संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ८९ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ८९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८९ Translation - भाषांतर श्रीकृष्ण उवाच-क्षेत्रे कुंकुमवाप्याख्ये प्राग्भागे राधिके शुभम् ।अमराणां निवासार्हं वनं वै पारिजातकम् ॥१॥विशालं योजनायामं ततश्चेशानदिग्भवम् ।वनं कादम्बमुत्कृष्टं योजनत्रयविस्तृतम् ॥२॥ततश्चोत्तरतो भद्रानदी दिव्या विराजते ।यस्यां स्थले स्थले सस्नौ स्वामिकृष्णनरायणः ॥३॥तस्यास्तीरे सुविश्रम्य स्नात्वा संभक्ष्य पायसम् ।ततो यात्रासमाजो वै ससाराऽग्रे गृणन् हरिम् ॥४॥भूमावर्त्तगजश्चाग्रे स्वर्णचित्रादिरञ्जितः ।गैरिकाशैलतुल्यः स भेरीं जीमूतसदृशीम् ॥५॥उद्वहन् याति चाग्रे वै सशब्दा गर्जनावतीम् ।तत्पश्चाच्छरभो याति वैराजावर्त्तनामकः ॥६॥पटहद्वयमुच्छब्दं पृष्ठे वहन् समुच्छ्रयः ।तत्पश्चान्माणिकीपृष्ठे ध्वजं शतकरायतम् ॥७॥कौशेयं स्वर्णतारादिपञ्चदेवविराजितम् ।उद्वहन् याति विन्ध्याद्रिरब्भ्राणि कर्षयन् ध्वजे ॥८॥तत्पश्चाच्छंखनादश्च दशदिक्षु निनादवान् ।मरुद्देवकृतो भाति भूयते स्वर्गवासिभिः ॥९॥तत्पश्चाद् रोदसी चापि निनादयत् सुधातुजम् ।विगलं भगवान् धृत्वा वामनो याति हासयन् ॥१०॥तत्पश्चाच्छ्रीनृसिंहश्च स्वयं वै गर्जयन् दिशः ।दिव्यसिंहच्छटाशोभः प्रयाति पिंगनेत्रकः ॥११॥तत्पश्चादश्विनीदेवौ सूर्यचन्द्रसमावुभौ ।सुरूपौ तुरगारूढौ कुर्वाते जयघोषणाम् ॥१२॥तत्पश्चाच्छ्वेतवाराहो धुन्वन् दिगन्तकान् बली ।गर्जयन् याति तीर्थार्थं श्वेतवर्णोऽतिरूपवान् ॥१३॥ततो यान्ति च गन्धर्वा वादका वाद्यवेदिनः ।वादयन्ति च झंकारान् करतालान् मृदंगकान् ॥१४॥वीणां मयूरकांश्चापि तन्त्रीं जलनिनादकान् ।प्राणपाशान् गालशब्दान् तालिकातालपट्टकान् ॥१५॥वृत्तभेरीः पटहाँश्च वेणुनालान् सृजिह्विकाः ।त्राटकान् चित्रघोषाँश्च शलाकान् रागिणीस्तथा ॥१६॥एवंविधानि वाद्यानि ह्यवाद्यन्त ततः परम् ।ततो वै कीर्तनकाराः पुंतीर्थाः संप्रयान्ति हि ॥१७॥दिव्याः सिद्धास्ततो यान्ति सत्यः साध्व्यश्च साधवः ।कीर्तयन्ति हरेर्नाम सवाद्यं कृष्णमानसाः ॥१८॥ततो यान्ति पितरश्च जयशब्दैश्च कीर्तनैः ।ततो वै देवता यान्ति सुराः सर्वे द्युवासिनः ॥१९॥ततो यान्ति च ऋषयः सत्यस्था भूगतास्तथा ।कीर्तयन्तश्च वेदानां मन्त्रान् सामस्तवाँस्तथा ॥२०॥ततोऽपि चारणा भाटा गन्धर्वा गायकास्तथा ।प्रयान्ति वाद्यघोषैश्च नामकीर्तनकारिणः ॥२१॥तत्पश्चाच्च सुरराजाः प्रयान्ति लोकपालकाः ।तत्पश्चात् सरितः सर्वा नद्यः प्रस्रवणानि च ॥२२॥सरांसि च तडागाश्च प्रयान्ति कीर्तयन्ति च ।ततो यान्ति ऋषिपत्न्यो देव्यस्ततः सुरस्त्रियः ॥२३॥कीर्तयन्त्यो बालकृष्णपद्यानि प्रेमपूरिताः ।ततो यान्ति वनारण्यशैलभूतीर्थमण्डलम् ॥२४॥ततो दासास्तथा दास्यस्ततो यान्ति च मानवाः ।एवं यात्राप्रवाहश्च समाजो योजनावधिम् ॥२५॥दीर्घांऽभवत्तदा दिव्यः पुष्पवृष्टिरभूत्तदा ।महीमानानि तीर्थानि त्वागच्छन्तीति वीक्ष्य च ॥२६॥अनादिश्रीकृष्णनारायणः स्वागतवाञ्च्छया ।अग्रगोभूच्चातिहर्षात् तथा गोपालकृष्णकः ॥२७॥कपिलाद्याः साधवश्च लोमशाद्या महर्षयः ।राधारमाद्याः सत्यश्च शंकराद्याश्च वैष्णवाः ॥२८॥विप्रा वेदविदश्चापि कन्याः कोट्यर्बुदार्बुदम् ।ब्रह्मप्रियाः कम्भराश्रीस्तथा सर्वाश्च वल्लिका ॥२९॥तीर्थं कुंकुमवापी च तथाऽन्या दीर्घिकाः शुभाः ।क्षेत्रं चाश्वपट्टसरस्तथाऽऽश्रमस्य पादपाः ॥३०॥क्षेत्रपालाश्च तीर्थानि सर्वाण्यश्वसरस्तटे ।यानि वसन्ति ये देवा नद्यो नदाश्च पर्वताः ॥३१॥सर्वे ते धृतमालाश्च मधुपर्कादिसंयुताः ।गीतवादित्रयुक्ताश्च तैर्थिकानभिसंययुः ॥३२॥ब्रह्महृदोऽश्वतटाकस्तथा कुंकुमवापिका ।अग्रे ययुर्हरेः पार्श्वे विरजाद्यास्ततो ययुः ॥३३॥आगतास्ते महीमाना विलोक्य हरिमन्दिरम् ।प्रासादं साप्तभौमं च शातकौंभं तथाऽपरम् ॥३४॥नमश्चक्रुर्दण्डवच्च धूलिं न्यधुश्च मूर्द्धसु ।जयशब्दान् जगदुश्च पूर्णोत्साहपरिप्लुताः ॥३५॥विविशुः क्षेत्रपीठं ते दूरं तु योजनं यदा ।मिमिलुश्चक्रुरालोकं जयध्वनीन् पुनः पुनः ॥३६॥परस्परं सुखवादान् पप्रच्छुः स्वागतं तथा ।चक्रुस्तीर्थात्मनां नारायणः श्री भगवान् स्वयम् ॥३७॥अहो भाग्यमहो भाग्यं तीर्थानामागमो मम ।इत्युक्त्वा श्रीहरिस्तेभ्यो मधुपर्कादिकं ददौ ॥३८॥पुष्पहारान् चन्दनानि पुष्पमाला ददुः परे ।मिलित्वा कुशलं पृष्ट्वा समाश्लिष्य यथोचितम् ॥३९॥तैर्थिकास्तीर्थकामाश्च कृष्णकीर्तनतत्पराः ।आययुः कुंकुमवापीसन्निधावाश्वसारसम् ॥४०॥लुलुठुः क्षेत्रमार्गस्य धूल्यां तीर्थानि वै मुहुः ।महद्भाग्यं मन्यमाना देवा देव्यस्तथर्षयः ॥४१॥केचिन्नृत्यन्ति गायन्ति वादयन्त्यपरे तदा ।धारयन्ति रजो मूर्ध्नि देहे सम्मर्दयन्ति च ॥४२॥नमन्ति मस्तकैः केचित् केचिदञ्जलिना हरिम् ।केचिद् वक्षःसु च रजो योजयन्ति परे मुखे ॥४३॥स्वयंकुमारो भगवान् लुलोठ कृष्णपादयोः ।केचिद् विज्ञाय माहात्म्यं भक्तानां पद्रजांसि च ॥४४॥ऋषीणां सर्वतीर्थानां धारयन्ति च मूर्धसु ।केचित् पत्राणि पुष्पाणि शलाकाश्च तृणान्यपि ॥४५॥गृह्णन्ति तु मुखे धृत्वा मन्वते कृतकृत्यताम् ।जलं प्रस्रवणोत्थं च मत्वा पापप्रणाशकम् ॥४६॥घटुकं घटुकं पीत्वा मन्वते कृतकृत्यताम् ।केचित् त्वश्वसरोवारिस्पृष्टं वायुं समागतम् ॥४७॥मुखे पीत्वा मुहुर्यान्ति निर्वृत्तिं परमां तदा ।केचित् स्मरन्ति धामानि केचित्तदवतारकान् ॥४८॥केचिन्मुक्तान् तदैश्वर्यसिद्धीः स्मरन्ति तद्धृदः ।आयुधाश्चक्रशंखाद्याः पार्षदाः सेविकास्तथा ॥४९॥महीमानान् यदिष्टं तद् दापयन्ति पथि द्रुतम् ।एवं वाद्यैः कीर्तनैश्च वाहनैः प्रेमपूरकैः ॥५०॥जयनादैः सह सर्वे प्रापुः सरोऽश्वसंज्ञकम् ।येषां वज्रसमान्यासन् पापानि देहिनां तदा ॥५१॥तीर्थे त्यक्तानि सर्वाणि तान्यप्यसंख्यकानि वै ।अश्वपट्टसरसस्तु दर्शनात् हरिदर्शनात् ॥५२॥दग्धान्येव द्रुतं तत्र शेषमात्रं न विद्यते ।अन्यतीर्थे कृते स्नाने यानि प्रयान्ति दूरतः ॥५३॥तानि दग्धानि सर्वाणि चाश्वसरो विलोकनात् ।अहो कृष्णस्य माहात्म्यं प्रत्यक्षं दृश्यते महत् ॥५४॥यद्रजो यज्जलं यस्य क्षेत्रस्य पत्रमित्यपि ।दाहयन्ति च पापानि किं वक्तव्यं हरौ तदा ॥५५॥एवं प्रशंसमानास्ते महीमानाः सरस्तटे ।उत्तरेऽतिविशाले च शांकरे सुप्रदेशके ॥५६॥विशश्रमुस्तथा सस्नुः पपुर्जलं ववन्दिरे ।तीर्थविधिं प्रचक्रुश्चाक्षालयन् पापमात्रकम् ॥५७॥अथाऽनादिकृष्णनारायणं संस्नाप्य तज्जलैः ।चक्रुः स्नानानि तीर्थाद्याः पपुर्वारि प्रसादजम् ॥५८॥दिव्यवार्भिर्दिव्यरूपा मुक्तरूपाश्च तेऽभवन् ।एवं चाश्वसरस्तीर्थंं कृत्वा विधानतस्ततः ॥५९॥ययुः श्रीकुंकुमवापीं विशालां धामरूपिणीम् ।तज्जलं वै पपुः सर्वे सस्नुर्जलैर्मुहुर्मुहुः ॥६०॥तदा सार्ष्टि तु ते प्राप्तास्तीर्थाद्या हरिवाञ्च्छया ।ततो ब्रह्मह्रदं गत्वा सस्नुः पपुश्च तज्जलम् ॥६१॥ततः सारूप्यभावं च प्राप्तास्ते महीमानकाः ।वालकृष्णसमाः सर्वे गुणरूपसमृद्धिभिः ॥६२॥सञ्जाता मुक्तियोग्यास्ते पुनर्जन्मविवर्जिताः ।अथोत्तरं ययुः सर्वे लोमशस्याश्रमं शुभम् ॥६३॥लोमशः स्वागतं चक्रे मिष्टान्नफलवारिभिः ।भोजयामास तीर्थाद्यान् सर्वान् वै महीमानकान् ॥६४॥ब्रह्मधामानीतदुग्धसारैर्भोज्यैश्च तर्पणैः ।तृप्तिं प्रकारयामास मुखवासान् समार्पयत् ॥६५॥ययुस्तीर्थानि सर्वाणि देवर्षिपितृमानवाः ।नदा नद्यः पर्वताश्च वनारण्यानि यान्यपि ॥६६॥महीमानाश्च ते सर्वे बालकृष्णालयं शुभम् ।दिव्यं दिव्यविभूत्याढ्यं दिव्यमुक्तनिषेवितम् ॥६७॥अप्रतर्क्यानन्तशक्तिसेवितं चेश्वराश्रयम् ।अवतारैः सदा जुष्टं सायुज्यमुक्तिदं शुभम् ॥६८॥तत्रानादिकृष्णनारायणस्नातजलह्रदे ।दिव्ये ब्रह्मह्रदश्रेष्ठे प्रसस्नुर्महीमानकाः ॥६९॥दिव्यदेहा दिव्यदृष्टियुक्ता दिव्ये परेऽक्षरात् ।धाम्नि स्थितान् निजान् सर्वे ह्यपश्यन्त हि शाश्वतान् ॥७०॥तदा पूर्णं महिमानं विविदुर्महीमानकाः ।सालोक्यं सार्ष्टि सारूप्यं सायुज्यं चात्र सन्ति वै ॥७१॥पापमुक्तिश्चान्यतीर्थे त्वश्वसरोऽघदाहकम् ।सार्ष्टिदा कुंकुमवापी ब्रह्मह्रदः स्वरूपदः ॥७२॥सालोक्यदं लोमशस्याश्रमं दिव्यं हि वर्तते ।बालकृष्णालयश्चायं सायुज्यमुक्तिदोऽस्ति हि ॥७३॥अहो कृष्णप्रतापेन सर्वे त्वेकैकतः खलु ।वर्धन्ते चातिसामर्थ्ये मोक्षदाः सर्वथाऽप्यहो ॥७४॥अत्र वासः प्रकर्तव्योऽथवा गन्तव्यमक्षरे ।परब्रह्मणि सम्प्राप्ते कोऽन्यत्र संवसेदघी ॥७५॥एवं वै कथयन्तस्ते व्यधुर्महोत्सवं निशि ।चान्द्रे तु कुमुदे मासे सप्तम्याः कृष्णके दले ॥७६॥गायनैः कीर्तनैर्नृत्यैर्भजनैः स्तवनैस्तथा ।ध्यानैः कथाश्रवैश्चापि निन्युर्निशां सुखं तु ते ॥७७॥प्रातः स्नात्वाऽश्वसरसि कृष्णार्चनार्थमाययुः ।सर्वे त्वेकादशे जन्मदिनेऽष्टम्यां महोत्सवे ॥७८॥निर्मिते मण्डपे रात्रौ विशाले विश्वकर्मणा ।मध्ये गजासने तत्र व्यराजत हरिः स्वयम् ॥७९॥अन्यान्यप्यासनान्यत्र सिंहासनानि सर्वशः ।स्थापितानि च तेष्वत्रेश्वरेश्वराः परेश्वराः ॥८०॥अवतारास्तथा मुक्ता मुक्तान्यः साध्व्य इत्यपि ।साधवो ब्रह्मशीलाश्च देवा देव्यो महर्षयः ॥८१॥ब्रह्माद्याः ऋषयश्चापि पितरो देवकोटयः ।व्यराजन्त च तीर्थानि नदा नद्यः सरांसि च ॥८२॥लोकपाला राज्यपालाः शैला वनानि भूमयः ।अरण्याश्च द्रुमा वल्ल्यस्तृणानि दीर्घिकास्तथा ॥८३॥जडचेतनतत्त्वानि व्यराजन्ताऽऽसनेषु च ।देववाद्यान्यवाद्यन्त मांगल्यान्यभवँस्तदा ॥८४॥वेदघोषाह्यजायन्ताऽभवत्कुसुमवर्षणम् ।लोमशो मुनिराट् मायावर्जितोऽपूजयद्धरिम् ॥८५॥तिलकं चन्द्रकं भालेऽकारयत्परमात्मनः ।मुकुटं निदधे तस्य मस्तके मालिकां शुभाम् ॥८६॥कानकीं तौलसीं चापि पौष्पीं रात्नीं ददौ गले ।पुष्पांजलिं ददौ चापि दुर्वांकुराणि कर्णयोः ॥८७॥हस्ते श्रीफलमग्र्यं च ददौ फलानि चाग्रतः ।चन्दनं पादयोश्चाप्यवर्धयच्चाक्षतैस्ततः ॥८८॥आरार्त्रिकं हरेश्चक्रे आशीर्वादान् ददौ शुभान् ।अथ श्रीकंभरादेवी पुपूज बालकृष्णकम् ॥८९॥श्रीमद्गोपालकृष्णश्च हारं कृष्णगले न्यधात् ।भगवान् शुकदेवश्च वल्लभाद्या ददुः स्रजः ॥९०॥हेमन्तो भगवाश्चापि हैम्युपदाः समुत्तमाः ।सन्तोषा चामृता दुग्धा जीवन्त्याद्या ददुः स्रजः ।तिलकं कौंकुमं चक्रुर्भाले बिन्दुं हरेस्ततः ॥९१॥अथेश्वरा अवतारा मुक्ता मुक्तान्य ईशिकाः ।पूजयित्वाऽऽरार्त्रिकं च प्रचक्रुः श्रीहरेस्तदा ॥९२॥ब्रह्मव्रताः ऋषयश्च पितरः सुरमानवाः ।देवा देव्यो नदा नद्यः सरांस्युपजलान्यपि ॥९३॥शैलाश्च भूमयोऽखातास्तीर्थानि च वनानि च ।अरण्यानि च तत्त्वानि पुपूजुः परमेश्वरम् ॥९४॥आरार्त्रिकं तथा पुष्पाञ्जलीन् तथोपदा ददुः ।आभूषणानि वस्त्राणि तथोपकरणान्यपि ॥९५॥ऊर्मिकाः फलपुष्पाणि रत्नानि हीरकाणि च ।यानानि कल्पवृक्षाँश्च ददुर्दिव्यानि पूजने ॥९६॥एवं पूजोत्तरं सभापरिहारोत्तरं हरिः ।भोजयामास सर्वान् वै महीमानान् गृहीयकान् ॥९७॥आगन्तुकानतिथींश्च सर्वान् देहिन इत्यपि ।ददौ तु दक्षिणास्तेभ्यः प्रासादिकानि भावतः ॥९८॥तदा तीर्थैः कृता तत्राऽभ्यर्थना श्रीहरेः पुरः ।लब्ध्वा मोक्षप्रदं लाभं चान्यं लाभं क इच्छति ॥९९॥तस्मान्मोक्षं कृपासिन्धो देहि नः शाश्वतं सुखम् ।हरिः कृपया तेषां वै व्यधाद् रूपत्रयं तदा ॥१००॥मूलं दिव्यं तथा छायां मूलरूपाणि धामसु ।विमानैः सोऽप्रेषयच्च पार्षदैः सह केशवः ॥१०१॥दिव्यान्यथ स्वरूपाणि स्वसन्निधावरक्षयत् ।अश्वपट्टसरःक्षेत्रे यथेष्टं न्यवसँश्च ते ॥१०२॥तीर्थात्मकाः समूर्ताश्च विश्वकर्मकृतेषु च ।योग्यालयेषु सन्तुष्टा हरेः सेवाभिलाषुकाः ॥१०३॥छायारूपाणि तीर्थानां यानि तत्राऽभवँस्तदा ।तेभ्यः प्राह प्रभुर्लोकपावनार्थं शुभं वचः ॥१०४॥मदिच्छयैव तीर्थेशा युष्मज्जन्माऽस्ति भूतले ।लोकानां पावनार्थं वै तस्माद्गन्तव्यमीश्वराः! ॥१०५॥कार्यरूपेण तत्रैव स्थातव्यं यत्र संस्थितिः ।मया कृताऽस्ति लोकेऽत्र नदीनदसरांसि च ॥१०६॥तत्तथैव हि वस्तव्यं पापिपापदहाय वै ।आगन्तव्यं प्रतिवर्षं जन्माहे मम सर्वशः ॥१०७॥पर्वण्येकादशीकाले कुंभे माघे च कार्तिके ।संक्रान्तौ श्रावणे चापि वैशाखे पुरुषोत्तमे ॥१०८॥इत्युक्तास्ते समूर्ताश्च तीर्थेश्वराः प्रणम्य च ।ययुर्नैजान् प्रदेशांश्च महीमाना ययुस्तथा ॥१०९॥ब्रह्मप्रिया हरिं कान्तं प्रपूज्य लोमशाश्रमम् ।ययुश्च राधिके सर्वे स्वस्वस्थानानि मानवाः ॥११०॥रात्रावप्युत्सवः श्रेष्ठः कृतो नर्तनगायनैः ।पठनाच्छ्रवणाच्चापि भुक्तिमुक्तिप्रदो भवेत् ॥१११॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सर्वतीर्थदेवादीनां कुंकुमवापीयात्रागमनं, श्रीहरेर्जन्मदिनोत्सवश्चेत्यादिनिरूपणनामा नवाऽधिकाऽशीति-तमोऽध्यायः ॥८९॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP