संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १२० त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १२० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १२० Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके! पश्चाद् याम्यलोकैः प्रपूजितः ।देवायतनभक्तस्तु पूजां प्राप्य यमार्पिताम् ॥१॥विमानेन ययौ तस्मान्नैर्ऋतां दिशमेकलः ।ददर्श नगरीं रम्यां स्वर्गतुल्यां सुवर्णजाम् ॥२॥निर्ऋतानां राक्षसानां प्रासादैरभिशोभिताम् ।लक्षयोजनविस्तीर्णप्राकारपरिवेष्टिताम् ॥३॥मृषामायेन्द्रजालानां शालाभिः ऋद्धिसंभृताम् ।अर्बुदार्बुदपद्मानां राक्षसानां कुटुम्बकैः ॥४॥निषेवितां महास्वर्गोपमां चाऽम्बरसंस्थिताम् ।सूर्यवद् भ्राजमानां तां विलोक्य भक्तराट् तदा ॥५॥दीर्घस्वरेण तालाद्यैः सहितं कीर्तनं हरेः ।हरेकृष्ण हरेस्वामिन् हरेनारायण प्रभो ॥६॥बालकृष्ण हरेकृष्ण परब्रह्म रमापते ।लक्ष्मीपते माणिकीश पारवतीप्रभापते ॥७॥श्रीगोपाल सतांपाल राधेश कंभरात्मज ।अक्षरेश च गोपेश मुक्तेश कुंकुमाधिप ॥८॥कृष्णनारायण विष्णो परमेश जनार्दन ।मुक्तिनाथ महाविष्णो श्रीपते पुरुषोत्तम ॥९॥एवं नैर्ऋतपुर्यां स विचरन्नम्बरे गृणन् ।नामानि श्रावयामास नैर्ऋतेभ्यो मनुं तथा ॥१०॥नैर्ऋताश्च प्रजालोकाः श्रुत्वा श्रुत्वा शुभां गिरम् ।निष्पापा अभवन् रक्षोगणाश्च दिव्यविग्रहाः ॥११॥रक्षोभावविहीनाश्च दिव्यपार्षददेहिनः ।सम्भूय मुक्तरूपाश्च विहाय नगरीं निजाम् ॥१२॥ययुर्भक्तबलेनैव कल्पलतोत्थवाहनैः ।गजयानैर्विमानैश्च देवायनार्पितैस्तदा ॥१३॥अक्षरं ब्रह्मलोकं ते तथा वैकुण्ठमित्यपि ।तथा गोलोकमेवाऽन्येऽमृतं वाऽव्याकृतं परे ॥१४॥यथेष्टं पार्षदा भूत्वा तत्तद्धामसु ते गताः ।अनादिश्रीकृष्णनारायणनामश्रवेण ते ॥१५॥महापुण्याब्धयो भूत्वा ययुर्वै ब्रह्म शाश्वतम् ।अथ तस्मात्प्रदेशात् स व्योम्ना वै वारुणीं पुरीम् ॥१६॥पश्चिमायां ययौ कुर्वन् नामसंकीर्तनं हरेः ।लक्षयोजनविस्तीर्णप्राकारान्तःकृताश्रयाम् ॥१७॥ददर्श तां भ्रमन् व्योम्ना विमानेन समन्ततः ।श्रावयामास जनताः प्राचेतसीर्मुहुर्मुहुः ॥१८॥ताः सर्वाश्च प्रजा दिव्या भूत्वा श्रुत्वाऽभिधां मनुम् ।कल्पवल्लीकृतैर्यानैर्ययुस्ते धाम चैश्वरम् ॥१९॥नरा नार्यो दिव्यदेहाः सर्वथा दिव्यरूपिणः ।भिन्नधामानि च ययुर्देवायनसमागमात् ॥२०॥अथ तस्मात्प्रदेशाच्च व्योम्ना वै वायवीं पुरीम् ।ययौ देवायनो भक्तो गृणन्नाम हरेर्मुहुः ॥२१॥वायूनां देवताः सर्वा मरुतां सृष्टयस्तथा ।वायवीयशरीरास्ते श्रुत्वाऽभिधां मनुं हरेः ॥२२॥लक्षयोजनमध्यस्थास्तदा पुरीप्रजाजनाः ।दिव्यदेहधरा भूत्वा ययुर्धाम हरेः खलु ॥२३॥विमानं तु भ्रमद् व्योम्ना सर्वां प्राचेतसीं पुरीम् ।प्रजास्तत्र स्थिताः संश्रावयामास हरे हरे ॥२४॥देवायनोऽपि ताः संप्रेषयामास हरेर्गृहम् ।तथाऽन्यान्यपि धामानि कल्पवल्लीविमानकैः ॥२५॥अथोत्तरां दिशं देवायनर्षिः प्रययौ ततः ।कौबेरीं सुपुरीं लक्षयोजनायतदुर्गिकाम् ॥२६॥ददर्शाऽम्बरमार्गेण गृणन् नाम मनुं हरेः ।तां भ्रमन् सविमानेन तद्गतां यक्षकप्रजाम् ॥२७॥श्रावयामास नामानि कृष्णनारायणप्रभो ।हरेब्रह्म परब्रह्म यक्षान् मुक्तान् चकार सः ॥२८॥क्षयं यातानि पापानि यक्षाणां पुण्यशालिनाम् ।पुण्यान्येषां वर्धितानि नारायणश्रुतेर्बलात् ॥२९॥दिव्यदेहास्ततो भूत्वा मुक्तदेहाः समन्ततः ।कल्पवल्लीसमुत्पन्नविमानैरक्षराभिगैः ॥३०॥ययुस्ते तां पुरीं त्यक्त्वा वैकुण्ठं च गवां स्थलीम् ।अक्षरं ब्रह्म परमं प्रापुस्ते श्रीहरेर्बलात् ॥३१॥अथ देवायनो भक्तो ययौ चेशानपालिताम् ।दिशं विलोकयामास पुरीं तत्रेशपालिताम् ॥३२॥लक्षयोजनदुर्गान्तर्वर्तिनीं रुद्रशोभिताम् ।शतरुद्राः कोटिरुद्राः शंकरा ईशमूर्तयः ॥३३॥ईशान्यो रुद्रपत्न्यश्च यत्राऽर्बुदाऽब्जकोटयः ।भूताः प्रेताः पिशाचाश्च कूष्माण्डाश्च विनायकाः ॥३४॥वेतालाश्च कुमाराश्च भैरवा गणकोटयः ।वीराश्च भद्रदेवाश्च डाकिन्यः शाकिनीगणाः ॥३५॥योगिन्यो योगिनश्चापि यतयश्च विरागिणः ।वेतालन्यश्च कूष्माण्ड्यः कृत्याश्च पूतनागणाः ॥३६॥दुर्गाश्च नन्दिनश्चापि चण्डाश्चण्ड्यः सतीगणाः ।एते यत्राऽसंख्यदासदासीगणावसन्ति हि ॥३७॥ईशानस्य हरस्यैव दृष्टा देवायनेन हि ।ततो विमानं व्योम्नि तद् भ्रामयामास भक्तराट् ॥३८॥जगादोच्चैर्हरेर्नामाऽनादिकृष्णनरायण ।कम्भरानन्दन विष्णो गोपालबाल माधव ॥३९॥बालकृष्ण हरेकृष्ण पुरुषोत्तम केशव ।अन्तरात्मन् प्रभाकान्त श्रीकान्त परमेश्वर ॥४०॥हरेकृष्ण हरेस्वामिन् हरेनारायण प्रभो ।स्वामिन्नारायण नारायणेश्वर रमेश्वर ॥४१॥माणिक्येश्वर मायेश पार्वतीश्वर भूपते ।लीलापते विभूतीश राधापते सतांपते ॥४२॥श्रीवल्लभ श्रीपद्मेश श्रीकृष्ण श्रीनरायण ।श्रीराम श्रीकमलेश मंगलायतन प्रभो ॥४३॥इत्येवं स गृणन् कृष्णनामानि च मनुं हरेः ।श्रावयामास सर्वांश्च मोक्षयामास कर्मतः ॥४४॥दिव्यदेहमयान् कृत्वा धामयोग्यान् गणान् शुभान् ।विष्णुतुल्यान् शंभुदासान् दासीः रमासमास्तथा ॥४२॥प्रेषयामास वैकुण्ठं गोलोकं चाक्षरं तथा ।अमृताख्यं दिव्यधामाऽव्याकृतं च किलासकम् ॥४६॥साकेतं चापि ये यस्य योग्यास्ताँस्तत्र चैरयत् ।मुक्तिं कृत्वा तु वै तेषां नामकीर्तनतो हरेः ॥४७॥विमानैः प्रेषयित्वैव ततः पूर्वां दिशं ययौ ।उज्ज्वलां कोटिसूर्याभां ददर्शेन्द्रपुरीं शुभाम् ॥४८॥लक्षयोजनप्राकारवर्तिनीं स्मृद्धिसंभृताम् ।राजधानीं दिवो रम्यां लोकपालालयां पराम् ॥४९॥सर्वसुवर्णप्रासादां दिक्पालाद्यधिवासिताम् ।ग्रहनक्षत्रताराणां प्रासादैरभिशोभिताम् ॥५०॥केतूनां सुरवर्गाणामालयैरभितः कृताम् ।मन्दिरैः सर्वसिद्धीनां वसूनां च सुमन्दिरैः ॥५१॥निधीनां मन्दिरैश्चापि सप्तर्षीणां निवासनैः ।कृत्तिकानां महासौधैर्दिशां प्रासादकैर्युताम् ।५२॥रुद्राणां चापि सूर्याणां कामानां चालयैर्युताम् ।मनूनां च कलानां च तिथीनां मन्दिरैर्युताम् ॥५३॥मरुतां वालखिल्यानां चारुणानां निवासनैः ।देवीनामप्सरसां ब्रह्मसरसां तथालयैः ॥५४॥तत्त्वानां सुसमुद्यानैः कल्पद्रुमैः समन्ततः ।अमृतानां च कुल्याभिर्ब्रह्मवाट्यभिशोभिताम् ॥५५॥सूतैर्मागधलोकैश्च बन्दीजनैः प्रसेविताम् ।भाटचारणगन्धर्वैः किम्पुरुषैश्च किन्नरैः ॥५६॥साध्यदेवैर्विश्वदेवैः सिद्धैश्च राजभिर्युताम् ।सर्वश्रेष्ठां राजधानीं विलोक्य चातिसंभृताम् ॥५७॥विविधैर्देहिभिः रम्यां भिन्नजातीयवासिभिः ।हर्षं प्राप्याऽतिवेगेन देवायनर्षिरुत्सुकः ॥५८॥कीर्तयामास नामानि बालकृष्णस्य वै मनुम् ।हरेकृष्ण हरेस्वामिन् हरेनारायण प्रभो ॥५९॥बालकृष्ण हरेकृष्ण रामकृष्ण जनार्दन ।श्रीगोपाल सतांपाल कंभरानन्दन प्रभो ॥६०॥ब्रह्मप्रियापते राधापते रमापते विभो ।आत्मपते प्राणपते परब्रह्म परेश्वर ॥६१॥सर्वलोकपते कृष्णनारायण प्रभापते ।माणिक्येश्वर मायेश सुरेश्वरेश्वरेश्वर ॥६२॥श्रीभूपारवतीकान्त स्वामिन्नारायण प्रभो ।अक्षरेश्वर मुक्तेश मोक्षप्रद महाप्रभो ॥६३॥बालकृष्ण हरेकृष्ण लक्ष्मीकान्त दिवस्पते ।अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ॥६४॥नारायणेश कृष्णेश कृष्णवल्लभसत्पते ।विद्याव्यासाऽवतारेश नरनारायण प्रभो ॥६५॥एवं नामानि बहुधा गृणन् ताली प्रवादयन् ।भ्रामयन् स्वं विमानं चाभितश्चैन्द्रीं पुरीं तदा ॥६६॥राधिके! भक्तराट् देवायतनः सात्त्वताग्रणीः ।मोक्षयामास देवांश्च महेन्द्रपुरवासिनः ॥६७॥दिव्यदेहान् मुक्तदेहान् धामयोग्यान् विधाय सः ।प्रेषयामास कल्पद्रुलतोत्थैश्च विमानकैः ॥६८॥वैकुण्ठं चामृतं चाव्याकृतं गोलोकमक्षरम् ।परमं धाम मुक्तानां वासार्हं कार्ष्णवाल्लभम् ॥६९॥धर्मभक्तियुतं सर्वस्वामिना परमात्मना ।अधिष्ठितं परंधाम परमेशनिषेवितम् ॥७०॥देवा नैकविधा देव्यो दिव्यदेहाश्चतुर्भुजाः ।द्विभुजाश्चाऽष्टहस्ताश्च तथा षोडशबाहवः ॥७१॥भूत्वा भूत्वा च नामानि श्रुत्वा धाम ययुर्हरेः ।एवं स्वर्गस्थितान् कृत्वा मुक्तान् नाम्नां प्रकीर्तनैः ॥७२॥देवायतनभक्तश्च ययावग्निपुरीं ततः ।यत्राऽग्नयो विभिन्नाश्च वसन्ति कोट्यसंख्यकाः ॥७३॥गर्भाग्नयश्च पाकानामग्नयो जाठराग्नयः ।ऊष्माग्नयस्तथा होमाग्नयः क्ष्वेडाग्नयस्तथा ॥७४॥चिन्ताग्नयस्तथा देवाग्नयश्चिताग्नयस्तथा ।दावाग्नयः शीतवह्निगणाश्चामाग्नयस्तथा ॥७५॥प्रेताग्नयश्च देवानां मुखरूपाग्नयस्तथा ।पावकः पवमानश्च पविः श्मशानजास्तथा ॥७६॥घटाग्नयः सर्वभक्षा हव्यभक्षाग्नयस्तथा ।वडवानलरूपाश्च तथा मेघानलादयः ॥७७॥आर्तवा अग्नयश्चापि क्रूराः सौम्या गणास्तथा ।खन्यग्नयश्च भूतानामग्नयो भिन्नजातयः ॥७८॥श्वेता रक्तास्तथा कृष्णा नीला पीता हरिद्गुणाः ।कपीशाः सप्तजिह्वाश्च बहुजिह्वाः प्रदाहकाः ॥७९॥तान् सर्वान् वीक्ष्य भक्तेशोऽम्बरे विमानसंस्थितः ।कीर्तयामास बहुधोच्चकैर्नामानि वै हरेः ॥८०॥मनुं संश्रावयामास हरे कृष्ण हरे हरे ।बालकृष्ण परब्रह्म माणिकीराधिकापते ॥८१॥यज्ञनारायण कृष्णवल्लभ श्रीसतीपते ।परमेश्वर देवेश मुक्तधामपते हरे ॥८२॥प्रभाकान्त रमाकान्त कमलाकान्त माधव ।श्रीभूलीलापते कृष्णनारायण सतीपते ॥८३॥लक्ष्मीनाथ च दीनानां पते ब्रह्मप्रियापते ।पार्वतीललितास्वामिन् वृन्दाविभूतिपालक ॥८४॥सर्ववह्निपते विष्णो महाविष्णो नरायण ।सर्वावतारहेतो श्रीपते गोपालनन्दन ॥८५॥इत्येवं भक्तराट् देवायतनो नाम वै हरेः ।गृणन् संश्रावयामास तालवादनकैः सह ॥८६॥भ्रमित्वा परितो वह्नेः पुरीं लक्षायतां शुभाम् ।वह्नीन् वह्निप्रजाः सर्वा दिव्या भक्तश्चकार ह ॥८७॥द्विभुजान् सुचतुर्बाहून् बहुबाहून् परान् शुभान् ।नामकीर्तनसामर्थ्यात् कृत्वा दत्वा मनुं हरेः ॥८८॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ॥८९॥'कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव' ॥९०॥'ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ।अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ॥९१॥'कृष्णवल्लभभक्तोहं श्रीहरिः शरणं मम' ।इत्येवं तु मनून् तेभ्यो दत्वा मुक्तान् विधाप्य च ॥९२॥वैष्णवान् धामयोग्याँश्च विमानेषु निषाद्य च ।प्रेषयामास तान् धाम वैकुण्ठं चामृतं तथा ॥९३॥अव्याकृतं च गोलोकं परमाऽक्षरधाम च ।जयशब्दान् प्रकुर्वन्तो ययुस्ते धाम वै हरेः ॥९४॥इत्येवं राधिके! भक्तो देवायतनसंज्ञकः ।श्रीहरेश्चात्मवेदी वै मोक्षकर्ताऽभवत्पुरा ॥९५॥अष्टानां दिक्प्रपालानां धामभ्यस्ताः प्रजाः स हि ।मोक्षयामास सर्वाश्च प्रेषयामास मोक्षणम् ॥९६॥नामकीर्तनभक्त्यैव बलेन श्रीहरेस्तथा ।मनून् दत्वा स सर्वेभ्यो विधाय वैष्णवान् शुभान् ॥९७॥रिक्तान् वै तत्प्रदेशाँश्च कारयामास नामतः ।न भूतो वा न च भावी देवायनसमो मुनिः ॥९८॥आद्यसृष्टौ हि भक्तोऽयं सञ्जातः कृष्णविग्रहः ।अथ तस्या दिशश्चायं भक्तो विमानमास्थितः ॥९९॥आययौ कुंकुमवापीक्षेत्रे हर्षसमन्वितः ।अनादिश्रीकृष्णनारायणं नत्वा पुरः स्थितः ॥१००॥बालकृष्णः समुत्थाय तं भक्तं परिषस्वजे ।ददौ हृदये चरणौ हस्तौ च मस्तके तथा ॥१०१॥प्रसादं भोजयामास गले हारं ददौ हरिः ।ऊर्जे धवलप्रतिपद्दिने तस्मै हरिः प्रभुः ॥१०२॥ददौ पारितोषिकं च तथाऽऽवासं निजालये ।स विश्रान्तिं ततश्चक्रे कार्तिके पूर्णिमाऽवधिम् ॥१०३॥राधिके! पठनादस्या मद्भक्तस्य चमत्कृतेः ।पाठनाच्छ्रावणाद्वापि श्रवणान्मुक्तिभाग्भवेत् ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने देवायतनर्षेर्भक्त्या प्रसन्नो बालकृष्णस्तद्वशीभूतो जलात्तं ररक्ष, अष्टदिक्पालप्रजाभ्यः श्रीहरेर्नाम श्रावयित्वातद्द्वारा तासां मुक्तिं चकारेत्यादिनिरूपणनामा विंशत्यधिकशततमोऽध्यायः ॥१२०॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP