संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १६१ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १६१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १६१ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके दिव्यभक्तः स देवायतनको मुनिः ।श्रुत्वाऽऽश्चर्यभृतः कृष्णं नारायणं पुपूज ह ॥१॥आरार्त्रिकं परं कृत्वा प्रेममग्नोऽतिसिद्धिमान् ।अनादिश्रीकृष्णनारायणेच्छया तदा स्वयम् ॥२॥दिव्यप्रासादरूपोऽभूत् सहस्रकलशान्वितः ।सर्वलक्षणसम्पन्नः सर्वांगपरिपूरितः ॥३॥सर्वोपस्थापनयुक्तः सेवायां मूर्तिमानपि ।व्यतिरिकेणापि चास्ते मुक्तरूपधरोऽपि सन् ॥४॥प्रासादः सोऽभवत् ख्यातो देवाद्यैश्च प्रपूजितः ।इन्द्रो विलोक्य तत्तुल्यं कारयितुं मनोऽकरोत् ॥५॥विश्वकर्माणमाहूय दर्शयामास तत्कृतिम् ।आज्ञां ददौ ततोऽमरावत्यां कर्तुं सुमन्दिरम् ॥६॥विश्वकर्मा समभ्यस्य कुंकुमाऽक्षरभूस्थले ।ततः स्वर्गं ययौ शृंगं सहस्रकलशं व्यधात् ॥७॥अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।पत्नीषट्कसहितं स्थापयामास महोत्सवैः ॥८॥अथ प्रवृत्ताः प्रासादाः सर्वलोकेषु वै ततः ।सर्वत्राऽऽध्यात्मिको देवायनो देवोऽस्ति तेषु वै ॥९॥एवं दिव्यं मन्दिरं तु द्रष्टुमायान्ति मानवाः ।सुराः पातालसंस्थाश्च सत्यलोकनिवासिनः ॥१०॥कुंकुमवापिकाक्षेत्रं दृष्ट्वा मन्दिरशोभितम् ।प्रमोदन्ते नरा नार्यो विश्राम्यन्ति बृहत्सुखे ॥११॥दर्शनीयं मन्दिरं तु श्रुत्वा कपर्दिसंघतः ।आसमुद्रात् समायान्ति जना द्रष्टुं समुत्सुकाः ॥१२॥धनमेदो धीवरोऽपि प्रतीचिवार्धितीरगः ।श्रुत्वा कुटुम्बसहितो द्रष्टुं गृहाद् विनिर्ययौ ॥१३॥वस्त्रापथं शुभं दृष्ट्वा तुरीदेवीं ययौ पथि ।वृक्षच्छायाघटामध्ये स्थितां मूर्तिमयीं शुभाम् ॥१४॥जीवन्तिकानदीतीरे प्रासादे संस्थितां सतीम् ।आम्राणां वनमध्यस्थां काष्ठहारादिसेविताम् ॥१५॥आश्रयदां वनिनां तां शान्तिदां वनवासिनीम् ।विलोक्य गजपृष्ठस्थां चतुर्भुजां हरिप्रियाम् ॥१६॥लक्ष्म्यंशरूपां सत्त्वाढ्यां फलपुष्पादिपूजिताम् ।नेमे गत्वाऽन्तिके तस्थौ धनमेदोऽतिभावतः ॥१७॥सस्नौ नद्या ह्रदे चाम्रवृक्षस्याऽधो भुवस्तले ।सामग्रीर्यात्रिकीः सर्वा निधाय च ततः परम् ॥१८॥समादाय जलं शीतं पुष्पाणि चाम्पकानि च ।अमृतस्य फलान्युत्तमानि पक्वानि तौलसीम् ॥१९॥ययौ लक्ष्मीं तुरीनाम्नीमर्चयितुं हि मन्दिरे ।कुटुम्बेन तु तद्देव्याः सन्निधौ प्रणनाम सः ॥२०॥स्तुतिं चकार विधिना वन्यरक्षणकारिणीम् ।पुपूज परया प्रीत्या फलपुष्पजलादिभिः ॥२१॥अहो मातश्च हे मातर्महालक्ष्मि महासति ।वने दत्तं मया नीतं गृहणाऽऽद्यं नमोस्तु ते ॥२२॥प्रसन्ना भव यात्रार्थं प्रज्वालय च कल्मषम् ।धीवराणां पावनी त्वं समुद्धर हरिप्रिये ॥२३॥न जानाम्यर्चनं जात्या निकृष्टोऽशुद्ध एव यत् ।हृदयं तेऽर्पितं शुद्धं मत्वा गृहाण चामृतम् ॥२४॥बुद्धिं देहि तथा भक्तिं मुक्तिं देहि मदर्हिकाम् ।परिवारसहितस्य मह्यं श्रेयः प्रदेहि च ॥२५॥इत्युक्त्वा च मुहुर्नत्वा मार्जयामास मन्दिरम् ।शुष्कपत्राणि निष्कास्य धूल्यादि चापहृत्य च ॥२६॥जलेन क्षालयामास मन्दिरं तुरिकां तथा ।स्नपयामास सलिलैः प्रदक्षिणां चकार सः ॥२७॥पत्रपुष्पाणि चादाय नूतनानि बहून्यपि ।तोरणं मालिकां चापि क्लृप्त्वा ददौ समर्हणे ॥२८॥रात्रिमुवास तत्रैवाश्रयं प्रवीक्ष्य शान्तिदम् ।फलादिवन्यभोज्यं च दृष्ट्वोवास दिनान्तरे ॥२९॥तृतीयेऽपि दिने तस्थौ विश्रान्तिमाप भूयसीम् ।नित्यं स्वगृहवत् सर्वं देवीकार्यं सुपूजनम् ॥३०॥संशोधनं सेवनादि करोति भावतो वने ।रात्रौ कुर्वन्ति भजनं कुटुम्बिनो हि कण्ठतः ॥३१॥वह्निं प्रकाशयित्वैव तापं शैत्यनिवृत्तये ।गृह्णन्त्यपि च तद्देव्या आगारे मिलिताश्च ते ॥३२॥इत्येवं राधिके रात्रिं विनिर्याप्य दिनान्तरे ।पुष्पाणि विविधान्येव समादायाऽम्बराणि च ॥३३॥पुष्पाणामेव संसाध्य लक्ष्म्यै समर्पयन्ति ते ।मुकुटं कर्णफुल्लानि चावतंसान् सुकञ्चुकीम् ॥३४॥शाटीं च घर्घरीं मालां गुच्छं च रशनां तथा ।पादुके झुल्लरीं चेति कृत्वा समर्पयन्ति ते ॥३५॥सुगन्धि मधु मिष्टं चानीय वृक्षसुसंस्थितम् ।समर्पयन्ति देव्यै च भोजनं सुरसान् बहून् ॥३६॥चन्दनस्य शुभं काष्ठं समाहृत्य वनान्तरात् ।धूपं कुर्वन्ति गन्धाढ्यं सेवन्ते स्मेति भावतः ॥३७॥भजनं श्रीहरे कृष्ण लक्ष्मि मातर्नमोऽस्तु ते ।एवं कुर्वन्ति सततं वनमध्ये तुरीगृहे ॥३८॥तुर्यावस्थात्मिका लक्ष्मीरदृश्याऽपि तदर्हणाम् ।समग्रहीत् प्रसन्नाऽभूत् स्वभावसेवया सती ॥३९॥मूर्तौ स्थिताऽपि जग्राहाऽमृतं मधु फलानि च ।पपौ तु सलिलं शीतं दधार मालिकाश्च ताः ॥४०॥पौष्पाम्बराणि जगृहे धूपं जग्राह भावतः ।वने सेवां भक्तकृतां सर्वां जग्राह मूर्तिगा ॥४१॥एवं कुटुम्बसहितो धनमेदोऽपि धीवरः ।योगक्षेमौ वने लेभे तीर्थयात्राप्रसंगतः ॥४२॥निर्मलान्तःकरणः स पञ्चदशदिनानि वै ।उवास मन्दिरे तत्र वने तुर्यान्तिके मुदा ॥४३॥नित्यपूजादिसम्पत्त्या पुण्यं चावाप भूरि च ।पावित्र्यं प्राप बहुधा लक्ष्मीदेवीप्रसादतः ॥४४॥पौषशुक्लस्य पूर्णायां रात्रौ चन्द्रे शिरोगते ।कीर्तनं प्रचकाराऽसौ मृदंगेन कुटुम्बिभिः ॥४५॥शीतकान्तिसुधावल्ये वनवृक्षादिशोभिते ।निर्मले रजनीभागे शान्ते राजसभावने ॥४६॥गीतिं चकार पत्न्या च पुत्रीभिः पुत्रकैः सह ।प्रत्यक्षं मधुरं श्रुत्वा साक्षात् तुरी बभूव ह ॥४७॥रूपरूपानुशोभाढ्यावयवांऽगातिसुन्दरी ।प्रसन्नवदना हस्ते कमलं बिभ्रती सती ॥४८॥मणिस्वर्णविभूषाढ्या दिव्याम्बरादिधारिणी ।कोटिशारदपूर्णेन्दुकान्त्यतिकान्तिभासुरा ॥४९॥श्वेतगजस्य पृष्ठे सा निषण्णा च मनोहरा ।वरदानं गृहाणाऽत्र प्रसन्नाऽस्मीत्युवाच तम् ॥५०॥भक्त त्वया वने मेऽत्र मन्दिरे वसतिः कृता ।सेवा बहुप्रकारेण कृता नैजगृहादिवत् ॥५१॥वरं वरय भद्रं ते यथेष्टं वद चार्पये ।एकवारं गृहस्यापि मार्जनेन ममात्र च ॥५२॥दारिद्र्यं नाशमायाति स्वर्गं दिव्यमवाप्नुयात् ।एकवारं प्रदीपेन ममालये तु वै चिरम् ॥५३॥फलं सूर्यस्य लोकाप्तिः सहस्रयुगजा भवेत् ।एकवारं तुलस्याश्चार्पणेन मम मस्तके ॥५४॥चक्रवर्तित्वमेवाऽस्मै ददामि सम्पदश्चिरम् ।पुष्पहाराद्यर्पणेन ददामि स्वर्णभूषणम् ॥५५॥एकवारं फलानामर्पणेन प्रददामि वै ।शाश्वतं चामृतं स्वर्गमैन्द्रं पदं समुज्ज्वलम् ॥५६॥एकवारं जलदानाद् ददामि वारुणं पदम् ।आत्मार्पणेन सर्वस्वं ददामि धाम शाश्वतम् ॥५७॥पतिर्मे भगवान् साक्षादनादिः श्रीनरायणः ।तत्स्मृद्धिं प्रददाम्यस्मै मद्भक्ताय महात्मने ॥५८॥मय्यर्पितं प्रगृह्णामि समर्प्य पतये ततः ।तत्प्रसादं सदा चाऽद्मि तस्य सेवापरायणा ॥५९॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।स्मृद्धः प्रसन्नो भगवान् जायते मम सेवया ॥६०॥अहं प्रिया यथा तस्य यथा च माणिकी प्रिया ।तथा प्रियोऽपि मे भक्तस्तस्मै ददात्यलं पतिः ॥६१॥धनमेद पवित्रोऽसि प्रसन्नाऽहं यतस्त्वयि ।वृणु यत्ते मानसेऽस्ति ददामि पतिवाञ्च्छया ॥६२॥इत्युक्तो धनमेदः स राधिके क्षणमान्तरे ।आश्चर्यं परमं प्राप्य सुखं प्राप्य मुदं पराम् ॥६३॥दास्यं कुटुम्बयुक्तस्य वरयामास मातरि ।न सम्पदं न च राज्यं नैश्वर्यं समियेष सः ॥६४॥धन्योऽसि धनमेद! त्वं दास्ये सर्वं प्रवर्तते ।दास्यं तु दुर्लभं लोके निश्छद्मं स्वामिनः कृते ॥६५॥अभिलषन्ति दास्यं वै भृत्याः संसारकोटिषु ।स्वार्थदासा ह्यसंख्याता वर्तन्ते भुवनत्रये ॥६६॥हार्ददासा दुर्लभा वै हार्ददासोऽत्र मे भव ।हार्ददास्ये वसन्त्येव सिद्ध्यैश्वर्याणि सर्वदा ॥६७॥छद्मदास्ये क्लेशभूता वर्तन्ते रक्तहारिणः ।तस्मात् कर्तव्यमेवात्र दास्यं हृदयरंजितम् ॥६८॥यथा दासी भवाम्यत्र नारायणस्य पद्मजा ।यथा दासी भवत्यत्र शिवस्य पार्वती सती ॥६९॥सूर्यदासी प्रभा चास्ते दासी पद्मावती हरेः ।यथा च माणिकी दासी राधा दासी हरेर्जया ॥७०॥यथा च मंजुला हंसा दासी च सुगुणा हरेः ।ललिता चाऽक्षरब्रह्म गरुडो दास इत्यपि ॥७१॥तथा दास्यं कुरु देवे यथा च हनुमान् कपिः ।यथा हेमन्तको दासो वसन्तो दास इत्यपि ॥७२॥कल्पे कल्पे भवन्त्येव दासा ह्येते हरेस्तथा ।लभ दास्यं मयि मे च पत्यौ श्रीपुरुषोत्तमे ॥७३॥अनादिश्रीकृष्णनारायणः श्रीकंभरासुतः ।मानवेन तु रूपेण वर्तते यत्र गच्छसि ॥७४॥कुंकुमवापिकाक्षेत्रे लोमशाश्रमसन्निधौ ।देवायतनसौधे श्रीकान्तस्तत्र विराजते ॥७५॥मादृश्यः कमलास्तत्र राजन्ते कोटिशोऽपि च ।सर्ववीर्यधरस्याऽस्य सेवयाऽऽनन्दसंभृताः ॥७६॥याहि भक्त शुभं क्षेत्रं कुंकुमवापिकाभिधम् ।कान्तं सेवय सर्वं ते दास्यं फलर्द्धिमद्भवेत् ॥७७॥गृहाण वनपुष्पाणि फलानि विविधानि च ।अर्पय पतये तत्र नमस्काराँश्च मे वद ॥७८॥अहं पश्चिमभागेऽत्र क्षेत्रसीम्नि तदाज्ञया ।तुरीरूपेण तिष्ठामि क्षेत्रपा कमला स्वयम् ॥७९॥अदृश्येन स्वरूपेण कृष्णं सेवे हि नित्यदा ।याहि शीघ्रं मानसेष्टं तव तत्र भविष्यति ॥८०॥इत्युक्त्वा सा तुरीलक्ष्मीर्मूर्तौ विलीनतां गता ।धनमेदो हर्षमत्तो माघमासे तु कृष्णके ॥८१॥पक्षे कुंकुमवाप्यां सकुटुम्बश्च मुदा ययौ ।वीक्ष्य वीक्ष्य मुदं प्राप ह्युद्यानानि वनानि च ॥८२॥लोमशस्याश्रमं वीक्ष्य वीक्ष्याकाशगतालयम् ।ब्रह्मप्रियाः समालोक्य विलोक्याऽश्वसरोवरम् ॥८३॥सौधानि बहुलक्षानि विलोक्य देवतालयान् ।वीक्ष्य तीर्थानि दिव्यानि धनमेदो जहर्ष ह ॥८४॥स्थले स्थले चकाराऽसौ दण्डवत् सकुटुम्बकः ।लक्ष्मीदर्शितकान्तं च द्रष्टुं महालयं ययौ ॥८५॥यत्राऽनादिः कृष्णनारायणो विराजते प्रभुः ।कोटिसूर्याभमुकुटाभूषणादिप्रतेजितः ॥८६॥रूपानुरूपावयवो भगवान् कमलादिभिः ।सेवितः श्रीहरिः साक्षाद् देवमुक्तादिसेवितः ॥८७॥नेमे च दण्डवत् कृष्णं ददौ तुरीप्रदोपदाः ।पुपूज च स्वयं पुष्पैः फलैर्भावैर्हृदंगमैः ॥८८॥पादोदकं पपौ मूर्ति हृदये स दधार च ।प्राप्य प्रासादिकं चापि सत्कारं स्वागतादिकम् ॥८९॥भोजनं चापि संप्राप्य विश्रान्तिं स चकार ह ।सायं तीर्थानि कर्तुं च ययावश्वसरस्तटे ॥९०॥निशायां च तटे न्यग्रोधस्य तले ह्युवास सः ।जातिस्वभावभावेन तीरे वासमरोचयत् ॥९१॥रात्रौ स भजनं चक्रे नामसंकीर्तनं हरेः ।प्रातर्जातिस्वभावेन वीक्ष्य मत्स्याँस्तु रोहितान् ॥९२॥चक्रचिह्नसुशोभाढ्यान् धर्तुं मनोऽकरोत्तदा ।तीरं गत्वा सूत्ररश्मिं मुमोचाऽप्सु सकण्डकाम् ॥९३॥मत्स्यरूपधरः कृष्णनारायणः स्वयं हरिः ।भूत्वाऽऽनने च बडिशं गृहीत्वा तद्वशं ययौ ॥९४॥धनमेदेन सम्प्राप्तो मत्स्यो विशालतां ययौ ।शंखचक्रगदाधारी बभूव पद्मवान् क्षणात् ॥९५॥महद्रूपं विलोक्याऽसौ लज्जां भक्तो ययौ तदा ।हरिः प्राह स्वभावं त्वं त्यज मां भज धीवर ॥९६॥लक्ष्म्यास्त्वाशीर्वचनैश्च प्राप्तोऽहं ते कृपालवात् ।दास्यं गृहाण मे याहि लोमशं मनुमावह ॥९७॥वैष्णवो भव तिष्ठाऽत्र कुरु मे सेवनं तथा ।यथा त्वं दृष्टवानत्र मत्स्यरूपं चतुर्भुजम् ॥९८॥मत्स्यतीर्थमिदं मेऽस्ति मत्स्यावताररूपवान् ।त्वदर्थं ते दृष्टिपथं समागतोऽस्मि तं भज ॥९९॥धीवरा मत्स्यदायादा मत्स्यस्नेहा भवन्ति वै ।तवाऽहं मत्स्यरूपेण दास्ये मोक्षं भजस्व माम् ॥१००॥मत्स्यमूर्तिं विधायाऽत्र वटाधस्ताद् भजस्व माम् ।तीर्थं मत्स्यावतारस्य ममैतत्पापनाशनम् ॥१०१॥अश्वपट्टसरस्तीरे स्वर्गमोक्षप्रदं शुभम् ।धीवराणां विशेषेण भविष्यति प्रभुक्तिदम् ॥१०२॥इत्युक्त्वा राधिके कृष्णनारायणस्तिरोऽभवत् ।धनमेदो ययौ शीघ्रं लोमशस्याश्रमं ततः ॥१०३॥प्राप्तो मन्त्रं तौलसीं च स्रजं वैष्णवदासताम् ।'ओं नमः श्रीकृष्णनारायाणाय पतये स्वाहा' ॥१०४॥इतिप्राप्य सरस्तीरे समाययौ कुटुम्बयुक् ।वटाधस्तात् पर्णकुटीं कृत्वोवास निरन्तरम् ॥१०५॥मत्स्यमूर्तिं ततः कृत्वा भेजे कृष्णनरायणम् ।स्वल्पकालेन वै राधे मुक्तिं चाप तु शाश्वतीम् ॥१०६॥दिव्यपार्षदवर्यैश्च नीयमानः कुटुम्बयुक् ।ययावक्षरलोकं स तीर्थे मात्स्येऽश्वसारसे ॥१०७॥एवं ये तत्र वै गत्वा करिष्यन्त्याप्लवादिकम् ।धीवरा अपि तत्तुल्या मोक्षं यास्यन्ति राधिके ॥१०८॥माघाऽमायां मया तत्र मत्स्यरूपं प्रकाशितम् ।पठनाच्छ्रवणाच्चास्य मत्स्यतीर्थफलं भवेत् ॥१०९॥भुक्तिं मुक्तिं लभेन्मर्त्यः स्वर्गं पुत्रं धनादिकम् ।यद्यदिष्टतमं सर्वं लभेत् कृष्णकृपालवात् ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने तुरीदेव्या आशीर्वादेन धनमेदधीवरस्य यात्रालोः कुंकुमवाप्यां मत्स्यावतारदर्शनोत्तरं मुक्तिर्मत्स्यतीर्थं चेति-निरूपणनामैकषष्ट्यधिकशततमोऽध्यायः ॥१६१॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP