संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २०६ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २०६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २०६ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके मण्डपे कृष्णः सौवर्णौ पितरौ तथा ।सूर्यं चन्द्रं शंकरं च सतीं गंगां व्यतिष्ठिपत् ॥१॥अनादिश्रीबालकृष्णं लोमशोक्तविधानतः ।रायकिन्नरराजः संपूजयत् परमेश्वरम् ॥२॥मातरं पितरं चापि हरेस्तत्राऽप्यपूजयत् ।आवाहनं चासनं च पाद्यमर्घ्यं ददौ तदा ॥३॥ददावाचमनं वारि शौचार्थं वारि चेत्यपि ।शुद्ध्यर्थं च ततो दुग्धं दधि घृतं च शर्कराम् ॥४॥मधु ददौ ततश्चाभिषेकार्थं तीर्थवारि च ।वस्त्राऽऽमार्जनमेवापि सुगन्धितैलमर्दनम् ॥५९॥वस्त्राभूषाप्रदानं चन्दनाक्षतगुलालकम् ।पुष्पहारान् कज्जलादि धूपं दीपं च कुंकुमम् ॥६॥तुलसीं पद्महाराँश्च नैवेद्यं चोपवीतकम् ।छत्रं चामरव्यजने नैवेद्यं फलमुत्तमम् ॥७॥जलं ताम्बूलकं चारार्त्रिकं च दक्षिणां ददौ ।स्तुतिं क्षमां नमस्कारं दण्डवत् कुसुमाञ्जलिम् ॥८॥ददौ पूजाप्रकारैश्च समर्च्य श्रीनरायणम् ।ततोऽवतारान् मुक्ताँश्चेश्वरान् देवान् मुनीन् सुरान् ॥९॥पितॄन् देवीर्देवताश्च पूजयामास पार्थिवः ।चकार च ततः प्रायश्चित्तांगं व्याहृतेर्हवम् ॥१०॥विष्णुश्राद्धं चकाराऽथ चक्रे मुखावलोकनम् ।आज्यपात्रस्य दानं चाचार्याय प्रददौ नृपः ॥११॥शुश्राव शान्तिपाठांश्च विप्रकृतान् सुखावहान् ।स्वस्तिपाठान् मांगलिकान् श्रुत्वा ववन्द वै गुरुम् ॥१२॥लोमशर्षिस्ततश्चक्रे प्रधानं मखकर्मणः ।संकल्पं चांगसंकल्पं कारयामास तं नृपम् ॥१३॥भूमिकूर्माऽनन्तपूजां दीपस्थानं नृपो व्यधात् ।चक्रे दिग्रक्षणं वामे करे त्वादाय सर्षपान् ॥१४॥विकीर्य सर्वतोभागेऽघातयद्वामपाणिना ।भूमिं चाथ ततश्चक्रे कलशाराधनं नृपः ॥१५॥जले तीर्थानि चावाह्य देहे स्वे प्रोक्षणं व्यधात् ।पञ्चगव्येन यज्ञस्य संभारप्रोक्षणं व्यधात् ॥१६॥गणेशपूजनं चक्रे साक्षाद् दूर्वादिभिस्तथा ।षोडशभिस्तूपचारैरथाऽऽवरणपूजनम् ॥१७॥चक्रे ततश्च गौर्यादिमातृकापूजनं व्यधात् ।ब्राह्म्यादिमातृकापूजा कृत्वा राजा ततोऽकरोत् ॥१८॥नान्दीश्राद्धं तर्पणं च पितॄणां तृप्तिकारकम् ।अथाऽर्घवन्दनं चक्रे कलशे सूत्रवेष्टनम् ॥१९॥ओषधिपुष्पनिःक्षेपं पञ्चपल्लवरत्नकम् ।चिक्षेप च फलं स्वर्णं मृत्तिकां धान्यदूर्विकाम् ॥२०॥ततश्चाचार्यवरणं ब्रह्मादिवरणं पुनः ।गणेशवरणं द्वारपालवरणमाचरत् ॥२१॥ऋत्विजां वरणं चक्रे मधुपर्कार्हणं व्यधात् ।मधुपर्कप्राशनं च व्यधादाचमनं ततः ॥२२॥गोनिष्क्रयं धनं राजा ददौ विप्राय वै तदा ।प्रार्थयच्च गुरुं श्रीमद्बालकृष्णं च लोमशम् ॥२३॥भूभृतस्तिलकं चक्रे- लोमशर्षिस्तदा ततःराज्ञ्या बबन्ध च वामे करे रक्षार्थसूत्रकम् ॥२४॥कंकणं वा ततश्चापि पुण्याहवाचनं व्यधात् ।सजलं कलशं पूर्णपात्रयुक्तं तु धान्यके ॥२५॥न्यधात्। पुपूज कलशं तज्जलैस्तर्पणं व्यधात् ।यजमानाऽभिषेकं च लोमशः समवर्तयत् ॥२६॥वर्धनीकलशस्यापि स्थापनं प्रचकार ह ।राजा प्रदक्षिणीकृत्य मण्डपे तं न्यवेशयत् ॥२७॥जलयात्रां लोमशश्चाऽकारयत् कलशान्विताम् ।सौभाग्याभिश्च नारीभिर्वाद्ययानसुकीर्तनैः ॥२८॥तीर्थे सम्पूज्य वरुणं गणेशं जलमातरम् ।जलं पुपूज च जीवमातरं स्थलमातरम् ॥२९॥मत्स्यी कूर्मी च वाराही दर्दुरी मकरी तथा ।जलूकी चापि तन्तूकी तृप्यन्तां जलमातरः ॥३०॥कुमारी धनदा नन्दा विमला मंगला चला ।पद्मा चेति प्रतृप्यन्तां सप्तैता जीवमातृकाः ॥३१॥उर्मीर्लक्ष्मीर्महामाया पानदेवी च वारुणी ।निर्मला च तथा गोधा तृप्यन्तां स्थलमातरः ॥३२॥ततोऽर्चयच्चतुःषष्टियोगिनीचक्रमित्यपि ।क्षेत्रपालं तीर्थगणं वरुणं समपूजयत् ॥३३॥कलशस्थापनं चक्रे क्षेत्रपालप्रपूजनम् ।ततो मण्डपमागत्य कलशेन समन्वितः ॥३४॥राजा च द्वारशाखाधिष्ठातृदेवानपूजयत् ।देहलीं माडलशोभां कृत्वा वास्तुं प्रणम्य च ॥३५॥वास्तुस्थापनमेवापि लोमषर्षिस्तदाऽकरोत् ।वास्तुपीठं विधायाऽपि गणेशं समपूजयत् ॥३६॥वास्तुदेवान् चतुःषष्टिसंख्याकान् लोमशो मुनिः ।आवाह्य च समभ्यर्च्य कलशं समपूजयत् ॥३७॥कलशे वास्तुमूर्तिं चाऽपूजयत् षोडशादिभिः ।बहिर्होमं विधायाऽथ बलिं तस्मै ददावृषिः ॥३८॥मण्डपस्य ततः पूजां स्तम्भपूजां समाचरत् ।सर्वकोणस्तम्भदेवान् मध्यदेवानपूजयत् ॥३९॥द्वारतोरणदेवाँश्चाऽपूजयन्नृपतिस्ततः ।वेदपूजां चिह्नपूजां शाखापूजामथाऽकरोत् ॥४०॥कलशे शाखिनो देवानपूजयद्विधानतः ।भूतादिभ्यो माषबलिमार्पयत् सन्न्यवर्तयत् ॥४१॥सर्वतोभद्रकं रम्यं मण्डलं देवतायुतम् ।अपूजयत् त्रयस्त्रिंशद्देवतास्तत्र मण्डले ॥४२॥मध्येऽनादिकृष्णनारायणं तमवतारिणम् ।सर्वपत्नीयुतं राधाकृष्णं श्रीमन्नरायणम् ॥४३॥अवतारान् शक्तियुक्तानीश्वरानप्यपूजयत् ।ईश्वराणीस्तथा सर्वा अन्यशक्तीरपूजयत् ॥४४॥मुक्तान् मुक्तानिकाश्चापि धामाऽक्षरं ह्यपूजयत् ।श्रीकृष्णं राधिकायुक्तं गोपगोपीगणान्वितम् ॥४५॥अपूजयत्तदा दासीपत्नीप्रियासमन्वितम् ।लक्ष्मीनारायणं देवं पार्षदैर्गरुडेन च ॥४६॥रमाभिश्च पार्षदानीभिश्च पुपूज भूपतिः ।गणेशपूजनं चक्रे वास्तुदेवप्रपूजनम् ॥४७॥ईश्वराणां पूजनं च चकार भूपतिस्ततः ।ब्रह्माणं च तथा सोममीशानमिन्द्रमित्यपि ॥४८॥अग्निं वैवस्वतं रक्षो वरुणं समपूजयत् ।वायुं कुबेरं च वसून् रुद्रानेकादशापि च ॥४९॥आदित्यान् द्वादश चैवाऽऽश्विनौ तत्राऽप्यपूजयत् ।पितॄँश्च विश्वदेवाँश्च सप्तयज्ञानपूजयत् ॥५०॥सर्पान् गन्धर्वकानप्सरसः स्कन्दमपूजयत् ।नन्दीश्वरं महाकालं शूलं दक्षादिसप्तकम् ॥५१॥अपूजयत्तथा दुर्गां विष्णुं च वैष्णवीं तथा ।स्वधां स्वाहां मृत्युरोगौ गणेशं समपूजयत् ॥५२॥वरुणं च मखेशं च मरुतः समपूजयत् ।पृथिवीं च नदीं गंगां सरितश्चाऽप्यपूजयत् ॥५३॥सागरान् सप्त मेरुं च पार्थिवः समपूजयत्॥आयुधानि समस्तानि तीर्थानि समपूजयत् ॥५४॥विभूषणानि दिव्यानि मूर्तिमन्ति ह्यपूजयत् ।भारद्वाजादिकान् महर्षिवर्यानप्यपूजयत् ॥५५॥अरुन्धतीं तथा चान्या देवीस्तत्राऽप्यपूजयत् ।सर्वदिक्पालपत्नीश्च राजा सम्यगपूजयत् ॥५६॥ईश्वरान् सर्वपितॄँश्च मुनीन् देवानृषींस्तथा ।साधून् साध्वीः सांख्ययोगिनीश्च सर्वा ह्यपूजयत् ॥५७॥-भुवर्लोकनिवासाँश्च कुष्माण्डकान् विनायकान् ।वेतालान् राक्षसाँश्चापि प्रेतान् सर्वानपूजयत् ॥५८॥यमदूतान् धर्मवंश्यान् अधर्मवंशजानपि ।नारीर्नरान् नृपतिः सः सर्वांस्तत्र ह्यपूजयत् ॥५९॥पर्वतान् वनवृक्षाँश्च वल्लीश्च तृणजातिकान् ।स्तबकान् वंशजातीयान् रसदानप्यपूजयत् ॥६०॥मूलकन्दान् फलिवृक्षान् जरायूजांस्तथाऽण्डजान् ।जन्तून् सूक्ष्मान् विशालाँश्च यादोवासानपूजयत् ॥६१॥स्वेदजान् काश्यपीः सर्वाः प्रजाश्चाप्यत्यपूजयत् ।स्थलजान् वायुजाँश्चापि वह्निजान् खातजानपि ॥६२॥पार्थिवान् देहिनो वारिजातान् सर्वानपूजयत् ।सात्त्विकान् मलिनान् राजसाँश्च तामसदेहिनः ॥६३॥अपूजयत्तदा दीनानाथान् भिक्षुकानपि ।अनाश्रितान् पराधीनान् परभाग्योपजीविनः ॥६४॥भृत्यवर्गान् दूरवर्गान् दासवर्गानपूजयत् ।कलाज्ञान् शिल्पवेतॄँश्च नाट्यनर्तनकारकान् ॥६५॥सूतमागधबन्द्यादीन् कथाकारानपूजयत् ।जडान् तत्त्वविशेषांश्च गुणान् स्वरानपूर्वकान् ॥६६॥मन्त्रान् सर्वान् विषयाँश्च भूपतिः समपूजयत्॥गीतिका वेदमूर्तीश्च यज्ञपात्राणि सत्कणान् ॥६७॥सस्यानि समिधः सर्वान् हव्यान्यपि त्वपूजयत् ।यानि यानि तदा यज्ञमण्डपे हरिणा स्वयम् ॥६८॥आमन्त्रितानि भूतानि चागतानि समुत्सवे ।अपि निकृष्टनामानि निकृष्टदेहवन्त्यपि ॥६९॥परेश्वरो निजां सृष्टिं निजापत्यस्वरूपिणीम् ।सर्वां श्रीवैष्णवे नैजे यज्ञे ह्यपूजयत्तदा ॥७०॥पातालस्थान् दैत्यगणान् दानवान् नागविग्रहान् ।धामलोकनिवासाँश्च मण्डपे वै समागतान् ॥७१॥सर्वानपूजयत् कृष्णनारायणः सुखप्रदः ।अपि कीटपतंगाद्यान् पूजयित्वा हरिः स्वयम् ॥७२॥सर्वेभ्योऽर्प्य बलिं चातर्पयद्वै निजकेऽध्वरे ।संकर्षणादिकाँश्चापि सनकाद्याँश्च योगिनः ॥७३॥विश्वक्सेनादिकान् सर्वान् पार्षदान् यन्त्रदेवताः ।शुकादीन् ज्ञानयोगाँश्च मत्स्यादीन् केशवानपि ॥७४॥प्रणवादीन् शारदाँश्चऽवतारान् ऋषभादिकान् ।विश्वामित्रादिकान् सर्वानपूजयत्तदा नृपः ॥७५॥ब्राह्म्यादिकाः शक्तिरूपा अणिमासिद्धिकास्तथा ।दिक्पालान् चायुधान्येव वेदान् गंगादिकास्तथा ॥७६॥मन्त्रदेवान् कुटुम्बाढ्यान् पूजयत्तदा नृपः ।ततोऽग्न्युत्तारण चक्रे मूर्तानां घृतलेपनम् ॥७७॥जलधाराभिषेकं च कृत्वा प्राणान् स बीजकान् ।इह प्राणाश्च आं ह्रीं क्रौं यंरंलंवंशंषंसंहम् ॥७८॥सःसोऽहमिति मन्त्राद्यैर्न्यासैर्बीजैरयोजयत् ।एवं सौवर्णमूर्तीनां सर्वासां तत्र मण्डपे ॥७९॥स्थापितानां हरिश्चापि पूजां चकार वै पुनः ।निजां निजपितुश्चापि निजमातुस्तथा स्वसुः ॥८०॥भ्रातॄणां च गणेशस्य राधाकृष्णस्य वै तथा ।लक्ष्मीनारायणस्यापि पद्मायाश्च तथा शुभाम् ॥८१॥रमायाश्च तथा माणिक्यायास्तथा च कानकीम् ।सूर्यस्यापि च चन्द्रस्येशानस्यापि च कानकीम् ॥८२॥सत्याश्च कानकीं मूर्तिं प्रतिष्ठार्थमपूजयत् ।षोडशप्राणवासार्थं मूर्तीः सर्वा अपूजयत् ॥८३॥ब्रह्मसृष्टिमीशसृष्टिं जीवसृष्टिमथोऽस्मरत् ।तत्रावतारमूर्तीनां तदा कृष्णः स्मृतिं व्यधात् ॥८४॥सर्वावताराश्चागत्य मण्डपे प्रतिमादिषु ।अतिष्ठन्त हि दिव्यास्ते सर्वतत्त्वमयाः सुराः ॥८५॥एवं वै विधिना मूर्तीः प्रतिष्ठाप्य सजीविकाः ।चेतनास्ता विधायैव प्राविशद् बालकृष्णकः ॥८६॥ततश्चक्रे पीठपूजां राजा कृष्णानुमोदितः ।परदेवतापूजां च गुरोः पूजां चकार सः ॥८७॥वेदव्यासं च गरुडं दुर्गां सरस्वतीं तथा ।यमं वायुं शिवं चेन्द्रं निर्ऋतिं रुद्रमार्चयत् ॥८८॥शक्तिं कूर्ममनन्तं च पृथ्वीमद्रिमपूजयत् ।क्षीराब्धिं श्वेतद्वीपं च मण्डपं पद्ममार्चयत् ॥८९॥सूर्यमण्डलमेवाऽपि हिरण्मयं नरायणम् ।सोममण्डलमेवापि विष्णुं दिव्यं नरायणम् ॥९०॥हुताशनेऽग्निदेवं च नृसिंहं च नरायणम् ।सत्त्वश्रियं रजोभूमिं तमोदुर्गामपूजयत् ॥९१॥आत्मानं चान्तरात्मानं परात्मानमपूजयत् ।ज्ञानात्मानं विमलाद्याः पीठशक्तीरपूजयत् ॥९२॥प्रधानपुरुषं प्रकृतिपूरुषमपूजयत् ।कुण्डस्य पूजनं चापि विश्वकर्मप्रपूजनम् ॥९३॥मेखलादेवता विष्णुब्रह्मरुद्रानपूजयत् ।योनिपूजां कण्ठपूजां नाभिपूजामथाऽकरोत् ॥९४॥वास्तुदेवाँस्तथा ब्रह्मादीन् वेदान् कच्छपादिकान् ।अपूजयत्तदा राजा रायकिन्नरसंज्ञकः ॥९५॥धर्मादिकान् पूजयित्वा चक्रेऽग्निस्थापनं ततः ।सम्पुटेऽग्निं समाहृत्य भ्रामयित्वा त्रिरेव तम् ॥९६॥अग्निमस्थापयत् कुण्डे दक्षे स्वाहां स्वधां परे ।समार्चयच्च विधिना प्रणीतानयनं ततः ॥९७॥परिस्तरणमेवाऽपि पात्रासादनमित्यपि ।पवित्रीकरणं चापि तथा वार्यभिषेचनम् ॥९८॥उत्तानं चोद्दिगनं च प्रोक्षणं क्षालनं तथा ।सेकश्चर्वधिश्रयणं पर्यग्निकरणं तथा ॥९९॥चकार लोमशो देवो ग्रहस्थापनमाचरत् ।नवग्रहानार्चयच्चाऽधिदेवानार्चयत्तथा ॥१००॥प्रत्यधिदेवतार्हां च लोकपालार्हणां ततः ।क्षेत्रपालस्थापनं च दिक्पालस्थापनं तथा ॥१०१॥महारुद्रस्थापनं च तेषां पूजनमाचरत् ।चतुःषष्टियोगिनीनां पूजनं चाकरोत्ततः ॥१०२॥पञ्चाशत्क्षेत्रपालानां पूजनं च ततोऽकरोत् ।परमेशं चावतारानीश्वरान् देवतास्तथा ॥१०३॥दध्यौ राजा तु तिलकं ह्यकारयद्धरेस्तदा ।तुलसीमालिकां चापि ददौ मालां ददौ ततः ॥१०४॥शंखं चक्रादिकं दत्वाऽपूजयन्नृपतिश्च वै ।मत्स्यचिह्नं त्रिशूलं च धनुषं बाणमित्यपि ॥१०५॥स्वस्तिकं च ध्वजं चक्रं वज्रं चापूजयत्ततः ।घण्टापूजामाचरच्च कलशार्हां समाचरत् ॥१०६॥भूशुद्धिं लोमशस्तं चाकारयद् वै नमस्तथा ।आसनं च शिखाया बन्धनं दिग्बन्धनं तथा ॥१०७॥तालत्रयं तथा भूमिताडनं त्रिः समाचरत् ।भूतशुद्धिं प्राचरच्च कुण्डलिनीमपूजयत् ॥१०८॥षट्चक्राणि पूजयित्वा जीवं ब्रह्माऽप्यपूजयत् ।पापपुरुषदाहं च ध्यात्वा राजाऽकरोत्तदा ॥१०९॥शरीराऽऽप्लवनं चक्रे तथाऽऽत्मशोधनं नृपः ।प्राणप्रतिष्ठां सन्यासां बीजाक्षरयुतां तथा ॥११०॥पाठशक्तिसहितां च कृत्वा पूजनमाचरत् ।पञ्चावरणदेवार्हां प्राणस्थापनमित्यपि ॥१११॥अथाऽन्तर्मातृकान्यासान् बहिर्मातृकन्यासनम् ।एकादश तथा न्यासान् श्रीहरेश्च समाचरत् ॥११२॥पात्रासादनमेवापि दीपदानमथाचरत् ।कलार्हणां तथाऽर्घं च कृत्वा दत्वा विशेषतः ॥११३॥पाद्याऽर्घ्याचमनप्रोक्षणीमधुपर्कपात्रकम् ।विधिनाऽपूजयद् राजा राधिके मण्डपे मखे ॥११४॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सौवर्णीमूर्तिपूजा गणेशपूजा कलशस्थापनं मण्डलं वास्तुस्थापनं सर्वेश्वरेश्वरदेवादिपूजा कुण्डमण्डपशाखादिदेवदेवीयोगिनीक्षेत्रपालात्मादिपूजा देहशुद्ध्यादिब्रह्मपूजाऽग्निस्थापनं चेत्यादिनिरूपणनामा षडधिकद्विशततमोऽध्यायः ॥२०६॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP