संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १०२ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १०२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०२ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके यच्च वैकुण्ठे शपनोत्तरम् ।यदभूत् कमलाकृष्णमध्ये तु कथयामि ते ॥१॥अनादिश्रीकृष्णनारायणो हेमायनर्षये ।यज्जगाद तथा कन्या चक्रवाक्यै जगाद यत् ॥२॥तत्सर्वं ते कथयामि निबोधेकाग्रमानसा ।शापं श्रुत्वा हरिर्नारायणकृष्णो जनार्दनः ॥३॥भक्तदुःखेन दुःखात्मा ह्यनुक्त्वा कमलां तदा ।स्वयं त्वचिन्तयत् कृष्णो न्याययुक्तं शुभास्पदम् ॥४॥अहो व्यक्तेस्तु वैचित्र्यं विलक्षणपदं गतम् ।सर्वदा तोषयाम्येनां लक्ष्मीं हृदयवासिनीम् ॥५॥क्षणं दूरं करोम्येव नहि क्वचित्तथापि सा ।अतृप्ता मे महानन्दादधीरेव प्रभाषते ॥६॥मद्भक्तानां कृते चापि सहते न क्षणं सती ।मद्वियोगं न सहते सहते न चिरायनम् ॥७॥सदा सौख्यं ददाम्येव यथाऽऽत्मने तथा श्रियै ।यथा श्रिया वियोगो मे नेष्टस्तथा न सेविनाम् ॥८॥नारीणां तु स्वभावोऽयं स्वार्थश्चेन्नहि पूर्यते ।क्षणे परवज् जायेत फलं दुष्टं प्रयच्छति ॥९॥यद्यपि नैव लक्ष्मीस्तु भक्ता त्याज्या कदाचन ।भक्तोत्तमाऽतिभक्ता मे पत्नी प्रिया सखी स्वयम् ॥१०॥शंकरोऽपि यथा भक्तो भक्ता सती च कृष्णिका ।जयश्चन्द्रो धेनुपालस्ततो भक्तोत्तमा रमा ॥११॥तथापि भक्तवर्येषु स्नेहदर्शनहेतवे ।भक्ताः स्निग्धा मम लक्ष्म्यपेक्षया नितरां सदा ॥१२॥भक्तदुःखप्रदा चेत् स्याल्लक्ष्मीर्यद्यपि मे प्रिया ।भक्तार्थं सन्त्यजाम्येनां दृष्टान्तं कमला स्वयम् ॥१३॥भवेदत्र विधाने तु तथा कुर्वे निदर्शनम् ।शापफलं मे लक्ष्म्या श्च प्राप्तं भवेन्निदर्शने ॥१४॥शिक्षाऽपि च यथार्था स्यात् पुनर्नैवं चरेत् क्वचित्॥इत्येवं संविचार्यैव भगवान् शोकमावहन् ॥१५॥भक्तदुःखेन दुःखात्मा न वक्ति श्री न पश्यति ।निर्मनस्क इव जातो नापि हसति वै मनाक् ॥१६॥नोर्ध्वं पश्यति मनसा महोद्विग्नो विभासते ।यथा वै मातृमरणे यथा पत्नीविनाशने ॥१७॥यथैकपुत्रनाशे वा शोकस्तथा विभाव्यते ।यथा क्षणान्तरे गेहं त्यक्त्वा यास्यति वा क्वचित् ॥१८॥यथा सर्वस्वनाशे वा भग्नमानसवान् भवेत् ।तथा वैराग्यमापन्नो नारायणो विलोक्यते ॥१९॥यथा जितेन्द्रयग्रामो जितान्तःकरणादिकः ।मायापारस्थितिश्चास्ते तथा नारायणोऽभवत् ॥२०॥लक्ष्मीर्विहस्य बहुधा हावभावैः समायुता ।हस्तं हस्ते गृहीत्वाऽति कृत्वा प्रचुम्बनं मुहुः ॥२१॥नारायणं समाकृष्य गृहान्तरे निनीषति ।नारायणस्तु शववत् तथा प्रस्तरवत्तदा ॥२२॥जडवद् भक्तशोकेन सञ्जातः परमेश्वरः ।यद्गृहे निजभक्तानामाश्रयः सुखदोऽस्ति वै ॥२३॥तद्गृहे यदि भक्तानां शापदुःखं प्रजायते ।तत्र किं मे निवासेन विचार्येत्थं जगाद ताम् ॥२४॥मा मां स्पृशाऽत्र वामोरु मा खेदं कारय वृथा ।यद्गृहे मम भक्ताना शापस्तत्र न मे स्पृहा ॥२५॥याहि त्वं शयने साध्वि न मे शय्या सुखावहा ।महाभागवताः शप्ताश्चातो दुःखतरं नु किम् ॥२६॥प्राघूणिकाः सदा मान्यास्तत्रापि निजभक्तयः ।मदर्थेकृतसर्वस्वाः पूज्या मान्याः सदा मम ॥२७॥मद्भक्तार्थ सदा लक्ष्मि! मालामावर्तयाम्यहम् ।मद्भक्तार्थं च लोकेषु सर्वदाऽवतराम्यहम् ॥२८॥नरनारायणश्चाऽस्मि तापसो भक्तहेतवे ।क्षीरोदे श्वेतभूमौ चाऽक्षरक्षेत्रे नरायणः ॥२९॥गोलोके चापि वैकुण्ठेऽव्याकृतेऽमृतधामनि ।यत्र वसन्ति मे भक्तास्तत्र तिष्ठामि पद्मजे ॥३०॥अहं भक्तगृहावासो भक्तैः सह विहारवान् ।भक्तालयो मे वैकुण्ठो नान्यद्वै रुचिरं मम ॥३१॥मे भक्तानां दुःखप्राप्तौ निमित्तं मद्गृहं यदि ।तदा वैकुण्ठनामाऽस्य यथार्थतां प्रहन्ति वै ॥३२॥यद्वै शाश्वतसुखदं धाम मे ख्यातमैश्वरम् ।तद् यदि दुःखदं जन्मप्रदं चेत् का विकुण्ठता ॥३३॥तत्रापि देवदेवस्य शंकरस्य प्रियस्य मे ।सत्याश्च मम भक्तायाः शापो मानवजन्मदः ॥३४॥किमतः परमं दुःखं दुष्कीर्तिप्रदमुल्बणम् ।कृष्णायास्तव सख्याश्च जयचन्द्रकयोरपि ॥३५॥धेनुपालस्य च तथा पार्षदस्य निपातनम् ।कथं ते चेदृशी बुद्धिरकाण्डताण्डवी प्रिये ॥३६॥अप्रयोज्यं प्रोक्तवती भक्तभक्तिविरोधिनी ।कदापि न त्वया त्वेवं कृतं कृतं तु शंकरे ॥३७॥मया किमत्र कर्तव्यं विरोधिस्त्रीयुते गृहे ।भोजनं मिष्टमृष्टादि भक्तं विना विषायते ॥३८॥पेयं शीतसुगन्धाढ्यं भक्तं विनाऽनलायते ।वस्त्रं सौम्यं च कौशेयं विना भक्तं शरायते ॥३९॥भूषणं स्वर्णरत्नादि विना भक्तं झषायते ।सुगन्धतैलवासादि न भक्ते कर्दमायते ॥४०॥सर्वं ज्वालायते सौख्यं मे हृदि भक्तमन्तरा ।लक्ष्मि शंभुं विना चाहं दह्यामि शापवैभवात्॥४१॥भक्तशापः स मे शापो मच्छापस्तत्तवापि च ।अंशाऽर्धांगस्वभावत्वाद् दुःखदो नात्र संशयः ॥४२॥त्वं न जानासि माहात्म्यं मद्भक्तानां महत्तमम् ।सनत्कुमारो जानाति भक्तमाहात्म्यमुच्छ्रितम् ॥४३॥यदि नेत्रे न पश्येतां मद्भक्तान् मामुपस्थितान् ।निष्कास्य गोलकाभ्यां ते दूरीकरोमि सर्वदा ॥४४॥यदि मे मस्तकं नैव नमते भक्तयोगिने ।गलात् संछिद्य दूरं तन्निक्षिपामि न संशयः ॥४५॥यदि कर्णौ शृणुयातां नैव भक्तवचांसि मे ।तौ मूलात् संछिद्य दूरे निक्षिपामि न संशयः ॥४६॥यदि नासा भक्तगन्धं नैव गृह्णाति मे तदा ।सञ्छिद्य मूलतो नासां दूरं क्षिपामि पद्मजे ॥४७॥यदि जिह्वा भक्तगाथां नैव गायति सर्वदा ।यदि वा रसना भक्तार्पितं रसं न ऋच्छति ॥४८॥तदा मूलाद् विनिष्कास्य जिह्वां त्यजामि नित्यदा ।यदि चौष्ठौ भक्तदत्तं ताम्बूलादि न ऋच्छतः ॥४९॥यदि दन्ता न भक्तैर्यच्चर्वयन्ति समर्पितम् ।तदौष्ठदन्तकान् शस्त्रैश्छेदयित्वा त्यजामि वै ॥५०॥यदि हस्तौ स्वभक्तानां सेवायां नोपयोगिनौ ।छिन्द्यामामूलतस्तौ संत्यजेयं काष्ठवत्तु तौ ॥५१॥वक्षो यदि न भक्तानामाश्लेषे चोपयोगवत् ।तदा वक्षः समुत्पाट्य त्यजामि गर्तके सदा ॥५२॥यदि मे हृदये भक्ता वसेयुर्न कदाचन ।हृदयं रक्तसहितं निष्कास्य संक्षिपामि हि ॥५३॥यद्युदरं मे पचनं भक्तार्पितस्य नेष्यते ।विभिद्य सर्वं त्वरितं त्यजामि नात्र संशयः ॥५४॥यदि त्वङ् मम भक्तानां स्पर्शं संरोचते न वै ।उत्पाट्य वर्ष्मणस्तूर्ण निक्षिपामि महानले ॥५५॥यदि वीर्यं बलं लिङ्गं भक्तानां सुखकृन्न मे ।तदा विनाश्य तत्सर्वं षण्ढत्वं प्रकरोमि मे ॥५६॥यदि चोरू प्रभक्तानामुपवेशार्थमेव न ।तदा त्यक्त्वा कबन्धो वै भवामि भक्तकारणात् ॥५७॥यदि पादौ मम भक्तान् प्रति यातो न वै तदा ।कुठारेण विनिच्छिद्य पादहीनो भवामि वै ॥५८॥देहो मे यदि भक्तानां सौख्यार्थं न प्रजायते ।तथा प्रोद्भाव्य वह्निं च करोमि भस्मसान्ननु ॥५९॥गुणा बुद्ध्यादयश्चापि यदि भक्ताऽऽश्रिता न मे ।गुणाँस्त्यक्त्वा निर्गुणश्च वसामि गहने वने ॥६०॥वहुनोक्तेनाऽत्र किं ते त्वं यदि भक्तरोधिनी ।भक्तक्लेशकरी भक्तिविघ्नकरी प्रवर्तसे ॥६१॥भक्तदुःखकरी वापि भक्तशान्तिविरोधिनी ।त्वां त्यजामि रमे तर्हि किमन्यन्न त्यजामि वै ॥६२॥सर्वं त्यजामि सर्वस्वं भक्तार्थं नात्र मे स्पृहा ।भक्तनाशे विनष्टं मे सर्वमवेहि पद्मजे ॥६३॥भक्ते तु रक्षिते सर्वं रक्षितं मम विद्धि तु ।अहो श्रीशंकरः कुत्र मानवो वै भविष्यति ॥६४॥अहो सती प्रिया तस्य मानवी क्व भविष्यति ।अहो कृष्णा प्रिया दासी भक्ता वा क्व जनिष्यति ॥६५॥अहो वै धेनुपालोऽपि जयश्चन्द्रस्तथा रमे ।तव शापेन भूमौ ते भविष्यन्त्यसुखस्थले ॥६६॥यावज्जानामि नैतेषां स्थितिं जन्मवतां रमे ।तावत् सुखं न मे चास्ति गच्छामि यत्र तेऽप्यहम् ॥६७॥इत्युक्त्वा कमलां त्यक्त्वा त्यक्त्वा श्रीकमलाकरम् ।त्यक्त्वा सिंहासनं रम्यं प्रासादं धाम चोज्ज्वलम् ॥६८॥वैकुण्ठं सर्वथा त्यक्त्वा त्यक्त्वा स्नेहपदं हरिः ।निर्ययौ विमना भूत्वा त्यक्त्वा गरुडमित्यपि ॥६९॥पश्चादनवलोक्यैव ब्रह्माण्डे भूतलं ययौ ।रोरूयमाणां नाऽपश्यत् लक्ष्मीं प्राणातिवल्लभाम् ॥७०॥नाथ नाथ व्याहरन्तीं श्रीहरिर्भूतलं ययौ ।अदृश्योऽव्यक्तदेहश्च मणिजन्येऽत्र भूतले ॥७१॥अश्वपट्टसरःक्षेत्रेऽक्षरक्षेत्रे ह्यवातरत् ।अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥७२॥परब्रह्माऽऽक्षराऽतीतोऽवताराणां नियामकः ।क्षेत्रे कुंकुमवाप्याख्ये कंभराश्रीगृहे तदा ॥७३॥श्रीमद्गोपालकृष्णस्य गृहे दिव्यर्द्धिसंयुते ।नारायणाऽऽगमनस्य निमित्तेनाऽप्यवातरत् ॥७४॥अनादिश्रीकृष्णनारायणे श्रीपुरुषोत्तमे ।आगत्य लीनतां प्राप्य तस्थौ चाऽश्वसरोऽन्तिके ॥७५॥ततोऽनादिकृष्णनारायणस्याऽऽदेशतो भुवि ।यथावज्ञातरूपोऽसौ गवेषणार्थमुत्तरे ॥७६॥हिमालयाश्रये देशे नीपालयप्रदेशके ।कैलासधामराज्ये च शिवराजं कुमारकम् ॥७७॥अन्वेष्य शंकरं भक्तं तत्र तस्थावगोचरः ।ततः सतीं मार्गयितुं षण्माण्डव्यपुरीं ययौ ॥७८॥तत्र कन्या जानकीति नाम्ना सती च साऽभवत् ।तत्रापि वर्तते नारायणोऽदृश्योऽनुगप्रियः ॥७९॥तयोर्विवाहतो जाता कृष्णा जयश्च चन्द्रकः ।धेनुपालः शिवराजभ्राता च तत्र संस्थितः ॥८०॥नारायणश्च तद्भक्तैः सार्धं संवसति प्रभुः ।अप्रकाशः सह भुंक्ते रमते वर्ततेऽनिशम् ॥८१॥क्वचिदायात्यक्षरं च क्षेत्रं त्वश्वसरोवरम् ।क्वचित्तत्र शिवराजगृहे तिष्ठति भक्तितः ॥८२॥इत्येवं भगवान् लक्ष्मीं त्यक्त्वा भक्तार्थमेव तु ।समाययौ च ब्रह्माण्डे भक्तमध्ये निवासकृत् ॥८३॥अथ वैकुण्ठगा लक्ष्मीर्ज्ञात्वा स्वां प्रविहाय तु ।वैकुण्ठं चासनं धामालयं त्यक्त्वा नरायणः ॥८४॥जगाम चिरयात्रार्थं भक्तार्थं मानवे भवे ।शुशोच बहुधा तत्र रुरोद शून्यवद्गृहे ॥८५॥तुष्टाव बहुधा वाण्या दोषान्निजान् जगाद च ।अहं वै चञ्चला लक्ष्मीर्दुःखदोषानुकारिणी ॥८६॥गर्वादीनां सदा हेतुर्दीनानामसहायिनी ।पापाऽन्यापकृतां गेहे वासो मे बहुधा मतः ॥८७॥हिंसाऽनृतादिदोषाणां गृहं चाधर्मपुष्टिदा।मायाकापट्यभोगादिस्थानं पूज्यावमाननम् ॥८८॥शीलहानिः शुद्धिहानिस्तृष्णा रागोऽतिगृध्नता ।चौर्यं प्रसह्यता चाधिक्षेपो दोषा मदाश्रयाः ॥८९॥चञ्चला न स्थिरा क्वापि वैमनस्यविधायिनी ।सर्वहरतगता चाऽस्मि तथापि करुणालयः ॥९०॥भगवान् मां स्वहृदये रक्षत्यतिकृपावशः ।न मां निष्कास्य भुंक्तेऽपि स्वयं भोगान् दयापरः ॥९१॥सर्वं दत्वा तु मे कृष्णः स्वयं गेहाद्विनिर्गतः ।कीदृशं चास्य सारल्यं न मे दुःखं प्रयच्छति ॥९२॥न मां तिरस्करोत्यल्पं सहतेऽविनयं मम ।अशुद्धां मां सदा भक्तां भक्त्यधीनः प्ररक्षति ॥९३॥पातिव्रत्यं न मे सम्यक् तथापि भगवान् स्वयम् ।पत्नीव्रतपरो भूत्वाऽवत्यधिकं निजादपि ॥९४॥मां विहाय न भुक्तेऽसौ न वै पिबति वार्यपि ।मां विना यत्र पक्वान्नं कृतं त्वन्येन तत् खलु ॥९५॥नैव पश्यति गृह्णाति नैव नैवाऽत्ति केशवः ।पाचकेषु प्रवेशो मे यदा स्याच्चेत्तदा हरिः ॥९६॥भुंक्ते नैवेद्यमाप्तान्नं नान्यथा वै क्वचिद्धरिः ।वस्त्रं रत्नं जलं पात्रं ताम्बूलमन्नमञ्जनम् ॥९७॥भूषणं चन्दनं स्वर्णे यानं वाहनमीशता ।आसनं शयनं वस्तु चोपदाः फलमर्पणम् ॥९८॥सर्व मामसमर्प्याऽयं मे नाथो भुक्त एव न ।अहो विचारतः कृष्णः श्रेष्ठः पत्नीव्रतस्थितः ॥९९॥चञ्चलाऽपि स्नेहपात्रं नेदृश्यहं पतिव्रता ।अहो मे सर्वसौभाग्यं विना कान्तं हि निष्फलम् ॥१००॥वैकुण्ठं सम्पदः सर्वा भोग्यजातं च निष्फलम् ।दासा दास्यो वाटिकाश्च विमानोद्यानभूमयः ॥१०१॥सौधप्रासादकलशा गजाऽश्वरथधेनवः ।भूषाम्बराऽमृतपानं कान्तं विना हि निष्फलम् ॥१०।गृहात्कान्तो विनिर्यातो ममैव दोषकारणात् ।अहो मृता कथं नाऽहं कथं शवो भवामि न ॥१०३॥कान्तं विना श वश्चाऽस्मि जीवनं निष्फलं यतः ।इत्येवं विललापेयं कृष्णनारायणप्रभो! ॥१०४॥नाथ श्मशानसदृशं वैकुण्ठं त्वां विना मम ।इत्युक्त्वा निपपातेयं सिंहासनसमीपतः ॥१०९॥मूर्छां क्षणं समासाद्य पुनरुत्थाय वेगतः ।कान्त कान्तेति चाक्रोशं कुर्वाणा द्वारमागता ॥१०६॥मूर्छयाऽङ्गनभागे सा पुनः पपात निर्बला ।तावत् सख्यः समायाताः किमिदं किमिदं ब्रुवाः ॥१०७॥तर्कयन्त्योऽप्यनिष्टं च तच्छोकेनाऽतिशोकिताः ।दुःखिताः पवनाद्यैश्च जलसेचनकैस्तथा ॥१०८॥पुष्पार्पणादिभिश्चापि मूर्छामपानुदंस्तु ताः ।पप्रच्छुः किमकाले ते दुःखमेतदुपस्थितम् ॥१०९॥प्राह लक्ष्मीर्हरिः क्वापि वैकुण्ठान्निर्ययौ चिरम् ।मां विहाय च सर्वाश्च भक्ता भक्तान् नरायणः ॥११०॥श्रुत्वैवं वज्रपाताभं वचो लक्ष्म्यास्तु ता अपि ।मूर्छामवापुरत्युग्रां श्रुत्वाऽनिष्टं च राधिके ॥१११॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीलक्ष्म्याः शंभ्वादौ शापोत्तरं श्रीनारायणस्य कमलां त्यक्त्वा वैकुण्ठान्निर्गम इत्यादिनिरूपणनामाद्व्यधिकशततमोऽध्यायः ॥१०२॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP