संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १७३ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १७३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७३ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके तत्र यवक्रीताय चर्षये ।भगवान् प्रददौ ज्ञानं गांगेयाय महात्मने ॥१॥राज्ञे राजकुटुम्बाय प्रजाभ्यश्चापि शोभनम् ।पारम्पर्यप्ररक्षार्थं शिष्यत्वावेदकं निजम् ॥२॥यवक्रीतोरलकेतोः राज्ञ्यस्तथा प्रजास्त्विमाः ।शृण्वन्तु मम वाक्यानि कृष्णमूलपराणि वै ॥३॥अहं श्रीभगवानस्मि परब्रह्म परात्परः ।अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥४॥अक्षरात्तु परे धाम्नि दिव्ये विराजमानकः ।दिव्यमूर्तिर्निवसामि दिव्यमुक्तप्रसेवितः ॥५॥अहं मम स्वरूपस्य ज्ञानं ददामि वै मुहुः ।भक्तेभ्यो मुक्तसंज्ञेभ्यो मुक्तानीभ्यस्तथा क्वचित् ॥६॥क्वचिद् ब्रह्मप्रियाभ्यश्च राधायै च श्रियै क्वचित् ।क्वचिल्लक्ष्म्यै रमायै च माणिक्यायै क्वचित्तथा ॥७॥रमायै च जयायै च ललितायै तथा क्वचित् ।पद्मावत्यै महालक्ष्म्यै पार्षदेभ्यस्तथा क्वचित् ॥८॥आयुधेभ्यो विभूषाभ्यो गुणेभ्यश्च तथा क्वचित् ।ऐश्वर्येभ्यश्च शक्तिभ्यः क्वचिद्भक्तेभ्य इत्यपि ॥९॥ज्ञानं सम्यक् स्वरूपस्य प्रददामि तु सेविने ।सम्प्रदायः स वै प्रोक्तो ज्ञानात्मकः प्रमुक्तिदः ॥१०॥ज्ञानं चाहं परब्रह्मास्मीति जानन्तु सर्वथा ।दीयतेऽद्य मया त्वत्र भवद्भ्यः सर्वथोत्तमम् ॥११॥मया साक्षात्तु तद् दत्तं ग्राह्यं धार्यं सदा हृदि ।मत्तोऽवतारा जायन्ते कृष्णाद्याः कोटिशः सदा ॥१२॥चतुर्विशत्यवतारास्तथाऽन्येऽपि सहस्रशः ।मत्तः सर्वे प्रजायन्ते मदैश्वर्यान्वितास्तु ते ॥१३॥नारायणास्तथा सर्वे जायन्ते मत्स्वरूपतः ।वासुदेवादयो व्यूहा जायन्ते मम मूर्तितः ॥१४॥भूमादयस्त्वीश्वराश्च ममांशाः सर्व एव ते ।ब्रह्मविष्णुमहेशाद्या ममांशाऽशा भवन्ति ते ॥१५॥राधारमादिकाः सर्वा मम सन्ति प्रशक्तयः ।गोलोकं चापि वैकुण्ठं चामृतं च किलासनम् ।ममाक्षरप्रदेशास्ते प्रान्तधामानि सन्ति मे ॥१६॥अक्षरं धाम सर्वेशं सर्वेभ्यो मानवर्जितम् ।अन्यधामानि सर्वाणि मानवन्ति भवन्ति मे ॥१७॥महन्नगरमभितो यथा शाखापुराणि हि ।बृहद्धामाभितस्तद्वच्छाखाधामानि तानि वै ॥१८॥सम्राडस्म्यवताराणां सर्वे ममांशयोगिनः ।एवं वै वर्तमानस्य नियामकस्य मे परम् ॥१९॥अक्षराच्च बृहतोऽपि धामाऽस्ति परमोत्तमम् ।मन्मूर्तेरभितश्चस्ते मम धाम परोत्तमम् ॥२०॥तस्माच्च परधामाद्वै तेजो यन्निर्गतं पुरः ।तदक्षरं बृहद्धाम भण्यते सर्वबुद्धिषु ॥२१॥तस्माद् बोध्यं मम धाम त्वक्षराद् परमं बृहत् ।अक्षरं तु ब्रहत्प्रोक्तं धामान्यन्यानि सीम्नि च ॥२२॥अक्षरस्यैव तिष्ठन्ति ततश्चेश्वरकोटयः ।ततोऽष्टावरणान्येव मलिनानि भवन्ति हि ॥२३॥ततो ब्रह्माण्डलोकाश्चोड्डयन्ति त्वणुवत् सदा ।सर्वेष्वहं सदा चान्तर्यामितया वसामि च ॥२४॥अत्र योऽस्मि स तत्राऽस्मि बालकृष्णः परः प्रभुः ।अत्र मे योगमापन्नास्ते सर्वे परधामगाः ॥२५॥अहं सदैकरूपोऽस्मि सर्वैश्वर्यादिसंभृतः ।जनास्तु भिन्ननेत्रा मां स्वीयदृष्ट्या स्ववत् सदा ॥२६॥पश्यन्ति देववद् देवाः पश्यन्ति मर्त्यवन्नराः ।पश्यन्ति सिद्धवत् सिद्धाः ऋषयः ऋषिवत्तथा ॥२७॥पितरः पितृवच्चापीश्वरा ईश्वरवत्तथा ।अवताराः स्ववच्चापि मुक्ता मुक्तसमं तथा ॥२८॥ब्रह्मा तु ब्रह्मवच्चापि मायिका मायिकं यथा ।महामुक्ताः स्ववच्चापि मां पश्यन्ति सदा स्ववत् ॥२९॥अनन्ताऽपाररूपोऽहं चाऽप्रमेयोऽस्मि सर्वथा ।स्वरूपेण स्वभावेन गुणैर्भावैश्च सर्वदा ॥३०॥नान्तोऽस्ति मम दिव्यानां स्वरूपाणां कुतस्तु मे ।विभूतीनां न मे त्वन्तः कुतो मे मानता तदा ॥३१॥अहमानन्दवानस्मि तेन जीवन्ति जीविनः ।यत्रानन्दश्च तत्राऽहं विदित्वैवं च मां भजेत् ॥३२॥नरो वा यदि वा नारी ततो मोक्षमवाप्नुयात् ।मोक्षिकेयं हि नगरी मया त्वागत्य सत्कृता ॥३३॥मम ज्ञानेन लोकानां वसतां मोक्षदा न्वियम् ।शरीरेणेन्द्रियैर्भावैरन्तःकरणकैश्च माम् ॥३४॥प्रभजन्ति जना ये मामान्तरस्थं तरन्ति ते ।सर्वदा कर्मकाण्डे वै दैहिके मानसेऽथवा ॥३५॥ऐन्द्रियकेऽपि मद्भानं तदेव मोक्षदं मतम् ।निर्गुणं मत्कृते सर्वं दिव्यं वैषयिकं च वा ॥३६॥इत्येवं च जडं चापि चेतनं वर्ष्म मे मतम् ।तत्राऽहं सर्वदा चास्मि विशिष्टोऽहं भवामि च ॥३७॥चुल्लिकायां तथा काष्ठे वह्नौ भ्राष्ट्रे कपालके ।पिष्टे च रोटके चाहं कर्त्र्या भोक्तरि चाप्यहम् ॥३८॥जाठरे चोदरे सर्वविकृतौ च बलेऽपि च ।धातुष्वहं च गर्भादौ बालेऽहं यौवनेऽप्यहम् ॥३९॥वार्धके च शवे भूतीभावे चाहं वसामि हि ।पुनः खाद्ये खादके च बीजे वृक्षे कुठारके ॥४०॥छेदने छेत्तरि द्वैधीभावे समित्सु चाप्यहम् ।एवं सर्वत्र निधने पुष्टौ च जननेऽस्म्यहम् ॥४१॥मद्विना नाऽप्यणुस्त्वस्ति मया सर्वं त्वधिष्ठितम् ।एवं ज्ञात्वा सर्वविधां मम मूर्तिं भजेत् सदा ॥४२॥तदा नैर्गुण्यमासाद्य मम भावाय कल्पते ।एतज्ज्ञानं मया धाम्नि परे पुरा तु सर्जने ॥४३॥माणिक्यायै मम देव्यै वाहायै चार्पितं ध्रुवम् ।तया तु दुःखहालक्ष्म्यै दत्तं तया तु शंभवे ॥४४॥शिवराजस्वरूपाय शिवेन निजयोषिते ।सत्यै दत्तं तया पुत्रगणेशाय पुराऽर्पितम् ॥४५॥तेन बुद्धयै तथा सिद्ध्यै ताभ्यां तज्ज्ञानमुत्तमम् ।पद्मावत्यै रमायै च ताभ्यां हिरण्यगर्भिणे ॥४६॥तेन चानेकशिष्येभ्यो बहुशाखागतं ततः ।बहुधा वर्धितं सम्प्रदायशाखासु वर्तते ॥४७॥विघ्ना वै सम्प्रदायस्य नाशकास्तु भवन्त्यपि ।तैर्ज्ञानं न पराभाव्यं यद्यहं संस्मृतोऽन्तरे ॥४८॥सम्प्रदायो रक्षणीयः शिष्यैः प्रशिष्यकैस्ततः ।तन्वा च मनसा बुद्ध्या धनैर्ज्ञानैः सुमन्दिरैः ॥४९॥ज्ञानाऽवनार्थमेवात्र शास्त्रं त्वपेक्ष्यते सदा ।वेदाश्च संहिता चापि सर्ववेदार्थबोधिनी ॥५०॥लक्ष्मीनारायणसंहितेयं रक्ष्या सदा हृदि ।तद्व्याख्याता गुरुर्धार्यः पूजार्थं मम रूपवान् ॥५१॥गुरुर्वै दीक्षितः संहिताज्ञो मदात्मको हि सः ।संहितार्थं ज्ञापयेत् स कथा द्वारा सदा जनान् ॥५२॥मम पूजाप्रकारादि प्रकुर्यात् लिखितं यथा ।पूजार्थं मम मूर्तिश्च स्थिरा स्थाप्या सुमन्दिरे ॥५३॥राधया रमया लक्ष्म्या श्रिया माणिक्यया सह ।पद्मावत्या रमया गंगया विरजया सह ॥५४॥सरस्वत्या दुर्गया भ्वा ब्रह्मप्रियादिभिः सह ।जयया पद्मया वृन्दया तुलस्या च हंसया ॥५५॥मंजुलया सद्गुणया स्थाप्या ललितया सह ।देव्या च मुक्तया हैम्या शान्त्या वा चम्पया सह ॥५६॥तत्पूजायाः प्रवाहर्थं भूग्रामादिसमर्पणम् ।कर्तव्यं विधिना राज्ञा धनाढ्यैस्तु धनार्पणम् ॥५७॥विद्यायास्तु पराया मे दानार्थं पाठशालिकाः ।विद्यालया विशालाश्च कारणीया हि बोधदाः ।शिक्षका योजनीयाश्च पूजका मन्दिरेऽपि मे ॥५८॥पुस्तकानां प्रचारश्च कर्तव्यो मानवेष्वपि ।देवेषु चान्यलोकेषु पातालेष्वपि सर्वथा ॥५९॥तत्र तत्रत्यसंहिताभागप्रसारमाचरेत् ।एवं षडंगरूपेण सम्प्रदायः प्रवर्तते ॥६०॥विद्या शास्त्रं गुरुर्मूर्तिर्मन्दिरं शिष्यवर्गकः ।विद्या प्रोक्ता परा मन्त्रो नाम चाराधनादिकाः ॥६१॥अपरा बहुधा ज्ञानं व्यवहारेण मिश्रितम् ।शास्त्रं वेदाः संहिताश्च गुरोर्वाणी हरेर्वचः ॥६२॥गुरुस्तु वैष्णवो ज्ञानमन्त्रशास्त्रादियोजकः ।मूर्तिश्चाहं स्वयं पत्नीसहितः परमेश्वरः ॥६३॥मुक्तैर्भक्तैः प्रियाभिश्च सहाऽऽर्यः कृष्णवल्लभः ।अवताराश्च मे सर्वे व्यूहा मे कार्यकारिणः ॥६४॥अंशाः कलास्तथाऽऽवेशा विभूतयः स्वरूपिणः ।पूर्णाश्चोपासका भक्ता नारायणास्तथाऽपरे ॥६५॥मन्दिरं शतकलशं सहस्रकलशं तथा ।सौवर्णं च तथा दिव्यं मणिजं कारयेद् दृढम् ॥६६॥शिष्यवर्गा भवेयुर्वै मन्त्रग्रहणसेवनैः ।साधवो गृहवर्गाश्च नरा नार्यो हि सेवकाः ॥६७॥बाला युवानो वृद्धाश्च सधवा अधवा अपि ।बालिकाश्च कुमाराश्च विज्ञा विज्ञानवर्जिताः ॥६८॥राजा प्रजाः प्रधानाश्च ब्रह्मिष्ठा वीतरागकाः ।सन्यासाः साधवो योगाभ्यासाश्च यतयस्तथा ॥६९॥मानवा अपि षण्ढा ये ये केऽपि सम्प्रदायिनः ।भजेरन् मां सदा भावभराः कपटवर्जिताः ॥७०॥तृष्णारागद्वेषमन्युद्रोहेर्ष्यावर्जितास्तथा ।भजेयुर्मां तदा सम्प्रदायो शाश्वतो भवेत् ॥७१॥निर्दोषैस्त्वाश्रितैः सम्प्रदायः प्रकाशतां व्रजेत् ।सदोषैस्त्वाश्रितैः सम्प्रदायश्चान्ध्यमुपाव्रजेत् ॥७२॥यत्र नास्ति गुरुर्बोद्धा नित्यतृप्तो निरीहकः ।यमैश्च नियमैर्युक्तः सम्प्रदायः स नश्यति ॥७३॥यत्र नास्ति गुरुस्त्यागी वैराग्यवान् जितेन्द्रियः ।शास्त्रज्ञो धर्मशीलश्च सम्प्रदायः स नश्यति ॥७४॥यत्र नास्ति गुरुर्ज्ञाता ज्ञानदोऽज्ञाननाशकः ।सर्वशास्त्रव्यापकश्च सम्प्रदायः स नश्यति ॥७५॥यत्र गुरुर्द्रव्यहर्ता व्यसनी चानृती तथा ।स्वार्थमात्रपरस्तृष्णी सम्प्रदायः स नश्यति ॥७६॥यत्र गुरुर्दयाहीनः पारक्यान् मनुते श्रितान् ।दुःखे प्रक्षिपति शिष्यान् सम्प्रदायः स नश्यति ॥७७॥यत्र गुरुर्धर्महन्ता नास्तिकः शठधूर्तकः ।दोषालयश्च विषयी सम्प्रदायः स नश्यति ॥७८॥यत्र गुरुः सर्वभक्षी तृष्णालोभादिशेवधिः ।पूर्यते नोदरं यस्य सम्प्रदायः स नश्यति ॥७९॥रक्षका भक्षका यत्र त्रातारश्च विडम्बकाः ।विश्वासघातिनः श्रेष्ठाः सम्प्रदायः स नश्यति ॥८०॥पाषण्डिचौरहाराणां लुण्टकानां क्रियापराः ।मूर्धन्या यत्र विद्यन्ते सम्प्रदायः स नश्यति ॥८१॥सभासदो व्यवहारनिर्णतारश्च योजकाः ।लुञ्चाखादकिनो यत्र सम्प्रदायः स नश्यति ॥८२॥प्रसह्याऽन्याययुक्ताश्च विगन्तारो विरोधिनः ।क्लेशिनो मानवा यत्र सम्प्रदायः स नश्यति ॥८३॥गुरुद्रोहिजना यत्र निम्नदोषावलोकिनः ।भावहीना निन्दकाश्च सम्प्रदायः स नश्यति ॥८४॥अविवेका अदीर्घदृष्टयः प्रेमविहीनकाः ।पूज्यपूजोल्लंघकाश्च सम्प्रदायः स नश्यति ॥८५॥हत्याकाण्डाभिरुचयो देवान्नद्रव्यभोजकाः ।गुरोर्मानहनो यत्र सम्प्रदायः स नश्यति ॥८६॥कुदृष्टयः कुसंकल्पाः कुसंगव्याप्तमानसाः ।परगृहप्रभंक्तारः सम्प्रदायः स नश्यति ॥८७॥गुणेषु दोषद्रष्टारः परोत्कर्षाऽसहिष्णवः ।मानवा यत्र वै याम्याः सम्प्रदायः स नश्यति ॥८८॥असत्कार्यमसद्वाणी अन्यायश्च पदे पदे ।महतामवमानं च सम्प्रदायः स नश्यति ॥८९॥यत्र मे प्रतिमा नास्ति नास्ति मे मन्दिरं च वा ।नास्ति मे संहिताशास्त्रं सम्प्रदायः स नश्यति ॥९०॥कथा मे सततं नास्ति सन्ति हृन्द्यमलानि न ।सेवका निर्मला नैव सम्प्रदायः स नश्यति ॥९१॥गृहस्था गुरवो यत्र त्यागिनः शिष्यकोटयः ।गुरवः स्त्रीजुषो यत्र सम्प्रदायः स नश्यति ॥९२॥सर्वभोगविलासाश्च गुरुष्वेव वसन्ति चेत् ।त्यागांशो यत्र नास्त्येव सम्प्रदायः स नश्यति ॥९३॥गुरोः पृष्ठे महच्छिद्रं हृदये राक्षसी स्थितिः ।अग्रे तु ग्रहणान्ध्यं च सम्प्रदायः स नश्यति ॥९४॥नरा नार्यो निःश्वसन्ति यं यान् वै साम्प्रदायिकान् ।तेषामाधारभूतश्चेत् सम्प्रदायः स नश्यति ॥९५॥विद्या विद्यालयो नास्ति चमत्कारो न यत्र च ।सिद्धा यत्र न सन्त्येव सम्प्रदायः स नश्यति ॥९६॥उदरंभरिणो यत्र शिष्या धार्म्यशभक्षकाः ।देवभीतिविहीनाश्च सम्प्रदायः स नश्यति ॥९७॥वाक्ष्वन्यद् दर्शने चान्यत् हृदयेऽन्यत्तु मानवे ।तादृशो यत्र कार्याग्न्यः सम्प्रदायः स नश्यति ॥९८॥ज्ञाने कर्मणि नास्तिक्यं चाऽनृतैश्वर्यदर्शनम् ।यत्राऽऽदानं वमयित्वा सम्प्रदायः स नश्यति ॥९९॥विद्या शास्त्रं गुरुर्देवा आलया यत्र सन्ति न ।सम्प्रदायस्य नाशस्तु द्रुत तत्र प्रजापते ॥१००॥तस्मामन्त्रा मया दत्ता दीयन्तां शिष्यवर्गिणे ।विद्यां शास्त्रं गुरुं देवान् स्थापयन्त्वर्चयन्तु च ॥१०१॥एवमुक्त्वाऽऽशिषो दत्वा विमानं त्वध्यरोहयत् ।जयनादैर्वाद्यनादैर्यन्त्रनादैश्च हर्षणैः ॥१०२॥सह व्योम्ना सार्थयुक्तो ययौ क्रथकराष्ट्रकम् ।रोमायनेनर्षिणा प्रार्थितः क्रथकभूभृता ॥१०३॥राधिके तु तदा व्योम्नि यान्तं दृष्ट्वा हरिं प्रजाः ।आगन्तव्यं रक्षणीया देयं च दर्शनं जगुः ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने उरलकेतुराजर्षियवक्रीतमहर्षि-प्रजाभ्यश्च हरिणा स्वस्वरूपज्ञानं सम्प्रदायशाश्वतिकज्ञानं च दत्तमिति निरूपण-नामा त्रिसप्तत्यधिकशततमोऽध्यायः ॥१७३॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP