संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १३६ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १३६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १३६ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके! देवायतनको भक्तराट् पुनः ।पप्रच्छ श्रीहरिं ज्ञातुं प्रासादनिर्मितिं तदा ॥१॥लोकानामुपकारार्थं ज्ञातुमंगप्रमाणकम् ।अन्तर्मानानि सर्वाणि विज्ञातुं मन्दिरस्य वै ॥२॥भगवन् देवदेवेश देवालये यथा यथा ।अंगानि मूलतो यानि भवन्ति चाऽऽध्वजं वद ॥३॥येनाऽहं च ममांऽगानि जानीयां यत्र देवताः ।आध्यात्मिक्यं इमाश्चापि निवत्स्यन्ति तनौ मम ॥४॥इत्यस्य वै स्वरूपं च ज्ञात्वा प्रासादकस्य च ।अन्ये प्रासादवर्याश्च भविष्यन्ति सजातयः ॥५॥शिल्पिनो विश्वकर्माणो यदाधारान् स्वबुद्धिभिः ।प्रासादान् कल्पयिष्यन्ति नैकरूपाँस्तदुत्तरम् ॥६॥तस्माद् वद हरेकृष्ण प्रासादांगविवेचनाम् ।हितकृद् देववासानां यन्मूलः शिल्पिविस्तरः ॥७॥इतिपृष्टो हरिकृष्णस्तमुवाच समासतः ।रेखालक्ष्यात्मरूपं वै देवायतनकं मुनिम् ॥८॥सप्तयवोदरैर्मीतश्चाऽङ्गुलो मध्यमः स्मृतः ।चतुर्विशत्यंगुलैश्च हस्तो वै परिकीर्तितः ॥९॥हस्तोऽयं गजसंज्ञोऽस्ति देवप्रासाद्के तथा ।प्रतिमायां च लिङ्गे च पीठे च मण्डपे तथा ॥१०॥राजप्रासादिके चापि महादीर्घनिवासके ।दीर्घहर्म्ये पृथिव्यां च हस्तेनाऽनेन मापयेत् ॥११॥देवप्रासादके चापि मण्डपे भित्तिबाह्यतः ।मानं ग्राह्यं च शिखरे मन्दिरे देवतालये ॥१२॥पृथिव्या दीर्घतायां वै हस्तसंख्या तु यावती ।गुणिता सा प्रकर्तव्या व्यासता हस्तसंख्यया ॥१२॥उत्पन्ना या हस्तसंख्या भञ्जनीयाऽष्टसंख्यया ।शेषसंख्या भवेदैव आयनाम्नीति विश्रुता ॥१४॥एकाऽङ्कस्तु ध्वजायः स्यात् पञ्चाऽङ्कस्तु वृषायकः ।सप्तसंख्या गजायः स्याद् देवालये त उत्तमाः ॥११॥ध्वजाये त्वर्थलाभः स्याद् वृषायो धनधान्यदः ।कल्याणदो गजायश्च मन्दिरादौ मता इमे ॥१६॥प्रासादे च प्रतिमायां लिङ्गे पृथ्व्यां च मण्डपे ।पीठे सिंहासने वेद्यां कुण्डे ध्वजे च चामरे ॥१७॥छत्रे वाप्यां तटाके च कूपे देवासनेऽम्बरे ।भूषायां पीठिकायां च हारे मुकुटके तथा ॥१८॥ध्वजायः सर्वथा श्रेष्ठो ग्राह्यः शिल्पिकलाविदा ।शेषे त्रित्वे तु सिंहायः सिंहासने शुभो मतः ॥१९॥देवालये ध्वजायः स्याच्छ्रेष्ठ एव न संशयः ।वृषायो वा गजायो वा न ग्राह्यो देवतालये ॥२ ०॥ध्वजायो न भवेच्चेद्वै गजायस्तत्र गृह्यते ।पूर्वायास्तु ध्वजः स्वामी पश्चिमाया वृषायकः ॥२१॥उत्तराया गजायोऽस्ति सिंहायो दक्षिणादिशः ।क्षेत्रायामं गुणयेच्च विस्तारेण ततश्च ताम् ॥२२॥संख्यां विभञ्ज्याच्च सप्तविंशत्या शेषकं च यत् ।भवेत्तदंकसंख्याकं नक्षत्रं वेश्मनो भवेत् ॥२३॥नक्षत्रं भञ्जयित्वा वै अष्टाख्यसंख्यया ततः ।शेषसंख्या व्ययसंज्ञा न्यूना सा चाऽऽयतो यदि ॥२४॥श्रेष्ठा सा नरसंज्ञाऽस्ति धनधान्यादिदायिनी ।व्ययोऽधिको राक्षसः स्यात् समानस्तु पिशाचकः ॥२५॥अशुभौ तौ सदा बोध्यौ नरव्ययो हि लाभदः ।अष्टौ व्ययाश्च ते बोध्याः शेषैके शान्तनामकः ॥२६॥ध्वजायेन समं शान्तो व्ययो देयः फलप्रदः ।सिंहायेन समं पौरो व्ययो देयो द्वितीयकः ॥२७॥वृषायेन समं देयः श्रियानन्दस्तु पञ्चमः ।गजायेन समं देयः श्रीवत्सो व्यय एव च ॥२८॥क्षेत्रपास्ते प्रकीर्त्यन्ते पूजिता विघ्ननाशकाः ।मणिरत्नसुवर्णाद्यैः प्रासादा देवताप्रियाः ॥२९॥नद्यास्तटे पुरे तीर्थे सिद्धाश्रमे च गह्वरे ।उद्याने च तटाके च कार्या देवालयाः शुभाः ॥३०॥नगराभिमुखाः श्रेष्ठाः प्रासादाः सुखदाः सदा ।तेषु मध्ये च बाह्ये च देवताः सुखदा सदा ॥३१॥श्रीः कुबेरो गणेशश्च गोपुरे सुखदाः सदा ।मध्ये वा स्वस्य निलये सुखदाः सन्ति वैष्णवाः ॥३२॥रात्रौ पृथ्व्यां प्रदीपं च संस्थाप्य ध्रुवतारके ।अवलम्बनसूत्रेण रेखैक्यं लेखयेद् बुधः ॥३३॥उत्तरा सा दिशा शुद्धा कीलकैर्निश्चितां तु ताम् ।कुर्यादावारि निरवनेदाशिलाभागभूतलम् ॥३४॥पाषाणान्ते जलान्ते वा कूर्मशिलां निवेशयेत् ।यद्दिशि स्यात्सर्पमुखं तस्यां खातं न चाचरेत् ॥३५॥चतुष्षष्टिचतुष्कीनां कार्यमेकं हि कोष्ठकम् ।समकोणं चतुष्कोणं कृत्वा चोभयतोदिशि ॥३६॥रव्यादिवासराँस्तत्र लिखेदष्टौ क्रमादपि ।चतुष्कोणे रविर्यथा पतेल्लिखेत्तथाविधम् ॥३७॥तत्र कोष्ठे मंगलस्य पंक्तौ नागमुखं महत् ।शनेः पंक्तौ मंगलस्य पंक्तौ देहो मतोऽस्य वै ॥३८॥शनैः पंक्तौ तथा पुच्छं भवेन्नागास्यकोष्ठके ।देहस्थले न वै खातं कर्तव्यं क्वचिदेव च ॥३९॥कन्यातुलावृश्चिके च रवौ पूर्वे मुखं भवेत् ।भाद्रेषोर्जेष्वपि नागमुखं पूर्वे भवेत् सदा ॥४०॥ततस्त्रिके च दक्षे स्यात् ततस्त्रिके तु पश्चिमे ।ततस्त्रिके उत्तरे स्यात् तत्र खातं न कारयेत् ॥४१॥कुक्षिद्वयस्य वै पार्श्वे खातं शस्तं मतं यथा ।यदि नागमुखं पूर्वे वायव्ये खातमाचरेत् ॥४२॥दक्षिणे चेत् सर्पमुखं त्वैशान्यां खातमाचरेत् ।पश्चिमे चेन्नागमुखं खातं वह्नौ तदाचरेत् ॥४३॥उत्तरे चेन्नागमुखं नैर्ऋत्ये खातमाचरेत् ।देवालयेषु सर्वत्र निखनेद् वामकुक्षिके ॥४४॥गजैकमानप्रासादे चतुरंगुलकूर्मकः ।ततो दशगजं यावद् द्व्यंगुलां प्रतिहस्तकम् ॥४५॥कूर्मं संवर्धयेत् कूर्मशिला योग्या तु सा मता ।दशतो विंशतिं यावदेकांगुलां विवर्धयेत् ॥४६॥विंशतितश्च पञ्चाशद्गजं चार्धांगुलं धरेत् ।इष्टकानां तु प्रासादे इष्टकाकूर्मकः स्मृतः ॥४७॥पाषाणानां मन्दिरादौ पाषाणस्य हि कूर्मकः ।कूर्मशिलाऽधोभागेऽष्टांऽशकं पद्मं समाचरेत् ॥४८॥एकगजायता चाऽष्टांऽगुलोर्ध्वा चतुरस्रिका ।पाषाणसौधे दातव्या स्वस्थाख्या सा सहायदा ॥४९॥इष्टिकानां तु सौधेषु कूर्मार्धांगुलमानतः ।कृत्वा कूर्मशिला देया स्थौल्ये सा स्याद् ध्रुवप्रदा ॥५०॥कूर्मशिलोपरि कार्या नव वै कोष्ठकास्ततः ।अग्निस्थे कोष्ठके वारिदृश्यं मत्स्यं तु दक्षिणे ॥५१॥नैर्ऋते मण्डुकदृश्यं पश्चिमे मकरदृशिः ।वायव्ये तु ग्रासमुखमुत्तरे शंखदर्शनम् ॥५२॥चैशाने सर्पदृश्यं च पूर्वे कुंभस्य दर्शनम् ।नवमे मध्यभागे वै कूर्मः कार्य इतिस्थितिः ॥५३॥नन्दा भद्रा जया रिक्ता तथाऽजिताऽपराजिता ।शुक्लौ सौभागिनी चाथ धरणी नवमी मता ॥५४॥कूर्मः कार्यश्चैकहस्ते देवालयेऽङ्गुलाऽर्धकः ।सुवर्णस्याऽथवा रौप्यकस्य श्रेष्ठः स सम्मतः ॥५५॥पश्चात् प्रत्येकहस्तेन आपंचदशहस्तकम् ।अर्धांऽगुलेन कूर्मोऽयं वर्धनीयो भवेदिति ॥५६॥पञ्चदशादेकत्रिंशद्गजपर्यन्तमेव तु ।चतुर्थांशांऽगुलवृद्धिः कूर्मस्यैवेष्यते सदा ॥५७॥एकत्रिंशादापञ्चाशद्गजपर्यन्तमेव तु ।एकैकदोरकस्यैव वृद्धिः कूर्मे प्रदीयते ॥५८॥दुग्धदधिघृतमधुशर्कराभिः सकूर्मकः ।स्नपनीयस्ततः स्थाप्यो धरणीनामको हि सः ॥५९॥पत्राऽऽयो नैव कर्तव्यः कर्तव्यश्छिद्रवर्जितः ।मध्ये च व्योमशून्यश्च कर्तव्यो भागवर्जितः ॥६०॥मणिभिः पूजनीयश्चाच्छादनीयः प्रवालकैः ।या नन्दाद्याश्चाष्टदिक्षु शिलास्ताश्च शुभा यथा ॥६१॥प्रासादे त्वेकहस्ते तु मता सप्तांगुला शिला ।ततः पञ्चगजं यावत् द्व्यंगुलास्ताः शिलाः मताः ॥६२॥ततो वै दशहस्ते तु त्र्यंगुलास्ताः शिला मताः ।ततो विंशतिहस्ते तु पादोनचतुरंगुला ॥६३॥पञ्चाशद्गजपर्यन्तं सपादचतुरंगुलाः ।समकोणाश्चतुर्थांऽशस्थूलाः कार्याः शिला नव ॥६४॥शिलानामुपरि चाग्निकोणे शक्तिं प्रदापयेत् ।दक्षिणायां च दण्डं तु नैर्ऋत्यायां तु खङ्गकम् ॥६५॥पश्चिमायां तु पाशं वै वायव्यायां तथांऽकुशम् ।उत्तरायां गदां दद्याद् ऐशान्यां तु त्रिशूलकम् ॥६६॥पूर्वस्यां वज्रकं दद्यान्मखं तासां बहिर्यथा ।रक्तं श्यामं चाभ्रवर्णं पाण्डुरं श्वेतमम्बरम् ॥६७॥हरितं श्वेतं पीतं च बस्त्रमाच्छादयेत् क्रमात् ।खाते शिलाऽधः संपुटाः स्थापनीया निधेर्नव ॥६८॥शंखः पद्मो महापद्मो मकरः कुन्दनालकौ ।कच्छपश्च मुकुन्दश्च खर्वश्च निधयो नव ॥६९॥ईशानादग्निकोणाद्वा दक्षे शिलाऽष्टकाऽर्पणम् ।मध्ये कूर्मशिला पश्चाद् वेदमांगल्यगीतिकैः ॥७०॥पूर्वे नन्दा स्थापनीया ततोऽन्या धरणी ततः ।शिलाष्टकोदरं सावकाशं रक्ष्यं पुटादिवत् ॥७१॥अभितः पालिकाः कृत्वोपरि स्थाप्याः पुटादिवत् ।धरणीनाभिनालं तु सावकाशं तदूर्ध्वके ॥७२॥आसिंहासनपर्यन्तं चानयेत् सुखदो हि सः ।कूर्मस्य स्थापने शिलास्थापने घृतपक्वकम् ॥७३॥मिष्टान्नं देवताभ्यश्च दिक्पालेभ्योऽपि मिष्टकम् ।बलिं दद्याद् दिव्यवस्त्रं शिल्पिने श्रीफलान्वितम् ॥७४॥ब्राह्मणायाऽर्पयेद् भोज्यं दक्षिणां वैदिकाय च ।प्रासादानामधिष्ठानं जगती वेदिका मता ॥७५॥यावत्कोणो भवेत् देवप्रासादो जगती तथा ।चतुरस्रा तथाऽष्टास्रा वर्तुला चाऽयताऽथवा ॥७६॥प्रासादरूपरूपा तु वेदिका वै प्रशस्यते ।वेदिका जगती प्रदक्षिणा चेति समर्थकाः ॥७७॥प्रासादाज्जगती कार्या षड्गुणा शोभना मता ।ब्रह्मविष्णुमहेशानां सप्तगुणा तु मन्दिरे ॥७८॥द्विगुणा वा चतुर्गुणा पञ्चगुणा क्वचिन्मता ।त्रिभ्रमा जगती श्रेष्ठा द्विभ्रमा तु च मध्यमा ॥७९॥एकभ्रमा कनिष्ठा च त्रिभ्रमा विष्णुमन्दिरे ।उच्छ्रायस्य त्रिभागेन न्यूना द्वितीयभ्रामिणी ॥८०॥तदुच्छ्रायविभागेन न्यूना तृतीयभ्रामिणी ।एवं समुच्छ्रयः कार्यो भ्रमणीनां त्रिभागतः ॥८१॥चतुष्कोणा द्वादशकोणा वा विंशतिकोणकाः ।अष्टाविंशतिकोणाः षटत्रिंशत्कोणास्तु चोत्तमाः ॥८२॥प्रासादश्चेद् द्वादशहस्ताऽऽयतो जगती तदा ।आयताऽर्थप्रमाणेन समुच्छ्रयवती मता ॥८३॥द्वाविंशतिगजाऽऽयत्ये तत्तृतीयांऽशकोच्छ्रया ।द्वात्रिंशदायतभावे चतुर्थांऽशोच्छ्रयो मतः ॥८४॥पञ्चाशदायतभावे तुर्येऽपि चतुरंशिका ।उच्छ्रये समता चापि सदा निर्विघ्नताकरी ॥८५॥जगत्युच्छ्रायमानस्य भागाः कार्याः समाः पुरा ।अष्टाविंशतिरेवाऽथ जाड्यकुंभस्त्रिभागकः ॥८६॥द्विभागा कर्णिका कार्या त्रिभागे सरपट्टिका ।पद्मपत्रयुता कार्या द्विभागः खुरको मतः ॥८७॥सप्तभागो भवेत् कुंभस्त्रिभागः कलशो भवेत् ।एकभागाऽऽन्तरपत्री कपोतालिस्त्रिभागजा ॥८८॥चतुर्भागः पुष्पकण्ठः कर्तव्यः सुखदा इमे ।निर्गमे पुष्पकण्ठो वै चतुर्भागो हि गृह्यते ॥८९॥जाड्यकुंभोऽपि च तथा चतुर्भागो हि गृह्यते ।कर्णिकासु पूर्वतो वै समारभ्य प्रदक्षिणम् ॥९०॥अष्टानां दिक्प्रपालानां स्थाप्याः सुप्रतिमाः शुभाः ।शिलाः प्रासादधर्त्र्यस्तु दीर्घाः पुष्टा नीरन्ध्रकाः ॥९१॥स्थाप्या दृढाः सुचूर्णाद्यैरवकाशविवर्जिताः ।जगतीदाशिकायाश्चोपरि भीटं ततो भवेत् ॥९२॥गजप्रासादकभीटं चतुरंगुलमुच्छ्रितम् ।कृत्वा ततश्च पञ्चाशद्गजपर्यन्तमेव तु ॥९३॥अर्धांगुलं प्रतिगजं भीटमुच्छ्रितमेव च ।एकद्वित्रीणि भीटानि चोपर्युपरि मानतः ॥९४॥चतुर्थांशन्यूनमानैः कारणीयानि सर्वथा ।निकासोऽपि चतुर्थांऽशः स्वस्वोच्छ्रयप्रमाणतः ॥९५॥भीटस्यांऽशत्रयं कृत्वोपरिभागे परार्धके ।पुष्पकचिप्पिकाः कार्याः पीठं भीटोपरि न्यसेत् ॥९६॥प्रासादे त्वेकहस्ते तु पीठं वै द्वादशांगुलम् ।पञ्चहस्तावधिं पञ्चांगुलं प्रतिगजं ततः ॥९७॥दशावधिं ततो वृद्धिश्चतुरंगुलमानतः ।विंशावधिं ततो वृद्धिस्त्र्यंगुला वै मता शुभा ॥९८॥षट्त्रिंशदवधिं वृद्धिः सार्धैकांगुलमानतः ।पञ्चाशद्गजपर्यन्तमूनपादः समुच्छ्रयः ॥९९॥पञ्चमांशाऽधिका श्रेष्ठा पीठवृद्धिः शुभा मता ।एकविंशतिसंभागाः प्रासादस्योच्छ्रये च ये ॥१००॥पञ्चादिनवभागान्तः पीठोत्सेधो यथेष्टकः ।शुभदं सर्वतोभद्रं पद्मं वसुन्धरं तथा ॥१०१॥सिंहं व्योमं गरुडं च हंसं वृषं च पीठकम् ।नवधा पीठमेव स्यात् पीठं प्रासादधारकम् ॥१०२॥पीठोच्छ्राये त्रिपंचाशद् भागाः कार्यास्ततः परम् ।द्वाविंशतिभागास्तु निर्गमेऽर्प्या विधानतः ॥१०३॥नवभागा जाड्यकुभे सप्तभागास्तु कर्णके ।अन्धारीसहिते बोध्याश्चाथापि सप्तभागकाः ॥१०४॥छज्जिकासहितग्रासपट्टिकाया मतास्तथा ।हस्तिस्तरो द्वादशांशे वाजिस्तरो दशांशके ॥१०५॥अष्टभागे नरस्तरः कर्तव्यः शुभदर्शनः ।अश्वस्तरे मुख्यदेववाहनस्य स्तरोऽपि वा ॥१०६॥कर्णकाग्रप्रभावाद्वै पञ्चभागात्मनिर्गमः ।जाड्यकुंभो हि कर्तव्यः सार्धत्रिभागकर्णकः ॥१०७॥आन्तरालश्चार्धभागश्चतुर्भागा ततः परम् ।छज्जिकायुग्ग्रासपट्टी कर्तव्या शोभना परा ॥१०८॥हस्तिस्तरश्चतुर्भागे निर्गमो वाजिनिर्गमात् ।प्रभागको हि कर्तव्योनरस्तरो द्विभागकः ॥१०९॥स्तराणामन्तराले च तथोर्ध्वे कर्णिका तथा ।छज्जिका च प्रकर्तव्या शोभाकरी तु राधिके ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रासादरूपे मन्दिरनिर्माणे खाताद्यारभ्य पीठकर्णीपर्यन्तं मन्दिरांगानां निर्देशप्रमापणादिनामा षट्त्रिंश-दधिकशततमोऽध्यायः ॥१३६॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP