संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ३९ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ३९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३९ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके ज्ञानं तपो यस्मान्न शिष्यते ।पूर्वमेकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥१॥बृहदण्डमभूदेकं प्रजानां बीजसंभृतम् ।महाविष्णोः समुद्भूतं यस्मिन् विराड् विराजते ॥२॥अण्डं विभिद्य भगवान् वैराजं बहिरानयत् ।वैराजात् त्रिगुणा देवा ब्रह्मविष्णुमहेश्वराः ॥३॥सत्त्ववान् वै तदा ब्रह्मा शून्यं लोकमपश्यत ।ततो राजसभावेन प्रवृत्तिं स्वीचकार ह ॥४॥सस्मार दर्शकं दिव्यं नारायणमतीन्द्रियम् ।गुणातीतं भगवन्तं व्यापकं पुरुषं परम् ॥५॥येनेदं सकलं व्याप्तं स्थिरचेतनसंज्ञितम् ।यस्तं वेद महात्मानं स सर्वं वेद् निश्चितम् ॥६॥गुणातीतं च पुरुषं परब्रह्म सनातनम् ।यस्तं वेद परात्मानं स सर्वं वेद मोक्षवित् ॥७॥किं तेषां सकलैस्तीथैंराश्रमैर्वा प्रयोजनम् ।येषां त्वनन्तकं चित्तमात्मन्येव व्यवस्थितम् ॥८॥आत्मा नदी शीलतीर्था सत्यजला शमान्विता ।तत्स्नातः शुद्ध्यति पुण्यो वारिणाऽऽत्मा न शुद्ध्यति ॥९॥श्रेष्ठं जनस्य कर्तव्यं चात्मवोधसुखे स्थितिः ।ज्ञेयं सतां तदेवाऽस्ति यत्प्राप्तौ कामनाक्षयः ॥१०॥नैतादृशं परं वित्तं ब्रह्मलग्नस्य विद्यते ।समता सत्यता शीलं चार्जवं विरतिस्तथा ॥११॥तल्लाभे ब्रह्म परमं प्राप्नोत्येव न सशंयः ।विदित्वा तं प्रभुं राधे! धर्मस्य फलमाप्नुयात् ॥१२॥योऽसावाप्मनि देहेऽस्मिन् विभुर्नित्यो व्यवस्थितः ।सोऽनादिः श्रीपतिः कृष्णो नारायणः परात्परः ॥१२॥कम्भराश्रीनन्दनः सः श्रीमद्गोपालबालकः ।कुंकुमवापिकाक्षेत्रे वर्तते बालकृष्णकः ॥१४॥पञ्चमे वत्सरे पूर्णे यावस्तं वीक्षितुं प्रिये ।इत्युक्ता राधिका देवी सोत्साहा वेषमुज्ज्वलम् ॥१५॥दधार सर्वशोभाढ्यं स्वर्णमाणिक्यसंभृतम् ।मौक्तिकैर्हीरकैः रत्नैः खचितं शोभनं शुभम् ॥१६॥शृंगारं विविधं धृत्वा सुगन्धसारमिश्रितम् ।बिन्द्वीपत्रीरङ्गरेखाऽलक्तकज्जलबृंहितम् ॥१७॥तन्तुतन्तीशृंखलोर्मिकाम्बराभूषणाऽन्वितम् ।स्वर्णचूर्णपुष्पगुच्छकबरीभारशोभितम् ॥१८॥सनक्तकार्चनवस्तुभतपात्रकरा पतिम् ।कृष्णं शृंगारयामास सुशोभं संस्कृतं शुभम् ॥१९॥विमानं वृषयानं च वाहयामास सत्वरम् ।फलपुष्पैः स्वादुभोज्यैरमृतैर्भृतपात्रकम् ॥२ ०॥स्वयं कृष्णः सारथिश्च श्रीराधा रथिनी स्वयम् ।श्रीमद्गोलोकधाम्नस्तावीशलोकान् विलंघ्य च ॥२१॥ब्रह्मादिस्तरमुल्लंघ्य भूतले तु सुराष्ट्रके ।व्योम्नोऽवतरेत् राधाकृष्णौ कुंकुमवापिकाम् ॥२२॥अश्वपट्टसरस्तीरे बालकृष्णाऽऽलयाऽऽङ्गणे ।श्रीकृष्णस्य रथस्यादौ ब्रह्माण्डे व्याप तन्महः ॥२३॥सूर्यचन्द्रौ न दृश्येते तेजसाऽभिभवंगतौ ।राधायास्तेजसा पृथ्वी दिशश्चात्युपबृंहिताः ॥२४॥लोमशस्याश्रमश्चापि चान्द्रलोक इवाऽभवत् ।सर्वाश्च कन्यका राधारूपाऽतिरूपकान्विताः ॥२५॥राजन्ते राधिकां दृष्ट्वा शतराधाऽधिकैकका ।राधा दृष्ट्वा तु ताः कन्या गर्वहीना बभूव ह ॥२६॥गलितं रूपसौन्दर्यमानं तस्यास्तदा क्षणात् ।उत्थ कृष्णं प्रति प्राह बालकृष्णं विलोक्य सा ॥२७॥अहो मे व्यक्तिसाफल्यं कारितं हि त्वया प्रभो ।मयाऽस्य दर्शनं प्राप्तं कृष्णनारायणस्य यत् ॥२८॥षष्ठवर्षसमारंभे प्रातरष्टमिकातिथौ ।बालकृष्णं रा धिका संपूजयामास वस्तुभिः ॥२९॥गोलोकपयसा बालं स्नापयामास राधिका ।सर्वतीर्थादिसलिलैरभिषेकं चकार सा ॥३०॥चन्दनाऽगुरुकस्तूरीरससारद्रवादिभिः ।सम्पूज्याऽऽभरणैर्वस्त्रैरलंकारैरशोभयत् ॥३१॥आरार्त्रिकं चकाराऽथ मयूरपिच्छशोभनम् ।मुकुटं धारयामास बालकृष्णस्य मस्तके ॥३२॥मुरलीं सा ददौ हस्ते दक्षबाहुं ददौ गले ।हासयित्वा सुतिलकं चन्द्रकं साक्षतं शुभम् ॥३२॥भाले दत्वा राधिका सा नीराजनविधिं व्यधात् ।पुष्पाञ्जलिं प्रदत्वैव नमस्कारं चकार सा ॥३४॥आशीर्वादान् ददौ कान्तकान्त त्वं कान्तवद्भव ।दुःसहां चाञ्जलिं राधा समुच्चार्य च मस्तकात् ॥३५॥ददौ भोज्यं च गोलोकादानीतं पायसादिकम् ।दुग्धपिण्डान् बरफींश्च दुग्धसारस्य पूरिकाम् ॥३६॥मिष्टां दिव्यां दधि श्रेष्ठं ददौ नान्यत् तदिष्टकृत् ॥भोजयित्वा ततो रम्यं ताम्बूलकं ददौ शुभम् ॥३७॥अथैवं सम्प्रपूज्यैव विरराम ततः स्वयम् ।श्रीकृष्णस्तं कृष्णनारायणं पुपूज सादरम् ॥३८॥सुरवालं पीतपटं कञ्चुकं स्वर्णतारकम् ।शिरस्त्राणं सकल्गिं चावतंसकौ कौसुमौ शुभौ ॥३९॥पुष्पहारान् पारिजातकृतान् ददौ गलेऽर्भकम् ।उपानहौ स्वर्णसाध्यौ कोमलौ प्रददौ तथा ॥४०॥छत्रं सुचामरे रम्ये रशनां कुण्डले ददौ ।मणिं कौस्तुभजातीयोत्तमं मालां च मौक्तिकीम् ॥४१॥ददौ श्रीबालकृष्णाय वंशी ददौ मृदुस्वराम् ।यष्टिं सिद्धिमयीं चापि ददौ सिंहासनं वरम् ॥४२॥एवं बालप्रभुं कृष्णः पूजयित्वा स्तुतिं व्यधात् ।सर्वसाक्षिन्नमस्तेऽस्तु सर्वावतारकारण ॥४३॥पुरुषोत्तम मुक्तेश परधामन् नमोऽस्तु ते ।वर्तमानं च भूतं च भविष्यत्सर्वथा यतः ॥४४॥अन्वितं राजते सौम्यं सुव्यवस्थं क्रमानुगम् ।अनन्वितः प्रशास्ता त्वं तस्मै देवाय ते नमः ॥४५॥अनन्ताः शक्तयस्तेऽत्र कुष्णनृसिंहरूपिषु ।राधारमाश्रीस्वरूपास्तं नमामि परेश्वरम् ॥४६॥अहं मे धाम गोलोकस्तथा नारायणो रमा ।श्रीर्वैकुण्ठं चामृतं सत्पदं यस्मात्प्रवर्तते ॥४७॥अक्षरं धाम यस्याऽग्रे समूर्तं सेवकं सदा ।ईश्वरा अवताराश्च यदंशगुणभूषणम् ॥४८॥व्यूहाश्चेश्वरपालाश्च लोकपाला महर्षयः ।क्रतूच्छ्रयाः सुरा यस्य गुणैकैकांशमूर्तयः ॥४९॥भवन्तीह तु संसारे तं नमामि परेश्वरम् ।अन्तरात्मन्ननन्तात्मन्मदात्मँस्ते नमो नमः ॥५०॥त्वं परात्मन् लोकसाक्षिन्ननन्तेश नमोऽस्तु ते ।सर्वज्ञ त्वं परमेष्ठिन् ज्ञानज्ञेय नमोऽस्तु ते ॥५१॥आदिदेव दुराराध्य परमेश्वर ते नमः ।महायोगेश्वर साधो दयालो ते नमो नमः ॥५२॥परज्योतिर्वषट्कार स्वाहाकार नमोऽस्तु ते ।सर्वदर्शन सवर्ताऽग्निषोमात्मन्नमोऽस्तु ते ॥५३॥महाराजिक सिद्धार्च्य हिरण्यवाह ते नमः ।मञ्जुकेशिन् बालकेशिन् दयादेशिन्नमोऽस्तु ते ॥५४॥विभो याज्ञिक यज्ञेश भक्तानुकम्प ते नमः ।प्रसीद श्रीकृष्णनारायण तुभ्यं नमोनमः ॥५५॥इत्युक्त्वा श्रीकृष्णदेवो नत्वा राधा तथा प्रभुम् ।ययतुः श्रीकम्भरायाः सन्निधौ भुवनान्तरे ॥५६॥नत्वा तां च तथा नत्वा श्रीमद्रोपालकृष्णकम् ।तत्कृतं स्वागतं प्राप्य पुत्रोत्सवं प्रशस्य च ॥५७॥विमानेन ययतुश्च गोलोकं कृष्णराधिके ।अथाऽऽययौ च वैकुण्ठान्नारायणो रमापतिः ॥५८॥गरुडस्थः प्रभुर्बालकृष्णपूजार्थमित्यथ ।वासुदेवस्तथा भूमा चाययतुर्मुदान्वितौ ॥५९॥महाविष्णुस्तथा नारायणो नरः समाययुः ।शेषनारायणश्चापि मत्स्यः कूर्मः समाययुः ॥६०॥वाराहश्च कपिलश्च हरिः पृथुः समाययुः ।दत्तात्रेयस्तथा हंसो नृसिंहश्च समाययुः ॥६१॥ऋषभश्च वामनश्च पर्शुरामः समाययुः ।यज्ञो रामः कुमाराश्च हयग्रीवः समाययुः ॥६२॥नारदो राजराजश्च परमेशाः समाययुः ।अनादिश्रीकृष्णनारायण जयेति ते जगुः ॥६३॥पञ्चामृतैरमृतैश्च बालाऽङ्गुष्ठाऽभिषेचनम् ।चक्रुः पश्चाद् दर्भजलैरमृतैः प्रोक्षणं व्यधुः ॥६४॥चन्दनं साऽक्षतं भाले त्वर्चयामासुरादरात् ।तिलकं कुकुमाढ्यं च चक्रुर्ददुः सुगन्धकम् ॥६५॥पुष्पहारान् ददुः कण्ठे मुकुटं पुष्पमालिकाः ।ददुस्तुलसीपत्राणि विभूषणानि चामरे ॥६६॥छत्रं चोपानहौ दिव्येऽम्बराणि विविधान्यपि ।कर्पूराद्यैर्वर्तिकाभिर्नीराजनं प्रचक्रिरे ॥६७॥धूपं दीपं सुनैवेद्यं चामृतान्नं फलानि च ।ददुः सर्वेऽवताराश्च जलं ताम्बूलकानि च ॥६८॥अर्पयामासुरत्यर्थं स्वस्वलोकभवानि च।इत्येवं पूजनार्थं तद्धामवासाः स्त्रियोऽपि च ॥६९॥आययुर्बहुभिर्वस्तूत्तमैः पुपूजुरीश्वरम् ।एवं समर्चयित्वा ताः प्रययुर्निजधाम ते ॥७०॥ततो देवाश्च पितरो मुनयः ऋषयस्तथा ।मानवा ब्राह्मणाद्याश्चाऽऽययुः कृष्णार्चनाय वै ॥७१॥दिव्यविमानमारुह्य चाश्वपट्टसरोवरम् ।अभितो व्योममार्गेषु विश्रम्य कृष्णमन्दिरम् ॥७२॥आययुः पूजयामासुर्विविधैश्चोपदादिभिः ।रञ्जयामासुरत्यर्थं बालकृष्णं परेश्वरम् ॥७३॥ततोऽन्ये भूमयः शैला नद्यः सरांसि सागराः ।तीर्थानि देवतरवो वल्लिकाः स्तबकास्तथा ॥७४॥वनदेव्यश्च गुल्माश्च तत्त्वानि विविधान्यपि ।आययुः श्रीबालकृष्णपूजार्थं चार्हणां व्यधुः ॥७५॥ततो यक्षा गुह्यकाश्चारणा किंपुरुषास्तथा ।भाटाश्च किन्नराश्चापि गन्धर्वा देवयोषितः ॥७६॥मागधा बन्दिनः सूता विद्याध्राः पन्नगादयः ।आययुः श्रीबालकृष्णोत्सवे पूजार्थमेव ते ॥७७॥पूजनं ते प्रचक्रुश्च नर्तका नृत्यमाचरन् ।अवाद्यन्त सुवाद्यानि गायकाः संजगुस्तदा ॥७८॥कथकास्तत्कथां चक्रुर्नाट्यध्रा नाट्यमाचरन् ।याज्ञिकाश्चाचरन् यज्ञं साधवो जपमाचरन् ॥७९॥सत्यो नार्यो ददुश्चाशीर्वादान् वृद्धाः शुभाशिषः ।श्रीमद्गोपालकृष्णश्च लोमशोऽपि मुनिस्तदा ॥८०॥तथान्ये ऋषयस्तत्र स्थिताश्च ब्रह्मकन्यकाः ।श्रीहरेः पूजनं चक्रुर्योजयामायुराशिषा ॥८१॥ततः पिता तु तान् सर्वान् महीमानान् समन्ततः ।दुग्धपाकादिसद्भोज्यैस्तर्पयामास लड्डुकैः ॥८२॥भोजयित्वा च तान् सर्वानागतान् तत्परं हरिः ।दापयामास दानानि विप्रान् दासीश्च सेवकान् ॥८३॥पात्रेभ्यश्च यथायोग्यं यथाभिक्षुकभिक्षितम् ।रत्नं हिरण्यं रजतं मिष्टान्नं चाम्बराण्यपि ॥८४॥मुद्रिकाश्च विभूषाश्च पात्राण्यपि धनानि च ।ददौ यथेष्टं सर्वेभ्यश्चागतेभ्यः पुनः पुनः ॥८५॥ततो गतेषु सर्वेषु स्वस्वधामगृहाणि च ।लोमशः कन्यकायुक्तो यथा नैजाश्रमं मुदा ॥८६॥अथाऽन्ये कुंकुमवापीक्षेत्रीया ब्राह्मणादयः ।प्रेम्णा पुपूजुरागत्य परमेशं हरिं प्रभुम् ॥८७॥ययुः स्वस्वगृहं पश्चान्महाश्चर्यं वभूव ह ।शृणु त्वं राधिके तत्र युगलं चैकमागतम् ॥८८॥नारी कज्जलवर्णीया नरः कुष्ठाढ्यविग्रहः ।अनादिश्रीकृष्णनारायणं नत्वाऽऽह बालक ॥८९॥पापोद्धारं कुरु कृष्ण पतितयोर्विवंशयोः ।हरिर्जानन्नपि तौ तु पप्रच्छ दीनमानसौ ॥९०॥कौ युवां वदत पापं किं कृतं च कथं च रुक् ।नरः प्राहाऽभवं विप्रो देवायनो हि नामतः ॥९१॥गौर्जरे श्रीपत्तने च तत्रेयं मम भामिनी ।देवपूजापरौ चावां नित्यकर्मपरायणौ ॥९२॥शैत्याभिपीडितौ स्नानं विना पूजनतत्परौ ।समभूव ततो दोषादायुष्यं त्वन्ततां गतम् ॥९३॥मृतौ ज्वरेण च शीघ्रं सहैव श्वपचगृहे ।जातौ तत्रैव नगरे विवाहितौ पुनस्तथा ॥९४॥जातिस्मरौ कुष्ठिकृष्णौ दुःखितौ पापनाशक! ।ज्ञात्वा स्वप्नप्रभावेण नारायणोऽसि माधवः ॥९५॥पापं विधूय नौ मोक्षं कुरु नारायणप्रभो ।अद्य ते दिवसो नाथ बद्धमुक्तिप्रदापने ॥९६॥पापिनां पापहर्ता त्वं वर्तसे चेति लोकतः ।समाकर्ण्य च वै पद्भिस्त्वायातौ शरणं तव ॥९७॥अनादिश्रीकृष्णनारायणः श्रुत्वा दयापरः ।तावुवाच कृपासिन्धू राधिके पापनाशनः ॥९८॥अश्वपट्टसरस्येव स्नात्वा पीत्वा जलं च तत्॥प्रदक्षिणां ततः कृत्वा पिबतं चरणामृतम् ॥९९॥शुद्धौ भूत्वा ब्रह्मलोकं व्रजिष्यथोऽतिमानवौ ।एवं श्रुत्वा ततस्ताभ्यां यथोक्तं चानुवर्तितम् ॥१००॥द्राग् भूत्वा दिव्यदेहौ तौ दिव्ययाने स्थितौ पुनः ।लक्षातिलक्षयज्ञानां फलं प्राप्य गतौ दिवम् ॥१०१॥श्रीपत्तनात् समारभ्य कुंकुमवापिकावधिम् ।यावन्ति चंक्रमणानि तावद् यज्ञफलं ह्यभूत् ॥१०२॥एवं श्रीकान्तसाधूनामप्यभिगमने फलम् ।जायते कि पुनः कृष्णनारायणस्य सन्निधौ ॥१०३॥राधिके श्रीहरिः सेव्यः सेव्याश्च साधवोऽस्य च ।तीर्थं क्षेत्रं व्रतं सेव्यं कोटियज्ञफलप्रदम् ॥१०४॥पदे पदेऽश्वमेधस्याऽभिगमे जायते फलम् ।इत्येवं तौ कृतौ मुक्तौ नारायणेन शार्ङ्गिणा ॥१०५॥षष्ठवर्षसमारम्भाष्टमीदिने शुभोत्सवे ।पठनाच्छ्रवणाच्चापि मोक्षो मुक्तिस्तथा भवेत् ॥१०६॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभोः षष्ठवत्सरस्याऽष्टम्यां श्रीराधाकृष्णाऽवतारव्यूहदेवमानवादिकृतमहोत्सवपूजनं देवायनद्विजस्य तत्पत्न्याश्च श्वपचजन्ममोक्षणं चेत्यादिनिरूपणनामैकोनचत्वारिंशोऽध्यायः ॥३९॥ N/A References : N/A Last Updated : April 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP