संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २४५ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २४५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २४५ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके मुनिर्द्वितीयेऽह्नि तु लोमशः ।सोमयागीयकृत्यं निर्वर्तयामास यच्च तत् ॥१॥अवश्यसंकल्पाद्यं च कृत्वा सत्कर्म वै ततः ।प्रातरेव प्राय(प?)णीयेष्टिं चकार हि लोमशः ॥२॥पथ्यादिपञ्चदेवाँश्चाऽस्थापयच्चाप्यपूजयत् ।पथ्या स्वस्तिः प्रथमैव द्वितीयोऽग्निः सुरस्तथा ॥३॥सोमस्तृतीयः सविता चतुर्थोऽदितिः पञ्चमी ।अदितेरोदनो द्रव्यं चतुर्ण्णामाज्यमेव च ॥४॥पक्त्वौदनं चाहवनीयाऽग्नौ चाऽजुहवत् ततः ।सोमं च क्रीतवाँस्तत्र राजा दशभिर्वस्तुभिः ॥५॥ऐकहायन्या गवा च हिरण्येनाऽजया तथा ।धेन्वा सवत्सया चापि वृषभेण च भूपतिः ॥६॥शकटवाह्यनडुहा वत्सतरेण चापि वै ।वत्सतर्या वाससा च क्रीतवान् सोममेव सः ॥७॥क्रीतं सोमं यजमानश्चोरौ दक्षे निगृह्य च ।हविर्धानशकटे तं निक्षिप्य चाययौ मखम् ॥८॥प्राग्वंशस्याऽग्रतः स्थित्वा आतिथ्येष्टिं चकार ह ।विष्णवे च पुरोडाशं द्रव्यं नवकपालकम् ॥९॥ददौ चाथ च सोमं तं राजासन्द्यां न्यधापयत् ।ऋत्विजो यजमानश्चाऽवैराय शपथं व्यधुः ॥१०॥प्रवर्ग्यं कर्म च ततः प्रावर्तत ससाधनम् ।महावीराख्यपात्राणि त्रीणि, द्वे दोहपात्रके ॥११॥आज्यस्थाली, तथाश्वौ द्वौ, कपाले द्वे हि मार्त्तिकाः ।वानस्पत्या उदुम्बरकाष्ठजा अपि तद्यथा ॥१२॥सम्राडासन्दी, स्रुचौ द्वे, द्वे चागर्ते स्रुचावपि ।द्वौ शफौ, द्वौ चापि धृष्टी, मेथी, च शंकवस्त्रयः ॥१३॥व्यजनानि त्रीणि, रुक्मौ द्वौ, तथैकाऽभिधानिका, ।निदाने, शाखदामानि, तथा मुञ्जतृणानि च ॥१४॥एवं प्रवर्ग्यसंभारान् अध्वर्युश्चाहरत्ततः ।ब्रह्मणा चाप्यनुज्ञातः प्रवृञ्जनमथाऽकरोत् ॥१५॥रौहिणाख्यं पुरोडाशं विधिना समपादयत् ।द्वारान्तिके चतुःशंकून् कृत्वा स्थण्डिलमित्यपि ॥१६॥अग्निं प्रज्वाल्य तत्रैव महावीरं निधाय च ।आज्येनाऽऽपूर्य तन्मुखं पिधाय कनकेन च ॥१७॥पुनः पुनः प्रकृत्वैवं चाध्वर्युश्च ततः परम् ।शंकुषु गां च गोवत्समजां बध्वा दुदोह च ॥१८॥महावीरे पयस्तच्च चिक्षेपोष्मा ततोऽभवत् ।त(तृ?)प्ते घृते पयःक्षेपः प्रवृञ्जनं समुच्यते ॥१९॥प्रवर्ग्यं कर्म चैवैतच्चकाराऽध्वर्युरेव ह ।ततश्च प्रतिप्रस्थाता पुरोडाशं तु रौहिणम् ॥२०॥अगर्तया जुह्वयाऽऽहवनीये स्म च जुह्वति ।अध्व(श्व?)र्युश्चाऽऽश्रावणं च प्रत्याश्रावणमित्यपि ॥२१॥कृत्वा जुहाव च घृतं पयोमिश्रं च वीरऽऽगम् ।महावीरस्थितं दुग्धं हुतं घर्म प्रकीर्त्यते ॥२२॥अश्विनौ च महेन्द्रश्च देवतेऽस्य प्रकीर्तिते ।अवशिष्टेन च स्विष्टकृतं होमं चकार ह ॥२३॥दध्ना प्रापूर्य च महावीरं तद्धोममाचरत् ।वेद्यां शेषं निधायापि प्रतिप्रस्थाता ततः ॥२४॥रौहिणपुरोडाशस्य होमं किञ्चिच्चकार सः ।अध्वर्युश्च षट्शलहोमाँश्चकार वै ततः ॥२५॥अग्निहोत्रं तथा होमं कृत्वा च शेषभक्षणम् ।होतृब्रह्माऽग्नीध्रयजमानैः सह चकार ह ॥२६॥एवं प्रातः प्रवर्ग्यं वै समपद्यत वै तदा ।सायं प्रवर्ग्यमेवापि तथैव तु भविष्यति ॥२७॥छिन्नस्य यज्ञशिरसः सन्धानार्थं प्रवर्ग्यकम् ।यज्ञो विष्णुः पुरा राधे देवैः सत्रमथाऽऽचरन् ॥२८॥यशो विष्णुरवापैव न देवास्ते ततः परम् ।युयुधुर्विष्णुना साकं विष्णुस्तु धनुषा सुरान् ॥२९॥विजित्य च धनुष्कोटिं चिबुकाऽधो विधाय च ।तस्थौ तदा तु वम्र्यश्च भूतले ज्यामवस्थिताम् ॥३०॥भूमिकोटेश्चिच्छिदुश्च धनुर्वेगात् समुत्पतत् ।विष्णोः शिरः कण्ठदेशादुत्पाट्य गतमम्बरे ॥३१॥तस्य विष्णोर्यज्ञमूर्तेश्छिन्नमूर्ध्नः प्रपूजने ।निष्फला अभवन् देवाः प्रार्थयन्त तदाऽश्विनौ ॥३२॥शिरस्तत्प्रतिसन्धातुं तौ तदा प्राहतुः सुरान् ।सोमयागे हविर्भागस्त्वावयोरस्तु चाद्यतः ॥३३॥देवैर्भागः प्रदत्तश्च तावयोजयतां शिरः ।तदेवैतत् प्रवर्ग्यं वै यज्ञशिरसो योजनम् ॥३४॥महावीरो यज्ञशिरोरूपो बोध्यश्च राधिके ।ततश्च प्रातरुपसद् इष्टिश्चापि ह्यजायत ॥३५॥अग्निः सोमो विष्णुरेते प्रधानदेवतास्त्रयः ।आज्यं द्रव्यं ददौ होमे तेभ्यो देवेभ्य एव तु ॥३६॥सुब्रह्मण्याह्वानमेव विधाय विरतिस्ततः ।सायंकाले प्रवर्ग्योपसदौ चकार वै तथा ॥३७॥सुब्रह्मायाह्वानमेव चकार विरतिस्ततः ।एवं कर्म नवम्यां वै सोमस्य समजायत ॥३८॥ततः सर्वे भोजनानि चक्रुर्मिष्टान्नकानि हि ।रात्रौ श्रीलोमशश्चोपादिदेश मोक्षसाधनम् ॥३९॥उपासनाविद्विहीनस्य शिरश्छेदो भवेदतः ।उपासनीयो भगवान् श्रीपतिः परमेश्वरः ॥४०॥अन्येभ्यो वृत्तिमाहृत्य धारयेच्छ्रीहरौ यदा ।तदैकतानतानिष्ठा जायते परमेश्वरे ॥४१॥इन्द्रियाहारसंहारैर्मनआहारवर्जनम् ।अहंलयेन वै बुद्ध्याऽऽत्मनो ज्ञानं प्रजायते ॥४२॥ज्ञानेन यच्छेदात्मानं ततः शान्तिमवाप्नुयात् ।इंद्रियाणामनुद्रष्टा हान्तराणामपि स्थिरः ॥४३॥आत्मनश्चात्मना द्रष्टा दुर्गं तरति दुस्तरम् ।स्वभावेन यदि व्याघ्रः श्वा वा सूकर एव वा ॥४४॥सिंहो वा शरभो हस्ती मार्जारो वानरोऽपि वा ।जम्बूकः काक एवापि नागो वा वृश्चिकोऽपि वा ॥४५॥बको वा गर्दभो वापि स्वभावैरीदृशोऽपि यः ।पापो वा पुण्यकृद्वापि क्लिष्टो वा क्लेशमध्यमः ॥४६॥अक्लेशा वा व्यापृतो वा दरिद्रो वञ्चकोऽपि वा ।पूर्वावस्थानिकृष्टोऽपि सांख्यधर्ममुपाश्रितः ॥४७॥योगवान् साधुसंगी च कृष्णधर्मपरायणः ।तरत्येवाऽऽशयदुर्गं वासनाब्धिं महार्णवम् ॥४८॥यज्ञासनं ह्रीवरूथं धर्मवैराग्यकूबरम् ।प्राणयुगं विचाराक्षं प्रज्ञामार्गं कृतोदरम् ॥४९॥आचारनेमिं चेन्द्रियवाहनं ज्ञाननाभिकम् ।शमप्रतोदकं पुण्यसारथिं हर्यधिष्ठितम् ॥५ ०॥जीवरथं दीर्घमार्गे पारयेत् साधुवाहितम् ।स्थापयेदक्षरोद्याने रक्षयेदालये परे ॥५१॥ब्रह्मज्ञानप्रतिष्ठं च सर्वयज्ञपरायणम् ।अनन्तैश्वर्यसम्पन्नं भक्त्या रङ्गीकृतान्तरम् ॥५२॥भासते हृद्ये कृष्णः प्रकाशतेऽन्तरे बहिः ।एतादृशे परे भक्ते सर्वं वै निहितं जगत् ॥५३॥एवं माहात्म्यभावस्य सदृशं नास्ति किञ्चन ।पृथ्वीं जित्वा जलं तेजो वायुं जित्वा तथाऽम्बरम् ॥५४॥तन्मात्राणि ततो जित्वाऽहंबुद्धिं च जयेत्तु यः ।ईशभावं जयेच्चापि परमेशपदं व्रजेत् ॥५५॥पौरुषं कर्म दैवं च कालं ग्रहान् विजित्य च ।स्वभावं वासनां मायां जित्वाऽक्षरपदं व्रजेत् ॥५६॥तपोधर्मपराः प्रोक्ताः सत्ययुगिन एव ह ।यज्ञधर्मपराः प्रोक्तास्त्रेतायुगिन एव ह ॥५७॥दानधर्मपराः प्रोक्ता जना द्वापरयोगिनः ।धर्मोत्सादपराः प्रोक्तास्तिष्ययुगिन एव च ॥५८॥ब्रह्मधर्मपराः प्रोक्ता मोक्षयोगिन एव ते ।परब्रह्मपराश्चेत् स्युस्ते भवन्त्यक्षरस्थिताः ॥५९॥नाऽन्तरा विद्यातपसी नान्तरेन्द्रियनिग्रहम् ।नान्तरा सर्वसन्त्यागं मोक्षं विन्दति मानवः ॥६०॥स्रष्टा सर्वाणि तत्त्वानि सर्जनस्य क्षणे पुरा ।जीवात्मने प्रदत्तानि भोगस्वर्गविमुक्तये ॥६१॥भूमिदेशे जलं कुक्षौ तेजो मनसि नेत्रयोः ।प्राणे वायुश्चावकाशः कोष्ठलादौ निवेशिताः ॥६२॥तन्मात्राणि तु सर्वाणि गोलकेषु धृतानि वै ।विषया अपि सन्न्यस्ताश्चेन्द्रियार्थाश्च वस्तुषु ॥६३॥पादे विष्णुर्बले शुक्रो हस्ते चेन्द्रो निधापिताः ।कोष्ठे त्वग्निर्दिशः कर्णे जिह्वायां तु सरस्वती ॥६४॥चन्द्रो मनसि ब्रह्मा तु बुद्धौ चित्ते हरिस्तथा ।निहिताः सर्वदेवास्ते जीवेऽन्तर्यामी केशवः ॥६५॥इत्येते निहिताः सर्वेऽक्षरं तु ब्रह्मरन्ध्रके ।तेजस्तु हृदये श्रेष्ठं सुषुम्णायां निवेशितम् ॥६६॥सर्वं वै विद्यते त्वत्र मार्गयिताऽस्य दुर्लभः ।प्रमार्ग्यं परमं देवं ब्रह्मपथं समाधिना ॥६७॥भक्तिशकटीं चारुह्य यायाद्धामाऽक्षरं कृती ।स्वप्रदीपप्रकाशेन परात्मानं विलोकयेत् ॥६८॥एवं पश्येत् स वै प्रेत्य कल्पते ब्रह्मभूयसे ।परमेशो जंगमेषु ध्रुवेषु वसति प्रभुः ॥६९॥तमात्मानं परं दृष्ट्वा ब्रह्मपरं प्रपद्यते ।यावानात्मनिवेदात्मा तावान् परनिवेदवान् ॥७०॥सततं न्यासवान् कृष्णे सोऽमृतत्वाय कल्पते ।कालः पचति भूतानि कालो येन विपच्यते ॥७१॥तं परं पाकिनं लब्ध्वा पुनर्ग्रासो न जायते ।अक्षरं ब्रह्म भूत्वैव परब्रह्माऽभियाति च ॥७२॥स सूक्ष्मः स महास्थूलः सोऽन्तरे स बहिः प्रभुः ।अध्रुवेषु ध्रुवं तिष्ठन् बाह्यभासा न भाति सः ॥७३॥दृश्यते चान्तरभासा भास्वता चात्मनाऽर्थितः ।अनुग्रहवशः कृष्णो भक्त्या संभासतेऽन्तरे ॥७४॥दिव्याऽमृताऽक्षरपदे तिष्ठन्नपीह तिष्ठति ।तत्तुल्ये चात्मनि स्वाम्याश्रये कल्मषवर्जिते ॥७५॥उपशान्तश्च दान्तश्चाऽध्यात्मशीलपटश्च यः ।आत्मारामो बुद्धकृष्णो याति तत्परमं पदम् ॥७६॥कामं क्रोधं भयं लोभं मानं स्वप्नं च भावनाम् ।असंकल्पेन च शान्त्या चाऽप्रमादात् त्रयं जयेत् ॥७७॥औदार्येण विचारेण सत्त्वेन च त्रयं जयेत् ।धृत्या शिश्नोदरं चापि पाणिपादं च चक्षुषा ॥७८॥चक्षुःश्रोत्रे च मनसा मनोवाचं च कर्मणा ।कर्म सर्वार्पणेनापि जयेत् कृष्णनरायणे ॥७९॥ब्रह्मतेजोमयं सर्वं पश्येद् रसात्मकं हरिम् ।तेजस्तु वर्धते ध्यानाद् ध्यानं भक्त्या प्रवर्धते ॥८०॥भक्तिः संवर्धते स्नेहात् स्नेहो माहात्म्यबोधनात् ।बोधश्चापि सतां संगात् सन्तो हरेः कृपालवात् ॥८१॥कृपा च शरणे पातात् प्रातः प्रयोजनात्तथा ।प्रयोजनं सुखं जीवे यदर्थं च प्रवर्तते ॥८२॥ प्रवृत्तिश्चेच्छया चेच्छा ज्ञानाज्ज्ञानं तु शास्त्रजम् ।कथाश्रवणमाहात्म्याज्जायते दिव्यभावना ॥८३॥तस्माद् दिव्यां कथां प्राज्ञः शृणुयान्नित्यमेव तु ।येन चिन्तामणिर्लब्धः कथात्मा तस्य किं पुनः ॥८४॥एतैस्तु वर्धते तेजश्चैश्वर्यं परमार्थता ।सर्वंह्यर्थाश्च सिद्ध्यन्ति ब्रह्मतेजः प्रकाशते ॥८५॥तेजसा प्रकृतिं जित्वा प्रगच्छेद् ब्रह्म शाश्वतम् ।इन्द्रियाणि प्रछिद्राणि प्रज्ञास्रावकराणि वै ॥८६॥तानि रुन्ध्यान्मनो वृत्वा निजात्मनि परात्मनि ।प्रसीदत्यान्तरं तत्त्वं तेन ब्रह्म प्रकाशते ॥८७॥स्वयं ब्रह्मणि दिव्ये वै ब्रह्म निजात्मनि ध्रुवे ।परस्परं प्रपश्येतां मुक्ताविव प्रयोगिणौ ॥८८॥एवं रहः कृताभ्यासो गच्छेदक्षरसाम्यताम् ।सिद्धीरैश्वर्योपसर्गाननादृत्याऽक्षरं व्रजेत् ॥८९॥प्रातरुत्थाय तत्रैवाऽऽसने सञ्चिन्तयेद्धरिम् ।ब्रह्मयज्ञं ध्यानयज्ञं पूजायज्ञं विधाय च ॥९०॥द्रव्ययज्ञं चरेत् पश्चान्नियम्येत मनोजवम् ।नाभिष्वजेत्पार्श्ववर्तिपदार्थे मनसापि तु ॥९१॥नाभिध्यायेदवमानमाने हर्षप्रवेजने ।ध्यायेदात्मनि देवेशं परमेशं मखाश्रितम् ॥९२॥एवं ध्यानात्मनः साधोः समवृत्त्यभियोगिनः ।शीघ्रं ब्रह्मपरं नैजे गह्वरे भासतेऽमलम् ॥९३॥एतेन तु पथा नारी नपुंसकोऽपि वा जनः ।प्रसाद्य ब्रह्म परमं प्रगच्छेत् परमां गतिम् ॥९४॥मुक्तो भूत्वा प्रपश्येत मुक्तमनादिनं हरिम् ।ब्रह्म भूत्वा प्रपश्येत ब्रह्माऽक्षरं सुखालयम् ॥९५॥परब्रह्म प्रपश्येत ब्रह्मनेत्रेण मुक्तराट् ।कर्मणा बध्यते जन्तुर्हरावनार्पितेन ह ॥९६॥विद्यया मुच्यते जन्तुर्हरावर्पितया तया ।तस्मादुभौ हरेर्योगौ कर्तव्यौ यतिना त्विह ॥९७॥सर्वार्पणौ तु तौ दिव्यौ नयतो धाम चाश्रितम् ।यत्र गत्वा न मरणं न शोको न पुनर्भवः ॥९८॥तदांऽशं स्वं विजानीयादात्मानं परमात्मनः ।यज्ञं कर्म हवं भावं हरौ तस्मात् समर्पयेत् ॥९९॥इत्युक्त्वा राधिके श्रीमान् लोमशो विरराम ह ।परिहारः सभायाश्चाऽभवत् ततोऽदनानि च ॥१००॥अभवँस्तृप्तिदान्येव रात्रौ विश्रान्तिमावहन् ।रटन्तः श्रीहरेर्नाम ध्यायन्तश्च हरिं जनाः ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सोमयागे द्वितीयदिवसीय कृत्ये सुब्रह्मण्यौपसदप्रवर्ग्यादिकं हवनपरिहारश्चोपदेशो लोमशकृतश्चेत्यादिनिरूपणनामा पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४५॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP