संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ५९ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ५९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५९ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके चैत्रे व्यतीतेऽथ द्वितीयकम् ।चरित्रं श्रीकृष्णनारायणस्यैव प्रमोक्षदम् ॥१॥भाल्लदेश इति ख्यातो देशो वैष्णवसत्कृतः ।धवलं नाम नगरं ख्यातं स्थानीयमुत्तमम् ॥२॥तस्मिन् विपणिवृत्तिस्थो गोधनाख्योऽभवद् वणिक ।धनपूर्णो बुद्धिमाँश्च कलाकौशल्यपारगः ॥३॥स कदाचिन्निजाद् राष्ट्रात् सौराष्ट्रं गन्तुमुद्यतः ।विशालसार्थसम्पन्नो बहुपण्यादिसंभृतः ॥४॥गच्छतस्तस्य वै रात्रौ चौराणां संगमोऽभवत् ।जलहीने शुष्कभागे जालिकैकतरौ स्थले ॥५॥ततः स हृतसर्वस्वो वणिक् शोकातुरः सदा ।भ्रमन्नितस्ततो यायाज्जालिकावृक्षसन्निधौ ॥६॥मृगैश्च पक्षिभिः कीटैर्वर्जितां वीक्ष्य जालिकाम् ।क्षान्तः क्षुत्तृट्शुष्ककण्ठो वृक्षपार्श्वमुपागमत् ॥७॥उपाविवेश च सुप्तो विश्रान्तो विश्रमोऽभवत् ।मध्याह्ने चोत्थितो यावत्तावत् प्रेतं ददर्श सः ॥८॥शतैः प्रेतैर्वृतं प्रेतैरुह्यमानं सुखासने ।आगच्छद्भिर्जालिकायास्तरुं प्रेतैः समन्ततः ॥९॥यत्राऽऽसीत् स वणिक्पुत्रस्तं च वृक्षं समागतः ।प्रेतराजो ददर्शैनं वणिक्पुत्रं स्थिरान्तरम् ॥१०॥स्वागतं कृतवान् प्रेतो वणिक् चापि तथाऽकरोत् ।कुशलं सर्वमाभाष्य चाभिवाद्य परस्परम् ॥११॥वणिक्प्रेतौ चोपविष्टौ छायायां सुखतस्ततः ।प्रेताधिपतिना पृष्टं कुत आगम्यते वणिक् ॥१२॥क्व वासो विद्यते कुत्र गमिष्यसि स्थलादितः ।कथं चेदं निर्जनं च स्थलं त्वया समाश्रितम् ॥१३॥इतिपृष्टो वणिक् प्राह धनयुक्तोऽप्यहं वने ।चौरैर्हृतधनो जातः पर्यटाम्यतिदुःखितः ॥१४॥वणिग्दुःखेन तु प्रेतः क्षणं वै दुःखितोऽभवत् ।स्वबन्धुमिव वणिजं प्राह शोकं तु मा कुरु ॥१५॥भूयोऽप्यर्था भविष्यन्ति यदि भाग्यबलं तव ।भाग्यक्षयेऽर्थाः क्षीयन्ते भवन्त्यभ्युदये पुनः ॥१६॥क्षीणस्याऽस्य शरीरस्य चिन्तया नोदयो भवेत् ।अभ्युदयश्च पतनं रवेर्नित्यं प्रजायते ॥१७॥वृक्षाणां शुष्कता चापि पुनः पल्लविताऽपि च ।पक्षे तेजस्विता चन्द्रे पक्षे तेजःक्षयस्तथा ॥१८॥नदीनां शुष्कता ग्रीष्मे वर्षायां जलपूर्णता ।क्षेत्राणां सस्यसम्पत्तिः क्वचित् सस्यविहीनता ॥१९॥नेत्रं म्लानं सनिद्रं तु क्वचित्पद्मदलोत्सवम् ।गगनं चाऽऽविलं काले काले निर्मलमुज्ज्वलम् ॥२०॥प्रदीपो रात्रौ ज्वलति दिवा तेजः करोति न ।क्वचिद् राजा क्वचिच्छ्रेष्ठी क्वचित् कैंकर्यवान् भवेत् ॥२१॥क्वचिच्छास्ता क्वचिच्छास्यः क्वचित् कोटिद्वयोज्झितः ।क्वचिल्लक्ष्मीपतिः श्रीमान् क्वचिल्लक्ष्मीविवर्जितः ॥२२॥बाल्ये तु देहिनः सर्वे नैसर्गादपरिग्रहाः ।यौवने तृष्णया व्याप्ता वार्धक्ये शक्तिवर्जिताः ॥२३॥कालवेगेन जायन्ते कर्मणा प्राक्तनेन च ।पूर्वं यस्माद् धनं प्राप्तमृणात्मकं यतो यतः ॥२४॥तेभ्यो दत्तं न पश्चाद्वै तदृणं सह गच्छति ।दातारस्ते सुताः पुत्राः पत्न्यः कुटुम्बिनस्तथा ॥२५॥राजा भृत्याः सेवकाश्च भवन्त्येवर्णबन्धनात् ।चौररूपाश्च वा भूत्वा प्रसह्य प्रहरन्ति च ॥२६॥न दत्तं न च भुक्तं वै पर्याप्तं चापि चार्जितम् ।वर्धयते प्रयत्नेन तद्विलोपं समीहते ॥२७॥द्रव्यं हसति द्रव्येशं मृषा द्रव्येशता तव ।योग्ये विनिमयः सत्ता सा कृता न त्वया यतः ॥२८॥मरणं सन्निधौ चास्ते श्रेष्ठिन् त्यक्त्वा गमिष्यसि ।ततस्तवेशता द्रव्ये द्रव्येशता न वै त्वयि ॥२९॥अहो लोभस्य माहात्म्यं सप्तवंशोत्तरं धनम् ।विद्यते यस्य केशेऽपि पुनः सञ्चेतुमिच्छति ॥३०॥अर्जने तु परं दुःखं कैंकर्यादिसमुद्भवम् ।रक्षणेऽपि परं दुःखं चिन्ता व्याघ्री प्रवल्गति ॥३१॥व्ययेऽपि क्षयदुःखं च भोगे दुःखं च रोगिता ।गर्वे दुःखं च युद्धादि मृत्युर्द्रव्ये प्रजायते ॥३२॥तस्माद् दुःखं धनं प्रोक्तं यद् धर्मार्थं न युज्यते ।धने धर्मे नियुक्ते तु धर्मात् सुखं न दुःखिता ॥३३॥धर्माच्छान्तिर्धर्मयोगात् तृष्णानाशो विवेकिता ।यथालब्धे च सन्तोषो देवसेवादिवर्तनम् ॥३४॥कुटुम्बे सत्त्वभावश्च रागद्वेषादिशून्यता ।चौरादिभयविरहो निद्राऽपि सुखतो भवेत् ॥३५॥एवंविधा गुणाः श्रेष्ठिन् निर्धनत्वे सुखावहाः ।सधनत्वे दुःखदोषाः प्रजायन्ते पुनः पुनः ॥३६॥तत्र नास्ति महाश्चर्यं गताऽऽगताऽब्धिवारिवत् ।धनं तु चञ्चलं सर्वं लक्ष्मीः सदा हि चञ्चला ॥३७॥जीवनं चञ्चलं चापि मा शोकं कुरु वैभवे ।भाग्यात् सर्वं पुनश्चापि यततो वै भविष्यति ॥३८॥इत्युच्चार्य समाहूय प्रेतो भृत्यान् समब्रवीत् ।अद्याऽतिथिरयं श्रेष्ठी गृहेस्माकमुपागतः ॥३९॥बालमित्रं मम पूज्यः सहजो देशजो मम ।अस्मिन् दृष्टं च मन्येऽहं दृष्टवान्निजबान्धवान् ॥४०॥अस्मिन् समागते जाता प्रीतिर्ममाऽतुलाऽद्य वै ।इत्युक्त्वा च प्रसस्मार प्रेतो भोजनमुत्तमम् ॥४१॥तावत्तस्य समायाता स्थाली नवा दृढा शुभा ।मिष्टान्नेन तु सम्पूर्णा दध्योदनयुताऽपि च ॥४२॥शाकसूपाऽऽरनालादिसम्पूर्णा भोजनाय वै ।तथा नवा दृढा शीतजलभृता च हाण्डिका ॥४३॥वारिधानीं तथा स्थालीं वीक्ष्य प्रेतेश्वरस्तदा ।प्राहोत्तिष्ठ वणिग्वर्य प्रक्षालय करौ मुखम् ॥४४॥इत्युक्त्वा सलिलं दत्त्वा न्यवेशयच्छुभासने ।प्रेतराजो ददावस्मै मिष्टान्नं दधि वारि च ॥४५॥ओदनं चाऽऽरनालं च शाकं च बुभुजे वणिक् ।प्रेक्तेभ्यः स ददौ सर्वविधं पात्रेषु पत्रिषु ॥४६॥प्रेता मिष्टान्नमाद्यं च भक्षयामासुरादरात् ।जलं पपुस्ततः प्रेतेश्वरोऽपि शेषमेव तत्। ॥४७॥बुभुजे च पपौ वारि तृप्ताः सर्वेऽभवँस्ततः ।स्थाली च वारिधानी च शेषान्नमपि सर्वथा ॥४८॥अदृश्यतां गतं तूर्णं पश्यतो वणिजस्तदा ।एतदद्भुतमाश्चर्यं दृष्ट्वा पप्रच्छ वै वणिक् ॥४९॥एषा स्थाली चान्नपूर्णा वारिधानी च पूरिता ।अरण्येऽत्र कथं प्राप्ता वद मे प्रेतपुंगव ॥५०॥तथापि तव भृत्यास्तु कृशाः कथं हि सर्वथा ।त्वं तु नैवाऽतिपुष्टोऽसि कथं दुर्बलता वद ॥९१॥तावत् तत्र श्वेतवस्त्रं समायातं शुभं नवम् ।तदत्तं च वणिजेऽत्र प्रेतेन भावतस्तदा ॥५२॥आश्चर्यं चापि तद् दृष्ट्वा कुतो वस्त्रं समागतम् ।पप्रच्छ च वणिक् प्रेतं प्रेतः प्राह यथातथम् ॥५३॥अहमासं पुरा श्रेष्ठिन् नगरे धवलाह्वये ।विप्रो नाम्ना प्रभानाथः सूपकारोऽभवं सदा ॥५४॥ममाऽस्ति च वणिक् श्रेष्ठी धनाढ्यो धर्मवर्धनः ।विष्णुभक्तो यजमानः स्वामी धनप्रदो मम ॥५५॥धर्मवर्धननामाऽसौ धर्मकार्ये सदा स माम् ।आज्ञापयति धर्मार्थे व्ययार्थं च यथेप्सितम् ॥५६॥दानार्थं चोपकारार्थमकुण्ठाऽऽज्ञां ददाति च ।सोऽहं कदर्यो लुब्धात्मा धनेऽपि सति पुष्कले ॥५७॥न ददामि तु देवेभ्यो न विप्रेभ्यो न दानकम् ।नोपकारं कस्यचिच्च करोम्यनाथदेहिनः ॥५८॥यतीन् साधून् धर्मनिष्ठान् गणयामि न सर्वथा ।न चाऽश्नामि तृप्तिपूर्णं लुब्धोऽन्यस्य तु का कथा ॥५९॥अपुण्यस्य हि नाशाऽन्ता वैभवा इति निश्चितम् ।ममाऽपि न तथा पुण्यं तदासीद् भुक्तवान्नहि ॥६०॥प्रमादाद् यदि भुञ्जेऽहं दधिक्षीरघृतादिकम् ।मिष्टान्नं वा मिष्टजलं तदा शोकः प्रजायते ॥६१॥अहोऽद्य तु मया व्यर्थो व्ययः कृतो हि हानिकृत् ।निद्रा रात्रौ न चाऽऽयाति व्ययचिन्तापरस्य मे ॥६२॥प्रातर्भवति चैवं मे यद्वा तद्वा कथंचन ।एवमेतादृशो लोभी निवसाम्यतितृष्णकः ॥६३॥तन्दूलतिलपिण्याकतुषशाकादिभोजनैः ।क्षपयामि कदान्नाद्यैरात्मानं कालनिर्गमैः ॥६४॥एवं द्रव्ययुतस्याऽपि विना दानं च पुण्यकम् ।महान् कालो गतो मे तु सूर्यग्रहणमागतम् ॥६५॥श्रवणद्वादशी प्राप्ता मासि भाद्रपदे तथा ।लोकाः प्रयान्ति तीर्थार्थं साभ्रमत्यां दिने दिने ॥६६॥अहं च श्रेष्ठिना साकं ह्येकादश्यामुपोषितः ।गतवान् साभ्रमत्यां तु स्नातुं त्वेकादशीदिनात् ॥६७॥यावत् सूर्यग्रहः स्याच्च तावत् तीर्थे स्थिरोऽभवम् ।एकादशीदिनात्तेन श्रेष्ठिना कोटिशो धनम् ॥६८॥वस्त्राणि श्रेष्ठपात्राणि गावश्चेत्यपि दानकम् ।दत्तं यथाबलं तत्र मया दृष्ट्वाऽतिलज्जया ॥६९॥धौत्रं चैकं नवं दत्तं विप्राय वेदवेदिने ।नवा स्थाली चान्नपूर्णा मिष्टपूर्णा समर्पिता ॥७०॥दध्योदनारनालाद्यैः शाकेन संयुता तथा ।जलधानी तदा दत्ता यानं दत्तं तु काष्ठजम् ॥७१॥छायार्थं तु तदा छत्रं दत्तं विप्राय वै तदा ।श्रेष्ठिनो भृत्यवर्गाश्च विप्रार्थं योजिता मया ॥७२॥एतावन्मात्रकं मया वणिग्वर्य तदार्पितम् ।नान्यत् किञ्चित् प्रदत्तं तु मयाऽयुतसमास्वपि ॥७३॥अथ कालान्तरे मृत्युगतोऽहं प्रेततां गतः ।अमी चाऽदत्तदाना वै मद्दत्ताऽन्नोपजीविनः ॥७४॥भृत्यास्तस्य गोधनाख्यवणिजो मद्वशानुगाः ।काष्ठयानमिदं प्राप्तं प्राप्ता भृत्याश्च ते मया ॥७५॥प्राप्ता मिष्टान्नसंयुक्ता स्थाली जलस्य हाण्डिका ।दत्तं तदिदमायाति मध्याह्नेऽपि दिने दिने ॥७६॥यावन्नाऽहं तु भुञ्जेऽन्नं न तावल्लयमेति च ।मयि भुक्ते च पीते च सर्वं लीनं प्रजायते ॥७७॥छत्रदानादयं वृक्षो नित्यं प्राप्तोऽस्ति वै मया ।वासार्थं निवसाम्यत्र प्रेताः कुर्वन्ति सेवनाम् ॥७८॥इदं तवोक्तं सर्वं च दाने निरोधकृद् यथा ।अहं पुराऽभवं तेन पापेन प्रेततां गतः ॥७९॥लोभेन तृष्णया चाऽपि विप्रोऽहं प्रेततां गतः ।एकवारप्रदत्तेन जलान्नेन हि भुज्यते ॥८०॥प्रत्यहं त्वेकवारं हि दत्वा भुञ्जे हि नित्यदा ।नित्यदानप्रदातुस्तु स्वर्गं वै शाश्वतं भवेत् ॥८१।अथ श्रेष्ठिन् तव मेऽपि हितं करोमि सर्वथा ।कुंकुमवापिकाक्षेत्रे चाश्वपट्टसरोवरे ॥८२॥लोमशस्याऽऽश्रमे तत्र कृष्णनारायणालये ।याहि शीघ्रं वणिक् तत्र स्नानं च हवनं कुरु ॥८३॥मम नाम समुद्दिश्य पिण्डनिर्वपणं कुरु ।तत्र पिण्डप्रदानेन प्रेतभावादहं क्षणात् ॥८४॥मुक्तः सन् दान कर्तॄणां प्रयास्यामि सलोकताम् ।तिथिस्त्वेकादशी पुण्या शुक्ला भाद्रप्रदे शुभा ॥८५॥बुधश्रवणसंयुक्ता साऽतिश्रेयस्करी मम ।अथवा कर्तिककृष्णाष्टम्यां श्राद्धं कुरुष्व मे ॥८६॥अनादिश्रीकृष्णनारायणप्राकट्यवासरे ।अवश्यं च तदा मोक्षो मम भावी विभावय ॥८७॥इत्युक्त्वा प्रददौ तस्मै सुवर्णं हीरकादिकम् ।स्कन्धे कृत्वा वणिजं तं तत्याज च सुराष्ट्रकम् ॥८८॥एकादश्यां भाद्रपदे ययावश्वसरोवरम् ।पिण्डनिर्वपणं तत्र प्रेतानामनुपूर्वकम् ॥८९॥चकाराऽथ स्वबन्धूनां पितृणां तदनन्तरम् ।आत्मनश्च तथा सम्यङ् महच्छ्राद्धं तिलैर्विना ॥९०॥पिण्डनिर्वपणं चक्रे तथाऽन्यानपि गोत्रजान् ।मोक्षयामास सर्वान् वै श्राद्धदानादिभिर्वणिक् ॥९१॥कर्ममुक्तास्तु तै सर्वे आययुस्तत्र सन्निधौ ।दिव्यरूपा दिव्यवेषाः सूर्यतेजोऽतिवर्चुलाः ॥९२॥वणिक् तेभ्यो जलं तत्र ददौ मिष्टान्नभोजनम् ।ततस्तान् दिव्यदेहाँश्च निनाय लोमशाश्रमम् ॥९३॥लोमशस्ताँस्तदा मन्त्रं श्रावयामास वैष्णवम् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥९४॥ददौ तेभ्यश्च तुलसीस्रजश्च च चरणामृतम् ।ततो वणिग् ययौ नीत्वा सह सर्वान् प्रमोचितान् ॥९५॥अनादिश्रीकृष्णनारायणसौधं सुकानकम् ।तेऽपि सर्वे नता नारायणं पुपूजुरादरात् ॥९६॥कृष्णपादजलं पीत्वा बभूवुर्मुक्तकोटिकाः ।दिव्ययाने समारुह्य कृष्णनारायणाऽऽज्ञया ॥९७॥ययुर्गोलोकसंज्ञं च ततो धामाऽक्षरं परम् ।अथाऽयं तु वणिग् राधे निजस्थानं ततो गतः ॥९८॥धवलाख्ये पुरे तत्राऽभजत् कृष्णनरायणम् ।भक्तिं तु नवधा कृत्वा कालधर्ममुपेयिवान् ॥९९॥देवो भूत्वा च गन्धर्वो गुह्यकश्चापि वै ततः ।विराड् राजा ततो भूत्वा परो भागवतो हि सः ॥१००॥भेजेऽनादिपरब्रह्मश्रीमत्कृष्णनरायणम् ।देहान्ते स हरेर्धाम ययौ स्तुत्वा पुनः पुनः ॥१०१॥इत्येवं कथितो राधे! चमत्कारो हरेर्यथा ।दर्शनान्मुक्तिमापन्नाः प्रेता दिव्यशरीरिणः ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने भाद्रैकादश्यामश्वपट्टसरोवरे श्राद्धेन प्रेतानां मुक्तिः प्रेतवणिक्संवादश्चेतिनिरूपणनामा नवाऽधिकपञ्चाशत्तमोऽध्यायः ॥५९॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP