संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २३० त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २३० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २३० Translation - भाषांतर श्रीकृष्ण उवाच-.राधिके यज्ञभूमौ च यानि तीर्थानि चावसन् ।तान्याह श्रीबालकृष्णश्चाम्रजानीसरित्तटे ॥१॥यत्र नारायणश्चास्मि यज्ञकर्ता परेश्वरः ।सा भूमिस्त्वक्षरतुल्या दिव्या दिव्यगतिप्रदा ॥२॥आम्रजानीनदी दिव्या स्वर्गंगा बदरीसुता ।आम्रजान्यप्सरा दिव्या नरेण निजशक्तितः ॥३॥आम्रमञ्जरिकाभिश्च प्रमृद्योत्पादिता पुरा ।तपश्चर्याप्रविघ्नार्थं पुरा महेन्द्र आययौ ॥४॥बह्वप्सरोभिः सहितो बदर्यां श्रीहरेः पुरः ।नारायणेन ताः सर्वा नृत्यन्त्यश्चेन्द्रदेशिताः ॥५॥विलोकितास्ततस्तासां गर्वभंगाय वै मया ।बदर्यां च नरद्वारा ह्युर्वशी प्रकटीकृता ॥६॥तस्यास्तु सन्निधौ सर्वास्तदा श्यामा इवाऽभवन् ।रूपगर्वं विहायैव तत्र क्षमामयाचिरे ॥७॥तदा मया तु ताः सर्वा मन्त्रेण वैष्णवीकृताः ।आम्रजानीं ययाचे वै महेन्द्रो रूपसुन्दरीम् ॥८॥सा मया तु महेन्द्रायाऽर्पिता त्वेकस्वरूपिणी ।द्वितीया ब्रह्मचर्यस्था मत्पुत्री मम सन्निधौ ॥९॥बदर्यां सा वसत्येव साऽत्र जलस्वरूपिणी ।पाराकर्षितपश्चर्याफलदानार्थमागता ॥१०॥पाराको नाम राजर्षिः पितॄणां मुक्तयेऽत्र वै ।तपश्चचार परमं वर्षाणां तु सहस्रकम् ॥११॥पूर्वजानां प्रतृप्त्यर्थं जलार्थं सोऽप्यकल्पयत् ।मां ध्यायन् जललाभार्थं तीर्थं श्रेष्ठमयाचत ॥१२॥मम मूर्तिं प्रतुष्टाव ध्यानमग्नोऽतिभावतः ।मया हृदा प्रसन्नेन स्मृता पुत्री मदाश्रया ॥१३॥सेयं जलस्वरूपाऽभूत् पुत्री ममाऽऽज्ञया तदा ।सप्तधारास्वरूपा सा भूत्वा ब्राह्मीलभूतले ॥१४॥प्रवाहेण गता यत्र यत्र पितर आसते ।तत्र तत्र कृतस्तेषां मोक्षो ययुश्च तेऽक्षरम् ॥१५॥सेयं चाऽम्रजनी दिव्या मोक्षदा वर्तते नदी ।तस्या रूपाणि सप्ताऽत्र आम्रजानी वरीयसी ॥१६॥राकान्तिकासना चापि द्वितीया सा प्रकीर्तिता ।गोनिकषा तृतीया च गोयाज्ञी च चतुर्थिका ॥१७॥माद्वारिका पञ्चमी च षष्ठी सा पुरुषा मता ।मानासना सप्तमी च सर्वा मोक्षप्रदा हि ताः ॥१८॥शान्तारामा पुरी चेयं पारेश्वरं च पत्तनम् ।आम्रजानीसमुद्रसंगमश्च मोक्षदः सदा ॥१९॥महापापातिपापानां क्षालकः संगमो ह्ययम् ।अत्र भूमौ तु यज्ञानां तीर्थानां भूभृतां तथा ॥२०॥मेर्वादीनां च सरसां नदीनां वास एव च ।मया संकल्पितस्तस्मात् तीर्थान्यत्र वसन्तु वै ॥२१॥आम्रजान्यां षडन्यासां नदीनां संगमेष्विह ।मुक्तास्तथाऽवताराश्चेश्वरा देवा वसन्त्वपि ॥२२॥देव्यश्च शक्तयश्चापि सागराः सरितस्तथा ।सर्वतीर्थनिवासोऽत्र भवत्विति निदेशनम् ॥२३॥बालकृष्णस्थली शान्तारामपारेश्वरान्तरे।सर्वतीर्थनिवासा वै पावन्यक्षरसन्निभा ॥२४॥गोयाजन्या गवाक्षाया मध्ये पृथिवी यावती ।त्रिशतक्रोशपर्यन्ता सर्वा मोक्षप्रदा शुभा ॥२५॥अत्र स्नानेन मुक्तिः स्याद् वाप्यां कूपे तडागके ।नदीनां जलपानेन मम धाम व्रजेज्जनः ॥२६॥स्वल्पान्नदानकरणाद् यज्ञजं फलमाप्नुयात्॥गोदानात् स्वर्णदानाच्च स्वर्गं लभेन्न संशयः ॥२७॥कन्यादानं भुवो दानं वस्त्रदानं गवार्पणम् ।भूषादानं चान्नदानं पात्रदानं करिष्यति ॥२८॥अत्र भूमौ तस्य राजसूयफलं भविष्यति ।ओषधानां प्रदानं च विद्यादानं जलार्पणम् ॥२९॥रसदानं छत्रदानं चोपकरणदानकम् ।गृहदानं वाहनानां दानं ज्ञानप्रदानकम् ॥३०॥यः करिष्यति तस्याऽत्र सर्वयज्ञफलं भवेत् ।वृक्षारोपं फलदानं धर्मशालां च वेदिकाम् ॥३१॥गृहं सौधं नदीघट्टं कारयिष्यति यो जनः ।तस्य स्वर्गं भवेद् ध्रौव्यं त्वन्ते मोक्षो भवेदपि ॥३२॥शुभे काले शुभे पात्रे दत्तं चात्राऽक्षयं भवेत् ।शय्यादानं बृसीदानं चोर्णाम्बरप्रदानकम् ॥३३॥दास्यत्यत्र भवेत्तस्य स्वर्गं चेह समृद्धयः ।विविधा राजभोगाश्च वंशविस्तारसम्पदः ॥३४॥अत्र तीर्थं तु ये लोकाः सप्तसरित्सु यत्र वा ।करिष्यन्ति जलपानं स्नानं चैष्यन्ति ते दिवम् ॥३५॥इत्युक्त्वा श्रीहरिस्तत्र राधिके विरराम ह ।ईश्वराद्या निजावासं चक्रुस्तीर्थस्वरूपिणः ॥३६॥सप्तनद्यः समायाताः कन्यकास्तत्र वै क्षणे ।चन्दनाद्यैः स्वपितरं बालकृष्णं परेश्वरम् ॥३७॥पुपूजुः पादयोर्नत्वा प्राहुर्वसाऽत्र सर्वदा ।हरिस्तथाऽस्त्विति प्राह मूर्तिरूपः स्वयंप्रभुः ॥३८॥तत आरभ्य तत्रैव मन्दिरेष्ववसत् सदा ।राजभ्यश्च ददौ स्वर्णमूर्तीः श्रीहरिरच्युतः ॥३९॥कन्यकास्ता ययुस्तीर्थरूपिण्यो वै निजालयान् ।राजानोऽपि ततश्चक्रुर्मन्दिराणि सरित्तटे ॥४०॥सुवर्णमूर्तीस्तेषु प्रातिष्ठिपन् विधिना नृपाः ।एवं वै राधिके श्रीमद्बालकृष्णः परेश्वरः ॥४१॥उपादिश्याऽथ प्रददौ पारितोषिकरूपिणः ।सुवर्णस्थालान् महतः सुवर्णोत्थकमण्डलून् ॥४२॥सुवर्णहारान् विविधान् मुकुटान् कानकाँस्तथा ।स्वर्णस्रजः कुण्डलानि शृंखलाः कटकानि च ॥४३॥हेमरत्नानि भूषाश्च हेमसूत्राम्बराण्यपि ।स्वर्णहीरकसद्रत्नपात्राणि कलशाँस्तथा ॥४४॥वेषान् शाटीः कञ्चुकीश्च कौशेयीः स्वर्णबुट्टिकाः ।यानवाहनदासाँश्च दासीश्च मुद्रिकास्तथा ॥४५॥एवंविधानि प्रददौ सम्पारितोषिकानि वै ।ततो ददौ धन्यवादान् महीमानेभ्य चाध्वरे ॥४६॥यज्ञसाहाय्यकर्तॄंश्चाशीर्भिस्तत्राप्ययूयुजत् ।अत्र रात्रौ पायसानि भोजनानि फलानि च ॥४७॥अकारयद्धि भगवान् सर्वांस्तत्र महोत्सवे ।नृत्यगीतोत्सवान्ते च विशश्राम परेश्वरः ॥४८॥निद्रां जग्राह भगवान् प्रातर्बुबोध मंगलैः ।कृताह्निकः कृतपूजो मातापितृप्रसेवकः ॥४९॥आसने निषसादाऽथाऽऽययुस्तत्र नृपादयः ।अर्चनं श्रीहरेश्चक्रुः सन्न्यधुश्चोपदाः पुरः ॥५०॥द्वादश्यां च ततः सर्वानभोजयत् प्रभुः स्वयम् ।मिष्टान्नानि विचित्राणि रसान् पेयानि यान्यपि ॥५१॥भक्ष्यभोज्यान्यनेकानि भोजयामास सर्वशः ।स्वयं सुबुभुजे कृष्णस्ततः सभां चकार ह ॥५२॥अवभृथार्थं प्रययुः सर्वे भगवता सह ।आसँस्तत्र तु नारीणां देवीनां गीतिका शुभाः ॥५३॥वाद्यानां निनदाश्चापि वेदघोषाश्च भूसदाम् ।आम्रजान्यां गोनिकषासंगमेऽवभथं तदा ॥५४॥चक्रुर्मुख्यं महास्नानं वरुणाद्यर्चनं तथा ।ये ये यत्राऽभवँश्चापि तत्र सस्नुश्च तत्र च ॥५५॥तूपशब्दा यन्त्रशब्दाः शतध्नीध्वनयोऽभवन् ।सरित्सागरसंयोगे सरितां संगमे तथा ॥५६॥विमानैर्दिव्ययानैश्च गत्वा सस्नुः प्रजाजनाः ।ईश्वराश्चापि देवाद्या देहिनः सस्नुरित्यपि ॥५७॥ततश्चाययुरावासान् श्रीहर्याद्या विमानकैः ।मध्याह्नोत्तरवेलायां पितृश्राद्धानि चाचरन् ॥५८॥सर्वेऽपि पितरस्तत्र मूर्तिमन्तः समागताः ।तृप्तिं प्राप्य विमानैश्च ययुः स्वर्गं सहस्रशः ॥५९॥अथ भोजनं मिष्टान्नं भोजयामास माधवः ।सर्वे बुभुजुर्मिष्टान्नं पुनस्तत्र सभाऽभवत् ॥६०॥विदायं श्रीहरिस्तत्र प्रददौ तु यथोचितम् ।कर्मठेभ्यः कर्मकर्तृभ्यश्च सहायिवर्गिणे ॥६१॥मुक्तेभ्यश्चेश्वरेभ्यश्चाऽवतारेभ्यश्च शोभनम् ।ईश्वराणीभ्य एवापि मुक्तानीभ्यस्तथा ददौ ॥६२॥देवीभ्यो देवताभ्यश्चाऽऽर्षीभ्यो मुनिभ्य इत्यपि ।मानवीभ्यो मनुष्येभ्यो महर्षिभ्योऽपि सन्ददौ ॥६३॥जडेभ्यश्चेतनेभ्यश्च सर्वेभ्योऽपि ददौ हरिः ।यथोचितं विदायं वै कल्पयोषिद्भ्य इत्यपि ॥६४॥कर्मकर्त्रीभ्य एवापि दासदासीभ्य इत्यपि ।प्रददौ स्वर्णहाराँश्च स्वर्णमुद्रायथोचिताः ॥६५॥आगन्तव्यं चेति पुनर्यदा यज्ञे स्मराम्यहम् ।इत्येवं श्रीहरिः प्राह ततो लब्ध्वा विदायकम् ॥६६॥सभां व्यसर्जयत् पश्चान्महीमानाः प्रतस्थिरे ।निजाँल्लोकान्प्रदेशाँश्च ग्रामान् सायं हि सर्वशः ॥६७॥द्वादश्यामेवमेवापि समाजाः स्वगृहान् ययुः ।रात्रौ श्रीभगवानास्ते राजभिः सेवितः सुखम् ॥६८॥ब्रह्मप्रियादिभिश्चापि कुटुम्बेन समन्वितः ।निद्रां विश्रान्तिरूपां चावाप प्रातर्बुबोध च ॥६९॥त्रयोदश्यां मांगलिकैर्वाद्याद्यैर्गीतिभिर्हरिः ।कृतस्नानाह्निकः कृष्णो निषसाद वरासने ॥७०॥ईशानपानशिष्टश्च राजा राज्ञी च कन्यकाः ।हरिं पूजयितुं प्रातश्चाययुस्ते तदा हरेः ॥७१॥नीराजनां प्रचक्रुश्च पुपूजुश्चन्दनादिभिः ।ब्राह्मील्यः कन्यकाश्चैकचत्वारिंशन्नृपस्य तु ॥७२॥वरमालां हरेः कण्ठे ददुः कान्तं हरिं व्यधुः ।राजा त्वतिप्रसन्नोऽभूद् यौतकं परमं ददौ ॥७३॥राज्ञी चापि कृतकृत्या ह्यभूत् तत्र मुमोद ह ।यौतकं हरये प्रादात् स्वर्णरूप्यधनादिकम् ॥७४॥विमानं चायतं चापि दासान् दासीः शताऽधिकाः ।राजा महोत्सवं चक्रे कन्यादाननिमित्ततः ॥७५॥मध्याह्ने भोजनं श्रेष्ठं ददौ राजाऽतिभावतः ।अन्येभ्यश्चापि सर्वेभ्यो राजभ्यो भोजनं ददौ ॥७६॥विदायं प्रददौ पश्चाद् राजभ्यो नृपतिर्महान् ।राजानः प्रययुर्नैजान् देशान् विमानसंस्थिताः ॥७७॥तत्र तावत् त्रयोदश्यां श्रीमान् रायपतिर्नृपः ।रायगिरर्षिसहितः प्रार्थयामास केशवम् ॥७८॥निजदेशं समागन्तुं पावयितुं निजां पुरीम् ।हरिस्तथाऽस्त्विति प्राह विश्वकर्मादिकाँस्ततः ॥७९॥सर्वयज्ञीयवस्तूनां परिहारार्थमेव ह ।मण्डपादिकदिव्यानां समादिदेश तूर्णकम् ॥८०॥शीघ्रं सायं विश्वकर्मा तिरोभावयदेव तत् ।अथ सज्जोऽभवत् कृष्णः कुटुम्बाद्यैर्युतस्तदा ॥८१॥शंकराद्यैः पार्षदैश्च तथा सर्वमहर्षिभिः ।तावद् राजा सैन्ययुक्तो विदाये मानने हरेः ॥८२॥अवादयत्तदा रम्यवादित्राणि मुहुर्मुहुः ।हरिः सम्मानमादाय पुष्पहारान् शुभान् शुभान् ॥८३॥ब्राह्मीलीभिश्चाक्षताद्यैर्वर्धितः पूजितो हरिः ।जयशब्दैः श्रावितश्चाऽऽरुरोह स्वविमानकम् ॥८४॥कुटुम्बेन सह कृष्णो महर्षिशंकरादिभिः ।विमानगोऽभवच्चाथ प्रससाराम्बरेऽग्रगम् ॥८५॥विदाययन्त्रशब्दाश्चाऽभवँश्चाति नृपाज्ञया ।राजारायपतिश्चाग्रे विमानेन ययौ द्रुतम् ॥८६॥स्वागतार्थं हरेस्तत्र सैन्यं प्रासज्जयद् द्रुतम् ।आर्षजतनुराष्ट्रे स्वे परीनासरितस्तटे ॥८७॥व्येनोजराशापुर्यां वै महोद्याने विशालके ।सम्मानार्थं सैन्ययुतस्तस्थौ राजा समालिकः ॥८८॥तावदाकाशमार्गाद्वै विमानं शोभनं तदा ।सूर्यवच्चाऽऽगतं शीघ्रं द्योतयन् विदिशो दिशः ॥८९॥तदा वाद्यान्यवाद्यन्त जयशब्दास्तथाऽभवन् ।पर्यः समन्ततो वीक्षणार्थं दुद्रुवुरादरात् ॥९०॥राजदर्शितमार्गेण विमानं श्रीहरिर्भुवि ।उद्यानमध्ये भूभागेऽवातारयच्छन्नैः शनैः ।हरिर्विमानतः शीघ्रं त्वग्रभागे बहिर्ययौ ॥९१॥जनानां पुष्पवृष्टिर्वै विमानोपरि चाभवत् ।अक्षताद्यैर्वर्धितश्च प्रजाभिः परमेश्वरः ॥९२॥राजा स्वर्णस्रजः कण्ठे कृष्णस्याऽधान्ननाम च ।तदा राज्ञी पुष्पमालां कृष्णकण्ठे न्यधान्मुदा ॥९३॥कुमाराश्च कुमार्यश्चन्दनाद्यैरर्हणां व्यधुः ।सिंहासने निषसाद हरिस्तत्र क्षणं ततः ॥९४॥दत्वा स्वदर्शनं सिंहासनात्तूत्थाय चत्वरे ।आययौ नृपतिस्तं सुगजे शृंगारिते मुदा ॥९५॥कुटुम्बं श्रीहरेश्चापि न्यषादयद् गजादिषु ।शकटीषु च वाहेषु यथायोग्यं च योषितः ॥९६॥शिबिकासु तथा दिव्यगन्त्रीषु च न्यषादयत् ।अथ वाद्यादिनिनदैर्गीतिभिश्च सुवर्धितः ॥९७॥हर्षनादैर्जयशब्दैस्तथा गायनकीर्तनैः ।व्येनोजराशापुर्यां श्रीहरिः संभ्रामितोऽभितः ॥९८॥गोपुराग्रे च राजन्यैर्नगर्यां च प्रधानकैः ।चत्वरेषु प्रजाभिश्च हट्टाग्रे धनिकैः प्रभुः ॥९९॥पूजितश्चापि रथ्याग्रे योषिद्भिः कृष्णवल्लभः ।स्वर्णमुद्रादिदानैश्च नारिकेलफलादिभिः ॥१००॥वस्त्रपात्रविभूषाभिश्चन्दनाऽक्षतवारिभिः ।वर्धितश्चाभितः पुर्यां भ्रमित्वा सैन्यशोभितः ॥१०१॥समाययौ शुभावासं राजसौधं हरिस्ततः ।जलपानं विधायैव विश्रान्तिमाप धर्मपः ॥१०२॥गृहीत्वा भोजनं रात्रौ निद्रां जग्राह केशवः ।ब्रह्मप्रियादिभिः संसेवितः कृष्णनरायणः ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने आम्रजान्यादिसप्तसरित्सु देवतीर्थानां वासो माहात्म्यमवभृथम्, पारितोषिकम्, रात्रियापनं, प्रातर्विदायं महीमानमण्डपादिपरिहारस्ततो राजारायपतिराष्ट्रगमनं व्येनोजराशापुर्यां भ्रमणं भोजनं रात्रौ शयनं चेत्यादिनिरूपणनामा त्रिंशदधिकद्विशततमोऽध्यायः ॥२३०॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP