संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १७० त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १७० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७० Translation - भाषांतर श्रीकृष्ण उवाच-राधिकेऽथ तथा षष्ठ्यां सप्तम्यामष्टमीतिथौ ।नवम्यां च दशम्यां च तर्पिता हरिणा मखे ॥१॥एकादश्यां तर्पिताश्च यावद्भिर्विधिभिस्तथा ।सर्वे वै देहिनोऽदेहाः स्थूलसूक्ष्मा हि नामिनः ॥२॥जडाश्चेतनजाताश्च द्रव्याख्याश्च गुणाभिधाः ।कर्माभिधाश्च तद्देवास्तत्तत्तत्त्वेश्वरादयः ॥३॥सर्वलोकनिवासाश्च सर्वे कुटुम्बिनस्तथा ।स्थावरा जंगमा नार्यो नराः षण्ढाश्च तर्पिताः ॥४॥अभिधेयं न वै किञ्चिद् भोजने ह्यवशिष्यते ।एवं सर्वेष्टियज्ञोऽयं वैष्णवो हरिणा कृतः ॥५॥सप्ताहे नित्यमायान्ति लोकलोकनिवासिनः ।कृत्वा च दर्शनं यान्ति कोट्यर्बुदा नराः स्त्रियः ॥६॥गगने तु विमानानां सांकुल्यं न निवर्तते ।यावन्तो गगने सन्ति सुराः स्वर्गादिवासिनः ॥७॥तावन्तो मानवा भूमौ तावन्तः पर्वतादिषु ।तावन्त एव वृक्षेषु तावन्तश्च नदीषु च ॥८॥नौकासु तटभूम्यादौ तावन्तः सन्ति मानवाः ।मण्डपेषु च शालासु सौधेषु गह्वरेष्वपि ॥९॥कुंजेषु च शकट्यदौ तावन्तो वाहनेष्वपि ।मानवा मानवा यत्र तत्र लोकयन्त एव तु ॥१०॥धामधामनिवासाश्च लोक्यन्ते तत्र तत्र च ।लोकालोकनिवासाश्च दृश्यन्ते तत्र तत्र च ॥११॥तलस्तरनिवासाश्च लोक्यन्ते सर्वतस्तदा ।सप्ताहे चाध्वरे नित्याऽऽगमवृद्धिर्विलोक्यते ॥१२॥स्वर्णरूप्यकहीराणां रत्नानां भूषणात्मनाम् ।मणीनां सर्वकान्तानां कल्पानां शृंगिणोऽभवन् ॥१३॥उपदापर्वता जाता यानवाहनकोटयः ।वस्त्रवैभवभक्ष्याणां भोगानां शैलपंक्तयः ॥१४॥मौक्तिकानां शिखराणि मिष्टान्नानां तु पर्वताः ।भोग्योपकरणानां तु शैलगंजास्तदाऽभवन् ॥१५॥पेयानां सरितश्चासन् गव्यानां वार्धयोऽभवन् ।शेवधयश्च द्रव्याणां चासन् मखे समर्पिताः ॥१६॥कुबेरो वसवश्चेन्द्रो मेरुर्बृहस्पतिस्तथा ।विष्णुर्वीक्ष्याऽध्वरर्द्धीश्च बभूवुर्लज्जया नताः ॥१७॥अन्नपूर्णा महिमानं विलोक्य पारमेश्वरम् ।लक्ष्मीः श्रीश्चात्र नम्रा बभूवतुर्लज्जयाऽध्वरे ॥१८॥अप्रमेयमतर्क्यं चाऽनुपस्थितमचिन्त्यकम् ।यद्यदिच्छति तत्त्वज्ञस्तत्तदैवोपतिष्ठति ॥१९॥प्रतापोऽयं हरेस्तत्र बालकृष्णस्य राधिके! ।अन्धकुष्ठिदरिद्राणां व्यंगानां दुःखिनामपि ॥२०॥आन्ध्यं कुष्ठश्च दारिद्र्यं व्यंगता विलयं गता ।अनिष्टं नाशमापन्नं तदेष्टं प्राप्तमेव तु ॥२१॥स्वर्गवत् सर्वमेवाऽभूत् मखेऽत्र पारमेश्वरे ।सिद्धयोऽपि विलोक्यैतदाश्चर्यं परमं गताः ॥२२॥ऐश्वर्याणि समस्तानि लज्जानम्राणि चाऽभवन् ।मायाऽपि मोहमापन्ना चमत्कारे हरेस्तदा ॥२३॥बालकृष्णं वीक्षितुं वै कोट्यर्बुदाब्जमानवाः ।समायान्ति चानुवेलं सम्मर्दो जायते बहुः ॥२४॥निराशतां तदा यान्ति जना दर्शनलालसाः ।तेषां भावं परं ज्ञात्वा विज्ञायाऽऽगमनश्रमम् ॥२५॥हताशतां परिज्ञाय भक्तवात्सल्यवान् प्रभुः ।अन्तरात्मा च तत्रैव भक्ताग्रे गोचरोऽभितः ॥२६॥नेत्राग्रे कोटिरूपैश्च स्थले स्थले विलोक्यते ।यादृशो मण्डपे चास्ते होमासने च यादृशः ॥२७॥तादृशश्चान्यकुण्डाग्रे हवनासनकेषु च ।तादृशोऽसंख्यसौधेषु मण्डपेषु च तादृशः ॥२८॥नदीकूलेषु नौकासु यानेष्वपि च तादृशः ।विमानेषु च वृक्षेषु वनेऽरण्येषु तादृशः ॥२९॥भक्तेषु भक्तवृन्देषु मार्गेषु वीथिकादिषु ।शालासु चन्द्रशालासु पाकशालासु तादृशः ॥३०॥महीमाननिवासेषु चातिथिस्थानकेष्वपि ।भोज्यशालासु शैलेषु वाटिकास्वपि तादृशः ॥३१॥रथेषु शकटीभागेष्वपि चाश्वगजादिषु ।दृश्येषु रंगनाट्येषु गह्वरेष्वपि तादृशः ॥३२॥जले स्थलेऽम्बरे वार्धौ सरस्सु च नदीष्वपि ।विगमेषु च दुर्गेषु हरिः सर्वत्र दृश्यते ॥३३॥मन्दहास्याननः शुभ्रः सर्वभूषाविभूषितः ।पीतवस्त्रधरः सौम्यो बालकृष्णो विलोक्यते ॥३४॥दिव्यचिह्नधरः स्वामी धनुर्ध्वजत्रिशूलवान् ।मीनस्वस्तिकचक्राद्यैः शोभितः स विलोक्यते ॥३५॥नीलचञ्चद्वक्रकेशः पद्मपत्रायतेक्षणः ।कौस्तुभश्रीशोभितोरःस्थलो लक्ष्मीप्रसेवितः ॥३६॥कोट्यर्कभाधरः कृष्णनारायणो विलोक्यते ।एवं श्रीबालकृष्णस्य दर्शनं सर्वतोदिशम् ॥३७॥भावुकानां पुरतोऽभूत् सप्ताहे चाध्वरे तदा ।राधिके! बालवृद्धाद्यैः कृतं गृह्णाति पूजनम् ॥३८॥भोजनं च प्रमोदं च गृह्णाति प्रददाति च ।रमते रासभावेषु रमते च सतीजने ॥३९॥रमते सर्वलोकेषु सर्वरूपधरोऽभवत् ।एवं दृष्ट्वा चमत्कारं राधेऽहं विस्मयं गतः ॥४०॥नारायणोऽपि वैकुण्ठेश्वरश्चाह तदा नु माम् ।पश्य कृष्ण महाश्चर्यं पराकाष्ठागतं त्विदम् ॥४१॥रूपं रूपं प्रतिरूपो बालकृष्णो हि राजते ।नास्ति वै तादृशी भूमिर्बालकृष्णो न यत्र वै ॥४२॥अज्ञातमार्गा लोका ये समायान्ति मखं प्रति ।अग्रे तेषां जनो भूत्वा जायते मार्गदर्शकः ॥४३॥अस्वस्थमनसां त्वग्रे भूत्वा स कथको द्विजः ।कथां पुरातनीं रम्यां कथयत्येव रञ्जनाम् ॥४४॥अस्वस्थवर्ष्मणा पार्श्वे गत्वा वैद्यस्वरूपवान् ।स्वास्थ्यप्रसञ्जकं तेभ्यो ददाति चौषधं शुभम् ॥४५॥चमत्कारोऽद्भुतस्तत्र दृष्टो मया तु राधिके ।कोट्यर्बुदाब्जलोकेषु देहत्यागो न कस्यचित् ॥४६॥नाऽकस्मात्तु क्षयः क्वापि कश्चिद् दुःखी न तत्र च ।न कुटुम्बी जनः कश्चिद् वियुक्तः स्वकुटुम्बतः ॥४७॥सम्मर्दे न च भूषादि विगतं कस्यचित्तदा ।नांगमर्दोऽभवत्तत्र कस्यचित् पादकच्चरः ॥४८॥न यानं चापि भग्नं वा न वस्तु विगमोऽभवत् ।अदृष्टबालकृष्णश्च न कोऽपि मानवोऽभवत् ॥४९॥अप्राप्ताध्वरशेषश्च न कश्चिद् देहवानभूत् ।अप्राप्तस्वागतः कश्चिन्महीमानो न वाऽभवत् ॥५०॥अजातपूर्णकामश्च तदा कोपि न चाऽभवत् ।अलब्धब्रह्ममन्त्रश्च तदा कोपि न चाऽभवत् ॥५१॥अहो देवस्य ऐश्वर्यम् ईशानोऽपि मुमोह तु ।वासुदेवादयो व्यूहा दृष्ट्वाऽऽश्चर्यं प्रपेदिरे ॥५२॥लज्जानम्रा बभूवुस्ते विमदाः स्वबलेऽभवन् ।अहो विभवो देवस्य बालकृष्णस्य चाध्वरे ॥५३॥महाविष्णुस्तु भूमानं प्राहैवं धूनयन् शिरः ।पार्वती माणिकीं प्राह पत्युस्तेऽहो चमत्कृतिः ॥५४॥कंभरा कमलां प्राह पश्य मे पुत्रवैभवम् ।कमला पतिमोदाढ्या स्वात्मानं बह्वमन्यत ॥५५॥कृष्णस्थाने तथा नारायणस्थाने सुकर्मणि ।स्वयमास्ते हरिः कर्ता महाश्चर्यं त्विदं मम ॥५६॥अहो वै राधिके कृष्णप्राप्त्या गांगेयकैस्त्विह ।पुत्रास्ते सागरा निम्नीकृतास्तीर्थविधाविह ॥५७॥केतुमालो निजार्थेऽद्य सार्थको हरिलब्धितः ।केतुवन्ननु सञ्जातः सर्वलोकेषु चाद्यतः ।मालासु केतुवच्चास्ते ब्रह्माण्डानां न्वयं सदा ॥५८॥बालकृष्णप्रसंगेन सदाऽध्वरेण पावितः ।श्वेतद्वीपसमो भावी त्वैश्वर्येऽयं महत्तमे ।पावनोऽयं महान् देशो मोक्षदाता भविष्यति ॥५९॥अत्र मृतिं गता जीवाः सूक्ष्माः कीटादयो ह्यपि ।मुक्तिं यास्यन्ति परमां पापिनोऽपि च देहिनः ॥६०॥यज्ञं सर्वेष्टिरूपं तु स्मरिष्यन्त्यपि ये जनाः ।तेषां पापप्रणाशश्च मुक्तिः करगता भवेत् ॥६१॥नमिष्यति भुवं स्मृत्वा दूरदेशगता अपि ।तेषां पुण्यं मखजन्यं भविष्यति न संशयः ॥६२॥अपि नाम रटिष्यन्ति नीपरां च प्रपीठिकाम् ।तेषां पापविनाशः स्यात् स्नानजं च फलं भवेत् ॥६३॥सप्तविंशतिकुण्डान् यः शंसिष्यति तु मानवः ।भुक्तिं मुक्तिं महातृप्तिं स्मृद्ध्यादिभिः प्रयास्यति ॥६४॥अपि धूलीं संगमस्य मध्यभूमेर्ग्रहीष्यति ।मस्तके वा शरीरे वा शुद्धात्मा स भविष्यति ॥६५॥अपि पद्भ्यां श्रद्धया तां भूमिं तीर्थविधित्सया ।गमिष्यति तु यः कश्चित् पदेऽध्वरफलं लभेत्। ॥६६॥अपि साप्ताहवासं वा दिनवासं तु संगमे ।करिष्यति जनः कश्चित् स्वर्गं तस्य तु शाश्वतम् ॥६७॥अपि व्रतं तु साप्ताहं दिनमात्रं फलादिना ।विधास्यति नरो नारी साम्राज्यफलमाप्नुयात् ॥६८॥अपि दीपं पत्रपृष्ठे प्रज्वाल्य सलिले तु यः ।दास्यति तीर्थदेवाय स सूर्यस्थानमाप्नुयात् ॥६९॥अपि पायसभोज्यं यो दीनाऽनाथाय दास्यति ।चन्द्रलोकं स वै प्राप्याऽमृतभोजी भविष्यति ॥७०॥अपि वस्त्रं च वा भूषां पादुके कंकणौ च वा ।छत्रं वा चामरं वापि व्यजनं नक्तकं च वा ॥७१॥पात्रं जोलीं कोष्ठलीं वा चांगरक्षकमेव वा ।कौपीनं यतये योऽत्र दद्याच्चैन्द्रपदं लभेत् ॥७२॥माणिक्यां पार्वतीं लक्ष्मीं प्रभां श्रियं च राधिकाम् ।बालकृष्णेन सहितां पूजयेदत्र मोक्षभाक् ॥७३॥गोभ्यो ग्रासानत्र दद्यात् पक्षिभ्यश्च कणान् शुभान् ।जनेभ्यो भोजनं दद्यादत्र सोऽपि च मोक्षभाग् ॥७४॥जलं दद्यात् फलं दद्यात् पत्रं पुष्पं पयोऽर्पयेत् ।मखभूमौ संगमेऽत्र स्वर्गभाक् स तु मानवः ॥७५॥शय्यां च गेन्दुकं खट्वां येऽत्र दास्यन्ति भावतः ।ते यास्यन्ति महत् स्वर्गं महत्पुण्यप्रतापतः ॥७६॥आसनानि बृसीश्चापि दास्यन्त्यत्र चतुष्किकाः ।ते ब्रह्मासनयोग्याश्च भविष्यन्ति न संशयः ॥७७॥मखभूमौ मखं येऽत्र करिष्यन्ति तु मानवाः ।चिदाकाशं परं धाम प्रयास्यन्ति तु ते जनाः ॥७८॥हस्तिदानं चाश्वदानं रेण्डियादानमित्यपि ।हंसकोकिलमेनानां दानं शुकस्य चापि ये ॥७९॥वृषभाणां विमानानां यानानामनसां तथा ।दानं येऽत्र करिष्यन्ति यास्यन्ति ब्रह्मधाम ते ॥८०॥कन्यादानं भूमिदानं पुत्रदानं महत्तमम् ।गृहदानं क्षेत्रदानं वाटिकादानमित्यपि ॥८१॥वृक्षवल्लीस्तम्बदानं करिष्यन्त्यत्र ये जनाः ।प्रयास्यन्त्यमृतं स्वर्गं सर्वरसामृतान्वितम् ॥८२॥काष्ठदानं चोपलादिप्रदानं लोष्ठदानकम् ।धातुदानं विधास्यन्त्याप्स्यन्ति ते वह्निमण्डलम् ॥८३॥दधिदुग्धादिदातारो यास्यन्ति चन्द्रमण्डलम् ।गृहोपकरणानां तु दातारो ब्रह्मणः पदम् ॥८४॥राज्यदातार एवात्राऽऽप्स्यन्ति वैराजमण्डलम् ।स्वर्णरूप्यकदातॄणां गोलोकगमनं भवेत् ॥८५॥विद्यादानप्रदातारो भविष्यन्ति सुरार्हणाः ।कृषेः साधनदातारो भविष्यन्ति कुबेरकाः ॥८६॥कलाकौशल्यशिक्षाद्या भविष्यन्ति तु विद्धराः ।एतज्जलघटं नीत्वा देशान्तरेऽपि बिन्दुकम् ॥८७॥अन्यस्मै ये प्रदास्यन्ति चोभयोर्मोक्षदं भवेत् ।अत्र जले पशूनां पक्षिणां पिच्छस्थिकं पतेत् ॥८८॥सर्वपापविनिर्मुक्तास्ते यास्यन्ति परं पदम् ।अपि मृत्युसमयेऽपि मुखे यस्य जलं पतेत् ॥८९॥शरीरे मोक्षणं वापि चास्थि यस्य पतेज्जले ।ते सर्वे मुक्तिमेष्यन्ति राधिके नात्र संशयः ॥९०॥एतादृशी स्थली त्वेषा शतयोजनवर्तुला ।नदीद्वयान्तरालस्था पावनी वर्णनोत्तरा ॥९१॥मखस्थल्यां यदि कश्चिद् दीक्षां गृह्णाति वैष्णवीम् ।चतुर्भुजो भवेद् दिव्यः पार्षदः स विकुण्ठके ॥९२॥नारी दीक्षावती दिव्या चतुर्भुजा हरिप्रिया ।जायते नित्यमुक्तानी पुनर्जन्म न विद्यते ॥९३॥लक्ष्मीनारायणसंहितायाः कथां तु ये जनाः ।श्रावयन्ति च शृण्वन्ति तेऽत्र मोक्षगमा जनाः ॥९४॥सतीभ्यो भोजनं दद्यात् साध्वीभ्यश्चात्र सर्वथा ।साधुभ्यो भोजनं दद्याद् दाता मोक्षमवाप्नुयात् ॥९५॥अत्रोपवासनियमैश्चरिष्यन्ति तपस्तु ये ।ते शुद्धा ब्रह्मगा बोध्या मुक्ता दिव्याक्षरार्थिनः ॥९६॥किमु ते राधिके वच्मि यत्र कृष्णनरायणः ।नारायणास्तथा चान्येऽवतारा ईश्वराः सुराः ॥९७॥पितरः ऋषयः सिद्धाः सत्यः साध्व्यो यतीश्वराः ।योगिन्योऽर्हणवर्गाश्च तीर्थानि तारकाणि च ॥९८॥आगत्योषितवन्तश्च पीतवन्तः सरिज्जलम् ।भुक्तवन्तश्च वन्यानि स्पृष्टवन्तः प्रतिस्थलम् ॥९९॥तल्लीलास्मरणादेव भवन्ति मोक्षभागिनः ।पठनाच्छ्रवणाच्चास्य भुक्तिं मुक्तिं लभेद् ध्रुवाम् ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सप्ताहयज्ञे समर्पितोपदाः, बालकृष्णस्य कोट्यब्जरूपधारित्वं, यज्ञभूमिदानादिमाहात्म्यं चेतिनिरूपणनामा सप्तत्यधिकशततमोऽध्यायः ॥१७०॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP