संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ८४ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ८४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८४ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके चमत्कृतिं नारायणस्य च ।ब्रह्मपुत्रपुलस्त्यस्य भार्याया भक्तिगोचराम् ॥१॥पुलस्त्यस्य प्रिया भार्या तृणबिन्दोः सुता शुभा ।ऐलविलाऽभवन्नाम्ना तस्यां वै विश्रवाः सुतः ॥२॥अभवद् बहुशास्त्राणां ज्ञाता धर्मपरायणः ।पुलस्त्यं त्वेकदा चैलविलाऽपृच्छद् वृषान् प्रति ॥३॥युगधर्माः पुरा चासन् कीदृशा वद मे पते ।पुलस्त्यस्तु ततः प्राह सर्वान् संक्षेपतो वृषान् ॥४॥कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम् ।ध्यानं तपः कृतयुगे त्रेतायां ज्ञानमध्वरः ॥५॥द्वापरे यज्ञ एवेति दानमेकं कलौ युगे ।ब्रह्मा कृतयुगे देवः सर्वत्र गतिमानभूत् ॥६॥त्रेतायां गतिमान् सूर्यश्चाऽभवन्मेलनक्षमः ।द्वापरे दैवतं विष्णुः साक्षाच्च गतिमानभूत् ॥७॥कलौ कालस्वरूपश्च देवो रुद्रः प्रवर्तते ।यत्र तत्र महान् क्लेशः कलौ विनाशको यतः ॥८॥कृते तु समसंख्याकाः कन्याश्चाथ कुमारकाः ।आसन् समानयुगला वृत्तिस्तेषामलोलुपा ॥९॥प्रजास्तृप्ताः सदा सर्वाः सर्वानन्दाः सुखाश्रयाः ।उत्तमाऽधमता नास्ति निर्विशेषाः पुरन्ध्रिकाः ॥१०॥तुल्यमायुः सुखं रूपं बलं तुष्टिः स्थिरा मतिः ।विशोका ज्ञानबहुला एकान्तबहुलास्तथा ॥११॥ध्याननिष्ठास्तपोनिष्ठाः परब्रह्मपरायणाः ।सदा निष्कामचारिण्यो नित्यं मुदितमानसाः ॥१२॥पर्वतोदधिवासिन्यो ह्यनिकेताः क्षितिश्रयाः ।संकल्पजन्यभोज्याश्च संकल्पोत्थजलादनाः ॥१३॥संकल्पजन्यसुरसाः सदा शान्ता यथेश्वराः ।सर्वमासामात्मलभ्यं तदासीद् ब्रह्मसात्कृतम् ॥१४॥रसोल्लासाः सदा ह्यासन् कृतकृत्याः कृते युगे ।चतुःसहस्रवर्षाणां विगमे सन्धिरागतः ॥१५॥अष्टशताब्दस्तत्रैव रसोल्लासो न वेगवान् ।रागश्चापि विलासश्च समुद्भवति वै शनैः ॥१६॥सत्यसिद्धौ प्रक्षीणायामन्या सिद्धिः प्रवर्तते ।अपां सौख्ये हिरीसमाप्ते तदा मेषात्मनाऽम्बरात् ॥१७॥मेघेभ्यः स्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्जनम् ।सकृदेव तया वृष्ट्या संपृक्तो पृथिवीतले ॥१८॥जलं द्वादशमासांश्च वर्तते स्म स्थलभृतम् ।तत्र वृक्षा वल्लिकाश्च प्रादुरासन् रसभृताः ॥१९॥सर्वे प्रत्युपभोगाश्च तदा तेभ्यो भवन्ति वै ।वर्तयन्ति स्म कल्पाख्यवृक्षादिभ्यस्तदा प्रजाः ॥२०॥वृक्षास्तदा प्रजानां च निवासाः केतनानि च ।आसन् भित्तिविहीनानि सर्वाण्यपि गृहाण्यपि ॥२१॥वृक्षाश्रिताः प्रजाः सर्वा रागलोभादिधर्षिताः ।स्वकीयत्वे च पारक्ये विवादमाश्रयन् क्वचित् ॥२२॥रागलोभोद्भवः क्लेशस्तदा स्थानमवाप्तवान् ।तेन दैवास्तु ते कल्पद्रुमा नाशमथो गताः ॥२३॥ततस्तेषु प्रणष्टेषु विभ्रान्ताः शोकिताः प्रजाः ।कल्पद्रुमान् बलहीनान् सेवाजन्यफलप्रदान् ॥२४॥अवापुः पृथिवीतस्ता बीजाद्युद्भवगोचरान् ।वस्त्राणि वल्कलाख्यानि फलानि भोजनानि च ॥२५॥पुष्पाणि त्वाभरणानि प्रसूयन्ते स्म यत्नतः ।तेष्वेव जायते तासां गृध्नो रसोऽथ भोजनम् ॥२६॥अमाक्षिकं महावीर्यं पुटके पुटके मधु ।फलेभ्यः प्रस्रवन्त्येव रसा मिष्टाश्च धारया ॥२७॥तैः प्रजा वर्तयन्ति स्म दुष्टास्तुष्टा गतज्वराः ।अथ त्रेतोत्तरे काले प्रजा लोभावृतास्तदा ॥२८॥विशेषतः समभवन् बलात् कृत्वा निजान् द्रुमान् ।पर्यगृह्णन्त च मधु माक्षिकं च फलादिकम् ॥२९॥एवं क्लेशो निर्बलानां मधुलाभे विनाऽभवत् ।वृक्षा विलोक्य तु पक्षपातं प्रजाकृतं तदा ॥३०॥प्रणष्टा मधुना सार्धं बीजोद्भवा अपि द्रुमाः ।तदा शीतातपवर्षाभिः पीडा जायते नृषु ॥३१॥द्वन्द्वैः सम्पीड्यमानास्तु चक्रुरावरणानि हि ।गृहभित्तीः पर्णकुटीर्वार्तोपायानचिन्तयन् ॥३२॥वृष्टिजन्यजलान्येव निम्नगानि तु यत्र च ।स्रोतःस्थानेषु तिष्ठन्ति गर्तेषु च सरःसु च ॥३३॥तत्र वासान् प्रचक्रुश्च वृक्षसस्यादिजीविकाः ।अपां भूमेश्च संयोगादोषधयस्तदाऽभवन् ॥३४॥अकृष्टपच्या अपि ताश्चानुप्ताश्च क्वचित् क्वचित् ।क्वचिदुप्ताश्च सकणाः सफलाश्च तदाऽभवन् ॥३५॥ऋतुपुष्पफलास्तत्र वृक्षगुल्माश्च जज्ञिरे ।त्रेतान्ते रागलोभाढ्याश्चाहंममत्वसंभृताः ॥३६॥अवश्यंभावितार्थेन प्रजाश्चासन् सकल्मषाः ।प्रसह्य सत्तया पर्यगृह्णन्त सस्यवाटिकाः ॥३७॥वृक्षगुल्मौषधीश्चापि प्रसह्य तु यथाबलम् ।नैजाँश्चक्रुः प्रजा रागान्नदीक्षेत्राणि पर्वतान् ॥३८॥तत्रापि प्रबला जाताः क्षत्रिया रक्षकाः पुरा ।ब्रह्मणा वै नियुक्तास्ते दीनरक्षाक्रियादिषु ॥३९॥वर्णाश्रमव्यवस्थां च त्रेतायां कृतवानजः ।मर्यादायाः प्रतिष्ठार्थं दण्डं तदा समसृजत् ॥४०॥यज्ञप्रवर्तनं चापि पशुहिंसाविवर्जनम् ।त्रेतान्ते तां व्यवस्थां च ब्राह्मणाः क्षत्रियान्विताः ॥४१॥समरक्षन् यथायोग्यां मतेर्भेदस्ततोऽभवत् ।रागो लोभः पक्षपातो युद्धं सम्पद्विलुण्ठनम् ॥४२॥द्वापरे त्वागते सर्वं प्रावर्तत प्रजासु वै ।नगराणि च राज्यानि सीमक्षेत्राणि वाटिकाः ॥४३॥कृष्टपच्याः कणाश्चापि प्रावर्तन्त तदा प्रिये ।अवृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः ॥४४॥वाङ्मनःकायजाः क्लेशा अभवँश्च गृहे गृहे ।प्रजाश्च मिथुनोत्पाद्यास्त्रेतार्धोत्तरकालतः ॥४५॥क्वचित् क्वचित्तु संकल्पप्रजाश्चासंस्तदा प्रिये ।द्वापरे सर्वथा कामबीजोद्भवाः प्रजाः खलु ॥४६॥साश्रयाश्च मृषावीर्या मृषाफलास्तथाऽभवन् ।वासनाबलसंव्याप्ताश्चात्मवीर्यविहीनकाः ॥४७॥सिद्धिशून्याः प्रजाः सर्वा व्यवर्धन्त मदार्दिताः ।दुःखानां द्वापरे चाकस्मिकता मरणस्य च ॥४८॥तद्भयाज्जायते तासां दुःखमोक्षविचारणा ।विचाराच्चापि वैराग्यं ज्ञानं भक्तिश्च मोक्षणम् ॥४९॥एवं द्वापरधर्माश्च वर्णानामभवँस्तदा ।आश्रमाणां तथा धर्माः पृथक् पृथक् ततोऽभवन् ॥५०॥प्राप्ते कलौ क्लेशलाभे क्लेशव्याकुलिताः प्रजाः ।तिष्ये मायामसूयां च वधं चापि तपस्विनाम् ॥५१॥साधयन्ति जना नित्यं तमसा मदगर्विताः ।कलौ प्रभारको रोगः सततं क्षुद्भयं तथा ॥५२॥अनावृष्टिभयं घोरं देशानां च विपर्ययः ।अधार्मिका अनाचारा महाकोपाऽल्पतेजसः ॥५३॥अनृतं ब्रुवते लुब्धास्तिष्ये जनाः सुदुष्प्रजाः ।दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः ॥५४॥विप्राणां कर्मदोषैश्च प्रजानां जायते भयम् ।न धर्मो वेदधर्मो हि किन्तु कल्पित एव सः ॥५५॥शूद्रधर्माश्चैकवर्णाः शयनासनभोजनैः ।भवन्त्येव प्रजाः सर्वा वर्णाश्रमविवर्जिताः ॥५६॥राजानश्चौरकर्माणो विप्राः कापट्यभोगिनः ।गुरवः शिष्यहाराश्च भवन्त्येव कलिप्रियाः ॥५७॥भ्रूणहत्या वीरहत्या नारीहत्या नरेश्वरे ।साधुहत्या सतीहत्या धर्महत्या प्रजासु च ॥५८॥स्नानं होमो जपो दानं सुरार्चनं हरेः स्मृतिः ।त्यज्यन्ते मानवैस्तिष्ये कामलोभपरायणैः ॥५९॥देवान्साधून् वृषान् मोक्षं निन्दन्त्यपि श्रियः पतिम् ।कुर्वन्त्यन्यायकर्माणि निकृष्टाचारपन्थिनः ॥६०॥कुशीलचर्याः पाखण्डैर्वृथाचारैः समावृताः ।बहुयाचनकाः सर्वे भवन्त्येव कलौ जनाः ॥६१॥देशा रूक्षा अटवीवत् ग्रामा रूक्षास्तु घोषवत् ।नरा नार्यस्तथा रूक्षाः प्रेमहीनाः पराश्रयाः ॥६२॥सस्यचौराः कणचौरा वस्त्रचौराः प्रहारिणः ।चौराश्चौरस्य हर्तारो हर्तुर्हन्ता तथाऽपरः ॥६३॥दुःखबहुला रुग्णाश्चोत्सादाश्चाल्पायुषो जनाः ।अधर्माभिनिवेशित्वात् तमोव्याप्ताः कलौ प्रजाः ॥६४॥उच्चनीचासनभेदो योग्यता पूज्यता नयः ।नरनारीगौरवादि नश्यत्येव कलौ युगे ॥६५॥राजा प्रजाः कपटस्य नर्तका इव तिष्यके ।द्विजाः शूद्रा भवन्त्येव शूद्राश्चाण्डालकास्तथा ॥६६॥सर्वधर्मस्त्वेक एव भोज्यान्नवासलग्नके ।पेयापेयविभागो न भोग्याभोग्यविहीनता ॥६७॥सत्याऽसत्यविवेको न ग्राह्याग्राह्यातिलंघिता ।कल्पनाकुलधर्मांश्च कामानुकूलयोषितः ॥६८॥मोहानुकूलकान्तश्च यतयो धूर्तधर्मिणः ।लोकगानैर्देवतानां कीर्तनं धर्मवर्जितम् ॥६९॥ज्ञानं कर्म विनष्टं च भवत्येव कलौ सदा ।कीटमूषकसर्पाणां दंशा भवन्ति तिष्यके ॥७०॥सर्वे दुष्टव्रताचाराः स्वार्थमात्रसुयोगिनः ।मोहयन्ति जनान् सर्वान् दर्शयित्वा फलानि हि ॥७१॥मन्त्रकर्मकराश्चाभिचारका मारकास्तथा ।निर्दयाश्च शठा धूर्ता घातका मानवाः कलौ ॥७२॥मांसादा मदिरापाश्च योनिसम्बन्धमात्रकाः ।लिंगसम्बन्धमात्राश्च धनार्थकृतघातकाः ॥७३॥वेषाचारसमाश्चापि नेत्रसत्कारवर्जिताः ।विश्वासघ्नाश्च मित्रध्ना आश्रितघ्नाः कलौ युगे ॥७४॥गृहघ्नाश्च कुटुम्बघ्नाः स्वीयघ्नाश्च कलौ युगे ।धर्मघ्नाश्चापि धर्मिघ्ना मातृघ्नाः पितृघातकाः ॥७५॥स्नुषाघ्नाः कन्यकाघ्नाश्च स्वसृघ्ना भ्रातृघातकाः ।षोडशादिकसंस्कारैर्हीनाः सूतकवर्जिताः ॥७६॥शौचहीनाः स्नानहीना व्रतहीनाः कलौ युगे ।सूत्रहीना विवाहादिविधिवर्ज्या नराः स्त्रियः ॥७७॥अग्निहीना मण्डपादिहीना होमविवर्जिताः ।सदाचारविहीनाश्च गृहाचारविहीनकाः ॥७८॥अभक्ष्यभक्षणाः सर्वे सर्वभक्षाः कलौ युगे ।राक्षसा ब्राह्मणा यक्षा गन्धर्वाः किन्नराः सुराः ॥७९॥श्वपचाश्च पिशाचाश्च समा भवन्ति वै कलौ ।अन्योन्यभयकर्तारोऽन्योन्यनाशविधायकाः ॥८०॥अलज्जाश्चापि निर्लज्जाः सर्वगौरववर्जिताः ।यथेष्टभोगवन्तश्च कुमाराः कन्यकाः स्त्रियः ॥८१॥केशयोनिस्तनदर्शकाऽम्बराढ्यास्तु कन्यकाः ।कर्त्र्यश्चापि च कर्तारः प्रकाशे गुप्तकर्मणाम् ॥८२॥हस्तमात्रशरीराश्च रोमपटलवस्त्रकाः ।पञ्चहस्तद्रुमाश्चान्ते भवन्त्येव कलौ युगे ॥८३॥न राजा न प्रजाभावो न शास्यः शासको न च ।न गृहाणि निवासा न न शालाः पाकसिद्धये ॥८४॥न गृहे त्वन्नचयिता न गृहे वारिपेयिता ।न गृहे शयनं नार्या न पत्युर्गृहवासिता ॥८५॥पतिपत्नीकृतो योगो नहि तिष्ठति वै कलौ ।अष्टवर्षा मध्यवेगा द्वादशान्ते मृतिः कलौ ॥८६॥पञ्चोत्तरं सगर्भाश्च विना ग्रामं निवासिता ।वानरीव तदा नारी सूतिका दूतिकां विना ॥८७॥विना खष्ट्वां सूयते च पृथिव्यां बालकं तदा ।वर्षद्वये तदा गौरी द्विवर्षान्ते तु रोहिणी ॥८८॥वर्षत्रये भवेत् कन्या चतुर्वर्षा रजस्वला ॥अत ऊर्ध्वं सगर्भा च मासषट्के प्रसूयते ॥८९॥वर्षे द्वे वै प्रसूती च रजः सकृत् क्षणस्थिरम् ।मरणं घटिकाकाले प्राणो नैव चिरायते ॥९०॥अपत्यानि मृगशावादिवच्चरन्ति भूतले ।सस्यरसैः प्रपुष्यन्ते पक्षदुग्धास्तु मातरः ॥९१॥पितृनाम न चैवास्ति मातुर्नाम क्वचित् कलौ ।दीक्षालोपो गुरोर्लोपो मन्त्रलोपो न चोत्सवाः ॥९२॥देवानां मानवानां वा समाजो न कलौ युगे ।इद्ं कुलमिति ख्यातिः कलौ नास्ति कुटुम्बकम् ॥९३॥पितृशब्दो गुरुशब्दः कलावन्ते न तिष्ठति ।न राजा राज्यनियमा दण्डा वा शासकस्तदा ॥९४॥न देवो मन्दिरं सम्प्रदायः शास्त्रं पुराव्रतम् ।ब्रह्मचर्यं न वै तत्र यतित्वं गृहसम्मतम् ॥९५॥सन्यासो विद्यते नैव शीलं धर्मो न वै तदा ।वैधव्यं वा विधुरत्वं धर्मो नैव कलौ युगे ॥९६॥साध्वीत्वं च सतीत्वं च धर्मो नैव कलौ तदा ।कामधर्मः परो धर्मः पाखण्डस्तत्र संयमः ॥९७॥नरा नार्यः समरूपाः समवेषाः समक्रियाः ।समप्रधानभावाश्च समदायादभागिनः ॥९८॥न तदा वर्षगणना न चांकगणनाऽपि च ।न विद्याभ्यास एवापि तमोवृत्तिजनाः कलौ ॥९९॥कलावन्ते हि भगवान् प्रादुर्भवति स्वामिराट् ।कलेर्बलं विनाश्यैव कृतस्थितिं करोति सः ॥१००॥एवमुक्ता मया पत्नि धर्मा युगचतुष्टये ।यथा भवन्ति ते सर्वे कालयोगेन देहिषु ॥१०१॥दिवसान्ते वेधसस्तु धृष्यमाणो हि गोलकः ।स्वल्पतां याति वेगाच्च भ्रमणेन च पार्थिवः ॥१०२॥दिवसा रात्र्य एवापि ह्रस्वतां यान्ति वै तदा ।घटिकाश्च कलाः काष्ठा मासाः काला ह्रसन्ति च ॥१०३॥सर्वं ह्रस्वगतिकं च क्षीणायुः परिवर्तते ।ततो ह्रासः प्रलयश्च सम्पद्यते दिनात्यये ॥१०४॥ऐलविले! वयं यामस्तदा सत्यं त्वजाऽऽश्रयम् ।इत्येवं राधिके! प्राह पुलस्त्यो निजभामिनीम् ॥१०५॥ऐलविला तु तान् धर्मान् श्रुत्वा प्राह पतिं सती ।यत्र सर्वे युगधर्मा विद्यन्ते पौत्रमीदृशम् ॥१०६॥द्रष्टुमिच्छामि चात्रैव चतुर्युगाश्रयम् ऋषे! ।पुलस्त्यः प्राह च तथास्त्वित्येव योषितं निजाम् ॥१०७॥पौत्रस्यापि प्रसंगेन भगवान् सम्मिलिष्यति ।लाभमेवं विदित्वैव सुतं विश्रवसः सती ॥१०८॥कृष्णयोगप्रदं वव्रे यं सोऽभूद् रावणस्तथा ।ऐलविला तपस्तेपे कृष्णनारायणोपरि ॥१०९॥अनादिश्रीकृष्णनारायणः श्रीभगवान् स्वयम् ।ऐलविलातपो द्रष्टुमाययौ सह्यपर्वते ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पुलस्त्योक्तचतुर्युगधर्माः, ऐलविलायै वरदानं, तपश्चर्या चेतिनिरूपणनामा चतुरशीतितमोऽध्यायः ॥८४॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP