संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २७५ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २७५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २७५ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके! नारदस्ताभ्यस्ततोऽकथयद् यद्धि तत् ।कथयामि समस्तं ते शृणु त्वेकाग्रमानसा ॥१॥नारद उवाच-आगतोऽहं सत्यलोकादश्वपट्टसरोवरम् ।पृथ्व्यां पश्चिमसौराष्ट्रे यत्राऽऽस्ते पुरुषोत्तमः ॥२॥तेन साकं पृथिव्यां च व्यचरं यज्ञकर्मणे ।यत्राऽऽयाता धाममुक्तास्तथाऽन्यधामपार्षदाः ॥३॥पार्षदान्यस्तथा सत्य ईश्वराण्यश्च देवताः ।मानव्यो नागकान्ताश्च साध्व्यः सिद्धिवरास्तथा ॥४॥अवताराः समस्ताश्चेश्वराश्चापि च साधवः ।सिद्धा ब्रह्मव्रताश्चापि पितरश्च तथर्षयः ॥५॥आर्ष्यः सर्वास्तथा देवा देवान्यश्च समागताः ।मानवाश्च दिवःपाला लोकपाला महेश्वराः ॥६॥आदित्या वसवो रुद्रा अश्विनौ तत्स्त्रियस्तथा ।वह्नयश्च मरुतश्च निधयश्च ग्रहास्तथा ॥७॥दिशः कामश्च मेनेवस्तिथयश्च कलास्तथा ।तत्त्वानि सर्वतीर्थानि नद्यः सरांसि सागराः ॥८॥पर्वताश्च वालखिल्या वायुदेहाऽसुरादयः ।दैत्या भक्ता दानवाश्च पक्षाश्च राक्षसास्तथा ॥९॥सिद्धचारणगन्धर्वा विद्याध्राः किन्नरास्तथा ।उरगा किंपुरुषाश्च वृक्षास्तृणानि वल्लयः ॥१०॥धर्माद्या याम्यभक्ताद्याः शैवाः कैलासवासिनः ।वैकुण्ठश्वेतदुग्धाब्धिवासा बदरीवासिनः ॥११॥मेरुवासा आवरणवासाः पातालवासिनः ।असंख्यदेवकोट्यश्च प्राययुर्वै मखे मखे ॥१२॥सर्वे प्रशंसन्ति कृष्णं बालकृष्णं परेश्वरम् ।वन्दन्ते तं चार्हयन्ति स्तुवन्ति कंभरासुतम् ॥१३॥तत्प्रसादं तच्चरणामृतं पिबन्ति ते तदा ।लोकपाला धामपालाः सृष्टिपाला नरायणाः ॥१४॥नारायणाश्च ये ते च तदाज्ञामुद्वहन्ति च ।एतत् सर्वं मया तत्र प्रत्यक्षं त्ववलोकितम् ॥१५॥शंकरस्तु स्वयं यस्याऽक्षरक्षेत्रे निवासकृत् ।क्षेत्रपालतया चास्ते ह्यश्वपट्टसरोऽभितः ॥१६॥श्रीकृष्णः श्रीरामदेवो नरो नारायणस्तथा ।वासुदेवादयो व्यूहाः सनत्कुमारयोगिराट् ॥१७॥तथाऽन्ये चेश्वराः श्रेष्ठाः संकर्षणादयोऽपि च ।महाविष्णुस्तथा भूमा वैराजश्च सदाशिवः ॥१८॥यस्याऽऽज्ञां संवहन्ते च कालमायायमेश्वराः ।यस्माद् भवन्ति भूतानि पुष्यन्ते चाभियन्ति च ॥१९॥अन्तरात्मा तु यः प्रोक्तः साक्षी च भगवान् स्वयम् ।परब्रह्म च यः प्रोक्तो यस्मात् सर्वमिदं ततम् ॥२०॥विद्युतो भानि सूर्यश्च चन्द्रो वह्निस्तथा ध्रुवः ।यत्तेजसा प्रविद्यन्ते तेजस्विनः प्रभाकराः ॥२१॥यत्प्रवेशेन भूतानि भवन्ति ज्ञानवन्त्यपि ।येनास्ते जीवलोकस्य प्रकाशं वै निजात्मनि ॥२२॥सर्वप्रकाशदाता सः कुंकुमवापिकास्थले ।विराजते हि भगवानक्षरातीत एव यः ॥२३॥मानवेन स्वरूपेण गोपालकृष्णबालकः ।इत्येवं ते प्रशंसन्ति वै महीमानका मखे ॥२४॥कोटिरूपधरः सोऽपि बालकृष्णो जनार्दनः ।कोटिभक्तानेकपदे मिलत्येव च वक्षसि ॥२५॥मया दृष्टं हि साक्षात्तत् श्रुतं सर्वं प्रशंसितम् ।श्रुता च योषितां वाणी स्थले स्थल्यां महोत्सवे ॥२६॥धन्या वयं सुरूपस्य सर्वेश्वस्य योगिनः ।दर्शनं त्वद्य कुर्मो यत्पुण्यपारो न विद्यते ॥२७॥अहोऽस्य दर्शनाच्छान्तिः शाश्वती समजायते ।अस्माकं नेत्रयोर्दैर्घ्यं साफल्यं विन्दतेऽद्य वै ॥२८॥दूरतोऽपि महानन्दो जायतेऽस्य विलोकने ।अभिन्नपूरवेगाढ्यं यावत्सुखोत्तरं सुखम् ॥२९॥अनुभूयते चास्माभिः सर्वेन्द्रियसुखं महत् ।यस्य दूरावलोकेन यदीदृशं परं सुखम् ॥३०॥तदा साक्षात्तस्य पत्न्याः पार्श्वशयनयोषितः ।शिवेश्वरसुता लक्ष्म्या दिव्यायाः कीदृशं भवेत् ॥३१॥अर्धांगी चेश्वरी या वै नारायणी परेश्वरी ।सूर्यचन्द्रनिभौ यस्याः कपोलौ गण्डकौ तथा ॥३२॥सुवर्णसदृशं यस्या वपुश्चम्पकपुष्पवत् ।अलक्तकनिभे यस्याः करपादतले तथा ॥३३॥पक्वबिम्बसमौ यस्या ओष्ठौ प्रीतिनिवासिनौ ।कदलीस्तम्भसदृशे सक्थिनी चापि शोभने ॥३४॥पद्मपत्रायतनेत्रे यस्या रूपं ह्यनुत्तमम् ।कृष्णनारायणवक्षोवासा या परमेश्वरी ॥३५॥या च वासयति कृष्णं कान्तं वै निजवक्षसि ।साक्षात् सर्वांगसंयुक्ता कीदृशी सुखिनी भवेत् ॥३६॥अहो धन्या शिवपुत्री सुखं कृष्णात् समश्नुते ।धन्या सा पार्वती देवी यत्सुखात् सुखिनी शिवा ॥३७॥रमायाः कमलाया वा श्रिया वा कृष्णयोषितः ।वृन्दाया वा तुलस्या वा भार्गव्या वा च तत्सुखम् ॥३८॥ललाटे लिखितं कार्ष्णं यल्लक्ष्म्या लिखितं सदा ।अहो नेदृङ्परं भाग्यमस्माकं यन्न चेयते ॥३९॥न चाऽस्माकं पतिः सोऽयं कृष्णनारायणः प्रभुः ।व्यर्थं जन्म स्त्रिया लोके कृष्णयोगसुखं विना ॥४०॥व्यर्थं सर्वं पातिव्रत्यं पतिः कृष्णो न चेद् यदि ।अहो वै शिवकन्यायाः साफल्यं गौरवे तथा ॥४१॥सर्वरसान् सर्वगन्धान् सर्वस्पर्शान् सुखैर्भृतान् ।सर्वशब्दान् सर्वदृश्यान् सर्वानन्दान् भुनक्ति या ॥४२॥सर्वानन्दाश्रयं कृष्णं कान्तं लब्ध्वा जितेन्द्रियम् ।अखण्डवीर्यं सर्वेशं भुंक्ते या शिवकन्यका ॥४३॥काशीस्थाऽपि सदा कृष्णे लग्ना चास्तेऽप्रकाशिता ।पश्यन्ति दिव्यनेत्राश्च सत्यः साध्व्यो दिवानिशम् ॥४४॥इत्येवं वै मया कीर्तिः श्रुता नारीगणान्मुहुः ।सोऽहं दिदृक्षुरेवाऽसं जिज्ञासुश्च पुनः पुनः ॥४५॥पृष्ट्वा पृष्ट्वा शनैश्चाऽत्र भवतीगेहमागतः ।संश्रुतं दुःखहालक्ष्मीरितिनामापि वै मुहुः ॥४६॥कीदृशी सा कस्य कन्या कीदृग्गुणा भवेदिति ।यदि स्यादत्र सा देवी द्रष्टव्या सा मया सति ॥४७॥क्वाऽऽस्ते कीदृक् स्वरूपा सा किमवस्था किमम्बरा ।किंनिसर्गा किंसुपिण्डा किंसंस्थाना भवत्यपि ॥४८॥किमाकृतिः किंसुप्रभा कियद्वर्षा हि भामिनी ।किमानना च किंवेगा किंभावा किंसुलक्षणा ॥४९॥किंकला किंस्वरा किसंवर्णा किंपत्करोज्ज्वला ।किंभाला किंसुष्ठुकेशी किमात्मा किंसुसिद्धिका ॥५०॥किंप्रभावा किंसुखाढ्या किंभाना किंसुबोधिनी ।किंकार्या किभक्तिमती किंदिव्या च किमान्तरा ॥५१॥किंविद्या किंचिह्नशोभा किमुच्छ्रया च किंगतिः ।किंवासा च किंसखी च किंभूषा किंघटाछटा ॥५२॥किंबला किंसुसत्त्वा च किंभोजना किंतापसी ।किंसन्तोषा च किंशौचा किंस्वाध्याया च किंवृषा ॥५३॥किंहार्दा किंप्रेमपात्रा किंकौशल्या च किंमतिः ।किमंगा किंधना किंचंचला किंलेखना हि सा ॥५४॥किंरुचिः किंप्रवादा च किंवृत्तिः किंप्रवर्तना ।किंत्रिका किंसमारंभमध्यप्रान्तफला तथा ॥५५॥किंक्रिया किंविशेषा च किंसामान्या किंमध्यमा ।किंविश्वासा च किंयोगा किंबोधा किमुपासना ॥५६॥किमाराधनिका किंशृंगारा किंसंविरागिणी ।किंतुष्टा किंगृध्निका च किमाशा च किमिच्छुकी ॥५७॥किंतर्का किंनिश्चया च किंवादा किंप्रमाणिका ।किंप्रमेया किंप्रयोगा किंसिद्धान्ता किंनिग्रहा ॥५८॥किंवेदा किंसाधना च किंप्रिया किंवितर्जिनी ।किंयमा किंनियमा च किंध्याना च किमासना ॥५९॥किंप्राणा किंरतिश्चास्ते किंकामा शिवकन्यका ।एवंद्रष्टुं च जिज्ञासा मे जाताऽति ततोऽप्यहम् ॥६०॥समागतोऽयं देवर्षिर्नारदो भगवन्मनः ।ब्रह्मपुत्रश्च रुद्रस्य भ्राता देवर्षिकीर्तिमान् ॥६१॥विष्णुभक्तः स्थैर्यहीनः सर्वथा कलहप्रियः ।येषां गृहं प्रगच्छामि ते यदि मानयन्ति मे ॥६२॥वचांसि वै मयोक्तानि तेषां सुखकरोऽस्म्यहम् ।नाऽऽद्रियन्ते यदि लोका वचांसि तोषयन्ति न ॥६३॥तदा तेषां गृहे कृत्वा कलहं चातिदुःसहम् ।प्रव्रजामि परं गेहं यत्र मे माननं भवेत् ॥६४॥कन्यका मे दर्शयन्ति करौ भाग्यं विलोकितुम् ।अहं दृष्ट्वा समस्तं च कथयामि सुखप्रदम् ॥६५॥असुखं च भवेत् किञ्चित् तदहं नाशयाम्यपि ।असत्कारं मम कृत्वा लभन्ते न सुखं जनाः ॥६६॥सुसत्कारं लभन्ते ते मम वाचोऽनुवर्तिनः ।मम गोदोहमात्रं वै वासश्चैकत्र जायते ॥६७॥तथापि भक्तिमावीक्ष्य वसाम्यपि दिवानिशम् ।ततो विशेषवासो मे स्मृद्धिस्वर्गप्रदो भवेत् ॥६८॥ततोऽप्यधिकवासो मे नारायणाप्तिदायकः ।ततोऽप्यधिकवासश्च परब्रह्मप्रदायकः ॥६९॥मुक्तिं ददामि वचनान्मुक्तिं ददामि कीर्तनात् ।क्लेशं ददामि कलया सुखं ददामि तोषणात् ॥७०॥विषं ददामि वार्तायां यत्र नाऽहं प्रतोषितः ।पाययाम्यमृतं चापि यत्राऽहं सेवितोऽभवम् ॥७१॥जिज्ञासा यत्र पूर्णा मे तत्र स्वर्गोत्तमं सुखम् ।दत्वा प्रयामि चान्यत्र जानन्त्विति व्रतं मम ॥७२॥हरेकृष्ण हरेकृष्ण बालकृष्ण हरेहरे ।श्रीपते कंभरापुत्र लक्ष्मीपते हरेहरे ॥७३॥शिवेश्वरसुताकान्त हरे गोपालनन्दन ।ब्रह्मप्रियापते कृष्ण बालकृष्ण हरेहरे ॥७४॥अनादिश्रीकृष्णनारायण ब्रह्मपते हरे ।सत्पते सर्वकान्तानां कान्त कृष्ण हरेहरे ॥७५॥श्रीकृष्णवल्लभस्वामिन् कुंवरकृष्णरूपवान् ।देशिक श्रोत्रिय स्वात्मन् सर्वात्मन् शेषणाश्रय ॥७६॥इत्येवं भजनं कृत्वा विरराम स नारदः ।लक्ष्मीर्वै मनसा वाचा कर्मणा नारदं प्रति ॥७७॥दत्तेन्द्रियान्तरवृत्तिस्तल्लीना हि तदाऽभवत् ।सती शिवाऽऽह देवर्षि धन्यं भाग्यमृषे मम ॥७८॥भवान् कृष्णस्वरूपो यन्मद्गृहं समुपागतः ।मत्पुत्र्याश्च महद्भाग्यं यत् सतस्तेऽत्र दर्शनम् ॥७९॥नारदोऽहं विजानामि शतजन्मकृतं यदि ।पुण्यं सम्मिलितं तेन जन्म वै मानवं लभेत् ॥८०॥पुनस्तत्र कृता यज्ञाः स्युः शतं तर्हि वै दिवम् ।प्राप्येतेन्द्रसमकालं ततोऽत्र भूतले स तु ॥८१॥शेषपुण्यप्रभावेण श्रेष्ठमानवतां लभेत् ।तत्र विप्रप्रतापेन सतामाशीर्भिरित्यपि ॥८२॥राज्यं भक्तिमयं श्रेष्ठं प्राप्नुयात् सुखदं शुभम् ।तत्र देवकृता सेवा सेवाऽतिथिजनस्य च ॥८३॥प्रापयत्येव सद्बुद्धिं स्मृद्धिं वंशस्य वल्लिकाम् ।पितृतोषेण तत्रापि पुत्राः पुत्र्यो भवन्ति च ॥८४॥सतां सेवाप्रतापेन जायन्ते सुखिनो जनाः ।सतां सेवा धनदात्री भूमिदात्री सुखप्रदा ॥८५॥सा च धर्मेण भक्त्या च तपसा च तथा व्रतैः ।मिलत्येवाऽन्यथा नैव सतां सेवा हि दुर्लभा ॥८६॥अनुग्रहेण दयया सतां सेवाऽभिपद्यते ।पातिव्रत्येन धर्मेण सतां सेवाऽभिपद्यते ॥८७॥परोपकारशीलानामन्नसत्रविधायिनाम् ।सदादानपराणां वा सतां लाभः प्रजायते ॥८८॥भक्तानां सौम्यभावानां सर्वार्पणविधायिनाम् ।सतां सत्कारकर्तॄणां सतां लाभः प्रजायते ॥८९॥नित्यं तीर्थस्वभावानां नित्यं कथां सुशृण्वताम् ।नित्यं वन्दनशीलानां सतां लाभः प्रजायते ॥९०॥नित्यं देवार्हणस्थानां नित्यं सत्कारकारिणाम् ।नित्यं साधुस्मृतिमतां सतां लाभः प्रजायते ॥९१॥आत्मश्रेयोऽभिलाषाणां सेवावृत्तिजुषां तथा ।जिज्ञासूनां सेवकानां सतां लाभः प्रजायते ॥९२॥सतो मार्गयमाणानां सतां गुणानुशालिनाम् ।सतां गृहे सतां योगे सतां लाभः प्रजायते ॥९३॥सद्गुरूणां निवासेषु सतां महोत्सवादिषु ।सतां प्रसंगात् सततं सतां लाभः प्रजायते ॥९४॥सत्यव्रतस्थितानां च सत्परब्रह्मयाजिनाम् ।हरेः पार्षदयोगानां सतां लाभः प्रजायते ॥९५॥हरेर्भक्तिमतां गेहे भक्तानां योषितां गृहे ।विरक्तानां समूहेषु सतां लाभः प्रजायते ॥९६॥सन्मित्राणां प्रसंगेन सद्देशस्य निवासनात् ।सत्कालस्य च योगेन सतां सेवा प्रजायते ॥९७॥सतां दीक्षाप्रसंगेन सतां मन्त्रग्रहेण च ।सतां स्नेहवशेनाऽपि सतां सेवा प्रजायते ॥९८॥आस्तिक्येनाऽऽमन्त्रणेन यशसा सत्कुलेन च ।सम्बन्धेन च महतां सतां सेवा प्रजायते ॥९९॥श्रीहरेः कृपया वापि हरेः पत्न्याः समाश्रयात् ।हरेर्वासेन वा नित्यं सतां सेवाऽभिपद्यते ॥१००॥अद्य नारद वासो मे श्मशानः शंकरालयः ।पावितो भवता साधो सता भक्तिमता हरेः ॥१०१॥तव पादप्रसंगेन पावितं सकलं जगत् ।मुक्तिमार्गं प्रयात्येव मद्गृहं चापि पावितम् ॥१०२॥श्रावितं शुभदं सर्वं कृष्णसम्बन्धजं सुखम् ।कृष्णनारायणकीर्तिः श्राविता पावनी त्वया ॥१०३॥पावितं हृदयं मेऽत्र मत्पुत्र्याश्चाऽपि तेऽन्तिके ।स्थितायाः स्वर्णवर्णाया लक्ष्म्या नारद जीव यत् ॥१०४॥अहो भाग्यं मम पुत्र्या यन्नाम जगतीत्रये ।ख्यायते सर्वभूतेषु धन्याऽहं मम पुत्रिका ॥१०५॥पुत्रि लक्ष्मि नमस्कारं कुरु श्रीनारदाय वै ।पादसंवाहनं चापि तैलांगमर्दनं कुरु ॥१०६॥जलमन्नं मिष्टमिष्टं गरिष्टं देहि मा चिरम् ।पर्यंकं च मधुपर्कं देहि पानं मनस्तथा ॥१०७॥यथेच्छति सतां वर्यो नारदोऽयं हरिः स्वयम् ।तथैनं च परीक्षां ते कर्तुं देहि समस्तिकाम् ॥१०८॥ब्रह्मभ्रातुश्च वै शंभोः कन्या त्वं दुःखहे सुते ।अयं पुत्रो ब्रह्मणश्च मम पुत्रो तवाऽग्रजः ॥१०९॥सम्बन्धतो भवत्येव गुरुश्चापि महानृषिः ।नारदोऽयं हरेरंशस्तव पूज्योऽस्ति मेऽपि च ॥११०॥पुत्रि यथा सुसन्तुष्टो भवेत्तथा प्रसेवय ।इत्युक्ताऽऽजाकरीलक्ष्मीर्नारदाय ननाम ह ॥१११॥जलपानं तथा मिष्टमन्नं ददौ शुभासनम् ।पर्यंकं स्वर्णवर्णं च ददौ पुष्पस्रजादिकम् ॥११२॥पादसंवाहनं चक्रे लक्ष्मीः श्रीनारदस्य च ।राधिके श्रमनाशं च विश्रम्य नारदो व्यधात् ॥११३॥नारदोऽपि यथोक्तानि लक्षणानि न्यभालयत् ।सर्वश्रेष्ठानि वै तत्र पूर्वदृष्टानि वै पुनः ॥११४॥सती च जानकी शीघ्रं शिवेश्वरं पतिं निजम् ।आह्वयत् सुमहोद्यानगतं विश्वेश्वरं मुदा ॥११५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पार्वती-सत्यै नारदोक्तश्रीकृष्णनारायणमहिमा, लक्ष्मीमहिमा, सतां समागमलाभकारणानि, नारदसम्माननं चेत्यादिवृत्तान्तावेदननामा पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ॥२७५॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP