संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १९५ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १९५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १९५ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके श्रीबालकृष्णो विमानात् समवातरत् ।रायगामलनृपतिः पुष्पहारान् ददौ गले ॥१॥राज्ञी प्रक्षालयामास चरणौ परमात्मनः ।कन्यकाश्च कुटुम्बं च राज्ञः पुपूजुरच्युतम् ॥२॥गन्धाक्षतैः पुष्पस्रग्भिश्चन्दनेन सुगन्धिना ।हारान् गुच्छान् ददौ चापि ततो राजा हरिं च तम् ॥३॥न्यषादयद् रम्यगजेऽम्बालिकावरशोभिते ।शृंगारितेऽतिसुभगे चतुर्दन्तेऽर्जुने वरे ॥४॥उच्चके संस्थितं कृष्णं जनता समलोकयत् ।छत्रं दधुश्च शिरसि कुमाराश्चामरेऽपि च ॥५॥अन्यान् सर्वान् महीमानान् शकटीषु न्यषादयत् ।राजाऽभ्रामयदीशेशं नगर्यां राजमार्गके ॥६॥रिगाप्रजा हरिं नत्वा पुपूजुरुत्तमोत्तमैः ।फलै रत्नैरम्बराद्यैः स्वर्णरूप्यककम्बलैः ॥७॥पुष्पहारैर्हीरकाद्यैरमूल्यवस्तुभिस्तथा ।गोपुरे चत्वरे संगे हट्टके मार्गसन्निधौ ॥८॥अंगणे सर्वथा लोका अपूजयन् सुवस्तुभिः ।अवर्धयन् शुभा गौर्योऽक्षतलाजाब्जकेसरैः ॥९॥हार्दिकैर्भावनैश्चापि निरीक्षणैः सुमानसैः ।स्वागतं सर्वतो बुद्ध्या चक्रुः कीर्तनगीतिभिः ॥१०॥राजप्रासादवर्यं च ययौ कृष्णोऽतिभास्वरः ।राजकन्याः पञ्च कृष्णहस्तं जगृहुरादरात् ॥११॥राज्ञी पुपूज देवेशं जामातारं तदा मुदा ।ददौ दानानि सुभगा विविधानि पुपूज च ॥१२॥ददौ कन्याः पञ्च कृष्णनारायणाय तत्र ह ।उत्सवं च शुभं चक्रे राजा कृतार्थतां वहन् ॥१३॥ततः प्रधानसौधानि प्रजागृहाणि सर्वशः ।श्रेष्ठिनां मन्दिरोद्यानगृहादीनि ययौ हरिः ॥१४॥भगवान् श्रीहरिस्तत्र सर्वत्र पूजितः प्रभुः ।ईशानो ब्रह्मपत्न्यश्च गौर्यो महर्षयस्तथा ॥१५॥सर्वेऽपि पूजितास्तस्यां नगर्यां नागरैर्मुदा ।गौरीभिः पूजितं कृष्णकुटुम्बं भाववस्तुभिः ॥१६॥ततो हरिर्निजावासं चाययौ सैन्यशोभितः ।जलपानं चकाराऽथ सभां चकार तत्र च ॥१७॥उपादिदेश च जनान् राधिके कृष्णवल्लभः ।धर्मः पाल्यः सदा भक्तैरर्थस्तेन प्रजायते ॥१८॥केवलार्थपरो जन्तुरचिरेण विनश्यति ।वित्तं दत्तं च वा न्यस्तमस्थाने चेद् विनश्यति ॥१९॥हिंसार्थं योजितं चापि पापायैव प्रकल्पते ।यद्वाऽऽत्मनोऽपि हिंसां वा कुरुते हिंसकं भवत् ॥२०॥धर्म ऊधो भवत्येव मा छिन्द्यात्तं कदाचन ।ऊधश्छेदे पयोलाभो क्षीरार्थिनो न जायते ॥२१॥ऊधसोऽर्थमयं दुग्धं प्रगृह्णीयाद् विवेकवान् ।दुग्धं दोग्ध्र्याः सेवनेन प्राप्यते नित्यमुत्तमम् ॥२२॥एवं पृथ्वीमुपायेन भुञ्जानो लभते फलम् ।सतीं गां च तनुं धर्मं भुञ्जानो लभते फलम् ॥२३॥दोग्ध्रीं धान्यं सुवर्णं च रक्षयेत् पृथिवीं च ताम् ।धर्मं नित्यं रक्षयेच्च दोग्ध्रीं मत्वा विवेकवान् ॥२४॥भूतानां रक्षणं धर्मो दया सा परमा मता ।दयाधर्मेण कर्ता वै तरत्यसारसागरम् ॥२५॥भीतानां रक्षणं कार्यं रक्षाफलं सुलभ्यते ।दशवर्षसहस्राणि स्वर्गे वासात्मकं हि तत् ॥२६॥स्विष्टिः स्वधीतिः सुतपा यान् लोकान् जयते ततः ।तानेव दयया प्राज्ञो जयते धर्ममाचरन् ॥२७॥देवताः पितरः सन्तो जीवन्ति दानधर्मणा ।अन्यभूतानि जीवन्ति दयागार्हस्थ्यधर्मणा ॥२८॥छायायामप्सु वायौ च सुखमुष्णे प्रमेलने ।अग्नौ वाससि सूर्ये च सुखं शीते प्रमेलने ॥२९॥शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः ।उष्णे शीतं साधुरूपं प्राप्तव्यं सुखदं हृदि ॥३०॥शीते चोष्णं कृष्णरूपं प्राप्तव्यं सुखदं सदा ।तेषु भोगेषु नाऽसक्तो लभते सुखमुत्तमम् ॥३१॥अन्ये धर्माः शीतजानामन्ये चोष्णनिवासिनाम् ।उष्णस्थानां स्नानजं च फलं यत् स्याच्छुभप्रदम् ॥३२॥शीतस्थानां यज्ञदानैस्ततोऽधिकं फलं भवेत् ।अर्थदानं मतं पुष्टिप्रदं देहस्य तुष्टये ॥३३॥अर्थो द्वेधा धनरूपः सुखदोऽत्र भवेत् खलु ।परार्थो मोक्षरूपस्तु शाश्वतिकसुखप्रदः ॥३४॥अभयस्य प्रदातुस्तु फलं सर्वोत्तमोत्तमम् ।नहि प्राणसमं दानं मोक्षदानं ततोऽधिकम् ॥३५॥अहं श्रीबालकृष्णो वै स्वामिश्रीकृष्णवल्लभः ।ददामि मोक्षदानं च प्राणदानं धनादि च ॥३६॥श्रेष्ठं मध्यं कनिष्ठं च त्रयमेतद्विभज्यते ।मोक्षदानं परं दानं दातव्यं सर्वथा भुवि ॥३७॥ग्रहीतव्यं तु तद्दानं नित्यानन्दप्रदं तु यत् ।अन्याऽऽदाने भवेद् व्याधिर्मोक्षदाने विनश्यति ॥३८॥मोक्षदाने ब्रह्मदानं ब्रह्मभूतं करोति हि ।ब्रह्मवृक्षो रक्ष्यमाणो मधुहेम ददाति वै ॥३९॥ब्रह्मदानपरं दानं नाधिकं सृष्टिमण्डले ।मोक्षदानं ब्रह्मदानं ब्रह्माहं मां ददामि च ॥४०॥धर्मोऽहं चार्थरूपोऽहं मोक्षोऽहं मोक्षदोऽप्यहम् ।मोक्षात्मानं ददाम्येव मुमुक्षवे प्रसादितः ॥४१॥स्त्रियं वा ब्रह्म वा हन्यात् साधुं हन्यात्तु यो घृणी ।तत्पापैः क्रियमाणैश्च सृज्यते स दरिद्रकः ॥४२॥ईशानो रुद्रदेवश्च हिनस्त्यसाधुपापिनः ।साधून् रक्षति सर्वात्मा मद्रूपो रुद्र ईश्वरः ॥४२॥आत्मा रुद्रो निजः प्रोक्तः पापं हन्याद् यदा स्वतः ।पापं द्वेषो वञ्चनादि चात्मघातादि नाशयेत् ॥४४॥आत्मघातो मोक्षघातस्तं न कुर्यात् कदाचन ।आत्मा स्वार्थी भवेन्नित्यं मोक्षार्थी मत्समागमात् ॥४५॥देहभावं न चोहेत मिश्रभावं परित्यजेत् ।शुष्कैरार्द्रं दह्यतेऽपि मिश्रितं चेद् भवेद् यदि ॥४६॥आत्मा दुःखी जायतेऽपि देहमिश्रो भवेद् यदि ।पापकृद्भिः कथंचिच्च न स्यान्मिश्रो विवेकवान् ॥४७॥रागद्वेषौ पापरूपौ त्यक्तव्यौ मुक्तिमिच्छता ।प्रमादमोहौ पापौ च त्यक्तव्यौ भूतिमिच्छता ॥४८॥पुण्यलोकः स्वयं स्वर्गः सुखी चात्मा दिवं मतम् ।पापलोकोऽत्र निरयो दुःखी चात्मा ह्यधो मतः ॥४९॥पृथ्वी साधूँस्तथाऽसाधून् सन्धारयति सदृशी ।सूर्यः साधूँस्तथाऽसाधून् करोति तापनं समः ॥५०॥जलं तृप्तान् करोत्येव साधूनसाधुकानपि ।वातः प्राणं स्पर्शनं च समं करोति देहिषु ॥५१॥आपः पुनन्ति सर्वांश्च साध्वसाधून् समानतः ।अत्र लोके तथा चास्ति फललोके तु भिन्नता ॥५२॥पुण्यशालिकृते वारि शीतं तत्रोपसर्पति ।अपुण्यस्य कृते वारि दृष्टिमार्गं न गच्छति ॥५३॥पुण्यशालिकृते पृथ्वी कोमलास्तरणान्विता ।अपुण्यस्य कृते पृथ्वी कण्टककर्करान्विता ॥५४॥पुण्यशालिकृते वायुः शीतलो गन्धिसंस्पृशः ।अपुण्यस्य कृते वायुर्विषोल्बणोऽतिदारुणः ॥५५॥पुण्यशालिकृते सूर्यो यथापेक्षोष्णताप्रदः ।अपुण्यस्य कृते सूर्यो दाहको भस्मसात्करः ॥५६॥इत्येवं चान्तरं लोके फलाढ्ये वर्तते सदा ।पुण्यलोको मधुमाँश्च घृतादः स्वर्णभूषणः ॥५७॥अमृतादो मोदयुक्तो जरामृत्युविवर्जितः ।पापस्य लोको निरयस्तमोदुःखसुतापनः ॥५८॥क्षुत्तृड्व्याप्तः शोककोशः क्षणमृत्युवशंगतः ।तं लोकं गन्तुमिच्छेद् यो विवेकभ्रष्ट एव सः ॥१९॥पुण्यलोकं प्रयातुं यो वाञ्च्छेद् विवेकवान् हि सः ।शाश्वतं च परं लोकं मम धामाऽक्षराभिधम् ॥६०॥गन्तुमिच्छेत्तु यः प्राज्ञो मुमुक्षूत्तम एव सः ।नित्यपूजो ब्राह्मणस्तल्लोकं समभिगच्छति ॥६१॥नित्यं दानी मखी रक्षी पूजी क्षत्रोऽपि गच्छति ।उद्यमी चोपकारी च धर्मी वैश्योऽपि गच्छति ॥६२॥हिती सेवी च सन्तोषी याति शूद्रोऽपि शेषभुक् ।तत्र तत्राऽनुसन्धानं मम भक्त्यात्मकं स्मृतम् ॥६३॥आज्ञां वहते नियतो गुरोर्योऽस्खलितो जनः ।तस्य सिद्धिर्भवत्येव गुरोबर्लान्न संशयः ॥६४॥अल्पं च सारभूतं च करणीयं विशेषतः ।येन सिद्धिर्द्रुतं श्रेयःप्रदा भवति देहिनः ॥६५॥येषां श्रीभगवान् रक्ष्यो येषां रक्ष्यं च कीर्तनम् ।मम भक्तास्तथा रक्ष्यास्ते रक्ष्या मम सर्वदा ॥५६॥येषां पुरोगमा भक्ताः सन्तो ब्रह्मपरं त्वहम् ।यद्गृहे भक्तकन्याश्च ते रक्ष्या मम सर्वदा ॥६७॥न कालात् कर्मतस्तेषां मायातो यमतो भयम् ।योषां चास्मि गृहे चाहं हृदये पूजितः सदा ॥६८॥साधून् रक्षेत् सदा राजा ते हि रक्षन्ति रक्षिताः ।आशीरेषां भवेद् धामप्रदात्री बन्धनाशिनी ॥६९॥दानेन तपसा यज्ञैर्भक्त्या दमेन सेवया ।साधवो वा गृहस्था वा क्षेममिच्छेयुरात्मनः ॥७०॥अपारे पारकर्ता यश्चाऽप्लवे प्लवदोऽपि यः ।यमाश्रित्याऽतिघोरेऽत्र संसारे सुखिनो जनाः ॥७१॥त्यागी वापि गृही वापि नरो नारी च वा भवेत् ।तारकं बान्धवं मत्वा साधुं तं परिपूजयेत् ॥७२॥परमेशं तथा सन्तं ज्ञानदं च गुरुं प्रभुम् ।सतीं साध्वीं पूजयेच्च मोक्षदो हि यतो गुरुः ॥७३॥किं तैर्ये वृषभा नोह्याः किं धेन्वा वाऽप्यदुग्धया ।किं पत्न्या वन्ध्यया लाभः कोऽर्था राज्ञाऽप्यरक्षता ॥७४॥किं तद्धनेन देहेन सेवा साधोर्न मे भवेत् ।किं राज्येन च शुष्केण किं दस्युग्रस्तसम्पदा ॥७५॥किं निःस्नेहेन भोग्येन किं जनु यन्न मुक्तिदम् ।यथा काष्ठकृतो हस्ती शार्दूलश्चर्मकृद् यथा ॥७६॥यथा षण्ढो यथा क्षारं क्षेत्रं निर्विद्यको यथा ।यथा मेघाऽऽडम्बरश्च क्षत्रं बलविवर्जितम् ॥७७॥यथा व्रतं दानहीनं भक्तः स्नेहविहीनकः ।गुरुर्ज्ञानादिशून्यश्च सर्वेप्येते निरर्थकाः ॥७८॥सफलं मोक्षदं सर्वं निष्फलं तद्विवर्जितम् ।आत्मलाभो न वै यत्र स लाभो हानिरुच्यते ॥७९॥आत्मलाभः परो लाभः परमात्मसमर्पणम् ।मोक्षलाभो भवेत्तेन सत्यलाभो मतो हि सः ॥८०॥सेवयन्तु सतो नित्यं भजन्तु मां सदा जनाः ।रक्षयन्तु स्वकं धर्म मम धाम प्रयान्त्वपि ॥८१॥भवतामस्तु वै स्वस्ति लोके चात्र परत्र च ।इत्युक्त्वा विररामाऽथ राजा पुपूज तं प्रभुम् ॥८२॥प्रजाश्चानर्चयामासुर्बहुवस्तुभिरादरात् ।राज्ञी पूजां चकाराथ श्रीहरेः कन्यकायुता ॥८३॥तिस्रः कन्या हरेर्हस्तं जगृहुः पतिभाविताः ।सार्थकं च जनुश्चक्रुः प्राप्य श्रीपुरुषोत्तमम् ॥८४॥भोजनं प्रददौ राजा हरये च कुटुम्बिने ।महीमानेभ्य एवापि ततः स्वो बुभुजे नृपः ॥८५॥चकार सुमहान्तं चोत्सवं रात्रौ प्रजायुतः ।नृत्यानि कारयामास वाद्यभक्त्यादिभिः सह ॥८६॥रात्रौ सुभोजनं लब्ध्वा हर्याद्यास्ते विशश्रमुः ।प्रातः समुत्थिता वाद्यरवैर्मंगलनिःस्वनैः ॥८७॥कृताह्निकास्तु हर्याद्या गन्तुं सज्जास्तदाऽभवन् ।मन्त्रं हरिर्ददौ तत्र प्रजाभ्यस्तूर्णमर्थितम् ॥८८॥राजा श्रीहरये स्वर्णं यौतकं बहुधा ददौ ।उपदाः प्रददौ चापि हरिश्चापि धनं तदा ॥८९॥लातवायर्षिणे प्रादाद् यथायोग्यं प्रपूजनम् ।राजा ददौ विदायं च दुग्धपानोत्तरं ततः ॥९०॥हरिर्विमानमारुह्य तूर्णं शृण्वन् जयध्वनिम् ।अम्बरे चाऽभवत् सर्वकुटुम्बेन समन्वितः ॥९१॥अन्ययानानि सर्वाणि चाम्बरे त्वभवँस्तदा ।राजा सैन्येन सन्मानं कृतवान् समयोचितम् ॥९२॥फेनतन्तुनृपश्चापि फालनादो मुनिस्तदा ।आजग्मतुः समानेतुं निजराज्यं सतां पतिम् ॥९३॥हरिस्तेनार्थितस्तूर्णं बहुमानपुरःसरः ।व्योम्ना सर्वान् प्रयुज्यैवाऽऽशीर्वादैः प्रययौ तदा ॥९४॥अन्यान्यपि विमानानि ययुस्तूर्णं तदाम्बरे ।फेनतन्तुमहाराजराष्ट्रमुल्लंघ्य खाडिकाम् ॥९५॥तूर्णनयानदीतीरे संगमस्थे मनोहरे ।नगरे त्रिनयाख्ये तत्समीपोद्यानमण्डले ॥९६॥राजा पुरः प्रगत्वैव सैन्यसन्मानमाचरत् ।राजदर्शितमार्गेण हरिर्नैजं विमानकम् ॥९७॥अवातारयदुद्याने राजसौधस्य सन्निधौ ।विमानानि तथाऽन्यानि चावतेरुस्तदाऽम्बरात् ॥९८॥तदा वाद्यान्यवाद्यन्त जयशब्दास्तथाऽभवन् ।पुष्पवृष्टिः प्रजानां चाऽभवद्विमानसन्निधौ ॥९९॥राधिके कीर्तनान्येव गौर्यो जगुः प्रजाजनाः ।स्वागतं परमं राजा चक्रे यान्त्रिकसद्रवैः ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने रायगामलराष्ट्रे रिगानगर्यां भ्रमणं पूजनमुपदेशनं भोजनं विश्रमणं रात्रियापनं चतुर्दशीप्रातर्दुग्धादिपानोत्तरं फेनतन्तुनृपराष्ट्राभिगमनमित्यादिनिरूपणनामा पञ्चनवत्यधिकशततमोऽध्यायः ॥१९५॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP