संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २०८

त्रेतायुगसन्तानः - अध्यायः २०८

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके श्रीमद्बालकृष्णोऽतिहेतुभिः ।
उपदेशं ददौ तेभ्यः कथयामि निबोध मे ॥१॥
मया सृष्टं हरिः प्राह जगत् सर्वं हि गत्वरम् ।
न स्थिरं जायते तत्त्वं दीर्घकालेऽपि नश्यति ॥२॥
अविनाशी महानात्मा सच्चिदानन्दलक्षणः ।
निजानन्दमयो देहे कर्मानुगफलादनः ॥३॥
यावत्कर्म स्थिरस्तावत् ततो यान्ति गृहान्तरम् ।
अत्र कृतं परे लोके भुंक्ते फलात्मकं हि तत् ॥४॥
विहाय सर्वं गन्तव्यं सर्वैर्लोकान्तरे ध्रुवम् ।
यत्र गत्वा भवेत् सौख्यं कर्तव्यं साधनं हि तत् ॥५॥
लोकान्तराणि सर्वाणि स्वरादीनि सुखानि वै ।
बहुपुण्येन दानेन परोपकृतिकर्मभिः ॥६॥
लभ्यते सेवया चापि वृद्धानां च सतां तथा ।
आशीर्वादात्मपुण्येन जायते स्वर्गमुत्तमम् ॥७॥
ततोऽपि चोत्तमं स्वर्गं वैकुण्ठं वा ततः परम् ।
गोलोकं वाऽक्षरं धाम परंधाम ममापि च ॥८॥
वैकुण्ठे मे भवन्त्येव कुटुम्बानि शुभानि वै ।
पार्षदानां तथा पार्षदानीनां मण्डलानि च ॥९॥
युगलानि भवन्त्येव दिव्यानि युगलोऽप्यहम् ।
लक्ष्म्यादिकोटिदासीभिः सेव्यमानोऽस्मि तत्र ह ॥१०॥
गोलोकेऽपि तथा चाहं श्रीकृष्णो राधया युतः ।
कोट्यब्जगोपगोपीभिर्युगलैः सम्प्रसेवितः ॥११॥
राजाधिराजो वर्तेऽहं सदानन्दमहाम्बुधिः ।
युगलानां महत् सौख्यं शाश्वतं तत्र वर्तते ॥१२॥
सर्वं दिव्यं मम योगान्मोक्षस्थानमगत्वरम् ।
नित्यं विवर्धमानं तत् ह्रासशून्य परं सुखम् ॥१३॥
तद्वत् सुखं सदा चास्ते कैलासे नित्ययोगिभिः ।
आश्रिते शांकरे लोके गोलोकादध एव ह ॥१४॥
गणैश्च गणीभिर्दिव्ययोगिनीभिः प्रसेव्यते ।
शंकरोऽहं वसाम्येव तत्र कैलासके शुभे ॥१५॥
मया रूपं धृतं तद्वै गार्हस्थ्ययोगिदर्शकम् ।
योगी तिष्ठामि गार्हस्थ्ये सत्यपि शंकरात्मकः ॥१६॥
तत्सुखं शाश्वतं चापि युगलानां सतां ध्रुवम् ।
सतीसेवां च गृह्णामि योगिनीनां पतिः प्रभुः ॥१७॥
ततः श्रेष्ठं सुखं चास्ते त्रिभ्यो लोकेभ्य उत्तमम् ।
अक्षरे मे नित्यधाम्नि यथेष्टं पारमेश्वरम् ॥१८॥
सर्वैश्वर्यमयं सर्वयोगात्मकं सुखोत्तमम् ।
कामरूपधरं नैकरूपभोग्यं सुखात्सुखम् ॥१९॥
सर्वरूपधरत्वं वै वर्तते तत्र चोत्तमम् ।
स्वातन्त्र्यं दिव्यमुक्तानां सर्वशक्तिजुषां सदा ॥२०॥
सुखस्याऽन्तः क्वचिन्नास्ति कदाचित् ह्रास एव न ।
वर्धन्ते सुखसन्देहाः सदा आनन्दवार्धयः ॥२१॥
अनेकेन्द्रियविषया दिव्या अक्षरसंज्ञिताः ।
शब्दाः स्पर्शा रसा गन्धा दृश्या दिव्या भवन्ति वै ॥२२॥
आनन्दाख्याः सुखशैला आत्मानो भुञ्जते सदा ।
अक्षरे तत्र कोट्यब्जगोलोकानां सुखाधिकम् ॥२३॥
तथा कोट्यब्जवैकुण्ठकैलासानां सुखाधिकम् ।
सुखं सर्वविधं चास्ते मुक्तानां मानसेप्सितम् ॥२४॥
ततोऽप्यधिकं चैवास्ते परेधाम्नि सुखं मम ।
मम योगेन भक्तानां सुखं सर्वोत्तमोत्तमम् ॥२५॥
अनन्तं मन्मूर्तिलभ्यं सर्वेन्द्रियसुगोचरम् ।
निरवध्यधिकं चैव निरतिशायि शाश्वतम् ॥२६॥
यथेष्टं चैकमूर्त्या वा लभ्यं च युगलेन वा ।
ऐक्यभावेन लभ्यं वा सर्वभावार्जितं च वा ॥२७॥
यथेष्टेष्टेष्टेष्टतमं राधे निरूपणात्परम् ।
एवं हरिर्निजं सौख्यं वर्णयामास मूर्तिजम् ॥२८॥
अथाहेह सुखार्थं च राधिके वर्तनं शुभम् ।
मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च ॥२९॥
ओषधयो द्रुमा गुल्मा न ते यान्ति पराभवम् ।
तथा सचेता भूत्वैव प्रसहेता गतं परात्। ॥३०॥
प्रातिकूल्यं निगिलता प्राप्यते विजयः सदा ।
सुकृतं लभ्यते तेन सहमानेन सर्वथा ॥३१॥
दुष्कृतं नाश्यते तेन नम्यमानेन सर्वदा ।
देहेन्द्रियादिभिः क्वापि दीयमाने निजात्मने ॥३२॥
क्लेशो वाऽऽतुरता चापि सहनीया सुबुद्धिभिः ।
लोकैर्वा निजलोकैर्वा भूतैर्वा तत्त्वसत्तमैः ॥३३॥
दीयमानं महाकष्टं सहते यश्च देहवान् ।
स एव विजयं याति परे स्वर्गेऽपि मोदते ॥३४॥
प्रत्यक्षं वा परोक्षं वा योऽपरानिह निन्दति ।
निन्दावृत्तिः श्ववल्लोके मृततुल्यः शवादिवत् ॥३५॥
निन्दकं वै नर्तमानं मयूरं नग्नपुच्छकम् ।
वर्जयेन्मृततुल्यं वै तादृशं पापचेतसम् ॥३६॥
शालावृकं च मातंगं चारिव्रतं विमार्गिणम् ।
वर्जयेत् सर्वथा क्रुद्धं स स्यात् सुखी जनेष्वपि ॥३७॥
यस्य भृत्यजनः सर्वो ज्ञानविज्ञानकोविदः ।
हितैषी वचने सक्तः स्निग्धः स जायते सुखी ॥३८॥
मन्त्रिणो यस्य हितदा मतिदाश्चोन्नतिप्रदाः ।
अनागतविवेक्तारः स सदा जायते सुखी ॥३९॥
समदुःखसुखा यस्य सहायाः प्रियकारिणः ।
हितचिन्तापराः सत्याः स सदा जायते सुखी ॥४०॥
यस्य नार्तः श्रितवर्गो भावतो निकटागमः ।
सेवाधर्मपरो दक्षः स सदा जायते सुखी ॥४१॥
भाव्यं राज्ञा हितकर्त्रा सेवकेनापि सर्वथा ।
ऐश्वर्यभागिना चापि विन्दतः सुखमेव तौ ॥४२॥
यस्मात्प्राप्तं महैश्वर्यं प्रजया चाश्रितेन च ।
तेन वा च तया वा तद् विस्मर्तव्यं न वै क्वचिद् ॥४३॥
कृतघ्नत्वे पुनर्नाशो भवेदेव न संशयः ।
दुःखमासाद्यते तेन विपरीतार्थगामिना ॥४४॥
आसीद् वने महारण्ये मुनिर्मोक्षपरायणः ।
कृपायनो द्विजश्रेष्ठो महाभागवतः शुचिः ॥४५॥
भजमानो हरिं नित्यं नियतो तप आस्थितः ।
ऐश्वर्याधार एवाऽसौ फलमूलादनः सुखी ॥४६॥
सत्त्वभावेन निवसन् बह्वाश्रयप्रदोऽभवत् ।
तमेनं सत्त्वसम्पन्नं चाहिंसकं समदृशम् ॥४७॥
विज्ञाय वनिनः सत्त्वाः समीपे निवसन्त्यपि ।
मूषका नकुलाश्चापि मार्जाराः सारमेयकाः ॥४८॥
द्वीपिनो भल्लुकाश्चापि व्याघ्रा गजा महागजाः ।
सिंहाश्चान्ये खङ्गमृगा गण्डका हरिणास्तथा ॥४९॥
वैरं त्यक्त्वैव तिष्ठन्ति यान्ति चारण्यके दिने ।
रात्रौ वाऽऽहारलाभार्थं पुनश्चायान्ति तत्र च ॥५०॥
मूषकस्त्वेकदा यातो निजाहारार्थमेकलः ।
दूरं तदाश्रमात्तत्र मार्जारो मिलितस्तदा ॥५१॥
क्षुधया च पतन् धर्तुं पृष्ठेऽभवद्बलाद् यदा ।
मूषकः सोऽतिवेगेन ऋष्यंके न्यपतद् भयात् ॥५२॥
प्रार्थयन्मे भयं चास्मान्मार्जाराज्जायते ऋषे ।
निर्भयं कुरु विप्रेन्द्र यथा सुखं वसाम्यहम् ॥५३॥
ऋषिः प्राह भवैवात्र मार्जारस्त्वं सुखी भव ।
जातः सोऽपि च मार्जारस्तं धर्तुं श्वा समागतः ॥५४॥
पुनश्चैवं प्रार्थयच्च ऋषिः प्राह कृपायनः ।
श्वा भवेति द्रुतं सोऽभूत् श्वा तदा निर्भयोऽनिशम् ॥५५॥
अथैकदा समायातो वृकस्तं धर्तुमापतत् ।
श्वा प्राह च ऋषिं गत्वा निर्भयं मां विधेहि च ॥५६॥
ऋषिः प्राह वृकोऽत्र त्वं भवैवं निर्भयो भव ।
वृके जातेऽथ च ततो व्याघ्रः क्षुधाकुलो वने ॥५७॥
समायातो वृकं हन्तुं वृको भयान्वितो मुनिम् ।
प्रार्थयन्निर्भयं भावं मुनिस्तं व्याघ्रतां ददौ ॥५८॥
व्याघ्रो भूत्वा निर्भयोऽभूत् मुन्याश्रमे सुखस्थितः ।
कदाचिन्मत्तभावेन महादन्तेन हस्तिना ॥५९॥
दृष्टश्च ताडितुं शीघ्रं समायातेन वेगतः ।
उवाचैवं मुनिं गत्वा दन्त्ययं मां हनिष्यति ॥६०॥
ऋषिः प्राह भवात्रैव दन्ती बली महावपुः ।
व्याघ्रः शीघ्रं हस्तिभावं गतोऽतिबलपुष्टिमान् ॥६१॥
तावत् कश्चित् कदाचिद्वै केसरी दृष्टवान् गजम् ।
धर्तुं यावत् समायाति गजस्तावन्मुनिं प्रति ॥६२॥
समागत्य भयं प्राह निर्भयत्वमयाचत ।
ऋषिस्तस्मै ददौ शीघ्रं केसरित्वं कृपायनः ॥६३॥
अथायातः कदाचिद्वै शरभस्तत्र दैवतः ।
धर्तुं केसरिणं तावद् भयेन केसरी मुनिम् ॥६४॥
प्रार्थयन्निर्भयं भावं मुनिः प्राह कृपायनः ।
भव त्वं शरभः पुत्र माऽस्तु भयं कदाचन ॥६५॥
शरभः स तदा जातः केसरिप्राणनाशनः ।
निर्भयोऽस्ति वने तावत् कदाचिद् दिनसप्तके ॥६६॥
अतिवर्षा अभवँश्च न प्रापच्छरभोऽदनम् ।
तदा व्यचिन्तयच्चैनमृषिं संभक्षयामि वै ॥६७॥
ध्यानयोगबलेनापि महर्षिस्तं तथामतिम् ।
ज्ञात्वाऽऽह मूषकं त्वां तु मदैश्वर्यबलेन ह ॥६८॥
शरभत्वं दत्तवाँश्च सर्वश्रेष्ठं च निर्भयम् ।
तथैश्वर्यप्रदातारं कृपया रक्षकं प्रभुम् ॥६९॥
अपापं प्राणदातारं यतो हिंसितुमिच्छसि ।
तस्मात्पुनर्मूषकत्वं प्रयाहि पापयोनिज ॥७०॥
एवं शप्तो मूषिकत्वं प्राप्तः शरभता गता ।
दीनतां वै गतः पश्चादृषिणा स बहिष्कृतः ॥७१॥
एवं विज्ञाय पात्रादि सात्त्विकं सत्त्ववर्जितम् ।
वा तथा तत्र वै देयं चैश्वर्यं नाधिकं क्वचित् ॥७२॥
एतादृशानां लोकानां विश्वासो न हितावहः ।
स्वामिना श्रेष्ठिना राज्ञा ज्ञातव्यं वै सुखार्थिना ॥७३॥
नाऽपरीक्ष्य कदाचिद्वै देयं सर्व कुपात्रके ।
कुपात्रपाशमापन्नो न कदाचिद् सुखं व्रजेत् ॥७४॥
कुलीनः प्राकृतोऽप्यत्र दुःखमाप्तोऽपि वै क्वचित् ।
न पापे कुरुते बुद्धिं भिद्यमानोऽपि सात्त्विकः ॥७५॥
कुलीनभिन्नपुरुषो बुद्ध्या हीनोऽतिमूर्खराट् ।
दुर्लभैश्चरतां चापि प्रापितः शत्रुतां व्रजेत् ॥७६॥
कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानपारगम् ।
कृतज्ञं च सहिष्णुं च सन्तुष्टं च जितेन्द्रियम् ॥७७॥
हितैषिणं सतां सेवां कुर्वन्तं पितृसेविनम् ।
ब्रह्मसेवापरं चेष्टदेवार्पणवृषान्वितम् ॥७८॥
युक्ताचारं शुभचिन्तापरं विनयवेदिनम् ।
इंगितज्ञं नीतियुक्तं कुशलं गुणसंभृतम् ॥७९॥
सेवाज्ञं लाभहान्यादिवेदिनं सत्त्वमाश्रितम् ।
दुर्लभैश्वर्यवन्तं यः कुरुते ज्ञानवान् पतिः ॥८०॥
स्वामी राजाऽथवाऽन्यश्च स सुखी जायते सदा ।
एवं शिष्यं प्रविज्ञाय राजँस्तेऽत्र ददाम्यहम् ॥८१॥
योगैश्वर्यं समाधिस्थं भावं मम स्वरूपके ।
पश्य नित्यं दिव्यभावं मम त्वं रणजित्! सदा ॥८२॥
येन ते परमा सिद्धिर्मोक्षदा हस्तगा भवेत् ।
इत्युक्त्वा प्रददौ दिव्यं भावं रणजिते हरिः ॥८३॥
विंशतिकन्यकापित्रे श्वशुराय महात्मने ।
स चापि भावमापन्नो दिव्यं दिव्यसुनेत्रकः ॥८४॥
दृष्टवान् कुंकुमवापीं दिव्यां स्मृद्धां महापुरीम् ।
दृष्टवान् दिव्यवैकुण्ठं गोलोकं चाक्षरं तथा ॥८५॥
अक्षरेशं कांभरेयं बालकृष्णं सुतापतिम् ।
ततो हरिः प्रजाभ्यश्च स्वं दिव्यं दर्शनं ददौ ॥८६॥
क्षणान्ते मानवं भावं प्राप्य मन्त्रं निजं ददौ ।
वैष्णवास्ते तदा जाताः प्रजालोकाः सहस्रशः ॥८७॥
अथ युकासनानद्यां स्नातुं गोपालनन्दनः ।
ययौ स्नात्वा ध्यानपूजां कृत्वा शीघ्रं नृपार्पिताम् ॥८८॥
पूजां प्रगृह्य दुग्धादिपानं कृत्वा विहायसा ।
विमानेन कृतं प्राप्य सम्मानं प्रययौ ततः ॥८९॥
आलायसर्षिसहितो भूभृता सहितस्तथा ।
विंशतिकन्यकायुक्तो हरिः पितृसमन्वितः ॥९०॥
यज्ञभूमिं चाययौ वै लक्षकोटिकमुद्रिकाः ।
यज्ञे समर्पयामास दानार्थं कोशरक्षिणे ॥९१॥
रात्रौ च भोजनं चक्रे महोत्सवं तथोत्तमम् ।
भोजयित्वा जनान् सर्वान् सुष्वाप परमेश्वरः ॥९२॥
सप्तम्यां देशजाश्चान्यदेशीया मानवास्तदा ।
ऋषयो मुनयश्चान्ये धर्माख्यानपरा जनाः ॥९३॥
लक्ष्मीनारायणसंहितायाः कथानकानि वै ।
जगुस्तत्र महोत्साहयुता मखेऽतिशोभने ॥९४॥
कीर्तनानि भवन्त्येव लीलाश्चर्यमयानि च ।
शेषकाष्ठवनानद्यास्तीरे सतां निवासने ॥९५॥
रासभावेन सर्वाश्चामर्यो रमन्त इत्यपि ।
नाट्यभावेन नरका नाट्यं कुर्वन्ति वै निशि ॥९६॥
अथ राधे प्रसेवन्ते विंशतिकन्यका हरिम् ।
निशि श्रीपतिमीशेशं कान्तं कान्तिमनोहरम् ॥९७॥
शाश्वतं सुखमापुस्ताः सेवयित्वा नवं प्रभुम् ।
कृतकृत्या अभवँश्च योगैश्वर्यप्रतापिनम् ॥९८॥
प्रातर्जातं हरिर्निद्रां तत्याज मंगलश्रवैः ।
ध्यानैर्मंगलतूर्योत्थैः सूतमागधजैः रवैः ॥९९॥
गीतिकाभिश्च वै ब्रह्मप्रियाणां योषितां सताम् ।
कीर्तनैर्भजनैश्चापि प्रबुबोध जनार्दनः ॥१००॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मीनार्ककृष्णपत्तने रायरणजित्प्रभृतिजनान् हरिः समुपादिदेश, यज्ञभूमिमाजगाम, रात्रौ सुष्वाप, प्रातः प्रबुबोधेत्यादिनिरूपणनामाऽष्टाऽधिकद्विशततमोऽध्यायः ॥२०८॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP