संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १५९ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १५९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १५९ Translation - भाषांतर श्रीकृष्ण उवाच-ततो राधे हरेरुत्थापनं मन्त्रेण कीर्तितम् ।तत्सर्वं कर्मकाण्डं चाऽविचलां प्रतिमां तथा ॥१॥कथयामि हरिः प्राह देवायतनकाय यत् ।ओं उत्तिष्ठ ब्रह्मणस्पते देवयंतस्त्वेमहे ॥२॥उपप्प्रयन्तु मरुतः सुदानव इन्द्र प्राशुर्भवा सचा ।इतिमन्त्रेण चोत्थाप्य रथे समुपवेशयेत् ॥३॥ओं रथे तिष्ठन्नयति वाजिनः पुरो यत्र यत्र कामयते सुषारथिः ।अभीशूनां महिमानं पनायत मनःपश्चादनुयच्छन्ति रश्मयः ॥४॥इति रथे तु देवस्य पुरोभागे गुरुः स्वयम् ।पृष्ठभागे यजमानो निषीदेत् सकुटुम्बकः ॥५॥पार्श्वपयोमूर्तिपाः रक्षार्थं च मंगलनिःस्वनैः ।तूर्यघोषैश्च सौधस्य ग्रामस्य नगरस्य च ॥६॥प्रदक्षिणं विधायैवाऽऽनीय प्रासादकं रथात् ।अवतार्य मन्दिरद्वाराभिमुखं विधाय च ॥७॥अर्ध्यं दत्वा ततः प्रासादके देवं निवेशयेत् ।यजमानो गुरुर्देवं पिण्डिकायां निधापयेत् ॥८॥सुमहुर्ते सुलग्ने च शुभग्रहैः समीक्षिते ।ईश्वरेशं भावयँश्च पद्मं श्वभ्रे निधाय च ॥९॥यावद्धरणीवासश्च तावत्त्वं सुस्थिरो भव ।इत्युक्त्वा शक्तिसहिते देवं दृढं सुलग्नयेत् ॥१०॥विष्णोर्वामे महालक्ष्मीं स्थापयेन्न चलेद्यथा ।विश्वतश्चेतिमन्त्रेण हस्तं देवस्य मूर्धनि ॥११॥कृत्वा ध्यात्वा ततः प्राणप्रतिष्ठां सुचरेन्मखी!प्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुशिवर्षयः ॥१२॥ऋग्यजुःसामछन्दांसि क्रियाप्राणस्तु देवता ।आं बीजं क्रौं तथा शक्तिः प्रतिष्ठायां नियोजनम् ॥१३॥ब्रह्मादिभ्यो नमो मूर्ध्नि ऋगादिभ्यो नमो मुखे ।प्राणाय च नमो हृत्सु आं बीजाय गुप्ते नमः ॥१४॥क्रौं शक्त्यै तु नमः पादयोश्च देहे नमो नमः ।ततः सबीजान् न्यासाँश्च प्राणागमार्थमाचरेत् ॥१५॥ओं कंखंगंघंङं आं पृथिव्यप्तेजोवाय्वा-काशात्मने ओं हृदयाय नमः ।ओं चंछंजंझंञं इं शब्दस्पर्शरूपरसगन्धात्मनेईं शिरसि स्वाहा ॥१६॥ओं टंठंडंढंणं ओं श्रोत्रत्वक्चक्षूरसनाघ्राणात्मनेअं शिखायै वषट् ।औं तंथंदंधंनं एं वाक्पाणिपादपायूप-स्थात्मने ऐं कवचाय हुम् ॥१७॥ओं पंफंबंभंमं ओं वचनादानविहरणो-त्सर्गानन्दात्मने ओं नेत्रत्रयाय वौषट् ।ओं यंरंलंवंशंषंसंहंलंक्षं अं मनोबुद्ध्य-हंकारचित्तात्मने अः अस्त्राय फट् ॥१८॥अथ देवं स्पृष्ट्वा-ओंआंह्रींक्रौंयंरंलंवंशंषंसंहंसः देवस्य प्राण इह प्राणाः ।ओंआंह्रींक्रौंयंरंलवंशंषंसंहंसः देवस्य जीव इह स्थितः ॥१९॥ओंआंह्रींक्रौंयंरंलंवंशंषंसंहंसः देवस्य सर्वेन्द्रियाणीह ।ओंआंह्रींक्रौंयंरंलंवंशंषंसंहंसः देवस्य वाङ्मनश्चक्षुः-श्रोत्रघ्राणप्राणाः इह तिष्ठन्तु स्वाहा ॥२०॥अथाऽर्चाहृदि अंगुष्ठं दत्वा जपेत्-अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाश्चरन्तु च ।अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥२१॥प्रणवेन सन्निरुद्ध्य ध्यात्वा सजीवमेव च ।ध्रुवा द्यौश्च गृणन् कर्णे जप्त्वा गायत्रिकां मनुम् ॥२२॥पुरुषसूक्तेनोपस्थाय च नत्वा ततः परम् ।पादौ नाभिं शिरः स्पृष्ट्वा इहैवैधीति त्रिर्जपेत् ॥२३॥स्वागतं ते हरेकृष्ण स्थिरो भव शिवाय नः ।यावद्वै मेदिनी चास्ते तावत्स्थेय कृपालुना ॥२४॥सर्वतेजोऽन्वितं शंखचक्रगदासमन्वितम् ।चक्रिणं स्थापयाम्यत्र देवो भूत्वा परेश्वरम् ॥२५॥पौरुषं सूक्तकं नाम मन्त्रान् जपेद् यथायथम् ।येन रूपेण भगवन् व्याप्तं सर्वं चराचरम् ॥२६॥तेन विशिष्टरूपेण अर्चायां निहितो भव ।इत्युक्त्वा तत्परिवारदेवताः स्थापयेत् ततः ॥२७॥पूर्वकुण्डे हृन्मन्त्रेण शिरोमन्त्रेण दक्षिणे ।शिखामन्त्रेण पश्चे तु वर्ममन्त्रेण चोत्तरे ॥२८॥नेत्रमन्त्रैर्गुरोः कुण्डे जुहुयादेकविंशतिम् ।पूर्वकुण्डेऽस्त्रमन्त्रेण हुत्वा चायुधमन्त्रकैः ॥२९॥हुत्वा च प्रार्थयेल्लोकरक्षार्थं सर्वदा वस ।माभूत् प्रजाविरामोऽस्मिन् यजमानः समृध्यतु ॥३०॥राष्ट्रं सतां समृद्धं स्तात् अश्नातु सुखमक्षय्यम् ।इति प्रार्थ्यांगदेवाश्च स्थापयेत्तत्तदालये ॥३१॥अर्घ्यं पाद्यं चाचमनं दद्यादासनकं नमः ।स्वाहा सम्पूज्य च पञ्चामृतेन वारिणा ततः ॥३२॥संस्नाप्य प्रजपेत् सूक्तं पौरुषं प्रार्थयेत् तथा ।पादौ नाभिं शिरो वक्षः स्पृशेच्च मोक्षदो भव ॥३३॥ज्ञानतोऽज्ञानतो न्यूनविधिः पूर्णोऽस्तु ते प्रभो ।प्रसादेन हरेकृष्णाऽनादिकृष्णनरायण ॥३४॥दद्याद् देवनाम नीराजयेद् वाद्यैः स्तुतिं चरेत् ।नैमत्तिकाऽघनाशार्थं प्रायश्चित्तहवं चरेत् ॥३५॥शमीपलाशतिलाद्यैरष्टोत्तरशतात्मकम् ।आचार्याय दक्षिणां च धनगोरत्नभूगृहान् ॥३६॥पुनर्होमं प्रकुर्याच्च निषिद्धागमशान्तये ।ओं स्थैर्याय स्थिरो भव स्वाहा क्लृप्तो भवात्र च ॥३७॥अप्रमेयो विबोधश्च नित्यः सर्वगतो भव ।सर्वशान्त्यर्थमेवात्र होमं चाष्टोत्तरं शतम् ॥३८॥ओं प्रजापतये स्वाहा इदं प्रजापतये नमम ।ओं अग्नये स्विष्टकृते स्वाहेदमग्नये स्विष्टकृते नमम ॥३९॥हुत्वा संस्रवप्राशनमाचामं पात्रदानकम् ।पूर्णं प्रजापतिदैवं विप्राय ते ददामि वै ॥४०॥ब्रह्मग्रन्थिविमोकं च कुर्यात् सुमित्रिमन्त्रतः ।ओं सुमित्रियान आप ओषधयः सन्त्विति ॥४१॥पवित्राभ्यां प्रणीतेन जलेन यजमानकम् ।शिरः संमृज्य चाग्नौ प्रक्षिप्य पवित्रके ततः ॥४२॥दुर्मित्रीति गृणन् न्युब्जीकुर्यात् प्रणीतिकां खलु ।ईशान्याम् बहिरुत्थाप्याज्येनाऽऽघार्य च वै ततः ॥४३॥हस्तेनैव च जुहुयान्मन्त्रं गृणन् पुनः पुनः ।ओं देवागातु विदो गातुं वित्वागातुमित ॥४४॥मनसस्पत इमं देवयक्षं स्वाहा वातेधाः स्वाहा ।ततो देशं समयं चोच्चार्य ऋत्विज एव च ॥४५॥स्वस्वकुण्डे प्रकुर्युश्च होमं पूर्णाहुतिप्रखम् ।यजमानः सपत्नीको दक्षस्कन्धं स्पृशन् गुरोः ॥४६॥ताम्बूलफलपूगीफलाक्षतघृतकानि च ।श्रीफलं च स्रुवे कृत्वा जुहुयान्मन्त्रकैः सह ॥४७॥ओं समुद्रादूर्मिर्मधुमाँ२उदारदुपांशुना सममृतत्वमानट् ।घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ॥४८॥वयन्नाम प्रब्रवामा घृतस्यास्मिन् यज्ञे धारया मा नमोभिः ।उप ब्रह्मा शृणवच्छस्यमानं चतुःशृंगो वमीद् गौर एतत् ॥४९॥त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविंदन्।इन्द्रः एकः सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः ॥५०॥एता अर्षन्ति हृद्यात् समुद्राच्छतवज्रारिपुणा नावचक्षे ।घृतस्य धारा अभि चाकशीमिहिरण्ययो वेतसो मध्य आसाम् ॥५१॥सम्यक् स्रवन्ति सरितो न धेनाअन्तर्हृदा मनसा पूयमानाः ।एते अर्षन्त्यूर्मयो घृतस्य मृगा इव क्षिपणो रीषमाणाः ॥५२॥सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः ।घृतस्य धारा अरुषो न वाजीकाष्ठा भिन्दन्नूर्मिभिः पिन्वमानाः ॥५३॥अभिप्रवंतसमनेवयोषाः कल्याण्यःस्मयमाना सो अग्निम् ।घृतस्य धाराः समिधो न संतता जुषाणोहर्य्यति जातवेदाः ॥५४॥कन्या इव वहतु मे तवा उ अंज्यंजाना अभिचाकशीमि ।यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभितत्पवन्ते ॥५५॥अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त ।इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ते ॥५६॥ओं चितिं जुहोमि मनसा घृतेन यथादेवा इहागमन्वीनहोत्रा ऋतावृधः ।पत्ये विश्वस्य भूमनो जुहोमिविश्वकर्मणे विश्वाहादाभ्यः हविः ॥५७॥सप्त ते अग्ने समिधः सप्तजिह्वाःसप्तऋषयः सप्तधामप्रियाणि ।सप्तहोत्राः सप्तधात्वा यजन्तिसप्तयोनीरापृणस्वाघृतेन स्वाहा ॥५८॥पुनस्त्वादित्या रुद्रा वसवः समिन्धतां पुनर्ब्रह्माणो वसुनीथ यज्ञैः ।घृतेन त्वं तन्वन्वर्धयस्व सत्याः सन्तु यजमानस्य कामाः ॥५९॥वसोः पवित्रमसि शतधारंवसोः पवित्रमसि सहस्रधारम् ।देवस्त्वा सविता पुनातु वसोः पवित्रेणशतधारेण सुप्वा कामधुक्षः ॥६०॥पूर्णा दर्व्वि परापत सुपूर्णा पुनरापत ।वस्नेव व्विक्रीणावहा इषमूर्ज्जं शतक्रतो स्वाहा ॥६१॥इदमग्नये वैश्वानराय वसुरुद्रादित्येभ्यःशतक्रतवे अद्भ्यश्च नमम ।इदं त्रिदेवेभ्य ईशेभ्योऽवतारेभ्यःशक्तिभ्यः परब्रह्मणे स्वाहा नमम ॥६२॥इति पूर्णाहुतिं कुर्यात् स्रुवस्थं च समर्पयेत् ।ततस्त्र्यायुषकरणं न्यासेन विदधीत च ॥६३॥त्र्यायुषं जमदग्नेस्तु ललाटे ओं नमो नमः ।कश्यपस्य त्र्यायुषं च ग्रीवायां ओं नमो नमः ॥६४॥यद्देवेषु त्र्यायुषं च बाहुमूले नमो नमः ।तन्नोऽस्तु त्र्यायुषमिति हृदि कृष्णाय ते नमः ॥६५॥एवं पूर्णाहुतिं हुत्वेशाने बलिं समर्पयेत् ।शान्तिघटोदकं चाभिसिञ्चेत्तु यजमानके ॥६६॥सकुटुम्बे वेदमन्त्रैः कुशदूर्वाऽऽम्रपल्लवैः ।ओं आपो हिष्ठा मयो भुवस्ता न ऊर्जे दधातन ॥६७॥महे रणाय चक्षसे यजमानस्य शान्तये ।यो वः शिवतमो रसः तस्य भाजयतेह नः ॥६८॥उशतीरिव मातरः यजमानस्य ऋद्धये ।तस्मा अरंगमाम वो यस्य क्षयाय जिन्वथ ॥६९॥आपो जनयथा च नः यजमानस्य तृप्तये ।आरोग्याय रसघनाय महायुष्याय सन्तु नः ॥७०॥भगप्रणेतर्भग सत्यराधो भगेमान्धियमुदवाददन्नः ।भगप्रनो जनय गोभिरश्वैर्भगप्रनुभिर्नृवन्तः स्यामः ॥७१॥इदमापः प्रवहतावद्यञ्चमलं च यत् ।यच्चाभिद्रुहोहाऽनृतं यच्च शेपे अभीरुणम् ॥७२॥आपो मा तस्मादेनसः पवमानश्च मुञ्चतु ।ओं पुनन्तु मां देवजनाः पुनन्तु मनसा धियः ॥७३॥पुनन्तु विश्वा भूतानि जातवेदः पुनीहि माम् ।आप्यायस्व समेतु मे विश्वतः सोम वृष्ण्यम् ॥७४॥भवा वाजस्य सङ्गथे यजमानाय वै भव ।महर्द्धये प्रपौत्रादिवृद्धयेऽनुग्रहं वह ॥७५॥ओं पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरीक्षे पयोधाः ।पयस्वतीः प्रदिशः सन्तु मह्यम् पायसन्नो गृहेष्वस्त्वरण्यम् ॥७६॥ओं देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ।सरस्वत्यै वाचो यं तुर्य्यं त्रियेदधामिबृहस्पतेष्ट्वा साम्राज्येनाभिषिंचामि ॥७७॥ओं देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ।सरस्वत्यै वाचो यं तुर्य्यंत्रेणाऽग्ने साम्राज्येनाभिञ्चामि ॥७८॥ओं देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्।अश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामि ॥७९॥सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभिषिञ्चामि ।इन्द्रस्येन्द्रियेण बलाय श्रियै यशसेऽभिषिञ्चामि ॥८०॥पालाशं भवति तेन ब्रह्मणोऽभ्यभिषिञ्चति ।ब्रह्म वै पालाशो ब्रह्मणैवेनमेतदभिषिञ्चति ॥८१॥सर्वेषां वा एष वेनां रसो यत्सामसर्वेषामेवैनमेतद्वेदानां रसेनाऽभिषिञ्चति ।यं देवकल्पाञ्जुहोति प्राणा वै कल्पाअमृतमुपवै प्राणा अमृतेनैवैनमेतदभिषिञ्चति ॥८२॥दीर्घायुत्वाय बलाय वर्चसे सुप्रजास्त्वासहसा अथो जीव शरदः शतम् ।द्यौः शान्तिरन्तरीक्षं शान्तिः पृथिवीशान्तिरापः शान्तिरोषधयः शान्तिः ॥८३॥वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः ।सर्वं शान्तिः शान्तिरेव शान्तिःसा मा शान्तिरेधि परब्रह्म शान्तिः प्रतिमाःशान्तिर्ब्रह्मप्रियाः शान्तिरेव शान्तिः ॥८४॥परब्रह्माऽक्षरंब्रह्म गोलोकः कृष्णराधिके ।लक्ष्मीर्नारायणश्चैषशसृष्टिर्देवादयस्तथा ॥८५॥जीवसृष्टिः शक्तयश्च देव्यः सत्यश्च साधवः ।एते त्वामभिषिञ्चन्तु स्वस्तिं शान्तिं ददत्वपि ॥८६॥यजमानस्तत आचार्याय दद्याद्धि दक्षिणाम् ।ग्रामं गोमण्डलं भूमिं गजाश्वादिकवाहनम् ॥८७॥दासान् दासीर्वितानादि यानाम्बरविभूषणम् ।स्वर्णरूप्यादिकं ददामि ते यज्ञान्तदक्षिणाः ॥८८॥गोपुच्छे यवतुलसीतिलकुशयुग्जलेन वै ।प्रार्थयेच्च क्रतो विप्र शाश्वतस्वर्गदो भवान् ॥८९॥अद्य मे सफलं द्रव्यं जन्माद्यं सम्पदादिकम् ।यथाशक्ति प्रदत्तं च प्रसन्नो भव पुण्यद ॥९०॥ज्ञानतोऽज्ञानतो वापि यद्यन्न्यूनं कृतं मया ।तत्सर्वं पूर्णमेवाऽस्तु त्वत्प्रसादात् क्षमस्व मे ॥९१॥आचार्यश्च वदेद्भक्तं पुरुषोत्तमवाञ्च्छया ।न्यूनं सम्पूर्णतां यातं सर्वं पूर्णफलप्रदम् ॥९२॥द्रव्यहीनं क्रियाहीनं विधिहीनं प्रमादजम् ।तत्सर्वं पूर्णमेवाऽस्तु प्रसादाच्छ्रीहरेस्तु ते ॥९३॥ओं स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥९४॥ओं श्रीः वर्चस्वमायुष्यमारोग्यमा-विधात् शोभमानं महीयते ।धान्यं धनं पशुं बहुपुत्रलाभंशतसम्वत्सरं दीर्घमायुः ॥९५॥पुनस्त्वादित्या रुद्रा वसवः समिन्धतांपुनर्ब्रह्माणो वसुनीथ यज्ञैः ।घृतेन त्वं तन्वं वर्धयस्व सत्याःसन्तु यजमानस्य कामाः ॥९६॥मन्त्रार्थाः सफलाः सन्तु पूर्णाः सन्तु मनोरथाः ।शत्रूणां बुद्धिनाशोऽस्तु मित्राणामुदयस्तव ॥९७॥देवान् क्षमापयेच्चापि प्रसन्नाः सन्तु सर्वदा ।अग्निं सम्पूज्य च विसर्जयेत्क्षमावचोऽर्पितम् ॥९८॥गच्छध्वं भगवन्नग्रे स्वस्थाने कुण्डमध्यतः ।हुतमादाय देवेभ्यः शीघ्रं देहि प्रसीद मे ॥९९॥गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर ।यत्र ब्रह्मादयो देवास्तत्र याहि हुताशन ॥१००॥यान्तु देवगणाः सर्वे पूजामादाय मामकीम् ।इष्टकामसमृद्ध्यर्थं पुनरागमनाय च ॥१०१॥अक्षतान् प्रक्षिपेत्सर्वस्थापनेषु सुमाञ्जलिम् ।प्रतिष्ठोत्सव एवाऽयं श्रद्धाद्रव्याद्यपूर्णकः ॥१०२॥विप्रविष्णुप्रसादाच्च विधिः पूर्णतमोऽस्तु मे ।ब्राह्मणास्ते सर्वयज्ञो विधिपूर्णोऽस्तु सर्वथा ॥१०३॥अच्छिद्रश्च वदेयुश्च गृह्णीयुर्भूयसीं ततः ।भोजनं चापि गृह्णीयुर्वदेयुश्च पुनस्ततः ॥१०४॥यस्य स्मृत्वा च नामोक्त्या तपःपूजाक्रियादिषु ।न्यूनं सम्पूर्णतां याति सद्यो वन्दे हरिं प्रभुम् ॥१०५॥प्रमादात्कुर्वतां कर्म प्रच्यवेताऽध्वरेषु यत् ।श्रीहरेः स्मरणात्तद्वै सम्पूर्णं स्यात्तथाऽस्तु च ॥१०६॥चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।हूयते च पुनर्द्वाभ्यां तस्मै यज्ञात्मने नमः ॥१०७॥महाभोज्यं कारयित्वा महादानानि चाऽऽर्प्य च ।महोत्सवं परं कृत्वा यजमानस्तु भोजनम् ॥१०८॥कुर्यात् सर्वान् भोजयित्वा उपदाश्चार्पयेत् ततः ।अवभृथं प्रकुर्याच्च सरित्यब्धौ सरोवरे ॥१०९॥सर्वे देवाः समायान्ति तीर्थान्यवभृथे तदा ।सर्वदुरीतनाशार्थं कार्यं यथा चावभृथं ततः ॥११०॥इत्येवं राधिके प्रोक्तः प्रतिष्ठाविधिरेष ते ।उक्तो यथा भगवता दैवायतनकाय यः ॥१११॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने देवस्य पिण्डिकायां सिंहासने स्थापनं, प्राणप्रतिष्ठान्यासाः, जीवावाहनम्, आरार्त्रिकम्, होमः, पूर्णाहुतिहवनम्आशीर्वादशान्तिस्वस्तिवाचः देवानां विदायः, पूर्णतावाचोऽवभृथंचेतिनिरूपनामा नवपञ्चाशदधिकशततमोऽध्यायः ॥१५९॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP