः ।सर्वं सेहे भक्तदुःखं मौनं जग्राह वै क्षणम् ॥७८॥शंकराद्याः समर्थाश्च शप्तुं लक्ष्मीं हरेः पुरः ।तथापि दासभक्तास्ते न शेपुस्तां रमां तदा ॥७९॥माता या जगतामस्ति सा हरिस्पर्शमन्तरा ।विघ्नरूपान् शशापाऽस्मान् योग्यं तन्मेनिरेऽनुगाः ॥८०॥एवं मत्वा हरेरिच्छामिष्टदेवेन निश्चिताम् ।जगृहुः सुखदां मत्वा दण्डरूपामपि प्रभोः ॥८१॥विश्वासः श्रीहरौ तेषां वरदानं हरेर्वचः ।न्यासो हरौ च कार्पण्यं नारायणे परेश्वरे ॥८२॥सति वैभवयोगेऽप्यैश्वर्ययोगेऽपि सर्वथा ।कैंकर्यं तस्य वै तेषामासीद् दिवानिशं हरौ ॥ट३॥मतिः स्थिरा महापत्सु भक्तानामेव वर्तते ।तेषां चैषा मतिः सुस्थाऽभवच्छ्रीपरमात्मनि ॥८४॥सर्वनाशेऽपि भगवान् मा दूरं यातु मानसात् ।आनुकूल्यं हरेर्यत्तु तदानुकूल्यमेव तु ॥८५॥प्रातिकूल्यं हरेर्यत्तु तत्प्रातिकूल्यमेव तु ।दासधर्मः प्रपन्नानामयं यतोऽन्यथा न वै ॥८६॥इति मत्वा च शंभ्वाद्या असहन्त श्रिया वचः ।सती या वैष्णवी भक्ता रुद्राणी प्रलयंकरी ॥८७॥कथं सहेत शापं सा यदि भक्ता न वै हरैः ।जानाति मातरं लक्ष्मीं यतो गुरोः प्रिया हि सा ॥८८॥गुरुपत्नीं सुवन्देत न रोषयेत् कदाचन ।गुरोः पत्नी यदाज्ञां च करोति त्वविचारिताम् ॥८९॥सापि पाल्या यथाशक्ति नकारो वाच्य एव न ।अत्र नारायणः कृष्णो भगवान् स्वामिवल्लभः ॥९०॥गुरुः श्रीवेदवक्ताऽस्ति नावमान्या हि तत्प्रिया ।सती जानाति सर्वं च रतिभंगसमुत्थितम् ॥९१॥दुःखं सर्वं प्रतिकल्पे तस्माच्छापं ददौ न सा ।एवं वै राधिके कृष्णनारायणोऽपि चार्तिहा ॥९२॥हेमशालायननाम्ने जगाद शापकारणम् ।प्राह लक्ष्मीश्चक्रवाक्यै वृत्तं कौटुम्बिकं निजम् ॥९३॥इति श्रीलक्ष्मीनारायणीयसहितायां द्वितीये त्रेतासन्ताने महावैकुण्ठे लक्ष्मीशयनस्थिते भगवति सति समागतकृष्णाधेनुपालचन्द्रादित्यजयादित्यादिसेवकानां सतीशंकरयो-श्चागमे लक्ष्म्या नारायणेन सह शयनसुखभंगे लक्ष्म्याः शापेन तेषां षण्णां मानवलोकेऽवतरणमित्यादिनिरूपणनामैकाधिकशततमोऽध्यायः ॥१०१॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP