संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २६७ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २६७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २६७ Translation - भाषांतर श्रीकृष्ण उवाच-अथ राधे ततस्तीर्थं नारीणां धर्मवर्धनम् ।गत्वाऽश्वपाटलो राजा पप्रच्छ लोमशं मुनिम् ॥१॥अश्वपाटल उवाच-किमिदं शोभनं तीर्थं गुरो स्त्रीजातिमोक्षदम् ।धर्मदं बहुसामर्थ्यप्रदं वद कदाऽभवत् ॥२॥श्रीलोमश उवाच-शृणु राजन् सतीतीर्थं पावनं परमाद्भुतम् ।सुराष्ट्रनृपतेः पत्नी वस्त्रापथनिवासिनी ॥३॥पातिव्रत्यपरा चासीद् राणिकाख्या महासती ।रक्षांगारकनामानं नृपं त्वीश्वरसन्निभम् ॥४॥सेवते स्म सती कान्तं सर्वसेवाभिरुत्सुका ।स्वर्णपत्तननाम्न्येव नगरे नगरोत्तमे ॥५॥कृतस्मराद्रिनिकटे स्वर्णलेखानदीतटे ।राजधान्यां सदुर्गायां सौवर्णं राजमन्दिरे ॥६॥असूर्यम्पश्या प्रमदा सतीधर्मसमन्विता ।भजते स्म हरिं नित्यं दामोदरं हि वामनम् ॥७॥राज्यमाता राणिका सा साध्वीव्रतं करोति वै ।अन्यो नरो न स्प्रष्टव्यः क्वापि स्वपतिमन्तरा ॥८॥अन्यपुरुषवस्त्रं न स्प्रष्टव्यं नूतनं विना ।अन्यनरमुखं नैव द्रष्टव्यं स्वपतिं विना ॥९॥गृहाद् बहिर्न गन्तव्यं क्वापि स्वपतिमन्तरा ।पत्युः सेवां सदा त्वेवं करोति स्वकरेण ह ॥१०॥भोजनं जलपानं च ताम्बूलं देहमर्दनम् ।सर्वं स्वमेव रणिका सम्पादयत्यतन्द्रिता ॥११॥नित्यं दामोदरं कृष्णं पूजयत्यपि वामनम् ।पत्रं पुष्पं फलं तोयं चान्नं निवेद्य विष्णवे ॥१२॥दत्वाऽतिथये महते साधवे धेनवे तथा ।पतये भृत्यवर्गाय ततश्चाश्नाति सा सती ॥१३॥एवं धर्मपरा साऽऽस्ते शीलव्रतपरायणा ।यस्या गृहे सदाऽऽयाति श्रीदेवी या भवेश्वरी ॥१४॥महालक्ष्मीः सखीरूपा पूजा गृह्णाति तत्कृताम् ।एवं वै वर्तमानायाः कोमलाङ्ग्या निशान्तके ॥१५॥निद्रायां स्वप्नसृष्टौ वै म्लेच्छानां दर्शनं ह्यभूत् ।सैन्यं राज्यं ग्रहीतुं वै समायातं समन्ततः ॥१६॥राजा रक्षांगारकोऽपि युद्धार्थं निर्ददौ ततः ।मृतो युद्धे पतिश्चैव त्वनिष्टं दर्शनं ह्यभूत् ॥१७॥तूर्णमुत्थाय शयनात् सती पतिं जगाद ह ।अद्य स्वप्नं मया नाथाऽनिष्टं दुष्टं विनाशकृत् ॥१८॥ततोऽहं श्रीमहालक्ष्मीं पूजयामि भवेश्वरीम् ।व्याघ्रेश्वरीं पूजयामि विघ्नराजं नमामि च ॥१९॥इत्याशां संगृहीत्वैव तूर्णं स्नात्वा पुपूज ताः ।देवताश्च नमस्कृत्य प्रार्थयद् रक्षणं प्रति ॥२०॥अमंगलविनाशार्थं विघ्नराजात्पुनः पुनः ।प्रार्थयद् राणिकादेवी ददौ दानानि वै तथा ॥२१॥कारयामास च ततो ग्रहशान्तिं द्विजादिभिः ।अथ प्रसन्ना प्रत्यक्षा महालक्ष्मीर्भवेश्वरी ॥२२॥जगादैनां राज्यविघ्नं भविता म्लेच्छजातिभिः ।युद्धं चापि भवेदत्र सैन्ययोश्च द्वयोरपि ॥२३॥राजा रक्षांगारकश्च मा सम्प्रयातु योधने ।दुर्गाद् बहिर्न वै यातु तदा ते विजयोऽस्ति वै ॥२४॥शत्रवश्च विनक्ष्यन्ति दुर्गाद् बहिः समन्ततः ।दुर्गमध्ये विजयस्ते दुर्गाद्बहिः पराजयः ॥२५॥इत्युक्ता सा सती राज्ञेऽकथयत् सर्वमेव तत् ।राजाऽपि सावधानश्च वर्ततेस्म निजालये ॥२६॥तावन्म्लेच्छाः पश्चभागात् सैन्ययुक्ताः समाययुः ।अयुताऽयुतसंख्याकाः सशस्त्रा गजवाहनाः ॥२७॥अश्ववाहा रथस्थाश्च दुर्गद्वाराणि चाभितः ।निरुद्ध्य द्वारबन्धं च रचयित्वाऽभवन् स्थिराः ॥२८॥दृप्ता वै राजपुरुषाः सैन्यैश्च नगरान्तरे ।द्वाराण्यावृत्त्य च तथा प्रतितस्थुः सशस्त्रकाः ॥२९॥शत्रवो बहवश्चाभिभागेभ्यो यन्त्रगोलकान् ।जेतुं च नगरं दुर्गे चिक्षिपुर्बहुनाशकान् ॥३०॥बहुभिर्दिवसैश्चापि प्रवेष्टुं नैव शेकिरे ।तदा भेदं समुपायं चक्रुस्ते म्लेच्छपुंगवाः ॥३१॥धनानि स्वर्णरूप्याणि दत्वा वाण्याऽपि खर्वटान् ।गुप्तं पुरप्रवेशस्य मार्गं विज्ञाय भेदकात् ॥३२॥दुर्गं विभिद्य तद्द्वारे प्रविश्य म्लेच्छजातयः ।युयुधुश्च प्रजह्रुश्च राजसौधालयं ययुः ॥३३॥राजसैन्यानि तु तदा युयुधुः प्राणदानतः ।हता म्त्ठेच्छा हि बहवो हताश्च राजसैनिकाः ॥३४॥सेनानां पतयश्चापि हता वै शस्त्रघाततः ।यदा स्वभवनं प्राप्तं सैन्यं म्लेच्छजनाभिधम् ॥३५॥तदा राजा स्वरक्षार्थं योद्धं ह्यवातरन्मृधे ।अथ प्रजाऽपि सबला म्लेच्छानमारयद् बहून् ॥३६॥क्षत्रियाणां महासैन्यं रक्षांगारसमायुतम्युयुधे तु महाम्लेच्छान् मारयामास जीवतः ॥३७॥अन्ये प्रदुद्रुवुश्चापि नगरस्यैव मध्यतः ।दुर्गं त्यक्त्वा दुद्रुवुश्च बहिर्म्लेच्छः समन्ततः ॥३८॥राजा रणप्रमत्तो वै विस्मृत्य स्वसतीवचः ।दुर्गाद् बहिर्ययौ योद्धुं हन्तुं म्लेच्छान् पलायितान् ॥३९॥ते परावृत्त्य युयुधुः प्राणदानेन वै तदा ।शस्त्राघातैश्च रक्षांगारकं जघ्नुः समन्ततः ॥४०॥राजा ममार भूमौ च प्राणान् निपतितो जहौ ।राणिका निजसौधे वै देवपूजां करोति च ॥४१॥रक्षार्थं निजकान्तस्य तावद् ददर्श पादयोः ।चिह्ने रक्ते चाक्षते च यथारेखे ह्युभे भुवि ॥४२॥पृथ्व्यां कुंकुमपादौ स्वौ दृष्ट्वा सती भयं गता ।हा नाथेति समुच्चार्य सतीसत्यं व्यलोकयत् ॥४३॥सती सत्यारूढभावा व्यजायत क्षणान्तरे ।दिव्यदृष्ट्या स्वकान्तस्य दृष्ट्वा सूक्ष्मां तनुं तदा ॥४४॥समागतां गृहे नैजे तां गृहीत्वा द्रुतं बिलात्॥विनिर्गत्य स्वभवनात् पराजयप्रधर्षिता ॥४५॥पुंवेषेण सती साध्वी ह्यपासरद्धि तत्स्थलात् ।बहिर्गत्वा महोष्ट्रं च प्राप्य भाग्यवशाद्धि सा ॥४६॥गुप्तां द्रुमसृतिं गत्वा निर्ययौ भयभूमितः ।राज्यं त्यक्त्वा दुःखभोक्त्री ययावश्वसरः प्रति ॥४७॥दिनैकेनैव सम्प्राप्ता सरसश्चोत्तरे तटे ।सरस्तीरे चावरुह्य सस्नौ रुरोद चान्तरे ॥४८॥जलाञ्जलिं ददौ तत्र कान्ताय सहगाय च ।सूक्ष्मरूपाय च ततः कृष्णनारायणं प्रभुम् ॥४९॥स्मृत्वा नत्वा चार्थयित्वा तस्थौ तटे स्थिराशया ।अनादिश्रीकृष्णनारायणस्य सन्निधाविह ॥५०॥देहानलं समुत्पाद्य प्रयाम्येव दिवं शुभम् ।एवं निश्चित्य वै सायं शीलव्रतपरायणा ॥५१॥सतीं सत्यं प्रतुष्टाव तदा कृष्णनरायणम् ।'सत्याः सत्यं नित्यसत्यं नारायणं नमाम्यहम् ॥५२॥ओं नमो ब्रह्मसवित्रे सत्यानाथाय ते नमः ।पातिव्रत्यस्वरूपाय पञ्चाग्नये च ते नमः ॥५३॥त्रेताऽग्नये बीजस्वरूपाय च ते नमः ।गर्भरूपाय बाल्याय युवरूपाय ते नमः ॥५४॥कान्तायै चापि कान्ताय सवंशाय च ते नमः ।युगलाय स्थविराय त्र्यात्मकाय च ते नमः ॥५५॥नमो भगवते कृष्ण भगवत्यै च ते नमः ।शीलरूपाय धर्माय धर्मलाभाय च ते नमः ॥५६॥नमश्चितास्वरूपाय पतिरूपाय ते नमः ।नमः पान्थस्य सार्थायाऽतिवाहिकायै ते नमः ॥५७॥नमः सूर्याय मेघाय विद्युते शशिने नमः ।नमो दिवास्वरूपाय निशारूपाय ते नमः ॥५८॥अयनद्वयरूपाय नमो युगप्रवर्तिने ।नमो दिवाय सत्याय नमो वैकुण्ठवासिने ॥५९॥सतीनां पतये कृष्ण सतीलोकेशिने नमः ।नमो गोलोककान्ताय नमोऽक्षरनिवासिने ॥६०॥नमो मुक्तप्रपूज्याय सतां च पतये नमः ।मुक्तेश्वरेशाय ब्रह्मप्रियेश ते नमः ॥६१॥नमो माणिक्यमुक्तानां रमायाः पतये नमः ।पद्मावतीसतीलक्ष्मीराधाश्रीपतये नमः ॥६२॥सर्वशाय परेशाय नमः श्रीपरमात्मने ।लक्ष्मीशाय नमः श्रीपुरुषोत्तमाय ते नमः ॥६३॥अनादिश्रीकृष्णनारायणाय स्वामिने नमः ।अन्तर्यामिस्वरूपाय सयुजे ते नमोनमः ॥६४॥गोपालनन्दनायेश कंभराजाय ते नमः ।अश्वपट्टस्य चन्द्राय मायासूर्याय ते नमः ॥६५॥स्मृद्धिदाय विरागाय सर्वहर्त्रे च ते नमः ।एषाऽहंगृहसंज्ञाऽस्मि गृहं सत्यं भवान्मम ॥६६॥रक्षांगारकनामा त्वं त्वत्परा गीश्च यावती ।त्वां सहायं परं प्राप्य जुहोम्येनां गृहाण माम् ॥६७॥विदित्वा चाऽविदित्वाऽपि सर्वं जुह्वति चान्ततः ।उभयेन विधानाऽत्र होमो भवामि वै त्वयि ॥६८॥त्वं यज्ञस्त्वं यज्ञकुण्डे चाहवनीयरूपवान् ।गार्हपत्यस्वरूपस्त्वं चावसथ्यस्वरूपवान् ॥६९॥यज्ञकुण्डाग्निरेवाऽसि सर्वकुण्डाग्निरेव च ।नय मां सत्यधर्मेण सतीलोके कृपां कुरु ॥७०॥सतीधर्मो हि नारीणां जगदुद्धारकारकः ।सती दाक्षी पुरा जाता वह्निना त्वदहद् वपुः ॥७१॥रेणुका च सती जाता शबरी चापि वै पुरा ।कृतधर्माश्रिता नार्यः सतीत्वमुपयान्ति च ॥७२॥तथाऽहं श्रीहरे कृष्ण सतीत्वमुपयामि च ।इत्येवं भूपते सा तु कोमलांगी हि राणिका ॥७३॥चितामारुह्य यावच्चेन्धितुं वह्निं समिच्छति ।तावच्छ्रीलोमशो देवश्चेशानश्च सुरादयः ॥७४॥अनादिश्रीकृष्णनारायणो लक्ष्मीश्च गोचराः ।अभवन् सन्निधौ तत्र सती नेमे समन्ततः ॥७५॥सती त्वं जयमाप्नुहि सतीलोकं प्रगच्छसि ।पत्या समं सुखं भुङ्क्ष्व यावत् स्वर्गं प्रविद्यते ॥७६॥इत्युक्त्वा प्रददुराशीर्वादान् पुष्णाणि चन्दनम् ।सन्ती विष्णुं नमस्कृत्वा सस्मार च पुनः पतिम् ॥७७॥स्थूलदेहात्मकं तावत् शंकरस्य गणस्तदा ।नन्दी गत्वाऽऽनयच्छ्रीघ्रं रक्षांगारशवं च खे ॥७८॥ददौ चितायां सत्यै तत् सापि हृष्टाऽमिलत्तनुम् ।आश्लिष्यत् विधिना प्रेतं पश्यतां द्युसदां तथा ॥७९॥मनुष्याणां पश्यतां साऽनलमौत्पादयत् पदात् ।कृष्णकृष्णेति कृष्णेति राधाकृष्णेति सा जगौ ॥८०॥गोपीनाथ सतीकान्त रमानाथ विलोकय ।इत्युक्त्वा च चितायां साऽस्वपत् शवेन लम्बिका ॥८१॥तावद् वह्निर्नाऽस्पृशत्तां पादे एव प्रकाशते ।तावत्तत्र हरिः कृष्णो राधाकृष्णो बभूव ह ॥८२॥मुरल्या सहितश्चास्ते दर्शनं प्रददन् प्रभुः ।स्वहस्तेन जलं सर्पिः पुष्पाणि च तिलानि च ॥८३॥चन्दनं प्रददौ तत्र चितायां भगवान् स्वयम् ।आत्मानौ द्वौ सतीकान्तौ दिव्यरूपौ बभूवतुः ॥८४॥निर्ययतुः शवदेशात् तस्थतुश्चाम्बरे क्षणम् ।विमानं चागतं स्वर्गाद् दिव्यं सूर्यनिभं तदा ॥८५॥निषेदतुश्च तौ तत्राऽपश्यतां शवदाहनम् ।अग्निर्ददाह देहौद्वौ नत्वा तौ परमेश्वरान् ॥८६॥सतीलोकं ययतुश्च तत्र कल्पायुषौ च तौ ।स्थित्वा यास्यत एवाऽस्याऽक्षरं धाम परात्मनाः ॥८७॥देवाश्चात्र सतीतीर्थं कृत्वा नारायणगृहम् ।गत्वा सम्पूज्य च श्रीमदनादि श्रीनरायणम् ॥८८॥ययुर्निजं दिव्यलोकं कृष्णश्चान्तरधीयत ।शंभोर्गणाश्चिताभस्म जले चिक्षिपुरेव तु ॥८९॥राणिकातीर्थमेवाऽपि रक्षांगारकतीर्थकम् ।समभूत् तत्परं ख्यातं स्त्रीणां सतीत्वबोधकम् ॥९०॥सतीधर्माऽवनकर्तृ पापतापप्रणाशकम् ।अत्र राजन् स्नानदानाज्जलपानाद्विशेषतः ॥९१॥सतीपूजाकरणाच्च सतीलोकफलं व्रजेत् ।या नारी विधवा चात्र पतिं स्मृत्वाऽऽप्लविष्यते ॥९२॥सा तत्पुण्येन कान्तं वै सतीलोके हि नेष्यति ।या कन्या जलपानं च स्नानं वात्र करिष्यति ॥९३॥सतीत्वं वै समासाद्य पतिं लब्ध्वा सुखप्रदम् ।पूर्णायुष्यं प्रभुक्त्वाऽत्र सतीलोकान् गमिष्यति ॥९४॥सौभाग्ययुक्ता प्रमदा स्नानदानादिना त्विह ।पातिव्रत्यफलं लब्ध्वा सतीलोकान् गमिष्यति ॥९५॥वृद्धापि स्नानमात्रेण शतैककुलमुक्तिदा ।नरोऽपि स्नानमात्रेण सत्यधर्मपरायणः ॥९६॥गतां मृतां प्रियां प्राप्य स्वर्गलोकं प्रयास्यति ।एतादृशं सतीतीर्थं नारीणां पावनं त्विदम् ॥९७॥राज्ञ्याद्याश्चात्र कुर्वन्तु स्नानं दानं जलाञ्जलिम् ।यथा च देवगंगायां सतीतीर्थं महत्तमम् ॥९८॥यथा रेवापगायां च रेणुकातीर्थमित्यपि ।तथाऽत्र राणिकातीर्थं त्रैलोक्यां पावनोत्तमम् ॥९९॥कृते युगे समारब्धे जातं पुरातनं नृप ।इप्युक्तोऽश्वपाटलश्च तत्स्त्रियो दासिका अपि ॥१००॥राधिके सरसो वारौ सस्नुः सतीस्थले जले ।ते तर्पणं प्रचक्रुश्च दत्वा दानानि वै ततः ॥१०१॥राजाद्याः प्रययुश्चाग्रे तीर्थं परं हि पावनम् ।लोमशेन च सहितास्तीर्थमाहात्म्यवेदिनः ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सौराष्ट्रे स्वर्णपत्तने म्लेच्छैः रक्षांगारकनृपे हते तत्पत्नीराणिकासत्याः कुंकुमवाप्यामागत्याऽश्वपट्टसरस्तटेसतीभवनं सतीतीर्थं चेत्यादिनिरूपणनामा सप्तषष्ट्यधिकद्विशततमोऽध्यायः ॥२६७॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP