संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ५३ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ५३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५३ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके! पश्चादसुराणां तु मन्त्रणाम् ।जुमासेम्ला स्वयं राजा रक्तवार्ध्यादियूथपान् ॥१॥द्व्यशीतिसंख्यकान् प्राह शोकमानसभृद्गिरा ।सैन्यानि सर्वथा यानि योद्धुं गतानि तानि तु ॥२॥सर्वशोऽपि विनष्टानि नैकोऽपि तु निवर्तते ।न शवं दृश्यते वाऽपि भस्ममात्रं तु दृश्यते ॥३॥विमानस्याऽभितो वह्निस्तादृशोऽगम्य उल्बणः ।विमानं रक्ष्यते तेन क्रियतेऽन्यत्तु भस्मसात् ॥४॥विमानं प्रति चास्माकं यन्त्रगोलकपुत्तलाः ।गन्तुमेवाऽक्षमा वह्नौ भस्मीभवन्ति वै भटाः ॥५॥तत्कथं चात्र कर्तव्यं यद् विमानं विनाश्यते ।वैमानिका विमानस्था नाश्यन्ते येन ते यथा ॥६॥तद्विचार्यैव वक्तव्यं रक्तवार्धे त्वया मम ।रौद्रबाष्पप्रभतयो यथान्यायं वदन्त्विह ॥७॥तदा ते तु नृपं नत्वा बहुतर्कभृतो गिरः ।युद्धार्थं प्राजगदुश्च फलं तु नाश ईक्ष्यते ॥८॥केचिदाहुर्महामायामासुरीं विरचय्य तु ।महावृष्ट्या महावह्निं शान्तयन्तु ततः परम् ॥९॥शैलवृष्ट्या विमानं तन्नाशयन्तु क्षणान्तरे ।अन्ये प्राहुर्महावृष्टिं महाशैलानपि ध्रुवम् ॥१०॥यदि स्तब्धान् करिष्यन्ति महामायाकृतैश्च तैः ।तदा कि स्यात् ततश्चान्य उपायः परिमृग्यताम् ॥११॥तदा कश्चिच्चन्डसारः प्राह वै रचनां नवाम् ।वयं वायुस्वरूपाश्च भूत्वा यामस्तु तत्स्थले ॥१२॥येन यथा विमानं तदितस्ताद् यास्यति क्षणात् ।अस्मासु वायुरूपेषु मध्ये यावत्प्रयास्यति ॥१३॥तावद् वायुस्वरूपैश्च झंझावातैर्महोग्रकैः ।विमानं क्षेपणीयं वै ह्यकस्मान्नाशमेष्यति ॥१४॥सर्वावयवकन्यादीर्वियुज्य च विभज्य च ।भङ्क्त्वाऽवयवशः सर्वं करिष्यामो लयान्वितम् ॥१५॥अथाऽस्मै चोत्तरं प्राह विज्ञतुरीयकस्तदा ।यीग्यमेतत्तथाप्येषो विमानस्थो महेश्वरः ॥१६॥श्वासे चास्मान् समस्ताँश्चेद् ग्रसिष्यति ह्यगस्त्यवत् ।तदा दशा का चास्माकं भविष्यतीति चिन्त्यताम् ॥१७॥तदाऽतलेष्टकश्चापि प्राह यत्र प्रगच्छति ।यानं तद्देशरूपं च धरन्तु रामणीयकम् ॥१८॥मध्येसमुद्रं रम्यं च दृष्ट्वा मत्वा निजं स्थलम् ।विश्वासादवतारं च करिष्यति सुखं तदा ॥१९॥तत्राऽस्माभिश्च तद्रूपैर्भाव्यं तेषामभीष्टकैः ।रात्रौ सुप्तव्यकालोर्ध्वं लयः कार्यो भविष्यति ॥२०॥तदुत्तरं न्यायसारः सेनापतिरुवाच ह ।सर्वस्मिन्निर्मिते चापि देवा निद्राविहीनकाः ॥२१॥यदि निद्रां न यास्यन्ति तदोपायश्च को हि नः ।अथ रुद्रशिरादैत्यो युक्तियुक्तं जगाद ह ॥२२॥सर्वथा शरणं कार्यं शरण्याः सन्ति देवताः ।विश्वासिनश्च जायन्ते तापसे शरणागते ॥२३॥वरदानस्य दातारो भवन्त्यप्यविचारतः ।तस्माद् ग्राह्यं शरणं च भाव्यं तेषां प्रशिष्यकैः ॥२४॥तन्मन्त्रास्तत्प्रदत्ताश्च दीक्षा ग्राह्या कुटुम्बिभिः ।आमन्त्रणं प्रदातव्यं गृहपावनहेतवे ॥२५॥गृहे गृहे च गमनं पूजनं कार्यमित्यपि ।विमानं भूतले न्यस्य सेवाऽस्माभिः शुभा परा ॥२६॥कर्तव्या दासभक्त्या च यथा विश्वासमाप्नुयुः ।अन्तःप्रविश्य कालेन विषवद् बलमाचरेत् ॥२७॥तदा तु समकालेन कन्याभिश्च कुमारकैः ।वृद्धैर्बालैश्च युवभिः समकालं हि योधनम् ॥२८॥कर्तव्यं चापि यद्वाऽत्र ये ये मुख्यबलाश्च ते ।विमानेषुधरा भूत्वा नाशं कुर्वन्तु वै ततः ॥२९॥यद्वा ये मन्त्रकर्तारो देवानामग्रगा मताः ।त एव पूर्वं हन्तव्यास्ततः कार्यं भविष्यति ॥३०॥विजयाख्येन कालेन विश्वासहेतिभिस्त्विह ।कर्तव्यं वै बलं तत्र पारकृन्नो भविष्यति ॥३१॥इत्युक्तिं निदधुः सर्वे स्वान्तरेषु जयप्रदम् ।तथास्त्विति विचार्यैव राजा सेनाधरास्तथा ॥३२॥अन्ये च सम्मताः सर्वे शरणागतिबोधकम् ।ध्वजमारोहयामासुर्गगने हेतिशून्यताम् ॥३३॥बोधयामासुरत्यर्थं नेमुः पृथ्व्यां शठाशयाः ।नारदस्तु तदा प्राह शंभुं किमिदमुत्तमम् ॥३४॥विजयं ते दत्तवन्तः सम्प्रगृह्य पराजयम् ।शंभुः प्राह निषेकाद् येऽसुरास्ते न सुराः क्वचित्। ॥३५॥कार्यसिद्ध्यर्थमेवैते समयार्थं नमन्ति वै ।किन्तु शरणमाप्तानां रक्षणं धर्म उत्तमः ॥३६॥अस्माभिः रक्षणं कार्यं वैपरीत्ये तु दण्डनम् ।सत्त्वानां सात्त्विको धर्मो राक्षसानां तु तामसः ॥३७॥अगतौ तामसा यान्ति वशं, गतौ तु शत्रवः ।उन्दुरुर्हंसपक्षस्थ इव कृन्तति पक्षकम् ॥३८॥स्वभावाद् राक्षसः शिष्यो वातापिरिव भक्षति ।काले प्राप्ते भवेच्छीघ्रमाशीर्विष इवोल्बणः ॥३९॥तस्माद् भाव्यं तु गुरुणा जानता चेतनेन च ।काणं प्रति द्विकाणः स्यात् त्रिनेत्रो द्व्यक्षिकं प्रति ॥४०॥शठं प्रति द्विशठः स्यात् साधुं प्रति द्विसाधुकः ।तस्माच्छठेऽपि शिष्ये न विश्वसितव्यमत्यति ॥४१॥कदाचित् स छलं कुर्याद् दुग्धपालितसर्पवत् ।यदि ते शरणं यातास्तत्रापि विद्यते छलम् ॥४२॥विद्युद्दण्डाभिघातेन सिंहोऽपि शरणं व्रजेत् ।स्वार्थकार्यप्रसिद्ध्यर्थं म्लेच्छोऽपि शिष्यतां व्रजेत् ॥४३॥दितेर्गर्भविनाशार्थमिन्द्रः शिष्योऽभवत्पुरा ।राज्यचाराः कार्यसिद्ध्यै भृत्याः शिष्या भवन्ति च ॥४४॥बको मत्स्यार्थमेवाऽऽस्ते मार्जारो मूषकार्थकः ।व्याघ्रोऽश्वार्थं मौनमास्ते प्राप्ते छिद्रे तु घातकाः ॥४५॥चौरः स्वार्थप्रसिद्ध्यर्थं सहास्ते सेवको यथा ।कुलटा स्वार्थसिद्ध्यर्थं श्रयते गृहिणी यथा ॥४६॥मूषको दंशनार्थं वै फुत्कृत्याऽङ्गं स्पृशत्यपि ।काको मांसेच्छया चञ्च्वा शनैर्वृषं विटंकते ॥४७॥व्याधो मृगार्थमुग्रेऽपि देशे तिष्ठति दीनवत् ।क्रूरोऽपि सहते वाक्यं मर्मभिच्चापि मूकवत् ॥४८॥राजाऽपि सहते हानिं द्यूतजां नेष्टकामपि ।शूरोऽपि सहते गालिं निगडस्थः समानतः ॥४९॥शुद्धाऽपि सहते नारी ऋतुजन्माद्यशुद्धताम् ।इयमशुद्धिरस्माभिः सहनीया हि पक्षके ॥५०॥म्लेच्छान् शिष्यान् विधायैव कार्यं श्रेयो यथा भवेत् ।चेतयितव्यमेष्वत्र जागरितव्यमेषु च ॥५१॥वह्निसेके जायमाने स्वपतो ज्वलनं ध्रुवम् ।तथेमे वह्नयो म्लेच्छा नैषु सुप्तव्यमित्यलम् ॥५२॥सावधानैरेव भाव्यं न कुर्युर्नः पराभवम् ।इति श्रुत्वा हरवाक्यं सनत्कुमार आह च ॥५३॥यथा वक्ति हरस्तत्तु योग्यं सर्वं हि विद्यते ।न हि तेजस्विनां नाशो हीनतेजा विनश्यति ॥५४॥धर्मः प्राह शरण्या हि वयं पापनिवारकाः ।रक्षणीयाः शरणस्थाः पात्रता च यथा तथा ॥५५॥गजसिंहस्तेनपालाः सावधाना वशेष्वपि ।धर्मराजजनराजौ सावधानौ वशेष्वपि ॥५६॥हस्तिपकाऽग्निपाकस्थौ सावधानौ वशेष्वपि ।तथा भाव्यं सावधानैर्वश्येष्वपि च पाकिषु ॥५७॥इतिकृत्वाऽनुमननं त्वैकमत्येन नारदः ।प्राह तान् किं वशं याता ब्रूत वशंगता इति ॥५८॥तेऽब्रुवँश्च वशं यामो यथेच्छसि तथा कुरु ।नारदः प्राह तान् शस्त्रविहीनान् वै विमानकम् ॥५९॥अम्बरे स्थास्यति चात्र ब्रूत कीदृङ् किमिष्यते ।राजा प्राह विमानं तु भूतले स्पृष्टमस्तु च ॥६०॥वयं दासा भवामोऽत्र दीक्षार्हा नित्यसेवकाः ।इत्युक्ते सति रुद्रेण विमानं त्ववतारितम् ॥६१॥नेमुः राजा तथा भृत्याः सैन्यस्य नायकादयः ।नारीणां च गणाश्चापि प्रजागणाः समन्ततः ॥६२॥द्रष्टुं तत्र समायातास्ते प्रणेमुश्च सर्वशः ।रुद्रः स्पृष्ट्वा त्रिशूलेन पावनान् कृतवाँस्तदा ॥६३॥जलेन प्रोक्षणं सनत्कुमारः प्रचकार ह ।नारदश्च जलं ब्राह्मपात्रस्थं तेभ्य आर्पयत् ॥६४॥तैः पीतं पावनार्थं च क्षमाऽपि याचिता मुहुः ।यमराजः स्वयं तेषां शस्त्राणि दूतसंघकैः ॥६५॥एकत्र कारयामास स्वायत्तानि तदा क्षणात् ।अथ ते प्रार्थयामासुरसुरा दीक्षणाय ह ॥६६॥नारदस्तेभ्य एवाऽऽदौ दीक्षामन्त्रं ददौ तदा ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥६७॥इतिमन्त्रं ददौ पश्चात् प्रददौ तुलसीस्रजः ।कृत्वा निजाश्रितान् गन्तुमियेषाऽश्वसरोवरम् ॥६८॥ततस्तैरासुरैर्नैजं गृहं कर्तुं तु पावनम् ।देशं क्षेत्राणि च कर्तुं पावनानि समन्ततः ॥६९॥मृतानां सद्गतिं कर्तुं याचिता नारदादयः ।तथास्त्वित्याह देवर्षिस्तथा श्रीसनकादयः ॥७०॥विमाने रक्षकान्नैजान् भटान् गणेश्वरादिकान् ।वह्निं यमान् कार्तिकेयान् रक्षयित्वा महर्षयः ॥७१॥ययुस्तेषां गृहाण्येव पावनार्थं तु वाहनैः ।राजा नैजं महासौधं निनाय प्रथमं तदा ॥७२॥राजधान्यां महादानाभिधायां स पुपूज ह ।निम्बकटुं चालहोमं शावान्नं चालदामकम् ॥७३॥आमेदं च युगान्तं च नीरबीजं च कंगुकम् ।तुङ्गाऽनीकं प्रतारकं सुपालं वीरकेसरम् ॥७४॥एवमन्यानि राज्यानि खण्डगानि च यान्यपि ।तत्तद्राज्यप्रधानं तन्नगरं निन्युरादरात् ॥७५॥सेनानां पतयो ये ते निन्युर्विजगृहाणि च ।फलानि दुग्धपाकानि भोजनानि ददुश्च ते ॥७६॥बहुरत्नानि चान्यानि दासान् दासीर्ददुश्च ते ।ओतप्रोताश्च ते जाता मिश्रिताः शाठ्यसंवृताः ॥७७॥अथ यानेन ते निन्युर्दूरं साहस्रयोजनम् ।सहाररणपारं तु मुरार्कनगरं प्रति ॥७८॥नारदः शंकरश्चापि सनत्कुमार इत्यपि ।यमराजस्तथा दूता मुरार्कनगरं ययुः ॥७९॥जुमासेम्लाभिधभूपस्तथा विंशतिसैन्यपाः ।ययुर्मुरार्कनगरं पश्चात्तस्थुस्तु दानवाः ॥८०॥तैः शीघ्रं तु विमानस्थैः सेनाधिपैः क्षणान्तरे ।सैन्यैश्च नूतनैर्नारीनरात्मकैस्तु राक्षसैः ॥८१॥उपप्लवाः समारब्धा विमाननाशकारकाः ।कृत्रिमा गोलकास्तत्र प्रक्षिप्ता नाशनाय वै ॥८२॥अग्निः प्रज्वालितश्चापि कुत्रचित्तु विमानके ।पाषाणपर्वतवृष्टिर्झंझावातोऽपि भावितः ॥८३॥वस्तूनामपहरणं कृतं तत्र क्षणान्तरे ।युद्धं विमानके जातं गणैर्देवादिभिः सह ॥८४॥अथ स्मृताश्च रुद्राद्यास्तथा कल्पलतात्मजाः ।कोटिशोऽथ गणास्तत्र प्राविर्भूता महाबलाः ॥८५॥गणास्तद्दानवं सैन्यं निघ्नन्ति स्म सुकोपिताः ।कार्तिकाश्च तथा रुद्रा गणनाथा विनायकाः ॥८६॥कल्पवृक्षसमुत्पन्ना दशसाहस्ररुद्रकाः ।निजघ्नुर्दानवाऽनीकं दानवा नाशमाव्रजन् ॥८७॥फल्गुबीजं दानवेन्द्रं गदया श्रीगणेश्वरः ।पोथयामास शिरसि ताडयित्वा व्यसुं व्यधात् ॥८८॥गम्बिकायं कार्तिकेयः शक्त्या प्राणं जहार च ।सेनागोलं गणपतिः कुठारेण व्यसुं व्यधात् ॥८९॥स्फुटार्दनं परिधेन रुद्रश्चैको व्यसुं व्यधात् ।केडण्डं जीवलं रुद्रश्चान्यः शूलेन तत्क्षणम् ॥९०॥विप्राणं चाकरोत् तद्वत् कुमेरुं रुद्रकोऽपरः ।तुम्बासुरं स्थानलिं च शक्त्या जघान विघ्नराट् ॥९१॥भिन्नहृदौ व्यसू जातो लीनापो मुद्गरान्मृतः ।वीरभद्रो गणस्तत्र गदया परितो रिपून् ॥९२॥चूर्णयामास कणशश्चालिविष्टं किमूषकम् ।तूनायं च तथाऽऽबालं रुक्वासनं च मावुरम् ॥९३॥एकैकया च गदया चक्रे चूर्णं च भद्रकः ।कालभैरवरुद्रश्च दण्डेन वज्रपट्टिना ॥९४॥बांगिवलिं दिनोलूकं कुवंशजं कुरेनृकम् ।दाहयामास दण्डोत्थवह्निना यानमध्यगान् ॥९५॥धोधसादा दुद्रुवुश्च दृष्ट्वा रुद्रान् महोल्बणान् ।यमदूता विलोक्यैताननुदुद्रुवुरूर्ध्वगाः ॥९६॥निपत्योत्पत्य तान् सर्वान् जगृहुर्मस्तकेषु च ।शैलप्राया यमदूता गदाभिर्जघ्नुरम्बरात् ॥९७॥शैलशृंगैर्मुद्गरैश्च भारचक्रैश्च वज्रकैः ।धोधसादा मृताः सर्वे सहस्रशोऽभिसारकाः ॥९८॥एकोऽपि नावशिष्टोऽभून्निपेतुस्ते सरोवरे ।शैलादिः शक्तिमादाय अम्बिकासं च शिर्वमम् ॥९९॥देषलं कक्रलं चापि ईज्यापातं नबीजकम् ।जघान बहुधा मारैर्नन्दिना वह्निना सह ॥१००॥अन्ये रुद्राः शैलतुल्याः प्रलयानलशूलिनः ।वह्निशूलैर्निर्जघ्नुश्च सुमालिं च सुदानकम् ॥१०१॥त्रिष्वालं रुद्रशिरसं पिलिपं च नमाकुवम् ।स्वरिरक्षिषया रुद्रशिरा रुद्रेष्वलीयत ॥१०२॥भक्तोऽस्मि च प्रपन्नोऽस्मि नाऽपराद्धं मया मनाक् ।इत्याह स गणाँस्तत्र ररक्षुस्तं गणास्ततः ॥१०३॥अन्यान् सर्वान् व्यसूंश्चक्रुवह्निशूलैर्भयंकरैः ।दिनमेरोऽपि रुद्राणां भक्तोऽभून्नापराधवान् ॥१०४॥तं ररक्षुस्तदा रुद्रगणे रुद्रा दयालवः ।अथांगुलादप्रभृतिचतुर्विंशतिनायकाः ॥१०५॥विमानं च रणं चापि परित्यज्य समन्ततः ।कृत्वा प्राकाररूपां च बन्धिकां बहुयुक्तितः ॥१०६॥अभिचारैस्तथा चेन्द्रजालिकैर्बहुविस्तरैः ।समुत्पाद्य मृषासैन्यसमूहान् व्योमवर्तिनः ॥१०७॥शस्त्रास्त्रमन्त्रसहितान् बहुसमानरूपकान् ।योधयामासुरत्यर्थं रुद्रैः सह समन्ततः ॥१०८॥जलपाषाणकैर्वृक्षैर्वह्निभृत्पर्वतैस्तथा ।हस्तिभिर्वाजिभिश्चापि रथैर्यानैर्विमानकैः ॥१०९॥रुद्राः सर्वे तदा दशसहस्राणि विमानतः ।बहिर्गत्वा च मायाभिः प्रतिहन्त्रीभिरेव ते ॥११०॥निजघ्नुर्दानवीं मायां शस्त्रास्त्रमन्त्ररूपकैः ।विद्युदस्त्राणि विद्युद्भिर्मेघास्त्राणि तु वायवैः ॥१११॥अन्यस्त्राणि च मेघाद्यैरीश्वरास्ते न्यवारयन् ।अथ कल्पलतावृक्षमण्युत्था यमपार्षदाः ॥११२॥हिरण्यकशिपुतुल्यास्ततोऽपि बलिनो हि ते ।अट्टहासाँस्तु मुमुचुर्ब्रह्माण्डं तैश्च पूरितम् ॥११३॥श्रुत्वा ब्रह्माण्डभेर्युत्थनादतुल्यनिनादकान् ।जुमासेम्लाख्यनृपतिस्तथा तस्य च सैन्यपाः ॥११४॥नारदाद्याश्च ऋषयो विदित्वा युद्धमुग्रगम् ।पलमात्रेण तु तत्र विमानं प्रति चाययुः ॥११५॥दृष्ट्वा दैत्यमहासैन्यं नष्टं मायानलेऽपि तु ।रुद्रैः सह प्रयुध्यन्ति मायेन्द्रजालिनोऽपरे ॥११६॥शंभुस्तत्राऽकरोन्नैजं ब्रह्माण्डसदृशं वपुः ।मस्तकस्य जटापाशैर्दैत्यसैन्यं बबन्ध ह ॥११७॥मृषा सैन्यं जटायां संलीनं सर्वं व्यजायत ।अन्यत् सैन्यं परं त्रासं त्वापमाहात्म्यवेदनात् ॥११८॥इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कापट्यपूर्वा दैत्यानां शरणागतिः, शंकरादीनां तद्राजधानीं प्रति गमनं स्वागतम्, पृष्ठतो विमाने युद्धं चेत्यादिनिरूपणनामा त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP